Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 4.8

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.8.1

परितुष्टस्तु सुग्रीवस्तेन वाक्येन हर्षितः।
लक्ष्मणस्याग्रजं शूरमिदं वचनमब्रवीत् ॥ ४.८.१ ॥

苏格利婆因这番话十分欢喜,便对罗什曼那那位勇敢的兄长说了下面这番话。

4.8.2

सर्वथाहमनुग्राह्यो देवतानां न संशयः।
उपपन्नो गुणोपेतः सखा यस्य भवान् मम ॥ ४.८.२ ॥

我在各方面都蒙受诸神的眷顾,这是毫无疑问的,因为您具备美德,成了我的朋友。

4.8.3

शक्यं खलु भवेद् राम सहायेन त्वयानघ।
सुरराज्यमपि प्राप्तुं स्वराज्यं किमुत प्रभो ॥ ४.८.३ ॥

啊,无过的罗摩,有您的相助,即使得到天神的王国也是可能的,何况是自己的王国呢,主上!

4.8.4

सोऽहं सभाज्यो बन्धूनां सुहृदां चैव राघव।
यस्याग्निसाक्षिकं मित्रं लब्धं राघववंशजम् ॥ ४.८.४ ॥

啊,罗怙婆,我在亲属与朋友中受人尊敬,因为我得到了您——罗怙族之子的友谊,并以火神为见证。

4.8.5

अहमप्यनुरूपस्ते वयस्यो ज्ञास्यसे शनैः।
न तु वक्तुं समर्थोऽहं त्वयि आत्मगतान् गुणान् ॥ ४.८.५ ॥

我也是与您相配的朋友,您会慢慢知道的。只是我此刻还无法说出我自身所具有的那些美德。

4.8.6

महात्मनां तु भूयिष्ठं त्वद्विधानां कृतात्मनाम्।
निश्चला भवति प्रीतिर्धैर्यमात्मवतां वर ॥ ४.८.६ ॥

啊,最优秀的人,在像您这样的大德与修身圆满之人身上,情谊大多是坚定不移的,自我克制者的坚忍也是稳固的。

4.8.7

रजतं वा सुवर्णं वा शुभान्याभरणानि च।
अविभक्तानि साधूनामवगच्छन्ति साधवः ॥ ४.८.७ ॥

白银或黄金,或精美的饰物,善人视善人的财物为共有。

4.8.8

आढ्योवापि दरिद्रो वा दुःखितः सुखितोऽपि वा।
निर्दोषश्च सदोषश्च वयस्यः परमा गतिः ॥ ४.८.८ ॥

富者或贫者,悲者或乐者,无过者或有过者,朋友才是至高的依靠。

4.8.9

धनत्यागः सुखत्यागो देशत्यागोऽपि वानघ।
वयस्यार्थे प्रवर्तन्ते स्नेहं दृष्ट्वा तथाविधम् ॥ ४.८.९ ॥

无罪者啊,弃财、弃乐,甚至弃国,都是为了朋友而作,当看到这样的情谊时。

4.8.10

तत् तथेत्यब्रवीद् रामः सुग्रीवं प्रियवादिनम्।
लक्ष्मणस्याग्रतो लक्ष्म्या वासवस्येव धीमतः ॥ ४.८.१० ॥

罗摩对言辞温和的须羯利婆说:“就这样吧。”他站在罗什曼那面前,光彩如因陀罗,那位智者。

4.8.11

ततो रामं स्थितं दृष्ट्वा लक्ष्मणं च महाबलम्।
सुग्रीवः सर्वतश्चक्षुर्वने लोलमपातयत् ॥ ४.८.११ ॥

随后,见罗摩和大力的罗什曼那站立,须羯利婆便将不安的目光投向林中四面八方。

4.8.12

स ददर्श ततः सालमविदूरे हरीश्वरः।
सुपुष्पमीषत्पत्राढ्यं भ्रमरैरुपशोभितम् ॥ ४.८.१२ ॥

那猴王不远处看见一棵娑罗树,满是美丽的花朵,略有枝叶,被蜜蜂装点。

4.8.13

तस्यैकां पर्णबहुलां शाखां भङ्क्त्वा सुशोभिताम्।
रामस्यास्तीर्य सुग्रीवो निषसाद सराघवः ॥ ४.८.१३ ॥

折下那棵树一根枝叶繁茂、十分美丽的枝条,为罗摩铺开,苏羯御与罗怙后裔一同坐下。

4.8.14

तावासीनौ ततो दृष्ट्वा हनूमानपि लक्ष्मणम्।
शालशाखां समुत्पाट्य विनीतमुपवेशयत् ॥ ४.८.१४ ॥

见二人已坐下,哈奴曼也拔起一根娑罗树枝,恭敬地请罗什曼那就座。

4.8.15

सुखोपविष्टं रामं तु प्रसन्नमुदधिं यथा।
सालपुष्पावसंकीर्णे तस्मिन् गिरिवरोत्तमे ॥ ४.८.१५ ॥

罗摩安坐于那座铺满娑罗花的殊胜山峰上,如平静的大海。

4.8.16

ततः प्रहृष्टः सुग्रीवः श्लक्ष्णया शुभया गिरा।
उवाच प्रणयाद् रामं हर्षव्याकुलिताक्षरम् ॥ ४.८.१६ ॥

于是苏羯御心中欢喜,以温柔吉祥的言语,满怀深情地对罗摩说,话音因喜悦而颤抖。

4.8.17

अहं विनिकृतो भ्रात्रा चराम्येष भयार्दितः।
ऋष्यमूकं गिरिवरं हृतभार्यः सुदुःखितः ॥ ४.८.१७ ॥

我被兄长所欺,因恐惧而痛苦,妻子被夺,极度悲伤,在此殊胜的仙鹿山(Ṛṣyamūka)上流浪。

4.8.18

सोऽहं त्रस्तो भये मग्नो वने सम्भ्रान्तचेतनः।
वालिना निकृतो भ्रात्रा कृतवैरश्च राघव ॥ ४.८.१८ ॥

我在林中惊恐万分,陷于恐惧之中,心神慌乱,被兄长婆利所欺;啊,罗怙后裔,我与他结下了仇怨。

4.8.19

वालिनो मे भयार्तस्य सर्वलोकाभयंकर।
ममापि त्वमनाथस्य प्रसादं कर्तुमर्हसि ॥ ४.८.१९ ॥

啊,一切世界的恐怖者,你也应当垂怜我——我因瓦利而恐惧困苦,又是无依无靠之人。

4.8.20

एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः।
प्रत्युवाच स काकुत्स्थः सुग्रीवं प्रहसन्निव ॥ ४.८.२० ॥

如此说完,光辉的、知法且爱法的迦具陀斯特罗(罗摩)仿佛微笑着回答了须羯哩婆。

4.8.21

उपकारफलं मित्रमपकारोऽरिलक्षणम्।
अद्यैव तं वधिष्यामि तव भार्यापहारिणम् ॥ ४.८.२१ ॥

善行的果实是友谊,伤害则是敌人的标志。今天我就要杀死那个劫走你妻子的人。

4.8.22

इमे हि मे महाभाग पत्रिणस्तिग्मतेजसः।
कार्तिकेयवनोद्भूताः शरा हेमविभूषिताः ॥ ४.८.२२ ॥

啊,大福之人,这些是我的羽箭,锐利闪耀,生于室建陀(Kārtikeya)的林中,以金饰装点。

4.8.23

कङ्कपत्रपरिच्छन्ना महेन्द्राशनिसंनिभाः।
सुपर्वाणः सुतीक्ष्णाग्राः सरोषा भुजगा इव ॥ ४.८.२३ ॥

以鹭鸟的羽毛覆盖,如因陀罗的大雷电,接合良好,尖端极其锋利,如愤怒的毒蛇。

4.8.24

वालिसंज्ञममित्रं ते भ्रातरं कृतकिल्बिषम्।
शरैर्विनिहतं पश्य विकीर्णमिव पर्वतम् ॥ ४.८.२४ ॥

看那位名叫瓦利的、你的敌人、你的兄长——他犯了罪过,被箭射死,像一座崩散的山一样倒在那里。

4.8.25

राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः।
प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ॥ ४.८.२५ ॥

罗怙之子的话语入耳,统帅须羯哩婆感到无比欢喜,说道:“善哉!善哉!”

4.8.26

राम शोकाभिभूतोऽहं शोकार्तानां भवान् गतिः।
वयस्य इति कृत्वा हि त्वय्यहं परिदेवये ॥ ४.८.२६ ॥

罗摩啊,我被悲痛所压倒。你是悲伤者的依靠。我视你为朋友,故在你面前哀诉。

4.8.27

त्वं हि पाणिप्रदानेन वयस्यो मेऽग्निसाक्षिकम्।
कृतः प्राणैर्बहुमतः सत्येन च शपाम्यहम् ॥ ४.८.२७ ॥

你在执手之礼上,以火为证,成为我的挚友;你比我的性命还可贵,深受敬重。我以真理发誓。

4.8.28

वयस्य इति कृत्वा च विस्रब्धः प्रवदाम्यहम्।
दुःखमन्तर्गतं तन्मे मनो हरति नित्यशः ॥ ४.८.२८ ॥

我视你为朋友,故怀着信任而言。那潜藏在我心中的悲痛,时时刻刻扰乱我的心。

4.8.29

एतावदुक्त्वा वचनं बाष्पदूषितलोचनः।
बाष्पदूषितया वाचा नोच्चैः शक्नोति भाषितुम् ॥ ४.८.२९ ॥

说完这些话后,他双眼被泪水模糊,声音因哭泣而哽咽,已无法大声说话。

4.8.30

बाष्पवेगं तु सहसा नदीवेगमिवागतम्।
धारयामास धैर्येण सुग्रीवो रामसंनिधौ ॥ ४.८.३० ॥

然而泪水忽然涌来,如河流奔涌,须羯哩婆在罗摩面前以坚毅将其强行抑制。

4.8.31

स निगृह्य तु तं बाष्पं प्रमृज्य नयने शुभे।
विनिःश्वस्य च तेजस्वी राघवं पुनरूचिवान् ॥ ४.८.३१ ॥

苏羯梨婆忍住泪水,擦拭美丽的双眼,深深叹息后,这位光辉的猴王再次对罗怙之后说道。

4.8.32

पुराहं वालिना राम राज्यात् स्वादवरोपितः।
परुषाणि च संश्राव्य निर्धूतोऽस्मि बलीयसा ॥ ४.८.३२ ॥

罗摩啊,从前我被伐梨从自己的王国中贬下,听闻粗暴的言语之后,我被这位强大者驱逐了。

4.8.33

हृता भार्या च मे तेन प्राणेभ्योऽपि गरीयसी।
सुहृदश्च मदीया ये संयता बन्धनेषु ते ॥ ४.८.३३ ॥

他夺走了我的妻子,她比生命还要珍贵;而我的朋友们,也被关押在枷锁之中。

4.8.34

यत्नवांश्च स दुष्टात्मा मद्विनाशाय राघव।
बहुशस्तप्रयुक्ताश्च वानरा निहता मया ॥ ४.८.३४ ॥

罗怙之后啊,那个心术不正的人正竭力谋害我;他派来的许多猴子都已被我杀死。

4.8.35

शङ्कया त्वेतयाहं च दृष्ट्वा त्वामपि राघव।
नोपसर्पाम्यहं भीतो भये सर्वे हि बिभ्यति ॥ ४.८.३५ ॥

罗怙之后啊,正是出于这份猜疑,我虽看见你,也不敢走近你;我心怀恐惧,因为身处危险之中,人人都会害怕。

4.8.36

केवलं हि सहाया मे हनुमत्प्रमुखास्त्विमे।
अतोऽहं धारयाम्यद्य प्राणान् कृच्छ्रगतोऽपि सन् ॥ ४.८.३६ ॥

唯有以哈努曼为首的这些同伴是我的依靠;因此,虽陷于困境,我今日仍保全了性命。

4.8.37

एते हि कपयः स्निग्धा मां रक्षन्ति समन्ततः।
सह गच्छन्ति गन्तव्ये नित्यं तिष्ठन्ति चास्थिते ॥ ४.८.३७ ॥

这些猴子情深意重,四面八方护卫着我。我去哪里,它们便随我同往;我坐下时,它们总在身旁侍立。

4.8.38

संक्षेपस्त्वेष मे राम किमुक्त्वा विस्तरं हि ते।
स मे ज्येष्ठो रिपुर्भ्राता वाली विश्रुतपौरुषः ॥ ४.८.३८ ॥

罗摩啊,这是我的简略经过;何必向您详细细述?我的兄长婆黎,以勇武闻名,他便是我的仇敌。

4.8.39

तद्विनाशेऽपि मे दुःखं प्रमृष्टं स्यादनन्तरम्।
सुखं मे जीवितं चैव तद्विनाशनिबन्धनम् ॥ ४.८.३९ ॥

待他灭亡之后,我的忧愁方能消除;我的欢乐与生命,也都系于他的灭亡。

4.8.40

एष मे राम शोकान्तः शोकार्तेन निवेदितः।
दुःखितः सुखितो वापि सख्युर्नित्यं सखा गतिः ॥ ४.८.४० ॥

罗摩啊,这便是我因悲痛而向您陈述的忧愁的终结。无论悲伤还是欢喜,朋友总是朋友的依靠。

4.8.41

श्रुत्वैतच्च वचो रामः सुग्रीवमिदमब्रवीत्।
किं निमित्तमभूद् वैरं श्रोतुमिच्छामि तत्त्वतः ॥ ४.८.४१ ॥

罗摩听了这番话,对须羯哩婆说:"这场仇怨的起因是什么?我想如实听闻。"

4.8.42

सुखं हि कारणं श्रुत्वा वैरस्य तव वानर।
आनन्तर्याद् विधास्यामि सम्प्रधार्य बलाबलम् ॥ ४.८.४२ ॥

猴子啊,听了你们仇怨的缘由,我将权衡强弱,立即行动。

4.8.43

बलवान् हि ममामर्षः श्रुत्वा त्वामवमानितम्।
वर्धते हृदयोत्कम्पी प्रावृड्वेग इवाम्भसः ॥ ४.८.४३ ॥

听闻你受到侮辱,我的愤怒猛烈滋长,如同雨季的洪流,使我的心颤抖。

4.8.44

हृष्टः कथय विस्रब्धो यावदारोप्यते धनुः।
सृष्टश्च हि मया बाणो निरस्तश्च रिपुस्तव ॥ ४.८.४४ ॥

请欣然无惧地说吧,趁我张弓之时;我所发出的箭必将击倒你的仇敌。

4.8.45

एवमुक्तस्तु सुग्रीवः काकुत्स्थेन महात्मना।
प्रहर्षमतुलं लेभे चतुर्भिः सह वानरैः ॥ ४.८.४५ ॥

高尚的迦库茨特(罗摩)如此说完,须羯哩婆与四只猴子一同感到无比的喜悦。

4.8.46

ततः प्रहृष्टवदनः सुग्रीवो लक्ष्मणाग्रजे।
वैरस्य कारणं तत्त्वमाख्यातुमुपचक्रमे ॥ ४.८.४६ ॥

于是须羯哩婆面带喜色,开始向罗什曼那的兄长讲述那场仇恨的根由。