ヴァールミーキのラーマーヤナ · サルガ 5.30
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.30.1
हनुमानपि विक्रान्तः सर्वं शुश्राव तत्त्वतः।
सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जितम् ॥ ५.३०.१ ॥
勇猛なハヌマーンもまた、シーター、トリジャター、そして羅刹女たちが発したすべての脅しと叱責を確かに聞いた。
5.30.2
अवेक्षमाणस्तां देवीं देवतामिव नन्दने।
ततो बहुविधां चिन्तां चिन्तयामास वानरः ॥ ५.३०.२ ॥
ナンダナの園で女神を見るように、その高貴な女性シーターを見つめながら、猿はそのとき様々な思いを巡らせた。
5.30.3
यां कपीनां सहस्राणि सुबहून्ययुतानि च।
दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया ॥ ५.३०.३ ॥
幾千、幾万もの猿たちがあらゆる方角で探し求めている、その方が、今まさに私によって見つけ出された。
5.30.4
चारेण तु सुयुक्तेन शत्रोः शक्तिमवेक्षता।
गूढेन चरता तावदवेक्षितमिदं मया ॥ ५.३०.४ ॥
敵の力を見極める、よく任命された間者として密かに歩き回り、私はこれまでこれらすべてを観察してきた。
5.30.5
राक्षसानां विशेषश्च पुरी चेयं निरीक्षिता।
राक्षसाधिपतेरस्य प्रभावो रावणस्य च ॥ ५.३०.५ ॥
羅刹たちの特徴とこの都を私は観察した。羅刹王ラーヴァナの威光もまた見届けた。
5.30.6
यथा तस्याप्रमेयस्य सर्वसत्त्वदयावतः।
समाश्वासयितुं भार्यां पतिदर्शनकांक्षिणीम् ॥ ५.३०.६ ॥
計り知れず、一切の生き物に慈悲深いあの方の妻を、夫に会うことを切望する彼女を慰めることがふさわしいように。
5.30.7
अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम्।
अदृष्टदुःखां दुःखस्य न ह्यन्तमधिगच्छतीम् ॥ ५.३०.७ ॥
満月のような顔の彼女を私は慰めよう。苦しみの終わりを見ず、苦しみの終わりに至っていない彼女を。
5.30.8
यदि ह्यहं सतीमेनां शोकोपहतचेतनाम्।
अनाश्वास्य गमिष्यामि दोषवद् गमनं भवेत् ॥ ५.३०.८ ॥
悲しみに心を打ちのめされたこの貞淑な女性を慰めずに去れば、私の立ち去りは過ちとなるだろう。
5.30.9
गते हि मयि तत्रेयं राजपुत्री यशस्विनी।
परित्राणमपश्यन्ती जानकी जीवितं त्यजेत् ॥ ५.३०.९ ॥
もし私がそこを去れば、この名高い王女ジャーナキーは守りを見出せず、命を捨ててしまうだろう。
5.30.10
यथा च स महाबाहुः पूर्णचन्द्रनिभाननः।
समाश्वासयितुं न्याय्यः सीतादर्शनलालसः ॥ ५.३०.१० ॥
満月のような顔の大腕の君が、シーターに会いたいと切望しているように、彼を十分に慰めるのがふさわしい。
5.30.11
निशाचरीणां प्रत्यक्षमक्षमं चाभिभाषितम्।
कथं नु खलु कर्तव्यमिदं कृच्छ्रगतो ह्यहम् ॥ ५.३०.११ ॥
夜行の羅刹女たちの前で語られた耐えがたい言葉のせいで、私は窮地にある。now どうすべきか。
5.30.12
अनेन रात्रिशेषेण यदि नाश्वास्यते मया।
सर्वथा नास्ति संदेहः परित्यक्ष्यति जीवितम् ॥ ५.३०.१२ ॥
この夜の残りの間に私が彼女を慰められなければ、彼女が命を捨てることは疑いない。
5.30.13
रामस्तु यदि पृच्छेन्मां किं मां सीताब्रवीद्वचः।
किमहं तं प्रतिब्रूयामसम्भाष्य सुमध्यमाम् ॥ ५.३०.१३ ॥
もしラーマが、シーターが私に何と言ったのかと尋ねたら、あの細腰の方と話をせずに、私は彼に何と答えればよいのか。
5.30.14
सीतासंदेशरहितं मामितस्त्वरया गतम्।
निर्दहेदपि काकुत्स्थः क्रोधतीव्रेण चक्षुषा ॥ ५.३०.१४ ॥
シーターの伝言もなくここから急いで送り出された私は、怒りに燃える目でカークツトゥ・ラーマに焼き尽くされることさえありうる。
5.30.15
यदि वोद्योजयिष्यामि भर्तारं रामकारणात्।
व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति ॥ ५.३०.१५ ॥
あるいは、ラーマのために私が主君(スグリーヴァ)を戦いへとけしかけたなら、軍勢を率いての彼の来訪は無駄に終わるだろう。
5.30.16
अन्तरं त्वहमासाद्य राक्षसीनामवस्थितः।
शनैराश्वासयाम्यद्य संतापबहुलामिमाम् ॥ ५.३०.१६ ॥
しかし羅刹女たちの間に機会を見出し、ここに立って、今まさに悲嘆に満ちたこの方を静かに慰めよう。
5.30.17
अहं ह्यतितनुश्चैव वानरश्च विशेषतः।
वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम् ॥ ५.३०.१७ ॥
私は身体が非常に華奢であり、しかも猿である。ここでは人間の、洗練された言葉で話そう。
5.30.18
यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम्।
रावणं मन्यमाना मां सीता भीता भविष्यति ॥ ५.३०.१८ ॥
もし私が再生族(バラモン)のように洗練されたサンスクリットで話せば、シーターは私をラーヴァナだと思って怯えるだろう。
5.30.19
अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत्।
मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता ॥ ५.३०.१९ ॥
この非のうちどころのない女性を慰めるには、必ず人間の言葉で意味のある言葉を語らねばならない。そうでなければ慰めることはできない。
5.30.20
सेयमालोक्य मे रूपं जानकी भाषितं तथा।
रक्षोभिस्त्रासिता पूर्वं भूयस्त्रासमुपैष्यति ॥ ५.३०.२० ॥
私の姿を見て、私の言葉を聞けば、以前羅刹たちに脅かされたこのジャーナキーは、再び恐怖に陥るであろう。
5.30.21
ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी।
जानाना मां विशालाक्षी रावणं कामरूपिणम् ॥ ५.३०.२१ ॥
そのとき、恐怖に駆られた、心高く大きな目をした女性シーターは、私と、意のままに姿を変えるラーヴァナを見分けて、声を上げるであろう。
5.30.22
सीतया च कृते शब्दे सहसा राक्षसीगणः।
नानाप्रहरणो घोरः समेयादन्तकोपमः ॥ ५.३०.२२ ॥
シーターの叫びに応じて、突如として、様々な武器を手にした、死神のように恐ろしい羅刹女の群れがそこに集まるであろう。
5.30.23
ततो मां सम्परिक्षिप्य सर्वतो विकृताननाः।
वधे च ग्रहणे चैव कुर्युर्यत्नं महाबलाः ॥ ५.३०.२३ ॥
すると、顔の歪んだ大力の羅刹女たちが私を四方から取り囲み、私を殺し捕らえようと力を尽くすであろう。
5.30.24
तं मां शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम्।
दृष्ट्वा च परिधावन्तं भवेयुः परिशङ्किताः ॥ ५.३०.२४ ॥
上等の木々の枝、小枝、幹の上を私が駆け回っているのを見て、彼女らは不安になり、疑念を抱くであろう。
5.30.25
मम रूपं च सम्प्रेक्ष्य वने विचरतो महत्।
राक्षस्यो भयवित्रस्ता भवेयुर्विकृतस्वराः ॥ ५.३०.२५ ॥
森をさまよう私の大きな姿を見て、羅刹女たちは恐怖に震え、声もかすれ歪んでしまうだろう。
5.30.26
ततः कुर्युः समाह्वानं राक्षस्यो रक्षसामपि।
राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने ॥ ५.३०.२६ ॥
すると羅刹女や羅刹たちも、羅刹王の宮殿で、羅刹王に任じられた者たちを呼び集めるだろう。
5.30.27
ते शूलशरनिस्त्रिंशविविधायुधपाणयः।
आपतेयुर्विमर्देऽस्मिन् वेगेनोद्वेगकारणात् ॥ ५.३०.२७ ॥
槍、矢、剣など様々な武器を手に、彼らは動揺のためこの乱戦へ勢いよく殺到するだろう。
5.30.28
संरुद्धस्तैस्तु परितो विधमे राक्षसं बलम्।
शक्नुयां न तु सम्प्राप्तुं परं पारं महोदधेः ॥ ५.३०.२८ ॥
彼らに四方を囲まれ、羅刹の軍勢を追い散らしたとしても、大海の彼方の岸に到達することはできないだろう。
5.30.29
मां वा गृह्णीयुरावृत्य बहवः शीघ्रकारिणः।
स्यादियं चागृहीतार्था मम च ग्रहणं भवेत् ॥ ५.३०.२९ ॥
あるいは素早く動く多くの者が私を取り囲んで捕らえるだろう。そうなればこの目的は果たされず、私は捕らわれの身となるだろう。
5.30.30
हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम्।
विपन्नं स्यात् ततः कार्यं रामसुग्रीवयोरिदम् ॥ ५.३०.३० ॥
暴力を好む者たちがこのジャナカの娘を傷つけるかもしれない。そうなればラーマとスグリーヴァのこの使命は台無しになる。
5.30.31
उद्देशे नष्टमार्गेऽस्मिन् राक्षसैः परिवारिते।
सागरेण परिक्षिप्ते गुप्ते वसति जानकी ॥ ५.३०.३१ ॥
道の失われたこの地で、羅刹に囲まれ、海に囲われ、守られてジャーナキーは住んでいる。
5.30.32
विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे।
नान्यं पश्यामि रामस्य सहायं कार्यसाधने ॥ ५.३०.३२ ॥
戦いで羅刹に殺されるか捕らえられたなら、ラーマの任務を成し遂げる別の助力者は私には見えない。
5.30.33
विमृशंश्च न पश्यामि यो हते मयि वानरः।
शतयोजनविस्तीर्णं लङ्घयेत महोदधिम् ॥ ५.३०.३३ ॥
考えてみても、私が死んだ後に百ヨージャナの幅の大海を跳び越えられる猿は見当たらない。
5.30.34
कामं हन्तुं समर्थोऽस्मि सहस्राण्यपि रक्षसाम्।
न तु शक्ष्याम्यहं प्राप्तुं परं पारं महोदधेः ॥ ५.३०.३४ ॥
確かに私は幾千もの羅刹を討つことができるが、大海の彼方の岸に至ることはできないだろう。
5.30.36
एष दोषो महान् हि स्यान्मम सीताभिभाषणे।
प्राणत्यागश्च वैदेह्या भवेदनभिभाषणे ॥ ५.३०.३६ ॥
シーターと話すことは私にとって大きな過ちとなろう。話さなければ、ヴァイデーヒーは命を捨てることになる。
5.30.37
भूताश्चार्था विरुध्यन्त देशकालविरोधिताः।
विक्लवं दूतमासाद्य तमः सूर्योदये यथा ॥ ५.३०.३७ ॥
成し遂げられた目的が場所と時機に阻まれると、使者は動揺する。日の出の暗闇のように。
5.30.38
अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते।
घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ॥ ५.३०.३८ ॥
利益と不利益の間で揺れる心は、たとえ固く定まっていても相応しくない。自らを賢者と思う使者こそが事を損なう。
5.30.39
न विनश्येत् कथं कार्यं वैक्लव्यं न कथं मम।
लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् ॥ ५.३०.३९ ॥
どうして私の務めは損なわれずにいられようか、どうして私の心は乱れずにいられようか。海を越えたことさえどうして無駄にならずにいられようか。
5.30.41
कथं नु खलु वाक्यं मे शृणुयान्नोद्विजेत च।
राममक्लिष्टकर्माणं सुबन्धुमनुकीर्तयन्।
नैनामुद्वेजयिष्यामि तद्बन्धुगतचेतनाम् ॥ ५.३०.४१ ॥
彼女はどうして私の言葉を聞いて、怯えずにいられようか。努力なく事を成すラーマと、その愛しい親族を思い起こしつつ、心を彼の親族に寄せる彼女を、私は怯えさせはしない。
5.30.42
इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः।
शुभानि धर्मयुक्तानि वचनानि समर्पयन् ॥ ५.३०.४२ ॥
イクシュヴァーク王家で最も優れ、自己を知るラーマの、吉祥でダルマにかなった言葉を伝えながら。
5.30.43
श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन् गिरम्।
श्रद्धास्यति यथा सीता तथा सर्वं समादधे ॥ ५.३०.४३ ॥
甘い言葉で、すべてを語り聞かせよう。シーターが信じるように、すべてをそのように整えよう。
5.30.44
जगतिपतेः प्रमदामवेक्षमाणः।
मधुरमवितथं जगाद वाक्यं
द्रुमविटपान्तरमास्थितो हनूमान् ॥ ५.३०.४४ ॥
大地の主の愛しい妃を見つめながら、木の枝の間に座したハヌマーンは、甘く真実の言葉を語った。