Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 5.37

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.37.1

सा सीता वचनं श्रुत्वा पूर्णचन्द्रनिभानना।
हनूमन्तमुवाचेदं धर्मार्थसहितं वचः ॥ ५.३७.१ ॥

面如满月的悉多听罢这些话,对哈奴曼说出了这番合于法与义的言语。

5.37.2

अमृतं विषसम्पृक्तं त्वया वानर भाषितम्।
यच्च नान्यमना रामो यच्च शोकपरायणः ॥ ५.३७.२ ॥

猴子啊,你所说的如同掺了毒的甘露;而罗摩心中别无他念,沉浸在悲伤之中。

5.37.3

ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे।
रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति ॥ ५.३७.३ ॥

无论身处广大的富贵,还是极其可怕的灾难,死神(克里坦塔)都会像用绳子捆住一个人那样将他拖走。

5.37.4

विधिर्नूनमसंहार्यः प्राणिनां प्लवगोत्तम।
सौमित्रं मां च रामं च व्यसनैः पश्य मोहितान् ॥ ५.३७.४ ॥

猴中至尊啊,众生的命运确实不可抗拒;你看,罗什曼、我与罗摩,都已被灾难迷惑。

5.37.5

शोकस्यास्य कथं पारं राघवोऽधिगमिष्यति।
प्लवमानः परिक्रान्तो हतनौः सागरे यथा ॥ ५.३७.५ ॥

罗怙之后(罗摩)如何能渡过这悲伤的彼岸?就像船只在大海中破碎后,人在海上漂泊挣扎。

5.37.6

राक्षसानां वधं कृत्वा सूदयित्वा च रावणम्।
लङ्कामुन्मथितां कृत्वा कदा द्रक्ष्यति मां पतिः ॥ ५.३७.६ ॥

在诛灭罗刹、杀死罗波那、将楞伽翻倒之后,我的夫君何时才会见到我?

5.37.7

स वाच्यः संत्वरस्वेति यावदेव न पूर्यते।
अयं संवत्सरः कालस्तावद्धि मम जीवितम् ॥ ५.३७.७ ॥

告诉他快些行动,在这一年满期之前;这一年的时间便是我的生命。

5.37.8

वर्तते दशमो मासो द्वौ तु शेषौ प्लवङ्गम।
रावणेन नृशंसेन समयो यः कृतो मम ॥ ५.३७.८ ॥

哦,跳跃者,第十个月正在过去,只剩两个月了;这正是残忍的罗波那为我定下的期限。

5.37.9

विभीषणेन च भ्रात्रा मम निर्यातनं प्रति।
अनुनीतः प्रयत्नेन न च तत् कुरुते मतिम् ॥ ५.३७.९ ॥

我的兄弟维毗沙那也竭力劝他释放我,但他仍不愿下定决心。

5.37.10

मम प्रतिप्रदानं हि रावणस्य न रोचते।
रावणं मार्गते संख्ये मृत्युः कालवशंगतम् ॥ ५.३७.१० ॥

罗波那不愿把我归还;被时间所支配的他,正在战场上被死亡寻找。

5.37.11

ज्येष्ठा कन्या कला नाम विभीषणसुता कपे।
तया ममैतदाख्यातं मात्रा प्रहितया स्वयम् ॥ ५.३७.११ ॥

猴子啊,维毗沙那的长女名叫迦罗,她把这事告诉了我;是她的母亲亲自派她来转告的。

5.37.12

अविन्ध्यो नाम मेधावी विद्वान् राक्षसपुङ्गवः।
धृतिमाञ्छीलवान् वृद्धो रावणस्य सुसम्मतः ॥ ५.३७.१२ ॥

有一位名叫阿文底耶的智者、学者,是罗刹中的翘楚,坚定、有德、年迈,深受罗波那敬重。

5.37.13

रामात् क्षयमनुप्राप्तं रक्षसां प्रत्यचोदयत्।
न च तस्य स दुष्टात्मा शृणोति वचनं हितम् ॥ ५.३७.१३ ॥

他因罗摩之故劝告(罗波那)罗刹即将遭受毁灭,但那恶念之人不听他有益的话语。

5.37.14

आशंसेयं हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः।
अन्तरात्मा हि मे शुद्धस्तस्मिंश्च बहवो गुणाः ॥ ५.३७.१४ ॥

猴中最优者啊,我希望我的丈夫很快就会来迎接我。我的内心是纯洁的,而他身上有许多美德。

5.37.15

उत्साहः पौरुषं सत्त्वमानृशंस्यं कृतज्ञता।
विक्रमश्च प्रभावश्च सन्ति वानर राघवे ॥ ५.३७.१५ ॥

猴子啊,罗怙婆(罗摩)身上具有勇气、男子汉的气概、坚忍、慈悲、感恩、威武与威力。

5.37.16

चतुर्दश सहस्राणि राक्षसानां जघान यः।
जनस्थाने विना भ्रात्रा शत्रुः कस्तस्य नोद्विजेत् ॥ ५.३७.१६ ॥

他在人住地(Janasthāna)未借兄弟之力而诛杀了一万四千罗刹,他的哪个敌人会不感到恐惧呢?

5.37.17

न स शक्यस्तुलयितुं व्यसनैः पुरुषर्षभः।
अहं तस्यानुभावज्ञा शक्रस्येव पुलोमजा ॥ ५.३७.१७ ॥

那人中的雄牛不能以苦难来衡量。正如补罗摩阇(舍制)知道因陀罗的威力,我也知道他的威力。

5.37.18

शरजालांशुमान् शूरः कपे रामदिवाकरः।
शत्रुरक्षोमयं तोयमुपशोषं नयिष्यति ॥ ५.३७.१८ ॥

猴子啊,以箭网为光芒的英雄罗摩日,将把敌人罗刹之水彻底蒸干。

5.37.19

अश्रुसम्पूर्णवदनामुवाच हनुमान् कपिः ॥ ५.३७.१९ ॥

满面泪水的悉多,猴子哈努曼对她说道:

5.37.20

श्रुत्वैव च वचो मह्यं क्षिप्रमेष्यति राघवः।
चमूं प्रकर्षन् महतीं हर्यृक्षगणसंकुलाम् ॥ ५.३७.२० ॥

听到我的话,罗怙婆(罗摩)便会很快到来,率领充满猴群与熊群的庞大军队。

5.37.21

अथवा मोचयिष्यामि त्वामद्यैव सराक्षसात्।
अस्माद् दुःखादुपारोह मम पृष्ठमनिन्दिते ॥ ५.३७.२१ ॥

或者,无瑕的女子啊,今日我就把你从这苦难中解救出来,连同罗刹一并。请骑上我的背。

5.37.22

त्वां तु पृष्ठगतां कृत्वा संतरिष्यामि सागरम्।
शक्तिरस्ति हि मे वोढुं लङ्कामपि सरावणाम् ॥ ५.३७.२२ ॥

我将你背在背上渡过大海;我有能力连同罗波那一起背起楞伽城。

5.37.23

अहं प्रस्रवणस्थाय राघवायाद्य मैथिलि।
प्रापयिष्यामि शक्राय हव्यं हुतमिवानलः ॥ ५.३७.२३ ॥

悉多啊,今日我就把(你的消息)带给站在普罗斯拉瓦那山上的罗怙婆,如同火神把供品送给因陀罗。

5.37.24

द्रक्ष्यस्यद्यैव वैदेहि राघवं सहलक्ष्मणम्।
व्यवसायसमायुक्तं विष्णुं दैत्यवधे यथा ॥ ५.३७.२४ ॥

维德哈的女儿啊,今日你就会见到与罗什曼那同在的罗怙婆,他坚定果决,如同毗湿奴诛灭众阿修罗时一般。

5.37.25

त्वद्दर्शनकृतोत्साहमाश्रमस्थं महाबलम्।
पुरंदरमिवासीनं नगराजस्य मूर्धनि ॥ ५.३७.२५ ॥

因见到你而振奋,住在修行处的大力者,犹如坐在群山之王顶峰上的因陀罗。

5.37.26

पृष्ठमारोह मे देवि मा विकाङ्क्षस्व शोभने।
योगमन्विच्छ रामेण शशाङ्केनेव रोहिणी ॥ ५.३७.२६ ॥

女神啊,骑上我的背吧;不要犹豫,光彩照人的人。愿与罗摩结合,如罗西尼之于月亮。

5.37.27

कथयन्तीव शशिना संगमिष्यसि रोहिणी।
मत्पृष्ठमधिरोह त्वं तराकाशं महार्णवम् ॥ ५.३७.२७ ॥

如罗西尼仿佛与月亮交谈般与之相会,你也将相会。骑上我的背,我们将穿越天空与大海。

5.37.28

नहि मे सम्प्रयातस्य त्वामितो नयतोऽङ्गने।
अनुगन्तुं गतिं शक्ताः सर्वे लङ्कानिवासिनः ॥ ५.३७.२८ ॥

夫人啊,我将你从此处带走时,楞伽的居民没有一人能追随我的行程。

5.37.29

यथैवाहमिह प्राप्तस्तथैवाहमसंशयम्।
यास्यामि पश्य वैदेहि त्वामुद्यम्य विहायसम् ॥ ५.३७.२९ ॥

我如何来到此地,毫无疑问我也将如此离去。看哪,毗提诃之女,我将托起你穿越天空。

5.37.30

मैथिली तु हरिश्रेष्ठाच्छ्रुत्वा वचनमद्भुतम्।
हर्षविस्मितसर्वाङ्गी हनूमन्तमथाब्रवीत् ॥ ५.३७.३० ॥

然而毗提诃之女(悉多)听到猴中之最的那些奇妙话语,全身因欢喜与惊叹而颤动,对哈奴曼说道。

5.37.31

हनूमन् दूरमध्वानं कथं मां नेतुमिच्छसि।
तदेव खलु ते मन्ये कपित्वं हरियूथप ॥ ५.३७.३१ ॥

哈奴曼啊,你想如何带我走这么远的路?我想这必定是你猴子的天性,猴群之主啊。

5.37.32

कथं चाल्पशरीरस्त्वं मामितो नेतुमिच्छसि।
सकाशं मानवेन्द्रस्य भर्तुर्मे प्लवगर्षभ ॥ ५.३७.३२ ॥

你身材如此矮小,如何想把我从这里带到我丈夫、人主那里去呢,猿中之最啊?

5.37.33

सीतायास्तु वचः श्रुत्वा हनूमान् मारुतात्मजः।
चिन्तयामास लक्ष्मीवान् नवं परिभवं कृतम् ॥ ५.३७.३३ ॥

风之子哈奴曼听了悉多的话,光辉的他心想,自己又遭受了一次新的轻慢。

5.37.34

न मे जानाति सत्त्वं वा प्रभावं वासितेक्षणा।
तस्मात् पश्यतु वैदेही यद् रूपं मम कामतः ॥ ५.३७.३४ ॥

这位黑眼睛的女子不知道我的本性与神力。因此愿毗提诃公主看看我随意显现的形相。

5.37.35

दर्शयामास सीतायाः स्वरूपमरिमर्दनः ॥ ५.३७.३५ ॥

摧敌者向悉多显现了他自己的真身。

5.37.36

स तस्मात् पादपाद् धीमानाप्लुत्य प्लवगर्षभः।
ततो वर्धितुमारेभे सीताप्रत्ययकारणात् ॥ ५.३७.३६ ॥

于是那位聪慧的猿中之最从树上跃下,开始增大身躯,以使悉多确信。

5.37.37

मेरुमन्दरसंकाशो बभौ दीप्तानलप्रभः।
अग्रतो व्यवतस्थे च सीताया वानरर्षभः ॥ ५.३७.३७ ॥

身形如须弥与曼陀罗山,光芒如熊熊烈火,猴中之最立于悉多面前。

5.37.38

हरिः पर्वतसंकाशस्ताम्रवक्त्रो महाबलः।
वज्रदंष्ट्रनखो भीमो वैदेहीमिदमब्रवीत् ॥ ५.३७.३८ ॥

这只猴子身如山岳,面色赤铜,大力无比,牙爪如金刚,令人畏惧,对毗提诃之女说了这番话。

5.37.39

सपर्वतवनोद्देशां साट्टप्राकारतोरणाम्।
लङ्कामिमां सनाथां वा नयितुं शक्तिरस्ति मे ॥ ५.३७.३९ ॥

我有能力将这座楞伽城,连同其山岭林地、楼阁、城墙与门楼,甚至连同其主人,一并带走。

5.37.40

तदवस्थाप्यतां बुद्धिरलं देवि विकाङ्क्षया।
विशोकं कुरु वैदेहि राघवं सहलक्ष्मणम् ॥ ५.३७.४० ॥

故请坚定你的决心。女神啊,不必疑虑。毗提诃之女啊,请使罗怙之裔与罗什曼那免于忧愁。

5.37.41

तं दृष्ट्वाचलसंकाशमुवाच जनकात्मजा।
पद्मपत्रविशालाक्षी मारुतस्यौरसं सुतम् ॥ ५.३७.४१ ॥

毗提诃之女见他身如山岳,双目宽大如莲瓣,便对风神之亲生子说道。

5.37.42

तव सत्त्वं बलं चैव विजानामि महाकपे।
वायोरिव गतिश्चापि तेजश्चाग्नेरिवाद्भुतम् ॥ ५.३७.४२ ॥

大猴啊,我知道你的勇气与力量。你的疾速如风,你的光辉如火一般奇妙。

5.37.43

प्राकृतोऽन्यः कथं चेमां भूमिमागन्तुमर्हति।
उदधेरप्रमेयस्य पारं वानरयूथप ॥ ५.३७.४३ ॥

普通之人如何能够越过这浩瀚无边的大海,来到这片土地呢?猴群之主啊!

5.37.44

जानामि गमने शक्तिं नयने चापि ते मम।
अवश्यं सम्प्रधार्याशु कार्यसिद्धिरिवात्मनः ॥ ५.३७.४४ ॥

我知道你有前往的能力,你的眼睛也见过我。然而务必审慎决断,迅速行事,如同办自己的事一般。

5.37.45

अयुक्तं तु कपिश्रेष्ठ मया गन्तुं त्वया सह।
वायुवेगसवेगस्य वेगो मां मोहयेत् तव ॥ ५.३७.४५ ॥

然而,猴中之最,我与你同行并不合适。你的速度与风速相等,会令我眩晕迷乱。

5.37.46

अहमाकाशमासक्ता उपर्युपरि सागरम्।
प्रपतेयं हि ते पृष्ठाद् भूयो वेगेन गच्छतः ॥ ५.३७.४६ ॥

我即便紧附在天空、高高越过大海,也必定会从你的背上再次坠落,因为你疾速前行。

5.37.47

पतिता सागरे चाहं तिमिनक्रझषाकुले।
भवेयमाशु विवशा यादसामन्नमुत्तमम् ॥ ५.३७.४७ ॥

若坠入这满是鳄鱼、鲨鱼与鱼群的大海,我很快就会无力自救,成为水中生灵最美的食物。

5.37.48

न च शक्ष्ये त्वया सार्धं गन्तुं शत्रुविनाशन।
कलत्रवति संदेहस्त्वयि स्यादप्यसंशयम् ॥ ५.३७.४८ ॥

我不能与你同行,灭敌之人啊。有妻室的你,也必定会引起猜疑,这毫无疑问。

5.37.49

ह्रियमाणां तु मां दृष्ट्वा राक्षसा भीमविक्रमाः।
अनुगच्छेयुरादिष्टा रावणेन दुरात्मना ॥ ५.३७.४९ ॥

见我被掳走,勇猛可怖的罗刹们奉邪恶的罗波那之命,必会追随于后。

5.37.50

तैस्त्वं परिवृतः शूरैः शूलमुद्गरपाणिभिः।
भवेस्त्वं संशयं प्राप्तो मया वीर कलत्रवान् ॥ ५.३७.५० ॥

你啊,有妻室的英雄,被那些手持长矛与铁锤的勇士围困,将因我而陷入危难。

5.37.51

सायुधा बहवो व्योम्नि राक्षसास्त्वं निरायुधः।
कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम् ॥ ५.३७.५१ ॥

天空中有众多手持兵器的罗刹,而你却没有武器;你如何能够前行,并且保护我呢?

5.37.52

युध्यमानस्य रक्षोभिस्ततस्तैः क्रूरकर्मभिः।
प्रपतेयं हि ते पृष्ठाद् भयार्ता कपिसत्तम ॥ ५.३७.५२ ॥

那时,猴中之最啊,你与那些行事残暴的罗刹交战之时,我必因恐惧而从你背上坠落。

5.37.53

अथ रक्षांसि भीमानि महान्ति बलवन्ति च।
कथंचित् साम्पराये त्वां जयेयुः कपिसत्तम ॥ ५.३७.५३ ॥

那时,可怖、庞大而强壮的罗刹们或许会在战斗中以某种方式将你击败,猴中之最啊。

5.37.54

अथवा युध्यमानस्य पतेयं विमुखस्य ते।
पतितां च गृहीत्वा मां नयेयुः पापराक्षसाः ॥ ५.३७.५४ ॥

或者,你在作战时转过脸去,我便会坠落;而那些作恶的罗刹们将抓住倒地的我,把我带走。

5.37.55

मां वा हरेयुस्त्वद्धस्ताद् विशसेयुरथापि वा।
अनवस्थौ हि दृश्येते युद्धे जयपराजयौ ॥ ५.३७.५५ ॥

或者他们可能从你手中夺走我,或者将我杀害;因为在战斗中,胜负似乎是不确定的。

5.37.56

अहं वापि विपद्येयं रक्षोभिरभितर्जिता।
त्वत्प्रयत्नो हरिश्रेष्ठ भवेन्निष्फल एव तु ॥ ५.३७.५६ ॥

或者我自己被罗刹恐吓,也可能丧命;那样的话,猴中之上,你的努力就真的白费了。

5.37.57

कामं त्वमपि पर्याप्तो निहन्तुं सर्वराक्षसान्।
राघवस्य यशो हीयेत् त्वया शस्तैस्तु राक्षसैः ॥ ५.३७.५७ ॥

诚然,你也有能力杀尽所有罗刹;但若罗刹被你所杀,罗怙之子的荣耀便会减损。

5.37.58

अथवाऽऽदाय रक्षांसि न्यसेयुः संवृते हि माम्।
यत्र ते नाभिजानीयुर्हरयो नापि राघवः ॥ ५.३७.५८ ॥

或者罗刹们把我带走,安置在某个隐秘之处,那里猴子们甚至罗怙之子都无法认出我。

5.37.59

आरम्भस्तु मदर्थोऽयं ततस्तव निरर्थकः।
त्वया हि सह रामस्य महानागमने गुणः ॥ ५.३७.५९ ॥

这番行动只为了我;那样你的努力便是徒劳。因为罗摩与你一同前来,本身便是极大的益处。

5.37.60

मयि जीवितमायत्तं राघवस्यामितौजसः।
भ्रातॄणां च महाबाहो तव राजकुलस्य च ॥ ५.३७.६० ॥

无量威力的罗怙之子的性命系于我身,啊大臂者,他兄弟们的性命,也系于你王族的性命。

5.37.61

तौ निराशौ मदर्थं च शोकसंतापकर्शितौ।
सह सर्वर्क्षहरिभिस्त्यक्ष्यतः प्राणसंग्रहम् ॥ ५.३७.६१ ॥

因为我,他们二人失去希望,被悲痛与煎熬消磨殆尽,将与所有熊与猴子一同舍弃性命。

5.37.62

भर्तुर्भक्तिं पुरस्कृत्य रामादन्यस्य वानर।
नाहं स्प्रष्टुं स्वतो गात्रमिच्छेयं वानरोत्तम ॥ ५.३७.६२ ॥

猴子啊,我以对夫君的忠诚为先,绝不会自愿让除罗摩以外的任何人触碰我的身体,猴中之最啊。

5.37.63

यदहं गात्रसंस्पर्शं रावणस्य गता बलात्।
अनीशा किं करिष्यामि विनाथा विवशा सती ॥ ५.३७.६३ ॥

我被强行带入罗波那身体的接触之中,无力、无依、无助,身为贞洁之妇的我还能做什么呢?

5.37.64

यदि रामो दशग्रीवमिह हत्वा सराक्षसम्।
मामितो गृह्य गच्छेत तत् तस्य सदृशं भवेत् ॥ ५.३७.६४ ॥

若罗摩在此诛杀十首罗波那及其罗刹,将我从此带走,那便与他相称了。

5.37.65

श्रुताश्च दृष्टा हि मया पराक्रमा
महात्मनस्तस्य रणावमर्दिनः।
न देवगन्धर्वभुजङ्गराक्षसा
भवन्ति रामेण समा हि संयुगे ॥ ५.३७.६५ ॥

那位大德罗摩,是战场上摧毁敌人的英雄,我既听闻也亲眼见过他的威武。在战斗中,天神、乾达婆、蛇神与罗刹都无法与罗摩相比。

5.37.66

समीक्ष्य तं संयति चित्रकार्मुकं
महाबलं वासवतुल्यविक्रमम्।
सलक्ष्मणं को विषहेत राघवं
हुताशनं दीप्तमिवानिलेरितम् ॥ ५.३७.६६ ॥

谁能抵挡罗ghava?他在战场上持着奇妙的弓,力量强大,勇武堪比因陀罗,与罗什曼那同在,犹如被风吹动的熊熊烈火,谁能承受?

5.37.67

सलक्ष्मणं राघवमाजिमर्दनं
दिशागजं मत्तमिव व्यवस्थितम्।
सहेत को वानरमुख्य संयुगे
युगान्तसूर्यप्रतिमं शरार्चिषम् ॥ ५.३७.६७ ॥

与罗什曼那同在的罗怙王裔(罗摩),是摧毁军队的勇士,如发情的方位神象般屹立不动。猴王啊,谁能在战场上抵挡这位如劫末太阳、箭光炽烈的英雄?

5.37.68

स मे कपिश्रेष्ठ सलक्ष्मणं प्रियं
सयूथपं क्षिप्रमिहोपपादय।
चिराय रामं प्रति शोककर्शितां
कुरुष्व मां वानरवीर हर्षिताम् ॥ ५.३७.६८ ॥

猴中之最啊,请迅速把那位所爱之人带到这里,与罗什曼那及其众将领一同前来。猴中英雄啊,请使我欢喜吧,我因对罗摩的悲伤已久而消瘦憔悴。