Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 5.12

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.12.1

स तस्य मध्ये भवनस्य संस्थितो
लतागृहांश्चित्रगृहान् निशागृहान्।
जगाम सीतां प्रतिदर्शनोत्सुको
न चैव तां पश्यति चारुदर्शनाम् ॥ ५.१२.१ ॥

他在那座宫殿中央的藤萝亭、画廊与夜室中走过,急切想再见悉多;却没有看见那容貌秀美的她。

5.12.2

स चिन्तयामास ततो महाकपिः
प्रियामपश्यन् रघुनन्दनस्य ताम्।
ध्रुवं न सीता ध्रियते यथा न मे
विचिन्वतो दर्शनमेति मैथिली ॥ ५.१२.२ ॥

于是那大猴思忖,未见罗怙之悦之爱妻:“悉多必定已不在世,因为我寻觅之中竟不见弥提罗女的踪影。”

5.12.3

सा राक्षसानां प्रवरेण जानकी
स्वशीलसंरक्षणतत्परा सती।
अनेन नूनं प्रति दुष्टकर्मणा
हता भवेदार्यपथे परे स्थिता ॥ ५.१२.३ ॥

悉多、遮那吉,致力于守护自身德行,抵御罗刹之主,贞洁而立于高尚之道,必定已被这恶行之人杀害。

5.12.4

विरूपरूपा विकृता विवर्चसो
महानना दीर्घविरूपदर्शनाः।
समीक्ष्य ता राक्षसराजयोषितो
भयाद् विनष्टा जनकेश्वरात्मजा ॥ ५.१२.४ ॥

形貌丑陋、身体扭曲、失去光彩、口大、高长而可怖的那些罗刹王的女子们,悉多见到她们,因恐惧而灭亡了,那位遮那伽王之女。

5.12.5

सीतामदृष्ट्वा ह्यनवाप्य पौरुषं
विहृत्य कालं सह वानरैश्चिरम्।
न मेऽस्ति सुग्रीवसमीपगा गतिः
सुतीक्ष्णदण्डो बलवांश्च वानरः ॥ ५.१२.५ ॥

未见悉多,也未能成就我的功业,与众猴长久相处,如今我已无路去见须羯哩婆;须羯哩婆是施以严惩、力大无穷的猴王。

5.12.6

दृष्टमन्तःपुरं सर्वं दृष्टा रावणयोषितः।
न सीता दृश्यते साध्वी वृथा जातो मम श्रमः ॥ ५.१२.६ ॥

我已遍观后宫,也看过了罗波那的所有女子,却不见贞洁的悉多;我的辛劳白费了。

5.12.7

किं नु मां वानराः सर्वे गतं वक्ष्यन्ति संगताः।
गत्वा तत्र त्वया वीर किं कृतं तद् वदस्व नः ॥ ५.१२.७ ॥

英雄啊,那些聚集的猴子们会问我什么?你去那里做了什么?请告诉我们。

5.12.8

अदृष्ट्वा किं प्रवक्ष्यामि तामहं जनकात्मजाम्।
ध्रुवं प्रायमुपासिष्ये कालस्य व्यतिवर्तने ॥ ५.१२.८ ॥

未见到遮那伽之女悉多,我该对她说什么呢?我必定要行绝食之法,以度过这段时间。

5.12.9

किं वा वक्ष्यति वृद्धश्च जाम्बवानंगदश्च सः।
गतं पारं समुद्रस्य वानराश्च समागताः ॥ ५.१२.९ ॥

年老的遮婆梵和安伽陀会说什么呢?大海的彼岸已经到达,猴子们也已聚集。

5.12.10

अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम्।
भूयस्तत्र विचेष्यामि न यत्र विचयः कृतः ॥ ५.१२.१० ॥

不灰心是兴盛的根本;不灰心是至高的快乐。我要再到未曾搜寻的地方去寻找。

5.12.11

अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः।
करोति सफलं जन्तोः कर्म यच्च करोति सः ॥ ५.१२.११ ॥

不灰心总是成就一切目标的推动者;它使众生所作之业获得成果。

5.12.12

तस्मादनिर्वेदकरं यत्नं चेष्टेऽहमुत्तमम्।
अदृष्टांश्च विचेष्यामि देशान् रावणपालितान् ॥ ५.१२.१२ ॥

因此我将付出不使人气馁的最大努力,在罗波那守护的、尚未见过的地方搜寻。

5.12.13

आपानशाला विचितास्तथा पुष्पगृहाणि च।
चित्रशालाश्च विचिता भूयः क्रीडागृहाणि च ॥ ५.१२.१३ ॥

我搜遍了酒馆、花房和画廊,又再次搜寻了游乐之所。

5.12.15

निष्कुटान्तररथ्याश्च विमानानि च सर्वशः।
भूमीगृहांश्चैत्यगृहान् गृहातिगृहकानपि।
उत्पतन् निपतंश्चापि तिष्ठन् गच्छन् पुनः क्वचित् ॥ ५.१२.१५ ॥

花园内的小径与各处的亭阁;地下室、神龛屋,以及屋后之屋——跃起,跳下,时而停留,时而又在某处前行。

5.12.16

अपवृण्वंश्च द्वाराणि कपाटान्यवघट्टयन्।
प्रविशन् निष्पतंश्चापि प्रपतन्नुत्पतन्निव ॥ ५.१२.१६ ॥

推开门扉,撞开门板,进进出出,仿佛坠落又跃起。

5.12.17

सर्वमप्यवकाशं स विचचार महाकपिः।
चतुरंगुलमात्रोऽपि नावकाशः स विद्यते।
रावणान्तःपुरे तस्मिन् यं कपिर्न जगाम सः ॥ ५.१२.१७ ॥

这只大猴搜遍了每一处;在罗波那的内宫,即使只有四指宽的空隙,猴子也没有不曾进入的。

5.12.18

प्राकारान्तरवीथ्यश्च वेदिकाश्चैत्यसंश्रयाः।
श्वभ्राश्च पुष्करिण्यश्च सर्वं तेनावलोकितम् ॥ ५.१२.१८ ॥

围墙之间的小巷、平台、神龛居所、洼坑与莲花池——他全都察看了。

5.12.19

राक्षस्यो विविधाकारा विरूपा विकृतास्तथा।
दृष्टा हनुमता तत्र न तु सा जनकात्मजा ॥ ५.१२.१९ ॥

在那里,哈奴曼看见了形貌各异、丑陋畸形的罗刹女,却没有见到遮那迦之女悉多。

5.12.20

रूपेणाप्रतिमा लोके परा विद्याधरस्त्रियः।
दृष्टा हनुमता तत्र न तु राघवनन्दिनी ॥ ५.१२.२० ॥

在那里,哈奴曼看见了世间容貌无双、最为出众的持明仙女,却没有见到罗怙之后的爱女。

5.12.21

नागकन्या वरारोहाः पूर्णचन्द्रनिभाननाः।
दृष्टा हनुमता तत्र न तु सा जनकात्मजा ॥ ५.१२.२१ ॥

在那里,哈奴曼看见了腰肢纤美、面如满月的蛇女,却没有见到遮那迦之女悉多。

5.12.22

प्रमथ्य राक्षसेन्द्रेण नागकन्या बलाद्धृताः।
दृष्टा हनुमता तत्र न सा जनकनन्दिनी ॥ ५.१२.२२ ॥

在那里,哈奴曼看见了被罗刹之王强行掳来的蛇女,却没有见到遮那迦之女悉多。

5.12.23

सोऽपश्यंस्तां महाबाहुः पश्यंश्चान्या वरस्त्रियः।
विषसाद महाबाहुर्हनूमान् मारुतात्मजः ॥ ५.१२.२३ ॥

他没有看见她,虽然看见了其他优秀的女子,那位大臂的风之子哈奴曼陷入了忧愁。

5.12.24

उद्योगं वानरेन्द्राणां प्लवनं सागरस्य च।
व्यर्थं वीक्ष्यानिलसुतश्चिन्तां पुनरुपागतः ॥ ५.१२.२४ ॥

看到众猴王的努力与他跨越大海的一跃都化为徒劳,风之子再次陷入忧虑。

5.12.25

अवतीर्य विमानाच्च हनूमान् मारुतात्मजः।
चिन्तामुपजगामाथ शोकोपहतचेतनः ॥ ५.१२.२५ ॥

风之子哈努曼从空中车上下来,心神被悲伤所击垮,陷入了沉思。