蚁垤《罗摩衍那》 · 篇 5.28
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.28.1
सा राक्षसेन्द्रस्य वचो निशम्य
तद् रावणस्याप्रियमप्रियार्ता।
सीता वितत्रास यथा वनान्ते
सिंहाभिपन्ना गजराजकन्या ॥ ५.२८.१ ॥
悉多听到罗刹王那些令人不快的话语,心中痛苦,她战栗起来,就像象王之女在林边被狮子抓住时那样。
5.28.2
सा राक्षसीमध्यगता च भीरु-
र्वाग्भिर्भृशं रावणतर्जिता च।
कान्तारमध्ये विजने विसृष्टा
बालेव कन्या विललाप सीता ॥ ५.२८.२ ॥
悉多被置于罗刹女之中,又被罗波那严厉的言语深深威吓,她胆怯地哀泣,如同被遗弃在荒野中的少女。
5.28.3
सत्यं बतेदं प्रवदन्ति लोके
नाकालमृत्युर्भवतीति सन्तः।
यत्राहमेवं परिभर्त्स्यमाना
जीवामि यस्मात् क्षणमप्यपुण्या ॥ ५.२८.३ ॥
世间的智者确实这样说:没有非时的死亡。像我这样不幸的人,受到如此责骂,却还能活着,哪怕一瞬间。
5.28.4
सुखाद् विहीनं बहुदुःखपूर्ण-
मिदं तु नूनं हृदयं स्थिरं मे।
विदीर्यते यन्न सहस्रधाद्य
वज्राहतं शृंगमिवाचलस्य ॥ ५.२८.४ ॥
我这颗失去快乐、充满极大痛苦的心,确实坚硬,因为今天它没有像被雷霆击中的山峰那样碎成千片。
5.28.5
नैवास्ति नूनं मम दोषमत्र
वध्याहमस्याप्रियदर्शनस्य।
भावं न चास्याहमनुप्रदातु-
मलं द्विजो मन्त्रमिवाद्विजाय ॥ ५.२८.५ ॥
此事中我确实没有过错,却因这个面目可憎的人而应被杀。正如再生者不能把咒语传给非再生者,我也不能把善意给他。
5.28.6
तस्मिन्ननागच्छति लोकनाथे
गर्भस्थजन्तोरिव शल्यकृन्तः।
नूनं ममांगान्यचिरादनार्यः
शस्त्रैः शितैश्छेत्स्यति राक्षसेन्द्रः ॥ ५.२८.६ ॥
在世界之主到来之前,这个卑劣的罗刹王必定很快用利刃砍断我的肢体,犹如刺穿腹中胎儿的荆棘。
5.28.7
दुःखं बतेदं ननु दुःखिताया
मासौ चिरायाभिगमिष्यतो द्वौ।
बद्धस्य वध्यस्य यथा निशान्ते
राजोपरोधादिव तस्करस्य ॥ ५.२८.७ ॥
唉,真是苦痛!那两人久久不来见我这痛苦之人,就像夜尽时被国王关押、绑缚待决的盗贼。
5.28.8
हा राम हा लक्ष्मण हा सुमित्रे
हा राममातः सह मे जनन्यः।
एषा विपद्याम्यहमल्पभाग्या
महार्णवे नौरिव मूढवाता ॥ ५.२८.८ ॥
哎呀,罗摩!哎呀,罗什曼那!哎呀,苏弥多罗!哎呀,罗摩之母,连同我的其他母亲们!我这薄命之人在此灾难中毁灭,如同大海中失去风向的船。
5.28.9
तरस्विनौ धारयता मृगस्य
सत्त्वेन रूपं मनुजेन्द्रपुत्रौ।
नूनं विशस्तौ मम कारणात् तौ
सिंहर्षभौ द्वाविव वैद्युतेन ॥ ५.२८.९ ॥
必定是因为我,那两位迅捷的人主之子被化作鹿形的那个妖物所害,犹如被闪电击中的两头狮子或两头公牛。
5.28.10
नूनं स कालो मृगरूपधारी
मामल्पभाग्यां लुलुभे तदानीम्।
यत्रार्यपुत्रौ विससर्ज मूढा
रामानुजं लक्ष्मणपूर्वजं च ॥ ५.२८.१० ॥
必定是那时间本身,化作鹿形,在我这薄命之人愚昧时诱惑了我,使我派遣了那两位高贵的人——罗摩的幼弟与罗什曼那的长兄。
5.28.11
हा राम सत्यव्रत दीर्घबाहो
हा पूर्णचन्द्रप्रतिमानवक्त्र।
हा जीवलोकस्य हितः प्रियश्च
वध्यां न मां वेत्सि हि राक्षसानाम् ॥ ५.२८.११ ॥
唉,罗摩,守诺之人,长臂者!唉,面如满月之人!唉,世间生灵的恩主与所爱!你不知道我将被罗刹所杀。
5.28.12
अनन्यदेवत्वमियं क्षमा च
भूमौ च शय्या नियमश्च धर्मे।
पतिव्रतात्वं विफलं ममेदं
कृतं कृतघ्नेष्विव मानुषाणाम् ॥ ५.२८.१२ ॥
不拜他神的专一、这份忍耐、睡在地上、恪守法度的自律——我这份对丈夫的忠贞,竟如施恩于忘恩负义之人,徒劳无功。
5.28.13
मोघो हि धर्मश्चरितो ममायं
तथैकपत्नीत्वमिदं निरर्थकम्।
या त्वां न पश्यामि कृशा विवर्णा
हीना त्वया संगमने निराशा ॥ ५.२८.१३ ॥
我所行的法徒劳无益,这一夫一妻的忠贞也毫无意义;因为我见不到你——消瘦、面色苍白,失去与你相聚之望,心灰意冷。
5.28.14
पितुर्निदेशं नियमेन कृत्वा
वनान्निवृत्तश्चरितव्रतश्च।
स्त्रीभिस्तु मन्ये विपुलेक्षणाभिः
संरंस्यसे वीतभयः कृतार्थः ॥ ५.२८.१४ ॥
你将恪守父命、完成誓愿,从森林归来;我想,你将无所畏惧、心愿已了,与那些明眸大眼的女子欢愉相伴。
5.28.15
अहं तु राम त्वयि जातकामा
चिरं विनाशाय निबद्धभावा।
मोघं चरित्वाथ तपो व्रतं च
त्यक्ष्यामि धिग्जीवितमल्पभाग्याम् ॥ ५.२८.१५ ॥
然而,罗摩啊,我因对你而生的爱欲所缚,长久以来行苦行、守誓愿,却徒然只为自己的毁灭;如今我要舍弃这福薄的生命——此生可耻!
5.28.16
संजीवितं क्षिप्रमहं त्यजेयं
विषेण शस्त्रेण शितेन वापि।
विषस्य दाता न तु मेऽस्ति कश्चि-
च्छस्त्रस्य वा वेश्मनि राक्षसस्य ॥ ५.२८.१६ ॥
我将很快以毒药或利刃舍弃此生,然而在这罗刹的宫中,没有人给我毒药,也没有人给我兵器。
5.28.17
शोकाभितप्ता बहुधा विचिन्त्य
सीताथ वेणीग्रथनं गृहीत्वा।
उद्बद्ध्य वेण्युद्ग्रथनेन शीघ्र-
महं गमिष्यामि यमस्य मूलम् ॥ ५.२८.१७ ॥
悲痛折磨的悉多多方思量之后,便抓住自己的发辫;用发辫打成绳结上吊,我将很快前往阎摩的住所。
5.28.18
उपस्थिता सा मृदुसर्वगात्री
शाखां गृहीत्वा च नगस्य तस्य।
तस्यास्तु रामं परिचिन्तयन्त्या
रामानुजं स्वं च कुलं शुभांग्याः ॥ ५.२८.१८ ॥
那位身体柔美的女子走近,抓住那棵树的一根枝条;她念念不忘罗摩、罗摩的幼弟和自己的家族,那位美好肢体的女子就处于这样的境地。
5.28.19
तस्या विशोकानि तदा बहूनि
धैर्यार्जितानि प्रवराणि लोके।
प्रादुर्निमित्तानि तदा बभूवुः
पुरापि सिद्धान्युपलक्षितानि ॥ ५.२८.१९ ॥
那时,为她出现了许多吉兆,消除悲伤,由坚忍所获,在世间殊胜;那些早已确定和被察觉的征兆,此时显现了。