蚁垤《罗摩衍那》 · 篇 5.44
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.44.1
संदिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली ।
जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः ॥ ५.४४.१ ॥
奉罗刹王之命,普腊诃斯塔之子、力大的jambumālī,獠牙粗大的弓手,出发了。
5.44.2
रक्तमाल्याम्बरधरः स्रग्वी रुचिरकुण्डलः ।
महान् विवृत्तनयनश्चण्डः समरदुर्जयः ॥ ५.४४.२ ॥
身着红衣,佩戴红花环,花环装饰,耳饰光亮,身材高大,双目圆睁,凶猛,战场上不可战胜。
5.44.3
धनुः शक्रधनुःप्रख्यं महद्रुचिरसायकम् ।
विस्फारयानो वेगेन वज्राशनिसमस्वनम् ॥ ५.४४.३ ॥
迅速拉开一张如因陀罗之弓(彩虹)般的大弓,其弦声如雷electrical霹雳,手持光亮的箭。
5.44.4
तस्य विस्फारघोषेण धनुषो महता दिशः ।
प्रदिशश्च नभश्चॆव सहसा समपूर्यत ॥ ५.४४.४ ॥
他拉弓的巨大弦声,瞬间充满了四方、四隅与天空。
5.44.5
रथेन खरयुक्तेन तमागतमुदीक्ष्य सः ।
हनुमान् वेगसंपन्नो जहर्ष च ननाद च ॥ ५.४४.५ ॥
看见他乘坐驴拉的战车而来,迅捷的哈努曼欣喜若狂,并发出吼声。
5.44.6
तं तोरणविटङ्कस्थं हनुमन्तं महाकपिम् ।
जम्बुमाली महाबाहुर्विव्याध निशितैः शरैः ॥ ५.४४.६ ॥
臂力强大的jambumālī,以利箭射向站在门楼栏杆上的大猴哈努曼。
5.44.7
अर्धचन्द्रेण वदने शिरस्येकेन कर्णिना ।
बाह्वोर्विव्याध नाराचैर्दशभिस्तं कपीश्वरम् ॥ ५.४४.७ ॥
他以半月形箭射中面部,以一支带倒钩的箭射中头部,又以十支铁箭射中双臂,刺伤了这位猴王。
5.44.8
तस्य तच्छुशुभे ताम्रं शरेणाभिहतं मुखम् ।
शरदीवाम्बुजम्फुल्लं विद्धं भास्कररश्मिना ॥ ५.४४.८ ॥
他被箭射中的泛红面庞,闪耀如秋日里被阳光穿透的盛开莲花。
5.44.9
तत्तस्य रक्तं रक्तेन रञ्जितं शुशुभे मुखम् ।
यथाकाशे महापद्मं सिक्तं चन्दनबिन्दुभिः ॥ ५.४४.९ ॥
他被鲜血染红的面庞,闪耀如天空中的大莲花,洒满了檀香的水滴。
5.44.10
चुकोप बाणाभिहतो राक्षसस्य महाकपिः ।
ततः पार्श्वेतिविपुलां ददर्श महतीं शिलाम् ॥ ५.४४.१० ॥
这只大猴被罗刹的箭射中,勃然大怒。随后他看见旁边有一块极其宽大的巨石。
5.44.11
तरसा तां समुत्पाट्य चिक्षेप बलवद्बली ।
तां शरैर्दशभिः क्रुद्धस्ताडयामास राक्षसः ॥ ५.४४.११ ॥
那强者用力拔起巨石投掷而出。愤怒的罗刹以十支箭射向它。
5.44.12
विपन्नं कर्म तद्दृष्ट्वा हनुमांश्चण्डविक्रमः ।
सालं विपुलमुत्पाट्य भ्रामयामास वीर्यवान् ॥ ५.४४.१२ ॥
哈奴曼见自己的举动失败,凭着猛烈的勇力拔起一棵巨大的沙罗树并挥舞起来,因为他力量无穷。
5.44.13
भ्रामयन्तं कपिं दृष्ट्वा सालवृक्षं महाबलम् ।
चिक्षेप सुबहून् बाणान् जम्बुमाली महाबलः ॥ ५.४४.१३ ॥
jambumālī 见猿猴挥舞强大的娑罗树,便射出无数箭矢。
5.44.14
सालं चतुर्भिश्चिच्छेद वानरं पञ्चभिर्भुजे ।
शिरस्येकेन बाणेन दशभिस्तु स्तनान्तरे ॥ ५.४४.१४ ॥
他以四支箭斩断娑罗树;以五支箭射中猿猴的臂膀,以一支箭射中头部,以十支箭射中两乳之间。
5.44.15
स शरैः पूरिततनुः क्रोधेन महता वृतः ।
तमेव परिघं गृह्य भ्रामयामास वेगतः ॥ ५.४४.१५ ॥
他身上插满箭矢,被大怒所包围,便拿起那根铁杵,迅速地挥舞起来。
5.44.16
अतिवेगोतिवेगेन भ्रामयित्वा बलोत्कटः ।
परिघं पातयामास जम्बुमालेर्महोरसि ॥ ५.४४.१६ ॥
他以极快的速度挥舞,将铁杵猛然砸向 jambumālī 宽阔的胸膛。
5.44.17
तस्य चैव शिरो नास्ति न बाहू न च जानुनी ।
न धनुर्नरथो नाश्वास्तत्रादृश्यन्त नेषवः ॥ ५.४४.१७ ॥
他的头、臂、膝都已不在;弓、车、马、箭也都不见踪影。
5.44.18
स हतस्तरसा तेन जम्बुमाली महाबलः ।
पपात निहतो भूवौ चूर्णिताङ्गविभूषणः ॥ ५.४४.१८ ॥
被那铁杵猛力击中,强大的 jambumālī 死去倒地,肢体与饰物都碎裂了。
5.44.19
जम्बुमालिं च निहतं किङ्करांश्च महाबलान् ।
चुक्रोध रावणः श्रुत्वा कोपसंरक्त लोचनः ॥ ५.४४.१९ ॥
罗波那听说遂部摩利及众大力侍从被杀,怒火中烧,双目因愤怒而通红。
5.44.20
स रोषसंवर्तितताम्रलोचनः
प्रहस्त पुत्रे निहते महाबले ।
अमात्यपुत्रानतिवीर्यविक्रमान्
समादिदेशाशु निशाचरेश्वरः ॥ ५.४४.२० ॥
普拉哈斯塔的大力之子被杀后,夜行者之主怒目赤如铜,立即下令那些英勇无比的大臣之子出战。