Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 5.43

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.43.1

ततः स किंकरान् हत्वा हनूमान् ध्यानमास्थितः।
वनं भग्नं मया चैत्यप्रासादो न विनाशितः ॥ ५.४३.१ ॥

于是,杀死侍从之后,哈努曼陷入沉思:“我已毁了园林,但神庙宫殿尚未摧毁。”

5.43.3

तस्मात् प्रासादमद्यैवमिमं विध्वंसयाम्यहम्।
चैत्यप्रासादमुत्प्लुत्य मेरुशृङ्गमिवोन्नतम्।
आरुरोह हरिश्रेष्ठो हनूमान् मारुतात्मजः ॥ ५.४३.३ ॥

“因此今天我要摧毁这座宫殿!”说罢,猴中之最、风神之子哈努曼跃起,攀上这座高如须弥山峰的神庙宫殿。

5.43.4

आरुह्य गिरिसंकाशं प्रासादं हरियूथपः।
बभौ स सुमहातेजाः प्रतिसूर्य इवोदितः ॥ ५.४३.४ ॥

他登上这座如山的宫殿,猴军统帅、大威光的哈努曼闪耀如同新升起的第二个太阳。

5.43.5

सम्प्रधृष्य तु दुर्धर्षश्चैत्यप्रासादमुन्नतम्।
हनूमान् प्रज्वलँल्लक्ष्म्या पारियात्रोपमोऽभवत् ॥ ५.४३.५ ॥

他冲击那座高耸的神庙宫殿,无敌的哈努曼光辉熠熠,宛如波利耶多罗树。

5.43.6

स भूत्वा सुमहाकायः प्रभावान् मारुतात्मजः।
धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन् ॥ ५.४३.६ ॥

他化作极为庞大的身躯,威力非凡的风神之子无畏地拍打双臂,以声响充满了楞伽城。

5.43.7

तस्यास्फोटितशब्देन महता श्रोत्रघातिना।
पेतुर्विहंगमास्तत्र चैत्यपालाश्च मोहिताः ॥ ५.४३.७ ॥

他拍掌的巨大震耳之声中,那里的飞鸟纷纷坠落,神庙的守卫也都惊昏了。

5.43.8

अस्त्रविज्जयतां रामो लक्ष्मणश्च महाबलः।
राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ ५.४३.८ ॥

愿精通武器的罗摩和大力的罗什曼那获胜!愿受罗ghava庇护的国王须羯哩婆获胜!

5.43.9

दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः।
हनूमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः ॥ ५.४३.९ ॥

我是科萨拉之主罗摩的仆人,他的功业永不疲倦。我是哈奴曼,敌军的摧毁者,风神之子。

5.43.10

न रावणसहस्रं मे युद्धे प्रतिबलं भवेत्।
शिलाभिश्च प्रहरतः पादपैश्च सहस्रशः ॥ ५.४३.१० ॥

在战斗中,即使千个罗波那也不能与我匹敌,因我将以岩石和树木成千上万地攻击他们。

5.43.11

धर्षयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम्।
समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ॥ ५.४३.११ ॥

攻破楞伽城并向迈提利致敬之后,我将在所有罗刹眼前完成使命而归去。

5.43.12

एवमुक्त्वा महाकायश्चैत्यस्थो हरियूथपः।
ननाद भीमनिर्ह्रादो रक्षसां जनयन् भयम् ॥ ५.४३.१२ ॥

说完这些,立于祭坛之上的巨身猴群之主发出可怕的吼声,使罗刹们心生恐惧。

5.43.13

तेन नादेन महता चैत्यपालाः शतं ययुः।
गृहीत्वा विविधानस्त्रान् प्रासान् खड्गान् परश्वधान् ॥ ५.४३.१३ ॥

听到那巨大的吼声,一百名祭坛守卫冲上前去,手持各式兵器:长矛、刀剑和战斧。

5.43.14

विसृजन्तो महाकाया मारुतिं पर्यवारयन्।
ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः ॥ ५.४३.१४ ॥

身形巨大的罗刹包围了哈努曼,向他投掷华丽的铁棒、铁杵与饰有金臂环的兵器。

5.43.15

आजग्मुर्वानरश्रेष्ठं बाणैश्चादित्यसंनिभैः।
आवर्त इव गङ्गायास्तोयस्य विपुलो महान् ॥ ५.४३.१५ ॥

他们以如太阳般耀目的箭射向猿中最杰出者,如同恒河水中升起的巨大漩涡。

5.43.16

परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः।
ततो वातात्मजः क्रुद्धो भीमरूपं समास्थितः ॥ ५.४३.१६ ॥

罗刹众围住猿中最杰出者,显得威势赫赫。于是愤怒的风之子现出了可怖的形象。

5.43.17

प्रासादस्य महांस्तस्य स्तम्भं हेमपरिष्कृतम्।
उत्पाटयित्वा वेगेन हनूमान् मारुतात्मजः ॥ ५.४३.१७ ॥

于是风之子哈努曼迅速从宫殿上拔起一根饰有黄金的大柱。

5.43.18

ततस्तं भ्रामयामास शतधारं महाबलः।
तत्र चाग्निः समभवत् प्रासादश्चाप्यदह्यत ॥ ५.४३.१८ ॥

于是这位大力者挥动那根百棱之柱,火便在那里燃起,宫殿也烧了起来。

5.43.19

दह्यमानं ततो दृष्ट्वा प्रासादं हरियूथपः।
स राक्षसशतं हत्वा वज्रेणेन्द्र इवासुरान् ॥ ५.४३.१९ ॥

猴群的统帅见宫殿燃烧,便杀死了一百名罗刹,如同因陀罗以金刚杵击杀阿修罗。

5.43.20

अन्तरिक्षस्थितः श्रीमानिदं वचनमब्रवीत्।
मादृशानां सहस्राणि विसृष्टानि महात्मनाम् ॥ ५.४३.२० ॥

立于空中的光辉者说道:像我这样的大德者已派遣了成千上万。

5.43.21

बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम्।
अटन्ति वसुधां कृत्स्नां वयमन्ये च वानराः ॥ ५.४३.२१ ॥

我们这些听命于须羯哩婆的强大猴王,以及其他猴子,遍行整个大地。

5.43.22

दशनागबलाः केचित् केचिद् दशगुणोत्तराः।
केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ॥ ५.४३.२२ ॥

有的力如十象,有的超过其十倍,还有的勇力与千象相等。

5.43.23

सन्ति चौघबलाः केचित् सन्ति वायुबलोपमाः।
अप्रमेयबलाः केचित् तत्रासन् हरियूथपाः ॥ ५.४३.२३ ॥

有的力如洪流,有的与风力相当,还有的力量不可限量——那里便有这样的猴群统领。

5.43.24

ईदृग्विधैस्तु हरिभिर्वृतो दन्तनखायुधैः।
शतैः शतसहस्रैश्च कोटिभिश्चायुतैरपि ॥ ५.४३.२४ ॥

被这样以牙齿和爪子为武器的猴子所环绕——数以百计、十万、千万、万万——须羯哩婆将会到来。

5.43.25

आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः।
नेयमस्ति पुरी लङ्का न यूयं न च रावणः।
यस्य त्विक्ष्वाकुवीरेण बद्धं वैरं महात्मना ॥ ५.४३.२५ ॥

消灭你们所有人的须羯哩婆将会到来。这座楞伽城并不相干,你们也不相干,罗波那也不相干——与伊刹婆诸王中的英雄大德结下仇怨的,才是那个人。