蚁垤《罗摩衍那》 · 篇 5.42
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.42.1
ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च।
बभूवुस्त्राससम्भ्रान्ताः सर्वे लङ्कानिवासिनः ॥ ५.४२.१ ॥
于是,鸟儿的啼叫与折断树木的声响,使楞伽城的所有居民惊恐不安。
5.42.2
विद्रुताश्च भयत्रस्ता विनेदुर्मृगपक्षिणः।
रक्षसां च निमित्तानि क्रूराणि प्रतिपेदिरे ॥ ५.४२.२ ॥
鹿与鸟惊恐奔逃,发出哀鸣;罗刹们察觉了可怖的凶兆。
5.42.3
ततो गतायां निद्रायां राक्षस्यो विकृताननाः।
तद् वनं ददृशुर्भग्नं तं च वीरं महाकपिम् ॥ ५.४२.३ ॥
睡意散去后,面目扭曲的罗刹女们看见那园林已被毁坏,也看见了那位英勇的大猴。
5.42.4
स ता दृष्ट्वा महाबाहुर्महासत्त्वो महाबलः।
चकार सुमहद्रूपं राक्षसीनां भयावहम् ॥ ५.४२.४ ॥
他见到她们,这位大臂、大勇、大力者便现出巨大的形体,令罗刹女们心生恐惧。
5.42.5
ततस्तु गिरिसंकाशमतिकायं महाबलम्।
राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम् ॥ ५.४२.५ ॥
于是罗刹女们见到这只身躯如山、大力无比的猴子,便向遮那伽之女发问。
5.42.6
कोऽयं कस्य कुतो वायं किंनिमित्तमिहागतः।
कथं त्वया सहानेन संवादः कृत इत्युत ॥ ५.४२.६ ॥
此人是谁?他属于谁?从何而来,为了何事来到此地?你又是如何与他交谈的?
5.42.7
आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम्।
संवादमसितापाङ्गि त्वया किं कृतवानयम् ॥ ५.४२.७ ॥
大眼睛的人啊,请告诉我们,吉祥的人啊,你不要害怕。黑眼角的人啊,他与你说了什么?
5.42.8
अथाब्रवीत् तदा साध्वी सीता सर्वाङ्गशोभना।
रक्षसां कामरूपाणां विज्ञाने का गतिर्मम ॥ ५.४२.८ ॥
于是全身美丽的贤德悉多说:“我怎能知道那些随意变化形体的罗刹呢?”
5.42.9
यूयमेवास्य जानीत योऽयं यद् वा करिष्यति।
अहिरेव ह्यहेः पादान् विजानाति न संशयः ॥ ५.४२.९ ॥
此人是谁,他将做什么,你们自己应当知道。蛇确实认得蛇的足迹,这毫无疑问。
5.42.10
अहमप्यतिभीतास्मि नैव जानामि को ह्ययम्।
वेद्मि राक्षसमेवैनं कामरूपिणमागतम् ॥ ५.४२.१० ॥
我也非常惊恐,不知道此人是谁。我只知道一个随意变化形体的罗刹来到了这里。
5.42.11
वैदेह्या वचनं श्रुत्वा राक्षस्यो विद्रुता द्रुतम्।
स्थिताः काश्चिद्गताः काश्चिद् रावणाय निवेदितुम् ॥ ५.४२.११ ॥
罗刹女们听了毗提诃的话,急忙逃散;有的站在那里,有的去向罗波那报告。
5.42.12
रावणस्य समीपे तु राक्षस्यो विकृताननाः।
विरूपं वानरं भीमं रावणाय न्यवेदिषुः ॥ ५.४२.१२ ॥
然而在罗波那面前,面目狰狞的罗刹女们向罗波那禀报了那只可怕、丑陋的猴子。
5.42.13
अशोकवनिकामध्ये राजन् भीमवपुः कपिः।
सीतया कृतसंवादस्तिष्ठत्यमितविक्रमः ॥ ५.४२.१३ ॥
大王啊,在无忧林中央,站着那只身形可怖、勇武无量的猴子,它刚与悉多交谈过。
5.42.14
न च तं जानकी सीता हरिं हरिणलोचना।
अस्माभिर्बहुधा पृष्टा निवेदयितुमिच्छति ॥ ५.४२.१४ ॥
鹿眼的悉多·遮纳吉,尽管我们多次询问,却不愿透露关于那只猴子的任何事。
5.42.15
वासवस्य भवेद् दूतो दूतो वैश्रवणस्य वा।
प्रेषितो वापि रामेण सीतान्वेषणकाङ्क्षया ॥ ५.४२.१५ ॥
他或许是因陀罗的使者,或许是俱毗罗的使者;或者是罗摩出于寻找悉多的愿望而派遣来的。
5.42.16
तेनैवाद्भुतरूपेण यत्तत्तव मनोहरम्।
नानामृगगणाकीर्णं प्रमृष्टं प्रमदावनम् ॥ ५.४२.१६ ॥
正是那位形貌奇异者,彻底摧毁了你那令人欢喜的游乐园,园中满是成群的野兽与鹿。
5.42.17
न तत्र कश्चिदुद्देशो यस्तेन न विनाशितः।
यत्र सा जानकी देवी स तेन न विनाशितः ॥ ५.४२.१७ ॥
那里没有一处不被他毁坏的地方;唯独女神遮纳吉所在之处,他未曾毁坏。
5.42.18
जानकीरक्षणार्थं वा श्रमाद् वा नोपलक्ष्यते।
अथवा कः श्रमस्तस्य सैव तेनाभिरक्षिता ॥ ५.४२.१८ ॥
不知这是为了守护遮纳吉,还是因为疲倦;或者他又有何疲倦?她本身正由他守护着。
5.42.19
चारुपल्लवपत्राढ्यं यं सीता स्वयमास्थिता।
प्रवृद्धः शिंशपावृक्षः स च तेनाभिरक्षितः ॥ ५.४२.१९ ॥
那棵枝叶繁茂、嫩芽美丽的大舍利波树,悉多曾亲自坐在它下面;而他曾守护着它。
5.42.20
तस्योग्ररूपस्योग्रं त्वं दण्डमाज्ञातुमर्हसि।
सीता सम्भाषिता येन वनं तेन विनाशितम् ॥ ५.४२.२० ॥
你应当为那形貌凶猛之人下达严厉的惩罚命令——是他与悉多说话,也是他毁坏了园林。
5.42.21
मनःपरिगृहीतां तां तव रक्षोगणेश्वर।
कः सीतामभिभाषेत यो न स्यात् त्यक्तजीवितः ॥ ५.४२.२१ ॥
罗刹众的主君啊!您心中所爱的悉多,谁会去与她说话,除非他已舍弃了性命?
5.42.22
राक्षसीनां वचः श्रुत्वा रावणो राक्षसेश्वरः।
चिताग्निरिव जज्वाल कोपसंवर्तितेक्षणः ॥ ५.४२.२२ ॥
罗刹女们的话传入耳中,罗刹之王罗波那如葬火般燃烧起来,怒气使他的双眼转动不停。
5.42.23
तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः।
दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः ॥ ५.४२.२३ ॥
这位暴怒者的眼中滴下泪珠,如同两盏燃烧的灯里,连同火焰一起滴下的油珠。
5.42.24
आत्मनः सदृशान् वीरान् किंकरान्नाम राक्षसान्।
व्यादिदेश महातेजा निग्रहार्थं हनूमतः ॥ ५.४२.२४ ॥
这位大光辉者命令与自己同样勇猛的罗刹——名为“供役者”(Kiṃkara)的——去擒拿哈努曼。
5.42.25
तेषामशीतिसाहस्रं किंकराणां तरस्विनाम्।
निर्ययुर्भवनात् तस्मात् कूटमुद्गरपाणयः ॥ ५.४२.२५ ॥
八万名迅捷的侍从罗刹(Kiṅkara)手持铁棍与铁锤,从那座宫殿中冲了出来。
5.42.26
महोदरा महादंष्ट्रा घोररूपा महाबलाः।
युद्धाभिमनसः सर्वे हनूमद्ग्रहणोन्मुखाः ॥ ५.४२.२६ ॥
他们腹大牙长,形貌可怖,力量强大,心意专注于战斗,全都急于擒获哈努曼。
5.42.27
ते कपिं तं समासाद्य तोरणस्थमवस्थितम्।
अभिपेतुर्महावेगाः पतंगा इव पावकम् ॥ ५.४२.२७ ॥
他们来到站在门楼上的那只猴子身边,这些迅猛的罗刹如飞蛾扑火般向他猛扑过去。
5.42.28
ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः।
आजग्मुर्वानरश्रेष्ठं शरैरादित्यसंनिभैः ॥ ५.४२.२८ ॥
他们手持形状各异的铁棍、饰有金臂钏的铁槊和光辉如太阳的箭矢,朝那位猴中之王逼近。
5.42.29
मुद्गरैः पट्टिशैः शूलैः प्रासतोमरपाणयः।
परिवार्य हनूमन्तं सहसा तस्थुरग्रतः ॥ ५.४२.२९ ॥
他们手持铁锤、双刃剑、长矛,以及投枪与长枪,包围了哈努曼,突然站到他的面前。
5.42.30
हनूमानपि तेजस्वी श्रीमान् पर्वतसंनिभः।
क्षितावाविद्ध्य लाङ्गूलं ननाद च महाध्वनिम् ॥ ५.४२.३० ॥
光辉灿烂的哈努曼也如山岳般屹立不动,他将尾巴击打在地面上,发出一声巨大的吼叫。
5.42.31
स भूत्वा तु महाकायो हनूमान् मारुतात्मजः।
पुच्छमास्फोटयामास लङ्कां शब्देन पूरयन् ॥ ५.४२.३१ ॥
摩如之子哈努曼化为巨大之身,甩动尾巴,以其声响充满了楞伽城。
5.42.32
तस्यास्फोटितशब्देन महता चानुनादिना।
पेतुर्विहङ्गा गगनादुच्चैश्चेदमघोषयत् ॥ ५.४२.३२ ॥
在那巨大回响的击打声中,飞鸟从天空坠落,他高声宣告了这番话。
5.42.33
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः।
राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ ५.४२.३३ ॥
威力无比的罗摩得胜,大力的罗什曼那也得胜;受罗怙之子庇护的国王须羯哩婆也得胜!
5.42.34
दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः।
हनूमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः ॥ ५.४२.३४ ॥
我是科萨拉之主罗摩的仆人,他的功业永不疲倦。我是摩如之子哈努曼,敌军的歼灭者。
5.42.35
न रावणसहस्रं मे युद्धे प्रतिबलं भवेत्।
शिलाभिश्च प्रहरतः पादपैश्च सहस्रशः ॥ ५.४२.३५ ॥
若论战斗,即便千个罗波那也不能与我匹敌,因为我以岩石和树木千次击打他们。
5.42.36
अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम्।
समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ॥ ५.४२.३६ ॥
我将摧毁楞伽城,向迈提利致敬,在所有罗刹的注视下,功成而去。
5.42.37
तस्य संनादशब्देन तेऽभवन् भयशङ्किताः।
ददृशुश्च हनूमन्तं संध्यामेघमिवोन्नतम् ॥ ५.४२.३७ ॥
听到他吼声的响动,他们惊恐不安,看见哈努曼高耸矗立,如同傍晚的云。
5.42.38
स्वामिसंदेशनिःशङ्कास्ततस्ते राक्षसाः कपिम्।
चित्रैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः ॥ ५.४२.३८ ॥
于是,罗刹们因主人的命令而无所畏惧,用各式各样可怖的兵器从四面八方攻击那只猴子。
5.42.39
स तैः परिवृतः शूरैः सर्वतः स महाबलः।
आससादायसं भीमं परिघं तोरणाश्रितम् ॥ ५.४२.३९ ॥
那位大力者被那些勇猛的罗刹从四面包围,便抓起靠在门楼旁的可怖铁杵(parigha)。
5.42.40
स तं परिघमादाय जघान रजनीचरान्।
सपन्नगमिवादाय स्फुरन्तं विनतासुतः ॥ ५.४२.४० ॥
他手持那根铁杵击倒了夜行的罗刹,如同毗娜塔之子迦楼罗抓住扭动的大蛇将其杀死一般。
5.42.41
विचचाराम्बरे वीरः परिगृह्य च मारुतिः।
सूदयामास वज्रेण दैत्यानिव सहस्रदृक् ॥ ५.४२.४१ ॥
这位英雄风之子在空中飞翔,手持那根铁杵,杀戮罗刹,如同千眼因陀罗以金刚杵诛灭阿修罗一般。
5.42.42
स हत्वा राक्षसान् वीरः किंकरान् मारुतात्मजः।
युद्धाकाङ्क्षी महावीरस्तोरणं समवस्थितः ॥ ५.४२.४२ ॥
这位风之子英雄杀死了那些罗刹侍从,渴望战斗,这位大英雄便立于门楼之前。
5.42.43
ततस्तस्माद् भयान्मुक्ताः कतिचित्तत्र राक्षसाः।
निहतान् किंकरान् सर्वान् रावणाय न्यवेदयन् ॥ ५.४२.४३ ॥
于是,几名从那恐惧中逃脱的罗刹向罗波那禀报,所有侍从都已被杀。
5.42.44
स राक्षसानां निहतं महाबलं
निशम्य राजा परिवृत्तलोचनः।
समादिदेशाप्रतिमं पराक्रमे
प्रहस्तपुत्रं समरे सुदुर्जयम् ॥ ५.४२.४४ ॥
罗波那听闻罗刹的强大军队已被消灭,怒目圆睁,命令在武勇上无与伦比、在战场上极难战胜的普拉哈斯塔之子。