Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 5.31

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.31.1

एवं बहुविधां चिन्तां चिन्तयित्वा महामतिः।
संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह ॥ ५.३१.१ ॥

大智的哈努曼思虑了种种忧虑之后,在她能听见的距离,对毗提诃说出了甜美的话语。

5.31.2

राजा दशरथो नाम रथकुञ्जरवाजिमान्।
पुण्यशीलो महाकीर्तिरिक्ष्वाकूणां महायशाः ॥ ५.३१.२ ॥

有一位名叫十车王的国王,拥有战车、象和马,品行高尚,名声显赫,是伊乡族中最负盛名的人。

5.31.3

राजर्षीणां गुणश्रेष्ठस्तपसा चर्षिभिः समः।
चक्रवर्तिकुले जातः पुरंदरसमो बले ॥ ५.३१.३ ॥

在王仙中德行最为卓越,苦修上与仙人相等,生于转轮王的家族,力量与因陀罗(补兰达罗)相当。

5.31.4

अहिंसारतिरक्षुद्रो घृणी सत्यपराक्रमः।
मुख्यस्येक्ष्वाकुवंशस्य लक्ष्मीवाँल्लक्ष्मिवर्धनः ॥ ५.३१.४ ॥

喜好不杀生,胸怀宽广,慈悲为怀,以真实为勇力;伊乡族中的首领,光辉灿烂,增益福祥。

5.31.5

पार्थिवव्यञ्जनैर्युक्तः पृथुश्रीः पार्थिवर्षभः।
पृथिव्यां चतुरन्तायां विश्रुतः सुखदः सुखी ॥ ५.३१.५ ॥

具备王者之相,大有威光,是诸王中的雄牛;在四海环绕的大地上名声远扬,能赐人安乐,自己也安乐。

5.31.6

तस्य पुत्रः प्रियो ज्येष्ठस्ताराधिपनिभाननः।
रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम् ॥ ५.३१.६ ॥

他心爱的长子,面貌如月,名叫罗摩,通晓诸般差别,是所有射手中最卓越的。

5.31.7

रक्षिता स्वस्य वृत्तस्य स्वजनस्यापि रक्षिता।
रक्षिता जीवलोकस्य धर्मस्य च परंतपः ॥ ५.३१.७ ॥

他守护自己的品行,也守护自己的亲族,守护有生之世界,也守护法,啊,使敌人煎熬者。

5.31.8

तस्य सत्याभिसंधस्य वृद्धस्य वचनात् पितुः।
सभार्यः सह च भ्रात्रा वीरः प्रव्रजितो वनम् ॥ ५.३१.८ ॥

那位誓言真实的英雄,遵从年迈父亲的话,与妻子和兄弟一同进入森林。

5.31.9

तेन तत्र महारण्ये मृगयां परिधावता।
राक्षसा निहताः शूरा बहवः कामरूपिणः ॥ ५.३१.९ ॥

他在那大森林中追逐猎物游走时,杀死了许多能随意变化形体的勇猛罗刹。

5.31.10

जनस्थानवधं श्रुत्वा निहतौ खरदूषणौ।
ततस्त्वमर्षापहृता जानकी रावणेन तु ॥ ५.३१.१० ॥

罗波那听闻檀那斯坦的杀戮以及哈罗与杜沙那被杀之事后,便在愤怒中劫走了耆那吉。

5.31.11

वञ्चयित्वा वने रामं मृगरूपेण मायया।
स मार्गमाणस्तां देवीं रामः सीतामनिन्दिताम् ॥ ५.३१.११ ॥

在森林中以幻化的鹿形欺骗了罗摩之后,(罗波那劫走了她);而罗摩正在寻找那位无可指责的女神悉多……

5.31.12

आससाद वने मित्रं सुग्रीवं नाम वानरम्।
ततः स वालिनं हत्वा रामः परपुरंजयः ॥ ५.३१.१२ ॥

他在森林中遇见了一位名叫须羯哩婆的猴子朋友。随后,征服敌城的罗摩杀死了波林……

5.31.13

आयच्छत् कपिराज्यं तु सुग्रीवाय महात्मने।
सुग्रीवेणाभिसंदिष्टा हरयः कामरूपिणः ॥ ५.३१.१३ ॥

他将猴王之国交给了宏大的须羯利婆,能随意变化形体的猴众奉须羯利婆之命出发。

5.31.14

दिक्षु सर्वासु तां देवीं विचिन्वन्तः सहस्रशः।
अहं सम्पातिवचनाच्छतयोजनमायतम् ॥ ५.३१.१४ ॥

成千上万的猴众向四方寻找那位女神;我依照桑帕提的话,跃过了绵延百由旬的大海。

5.31.15

तस्या हेतोर्विशालाक्ष्याः समुद्रं वेगवान् प्लुतः।
यथारूपां यथावर्णां यथालक्ष्मवतीं च ताम् ॥ ५.३१.१५ ॥

为了那位大眼睛的女子,我疾速跃过了大海;她的容貌、肤色和吉祥之相,正如所描述的那样。

5.31.16

अश्रौषं राघवस्याहं सेयमासादिता मया।
विररामैवमुक्त्वा स वाचं वानरपुंगवः ॥ ५.३१.१६ ॥

我曾听闻罗怙婆(罗摩)之事,如今这位夫人已被我找到。如此说完,那位猴中之最便停了下来。

5.31.17

जानकी चापि तच्छ्रुत्वा विस्मयं परमं गता।
ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम्।
उन्नम्य वदनं भीरुः शिंशपामन्ववैक्षत ॥ ५.३१.१७ ॥

闻此言,耆那基(悉多)也大为惊异。于是那位发丝美好、发梢卷曲的胆怯女子,拨开覆面的长发,抬起脸望向那棵铁树(śiṃśapā)。

5.31.18

निशम्य सीता वचनं कपेश्च
दिशश्च सर्वाः प्रदिशश्च वीक्ष्य।
स्वयं प्रहर्षं परमं जगाम
सर्वात्मना राममनुस्मरन्ती ॥ ५.३१.१८ ॥

悉多听了猴子的话,又环顾四方与八隅,自己心中生起极大的喜悦,全身心地思念着罗摩。

5.31.19

सा तिर्यगूर्ध्वं च तथा ह्यधस्ता-
न्निरीक्षमाणा तमचिन्त्यबुद्धिम्।
ददर्श पिंगाधिपतेरमात्यं
वातात्मजं सूर्यमिवोदयस्थम् ॥ ५.३१.१९ ॥

她左右上下张望,看见了皮嘎罗猴王的大臣、风神之子——那位智慧不可思议的人,他如同立于日出之处的太阳。