蚁垤《罗摩衍那》 · 篇 5.38
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.38.1
ततः स कपिशार्दूलस्तेन वाक्येन तोषितः।
सीतामुवाच तच्छ्रुत्वा वाक्यं वाक्यविशारदः ॥ ५.३८.१ ॥
于是那猴中之虎,因她的话而欢喜,善于言辞的他听罢,对悉多说道。
5.38.2
युक्तरूपं त्वया देवि भाषितं शुभदर्शने।
सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च ॥ ५.३८.२ ॥
吉祥容貌的女神啊,你所说的恰当,符合女子的本性,也符合贤德女子的谦逊。
5.38.3
स्त्रीत्वान्न त्वं समर्थासि सागरं व्यतिवर्तितुम्।
मामधिष्ठाय विस्तीर्णं शतयोजनमायतम् ॥ ५.३८.३ ॥
因你是女子,你不能渡过这大海;但若骑在我身上,你便能越过这宽广绵长百由旬的海面。
5.38.4
द्वितीयं कारणं यच्च ब्रवीषि विनयान्विते।
रामादन्यस्य नार्हामि संसर्गमिति जानकि ॥ ५.३८.४ ॥
谦逊的悉多啊,你所说的第二个理由,即除了罗摩我不配与他人接触,也是恰当的。
5.38.5
एतत् ते देवि सदृशं पत्न्यास्तस्य महात्मनः।
का ह्यन्या त्वामृते देवि ब्रूयाद् वचनमीदृशम् ॥ ५.३८.५ ॥
女神啊,这与你这位大德之人的妻子相称。除了你,还有哪个女子会说出这样的话?
5.38.6
श्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतः।
चेष्टितं यत् त्वया देवि भाषितं च ममाग्रतः ॥ ५.३८.६ ॥
女神啊,那位迦古特斯塔家族的罗摩也将完整地听到你在我面前所做和所说的一切。
5.38.7
कारणैर्बहुभिर्देवि रामप्रियचिकीर्षया।
स्नेहप्रस्कन्नमनसा मयैतत् समुदीरितम् ॥ ५.३८.७ ॥
女神啊,出于诸多原因,为了让罗摩欢喜,心中充满深情,我说了这些话。
5.38.8
लङ्काया दुष्प्रवेशत्वाद् दुस्तरत्वान्महोदधेः।
सामर्थ्यादात्मनश्चैव मयैतत् समुदीरितम् ॥ ५.३८.८ ॥
因为楞伽难以进入,大海难以跨越,又因我自身的能力,我说了这些话。
5.38.9
इच्छामि त्वां समानेतुमद्यैव रघुनन्दिना।
गुरुस्नेहेन भक्त्या च नान्यथा तदुदाहृतम् ॥ ५.३८.९ ॥
我愿今日便带你去见罗摩,他是罗怙家族的喜悦。我这样说,只是出于深厚的情谊与虔诚,并无他意。
5.38.10
यदि नोत्सहसे यातुं मया सार्धमनिन्दिते।
अभिज्ञानं प्रयच्छ त्वं जानीयाद् राघवो हि यत् ॥ ५.३८.१० ॥
无可指责的女子啊,若你不愿与我同行,便请给我一个信物,好让罗ghava知道。
5.38.11
एवमुक्ता हनुमता सीता सुरसुतोपमा।
उवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम् ॥ ५.३८.११ ॥
哈奴曼如此说完,形如天神之女的悉多以低柔的声音,伴随着泪水哽咽的字句,说出了这番话。
5.38.12
इदं श्रेष्ठमभिज्ञानं ब्रूयास्त्वं तु मम प्रियम्।
शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे पदे ॥ ५.३८.१२ ॥
请把这个极好的信物告诉我的心上人:在七色山(奇德拉古陀山)的山脚下,东北方的那处地方。
5.38.13
तापसाश्रमवासिन्याः प्राज्यमूलफलोदके।
तस्मिन् सिद्धाश्रिते देशे मन्दाकिन्यविदूरतः ॥ ५.३८.१३ ॥
我居住在苦行者的修道院中,那里根茎、果实和水源丰富,在悉陀们常到的那个地方,离曼达基尼河不远。
5.38.14
तस्योपवनखण्डेषु नानापुष्पसुगन्धिषु।
विहृत्य सलिले क्लिन्नो ममाङ्के समुपाविशः ॥ ५.३८.१४ ॥
在那地方的园林中,充满各种花卉的芳香,你在水中嬉戏,湿漉漉地坐在我的膝上。
5.38.15
ततो मांससमायुक्तो वायसः पर्यतुण्डयत्।
तमहं लोष्टमुद्यम्य वारयामि स्म वायसम् ॥ ५.३८.१५ ॥
那只贪恋肉食的乌鸦便一次又一次地啄我。我举起一块土块,把那只乌鸦赶走了。
5.38.16
दारयन् स च मां काकस्तत्रैव परिलीयते।
न चाप्युपारमन्मांसाद् भक्षार्थी बलिभोजनः ॥ ५.३८.१६ ॥
它撕咬我之后就躲在那里,贪求食物,以祭品为食的它始终不肯放弃肉食。
5.38.17
उत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणे।
स्रंसमाने च वसने ततो दृष्टा त्वया ह्यहम् ॥ ५.३८.१७ ॥
当我对那只鸟愤怒之时,我的腰带被拉扯,衣裳滑落,那时你便看见了我。
5.38.18
त्वया विहसिता चाहं क्रुद्धा संलज्जिता तदा।
भक्ष्यगृद्धेन काकेन दारिता त्वामुपागता ॥ ५.३८.१८ ॥
那时你嘲笑我,我愤怒而羞愧。因那只贪食的乌鸦撕裂了我,我便来到你身边。
5.38.19
ततः श्रान्ताहमुत्सङ्गमासीनस्य तवाविशम्।
क्रुध्यन्तीव प्रहृष्टेन त्वयाहं परिसान्त्विता ॥ ५.३८.१९ ॥
于是我疲倦地躺在你坐着的膝上。虽然我似乎愤怒,你却欢欣地安慰了我。
5.38.20
बाष्पपूर्णमुखी मन्दं चक्षुषी परिमार्जती।
लक्षिताहं त्वया नाथ वायसेन प्रकोपिता ॥ ५.३८.२० ॥
我满面泪水,慢慢擦拭双眼,夫君,你看到我被乌鸦激怒了。
5.38.21
परिश्रमाच्च सुप्ता हे राघवाङ्केऽस्म्यहं चिरम्।
पर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः ॥ ५.३८.२१ ॥
因为疲倦,啊,罗揭婆,我在你的膝上睡了很久;轮流地,婆罗多的哥哥也在我膝上睡过。
5.38.22
स तत्र पुनरेवाथ वायसः समुपागमत्।
ततः सुप्तप्रबुद्धां मां राघवाङ्कात् समुत्थिताम्।
वायसः सहसागम्य विददार स्तनान्तरे ॥ ५.३८.२२ ॥
那只乌鸦又飞回了那里。那时我从睡梦中醒来,从罗揭婆的膝上起身,乌鸦忽然飞来,在我的双乳之间啄裂了我。
5.38.23
पुनः पुनरथोत्पत्य विददार स मां भृशम्।
ततः समुत्थितो रामो मुक्तैः शोणितबिन्दुभिः ॥ ५.३८.२३ ॥
随后它一次又一次地飞起,猛烈地撕咬我。于是罗摩起身,身上滴落着血珠。
5.38.24
स मां दृष्ट्वा महाबाहुर्वितुन्नां स्तनयोस्तदा।
आशीविष इव क्रुद्धः श्वसन् वाक्यमभाषत ॥ ५.३८.२४ ॥
大臂者看见我双乳受伤,像毒蛇一样愤怒,嘶嘶地喘息,说出了这些话。
5.38.25
केन ते नागनासोरु विक्षतं वै स्तनान्तरम्।
कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना ॥ ५.३८.२५ ॥
啊,你有如象鼻的大腿!是谁伤了你双乳之间?谁在愤怒中与五头毒蛇嬉戏?
5.38.26
वीक्षमाणस्ततस्तं वै वायसं समवैक्षत।
नखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम् ॥ ५.३८.२६ ॥
随后他环顾,看见那只乌鸦,带着沾血的利爪,就站在我的面前。
5.38.27
पुत्रः किल स शक्रस्य वायसः पततां वरः।
धरान्तरं गतः शीघ्रं पवनस्य गतौ समः ॥ ५.३८.२७ ॥
那只乌鸦,乃群鸟之首,确是因陀罗之子;其速如风,迅速飞入大地与天空之间。
5.38.28
ततस्तस्मिन् महाबाहुः कोपसंवर्तितेक्षणः।
वायसे कृतवान् क्रूरां मतिं मतिमतां वरः ॥ ५.३८.२८ ॥
于是这位大臂者、智者中的翘楚,怒目圆睁,对那只乌鸦定下了残酷的决心。
5.38.29
स दर्भसंस्तराद् गृह्य ब्रह्मणोऽस्त्रेण योजयत्।
स दीप्त इव कालाग्निर्जज्वालाभिमुखो द्विजम् ॥ ५.३८.२९ ॥
他从吉祥草床上取一根吉祥草,以梵天之箭加持;它如时间之火般燃烧,在那位“再生者”(鸟)面前熊熊燃起。
5.38.30
स तं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति।
ततस्तु वायसं दर्भः सोऽम्बरेऽनुजगाम ह ॥ ५.३८.३० ॥
他将那根燃烧的吉祥草投向那只乌鸦;于是吉祥草在天空中追逐乌鸦而去。
5.38.31
अनुसृष्टस्तदा काको जगाम विविधां गतिम्।
त्राणकाम इमं लोकं सर्वं वै विचचार ह ॥ ५.३८.३१ ॥
乌鸦被放出后,便以种种方式飞去;它寻求庇护,在整个世界中四处游荡。
5.38.32
स पित्रा च परित्यक्तः सर्वैश्च परमर्षिभिः।
त्रीँल्लोकान् सम्परिक्रम्य तमेव शरणं गतः ॥ ५.३८.३२ ॥
被父亲和所有大仙人抛弃后,他遍历三界,最终只向他寻求庇护。
5.38.33
स तं निपतितं भूमौ शरण्यः शरणागतम्।
वधार्हमपि काकुत्स्थः कृपया पर्यपालयत् ॥ ५.३८.३३ ॥
值得庇护的迦restha(罗摩)怜悯地保护了落在地上、前来求庇护的乌鸦,尽管它本该受死。
5.38.34
परिद्यूनं विवर्णं च पतमानं तमब्रवीत्।
मोघमस्त्रं न शक्यं तु ब्राह्मं कर्तुं तदुच्यताम् ॥ ५.३८.३४ ॥
对那已经疲惫、面色苍白、正在坠落的它,罗摩说:“梵天之箭不能白白落空;所以你说吧,现在该怎么办。”
5.38.35
ततस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम्।
दत्त्वा तु दक्षिणं नेत्रं प्राणेभ्यः परिरक्षितः ॥ ५.३८.३५ ॥
于是罗摩刺伤了乌鸦的右眼;它正是交出右眼,才得以保全性命。
5.38.36
स रामाय नमस्कृत्वा राज्ञे दशरथाय च।
विसृष्टस्तेन वीरेण प्रतिपेदे स्वमालयम् ॥ ५.३८.३६ ॥
向罗摩和国王十车王致敬后,被那位英雄释放,它回到了自己的住所。
5.38.37
मत्कृते काकमात्रेऽपि ब्रह्मास्त्रं समुदीरितम्।
कस्माद् यो माहरत् त्वत्तः क्षमसे तं महीपते ॥ ५.३८.३७ ॥
为了我,甚至对一只乌鸦也发出了梵天之箭。大地之主啊,你为何宽恕那个从你手中救下它的人?
5.38.38
स कुरुष्व महोत्साहां कृपां मयि नरर्षभ।
त्वया नाथवती नाथ ह्यनाथा इव दृश्यते ॥ ५.३८.३८ ॥
以巨大的热忱对我施以慈悲吧,人中之雄。主啊,虽然有你作我的庇护,我看起来却如同无依无靠之人。
5.38.39
आनृशंस्यं परो धर्मस्त्वत्त एव मया श्रुतम्।
जानामि त्वां महावीर्यं महोत्साहं महाबलम् ॥ ५.३८.३९ ॥
我正是从你那里听说,仁慈是至高的法。我知道你有大力、大勇与大能。
5.38.40
अपारवारमक्षोभ्यं गाम्भीर्यात् सागरोपमम्।
भर्तारं ससमुद्राया धरण्या वासवोपमम् ॥ ५.३८.४० ॥
无边无际,不可动摇,深邃如大海,是连同四海之地的主宰,如同因陀罗。
5.38.41
एवमस्त्रविदां श्रेष्ठो बलवान् सत्त्ववानपि।
किमर्थमस्त्रं रक्षःसु न योजयसि राघव ॥ ५.३८.४१ ॥
你如此精通武器,强大而有勇气,为何,罗怙之后啊,你不对罗刹使用你的兵器?
5.38.42
न नागा नापि गन्धर्वा न सुरा न मरुद्गणाः।
रामस्य समरे वेगं शक्ताः प्रतिसमीहितुम् ॥ ५.३८.४२ ॥
无论是龙蛇、乾闼婆、诸天,还是风神群,都无法在战场上抵挡罗摩的冲势。
5.38.43
तस्य वीर्यवतः कच्चिद् यद्यस्ति मयि सम्भ्रमः।
किमर्थं न शरैस्तीक्ष्णैः क्षयं नयति राक्षसान् ॥ ५.३८.४३ ॥
若那位勇士对我稍有挂念,为何不以利箭消灭罗刹?
5.38.44
भ्रातुरादेशमादाय लक्ष्मणो वा परंतपः।
कस्य हेतोर्न मां वीरः परित्राति महाबलः ॥ ५.३८.४४ ॥
或者,那位灼烧敌人的英雄罗什曼那,既已领受兄长的命令,身具大力,为何不保护我?
5.38.45
यदि तौ पुरुषव्याघ्रौ वाय्विन्द्रसमतेजसौ।
सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः ॥ ५.३८.४५ ॥
若那两位人中虎豹,光辉堪比风神与因陀罗,连诸天也难以抵挡,却为何轻忽我?
5.38.46
ममैव दुष्कृतं किंचिन्महदस्ति न संशयः।
समर्थावपि तौ यन्मां नावेक्षेते परंतपौ ॥ ५.३८.४६ ॥
毫无疑问,必是我有某种大过错,那两位灼敌的英雄虽有能力,却不看顾我。
5.38.47
वैदेह्या वचनं श्रुत्वा करुणं साश्रु भाषितम्।
अथाब्रवीन्महातेजा हनूमान् हरियूथपः ॥ ५.३८.४७ ॥
闻毗提诃之悲切泣语,大光明之猴群主哈努曼于是言道。
5.38.48
त्वच्छोकविमुखो रामो देवि सत्येन ते शपे।
रामे दुःखाभिपन्ने तु लक्ष्मणः परितप्यते ॥ ५.३८.४८ ॥
女神啊,我以真实向你起誓:罗摩并非不顾你的悲伤,他正陷于忧苦;罗摩陷于忧苦之时,罗什曼那也备受煎熬。
5.38.49
कथंचिद् भवती दृष्टा न कालः परिशोचितुम्।
इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यसि शोभने ॥ ५.३८.४९ ॥
我总算见到了您;此时不是悲叹的时候。光彩照人的夫人啊,此刻您便将见到苦难的终结。
5.38.50
तावुभौ पुरुषव्याघ्रौ राजपुत्रौ महाबलौ।
त्वद्दर्शनकृतोत्साहौ लोकान् भस्मीकरिष्यतः ॥ ५.३८.५० ॥
那两位,人中之虎,大力王子,因渴望见到您而奋发,将使诸世界化为灰烬。
5.38.51
हत्वा च समरक्रूरं रावणं सहबान्धवम्।
राघवस्त्वां विशालाक्षि स्वां पुरीं प्रति नेष्यति ॥ ५.३८.५१ ॥
宽目的夫人啊,罗怙之后在战中杀死残暴的罗波那及其亲族后,将送您回到您自己的城市。
5.38.52
ब्रूहि यद् राघवो वाच्यो लक्ष्मणश्च महाबलः।
सुग्रीवो वापि तेजस्वी हरयो वा समागताः ॥ ५.३८.५२ ॥
把应当转告罗怙之后的话说给他听;也说给大力的罗什曼那、光辉的须羯哩婆,或在此聚集的猴众听。
5.38.53
इत्युक्तवति तस्मिंश्च सीता पुनरथाब्रवीत्।
कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी ॥ ५.३८.५३ ॥
他如此说完后,悉多又说起了高尚的憍萨厘雅——她生下了诸世界之主。
5.38.54
तं ममार्थे सुखं पृच्छ शिरसा चाभिवादय।
स्रजश्च सर्वरत्नानि प्रियायाश्च वराङ्गनाः ॥ ५.३८.५४ ॥
替我问候他的安好,并低头向他致敬;再把花环、一切珠宝,以及我所爱者身边的优秀女子也送去。
5.38.55
ऐश्वर्यं च विशालायां पृथिव्यामपि दुर्लभम्।
पितरं मातरं चैव सम्मान्याभिप्रसाद्य च ॥ ५.३८.५५ ॥
罗什曼那在广阔大地上也罕有的权势面前,敬重并慰悦了父母之后,舍弃了它。
5.38.56
अनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः।
आनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम् ॥ ५.३८.५६ ॥
随从罗摩的那位,使须弥扇娜生下了好儿子;这位正直的人舍弃了至上的安乐。
5.38.57
अनुगच्छति काकुत्स्थं भ्रातरं पालयन् वने।
सिंहस्कन्धो महाबाहुर्मनस्वी प्रियदर्शनः ॥ ५.३८.५७ ॥
他在林中守护兄长,随从迦古特斯塔家族的罗摩;肩如狮子,臂膀有力,心志高远,令人见之喜悦。
5.38.58
पितृवद् वर्तते रामे मातृवन्मां समाचरत्।
ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः ॥ ५.३८.५८ ॥
他对待罗摩如父,对待我如母;可是当我被掳走时,那位英雄罗什曼那并不认得我。
5.38.59
वृद्धोपसेवी लक्ष्मीवान् शक्तो न बहुभाषिता।
राजपुत्रप्रियश्रेष्ठः सदृशः श्वशुरस्य मे ॥ ५.३८.५९ ॥
他侍奉长辈,有福且能干,不多言;是王子中最受爱戴者,与我的公公相似。
5.38.60
मत्तः प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः।
नियुक्तो धुरि यस्यां तु तामुद्वहति वीर्यवान् ॥ ५.३८.६० ॥
罗摩的兄弟罗什曼那,对我而言始终比我自己更亲;被委任的那份重担,由这位有力量的人承担。
5.38.61
यं दृष्ट्वा राघवो नैव वृत्तमार्यमनुस्मरत्।
स ममार्थाय कुशलं वक्तव्यो वचनान्मम ॥ ५.३८.६१ ॥
若他见到这人,罗怙王子甚至不会想起高尚的行为,请照我的话,替我向他问候平安。
5.38.62
मृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः।
यथा हि वानरश्रेष्ठ दुःखक्षयकरो भवेत् ॥ ५.३८.६२ ॥
罗什曼那始终温和、纯洁、能干,深受罗摩喜爱;猴中之最啊,愿他成为消除苦难之人。
5.38.63
त्वमस्मिन् कार्यनिर्वाहे प्रमाणं हरियूथप।
राघवस्त्वत्समारम्भान्मयि यत्नपरो भवेत् ॥ ५.३८.६३ ॥
猴群之主啊,完成此事你便是准绳;愿罗怙因你的开始而为我努力。
5.38.64
इदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः।
जीवितं धारयिष्यामि मासं दशरथात्मज ॥ ५.३८.६४ ॥
请向我的夫君、英勇的罗摩一再转告:十车王之子啊,我只能再撑一个月。
5.38.65
ऊर्ध्वं मासान्न जीवेयं सत्येनाहं ब्रवीमि ते।
रावणेनोपरुद्धां मां निकृत्या पापकर्मणा।
त्रातुमर्हसि वीर त्वं पातालादिव कौशिकीम् ॥ ५.३८.६५ ॥
我活不过一个月,这是实话告诉你。被罪人罗波那以诡计囚禁的我,英雄啊,你应当救我,正如从冥界救出考希基。
5.38.66
ततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम्।
प्रदेयो राघवायेति सीता हनुमते ददौ ॥ ५.३८.६६ ॥
于是,悉多从衣中取出神圣吉祥的冠宝,交给哈努曼,说道:“这应当交给罗怙。”
5.38.67
प्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम्।
अङ्गुल्या योजयामास नह्यस्य प्राभवद् भुजः ॥ ५.३८.६७ ॥
于是英雄接过这无与伦比的宝石,将它戴在手指上,因为他的手臂无法穿过它。
5.38.68
मणिरत्नं कपिवरः प्रतिगृह्याभिवाद्य च।
सीतां प्रदक्षिणं कृत्वा प्रणतः पार्श्वतः स्थितः ॥ ५.३८.६८ ॥
这只最优秀的猴子接过宝石,恭敬地向悉多致礼,右绕她一周,然后俯身站立在她身旁。
5.38.69
हर्षेण महता युक्तः सीतादर्शनजेन सः।
हृदयेन गतो रामं लक्ष्मणं च सलक्षणम् ॥ ५.३८.६९ ॥
因见到悉多而生的极大喜悦充满了他,他心中前往罗摩和罗什曼那那里。
5.38.70
मणिवरमुपगृह्य तं महार्हं
जनकनृपात्मजया धृतं प्रभावात्।
गिरिवरपवनावधूतमुक्तः
सुखितमनाः प्रतिसंक्रमं प्रपेदे ॥ ५.३८.७० ॥
他拿起那颗珍贵而殊胜的宝石——那是遮那王之女凭其威力所佩戴的,被最高山的风吹落而脱离——心中欢喜地返回了。