Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 5.18

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.18.1

तथा विप्रेक्षमाणस्य वनं पुष्पितपादपम्।
विचिन्वतश्च वैदेहीं किञ्चिच्छेषा निशाभवत् ॥ ५.१८.१ ॥

就这样,他一边环顾开满花的树林,一边寻找毗提诃公主,夜晚只剩下一点时间了。

5.18.2

षडंगवेदविदुषां क्रतुप्रवरयाजिनाम्।
शुश्राव ब्रह्मघोषान् स विरात्रे ब्रह्मरक्षसाम् ॥ ५.१८.२ ॥

夜将尽时,他听见精通六吠陀支与吠陀、举行最殊胜祭祀的梵罗刹们诵读吠陀的声音。

5.18.3

अथ मंगलवादित्रैः शब्दैः श्रोत्रमनोहरैः।
प्राबोध्यत महाबाहुर्दशग्रीवो महाबलः ॥ ५.१८.३ ॥

此时,那位大臂、大力的十颈王被吉祥乐器那悦耳动心的声音唤醒了。

5.18.4

विबुध्य तु महाभागो राक्षसेन्द्रः प्रतापवान्।
स्रस्तमाल्याम्बरधरो वैदेहीमन्वचिन्तयत् ॥ ५.१८.४ ॥

醒来后,这位大福、威武的罗刹王,花环与衣衫凌乱,开始思念毗提诃公主。

5.18.5

भृशं नियुक्तस्तस्यां च मदनेन मदोत्कटः।
न तु तं राक्षसः कामं शशाकात्मनि गूहितुम् ॥ ५.१८.५ ॥

这个被欲望冲昏头脑的罗刹深深迷恋着她,却无法将这份欲望隐藏在心中。

5.18.6

स सर्वाभरणैर्युक्तो बिभ्रच्छ्रियमनुत्तमाम्।
तां नगैर्विविधैर्जुष्टां सर्वपुष्पफलोपगैः ॥ ५.१८.६ ॥

他身着全部饰物,显出无比的华彩,向那座被各种开满鲜花、结满果实之树环绕的园林走去。

5.18.7

वृतां पुष्करिणीभिश्च नानापुष्पोपशोभिताम्।
सदा मत्तैश्च विहगैर्विचित्रां परमाद्भुतैः ॥ ५.१८.७ ॥

四周环绕着装饰着各色花朵的莲池,常有陶醉的飞鸟,奇妙而极为非凡。

5.18.8

ईहामृगैश्च विविधैर्वृतां दृष्टिमनोहरैः।
वीथीः सम्प्रेक्षमाणश्च मणिकाञ्चनतोरणाम् ॥ ५.१८.८ ॥

四周环绕着各种令人悦目的伊诃兽;他一边观看镶嵌宝石与金饰牌坊的街道,一边前行。

5.18.9

नानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम्।
अशोकवनिकामेव प्राविशत् संततद्रुमाम् ॥ ५.१८.९ ॥

他走进了阿输迦园林,那里满是成群的鹿,地上铺满落下的果实,树木连绵不断。

5.18.10

अंगनाः शतमात्रं तु तं व्रजन्तमनुव्रजन्।
महेन्द्रमिव पौलस्त्यं देवगन्धर्वयोषितः ॥ ५.१८.१० ॥

约百名女子跟随着他前行,正如诸天与乾闼婆之女跟随大因陀罗一般,她们跟随着补罗斯提之子(罗波那)。

5.18.11

दीपिकाः काञ्चनीः काश्चिज्जगृहुस्तत्र योषितः।
वालव्यजनहस्ताश्च तालवृन्तानि चापराः ॥ ५.१८.११ ॥

那里有些女子手持金灯,有些手持牦牛尾拂,还有些手持棕榈叶扇。

5.18.12

काञ्चनैश्चैव भृंगारैर्जह्रुः सलिलमग्रतः।
मण्डलाग्रा बृसीश्चैव गृह्यान्याः पृष्ठतो ययुः ॥ ५.१८.१२ ॥

她们用金瓶在前方奉上清水;其他人手持圆边扇与坐具,走在后面。

5.18.13

काचिद् रत्नमयीं पात्रीं पूर्णां पानस्य भ्राजतीम्।
दक्षिणा दक्षिणेनैव तदा जग्राह पाणिना ॥ ५.१८.१३ ॥

一名女子随即以右手握住右手中的一只宝石制成、盛满美酒、闪闪发光的酒杯。

5.18.14

राजहंसप्रतीकाशं छत्रं पूर्णशशिप्रभम्।
सौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ ॥ ५.१८.१४ ॥

另一名女子手持金柄华盖,洁白如王天鹅,光辉如满月,从后面跟随而行。

5.18.15

निद्रामदपरीताक्ष्यो रावणस्योत्तमस्त्रियः।
अनुजग्मुः पतिं वीरं घनं विद्युल्लता इव ॥ ५.१८.१५ ॥

罗波那最优秀的女子们,双眼因睡意和醉意而迷蒙,跟随她们英勇的夫君,如闪电追随云朵。

5.18.16

व्याविद्धहारकेयूराः समामृदितवर्णकाः।
समागलितकेशान्ताः सस्वेदवदनास्तथा ॥ ५.१८.१६ ॥

她们的项链与臂钏歪斜,妆粉被蹭花,发梢松散,脸上满是汗水。

5.18.17

घूर्णन्त्यो मदशेषेण निद्रया च शुभाननाः।
स्वेदक्लिष्टांगकुसुमाः समाल्याकुलमूर्धजाः ॥ ५.१८.१७ ॥

她们因残余的醉意与睡意而东倒西歪,面容姣好;身上的花朵被汗水浸得枯萎,花环歪斜,发髻散乱。

5.18.18

प्रयान्तं नैर्ऋतपतिं नार्यो मदिरलोचनाः।
बहुमानाच्च कामाच्च प्रियभार्यास्तमन्वयुः ॥ ५.१८.१८ ॥

当那位夜叉之主(罗波那)启程时,他那些眼神因美酒而迷蒙的爱妻,出于敬重,也出于爱慕,跟随在他身后。

5.18.19

स च कामपराधीनः पतिस्तासां महाबलः।
सीतासक्तमना मन्दो मन्दाञ्चितगतिर्बभौ ॥ ५.१८.१९ ॥

这位大力之主受欲望所支配,其心执着于悉多,那愚昧之人以缓慢摇摆的步态光彩照人。

5.18.20

ततः काञ्चीनिनादं च नूपुराणां च निःस्वनम्।
शुश्राव परमस्त्रीणां कपिर्मारुतनन्दनः ॥ ५.१८.२० ॥

于是这只猴子,风神之子,听见了上等女子腰带的叮当声和脚环的声响。

5.18.21

तं चाप्रतिमकर्माणमचिन्त्यबलपौरुषम्।
द्वारदेशमनुप्राप्तं ददर्श हनुमान् कपिः ॥ ५.१८.२१ ॥

猴子哈努曼看见他——其功业无与伦比,力量与勇气不可思议——已来到门前。

5.18.22

दीपिकाभिरनेकाभिः समन्तादवभासितम्।
गन्धतैलावसिक्ताभिर्ध्रियमाणाभिरग्रतः ॥ ५.१८.२२ ॥

四面被许多灯火照亮,灯盏浸润着香油,由女子们举在前面。

5.18.23

कामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम्।
समक्षमिव कंदर्पमपविद्धशरासनम् ॥ ५.१८.२३ ॥

充满欲念、傲慢与醉意,眼睛斜长而泛红,仿佛爱神迦达帕就在眼前,弓已被弃置。

5.18.24

मथितामृतफेनाभमरजोवस्त्रमुत्तमम्।
सपुष्पमवकर्षन्तं विमुक्तं सक्तमंगदे ॥ ५.१८.२४ ॥

一件上等无尘的衣裳,色如搅动甘露的泡沫,连同花朵向下滑落,挂在臂钏上而松散开来。

5.18.25

तं पत्रविटपे लीनः पत्रपुष्पशतावृतः।
समीपमुपसंक्रान्तं विज्ञातुमुपचक्रमे ॥ ५.१८.२५ ॥

他藏在枝叶繁茂、覆盖着数百朵花的枝条中,开始辨认走近的那人。

5.18.26

अवेक्षमाणस्तु तदा ददर्श कपिकुञ्जरः।
रूपयौवनसम्पन्ना रावणस्य वरस्त्रियः ॥ ५.१८.२६ ॥

他仔细观看,这位猴中之象看见了罗波那那些容貌与青春俱佳的优秀女子。

5.18.27

ताभिः परिवृतो राजा सुरूपाभिर्महायशाः।
तन्मृगद्विजसंघुष्टं प्रविष्टः प्रमदावनम् ॥ ५.१८.२७ ॥

这位大名的国王被那些美丽的女子簇拥着,走进了那片回响着鹿群与飞鸟之声的欢乐园林。

5.18.28

क्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः।
तेन विश्रवसः पुत्रः स दृष्टो राक्षसाधिपः ॥ ५.१८.२८ ॥

醉意微醺、佩戴奇异饰物、耳朵尖如锥的大力者——毗首罗婆之子、罗刹之主,在那里出现了。

5.18.29

वृतः परमनारीभिस्ताराभिरिव चन्द्रमाः।
तं ददर्श महातेजास्तेजोवन्तं महाकपिः ॥ ५.१८.२९ ॥

他被最出众的女子环绕,如同月亮被群星环绕,那位光辉的人被大力的大猿看见了。

5.18.30

रावणोऽयं महाबाहुरिति संचिन्त्य वानरः।
सोऽयमेव पुरा शेते पुरमध्ये गृहोत्तमे।
अवप्लुतो महातेजा हनूमान् मारुतात्मजः ॥ ५.१८.३० ॥

他心想:“这就是大臂的罗波那。”这只猴子——正是先前在城中央最好的宅邸里睡过的那个——光辉的风之子哈努曼跳了下来。

5.18.31

स तथाप्युग्रतेजाः स निर्धूतस्तस्य तेजसा।
पत्रे गुह्यान्तरे सक्तो मतिमान् संवृतोऽभवत् ॥ ५.१८.३१ ॥

虽然被他的光芒所震动,威光炽烈的哈努曼仍紧贴在树叶间一处隐秘之处,他聪慧地隐藏起来。

5.18.32

स तामसितकेशान्तां सुश्रोणीं संहतस्तनीम्।
दिदृक्षुरसितापांगीमुपावर्तत रावणः ॥ ५.१८.३२ ॥

罗波那渴望看见她——那位发梢乌黑、腰身秀美、胸脯丰满、眼角乌黑的女子——于是转向她。