蚁垤《罗摩衍那》 · 篇 5.46
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.46.1
हतान् मन्त्रिसुतान् बुद्ध्वा वानरेण महात्मना।
रावणः संवृताकारश्चकार मतिमुत्तमाम् ॥ ५.४६.१ ॥
罗波那得知大心猴子杀死了大臣之子,便隐藏了自己的形貌,作出了最高明的决定。
5.46.2
स विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसम्।
प्रघसं भासकर्णं च पञ्च सेनाग्रनायकान् ॥ ५.४६.२ ॥
他命令军队前锋的五位统领:毗卢波叉、由波叉、罗刹杜尔达罗、普拉伽萨和跋萨羯尔那。
5.46.3
संदिदेश दशग्रीवो वीरान् नयविशारदान्।
हनूमद्ग्रहणेऽव्यग्रान् वायुवेगसमान् युधि ॥ ५.४६.३ ॥
十首罗波那命令那些精通谋略、捉拿哈努曼时毫不动摇、战场上速度如风的勇士。
5.46.4
यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः।
सवाजिरथमातङ्गाः स कपिः शास्यतामिति ॥ ५.४६.४ ॥
'你们这些走在军阵前列的人,都带上庞大的兵力,连同马、车和象一起去吧;要惩罚那只猴子。'
5.46.5
यत्तैश्च खलु भाव्यं स्यात् तमासाद्य वनालयम्।
कर्म चापि समाधेयं देशकालाविरोधितम् ॥ ५.४६.५ ॥
到达那位林居者之处,必须谨慎行事,所行之事也须安排得与地点和时机相合。
5.46.6
न ह्यहं तं कपिं मन्ये कर्मणा प्रति तर्कयन्।
सर्वथा तन्महद् भूतं महाबलपरिग्रहम् ॥ ५.४६.६ ॥
据他的所作所为来推断,我不认为那只猴子是寻常之辈;他各方面都是拥有大力的伟大存在。
5.46.7
वानरोऽयमिति ज्ञात्वा नहि शुद्ध्यति मे मनः।
नैवाहं तं कपिं मन्ये यथेयं प्रस्तुता कथा ॥ ५.४६.७ ॥
虽知此为猴子,我心仍不安定。我并不认为那只猴子如所说之事那般。
5.46.8
भवेदिन्द्रेण वा सृष्टमस्मदर्थं तपोबलात्।
सनागयक्षगन्धर्वदेवासुरमहर्षयः ॥ ५.४६.८ ॥
这或许是因因陀罗,或因苦行之力,为我们而派来的,与龙、夜叉、乾闼婆、天神、阿修罗及大仙同来。
5.46.9
युष्माभिः प्रहितैः सर्वैर्मया सह विनिर्जिताः।
तैरवश्यं विधातव्यं व्यलीकं किंचिदेव नः ॥ ५.४६.९ ॥
你们所派遣的所有人,都已与我一同被战胜;他们必定会对我们造成某种伤害。
5.46.10
तदेव नात्र संदेहः प्रसह्य परिगृह्यताम्।
यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः ॥ ५.४६.१० ॥
正是如此,毫无疑问;让人强行将他擒住。你们这些走在军队前列的大力伙伴们,都去吧。
5.46.11
सवाजिरथमातङ्गाः स कपिः शास्यतामिति।
नावमन्यो भवद्भिश्च कपिर्धीरपराक्रमः ॥ ५.४६.११ ॥
让骑兵、战车与象军一同去惩治那只猴子。你们不可轻视那只猴子,他是有坚定勇武的。
5.46.12
दृष्टा हि हरयः पूर्वे मया विपुलविक्रमाः।
वाली च सह सुग्रीवो जाम्बवांश्च महाबलः ॥ ५.४६.१२ ॥
我先前已见过大有威力的猴族:波利与须羯里婆同在,还有大力的遮婆跋汗。
5.46.13
नीलः सेनापतिश्चैव ये चान्ये द्विविदादयः।
नैव तेषां गतिर्भीमा न तेजो न पराक्रमः ॥ ५.४६.१३ ॥
统帅那罗以及双毗陀等其他猴将,其行动并不可怖,其光辉与勇力也不见其盛。
5.46.14
न मतिर्न बलोत्साहो न रूपपरिकल्पनम्।
महत्सत्त्वमिदं ज्ञेयं कपिरूपं व्यवस्थितम् ॥ ५.४६.१४ ॥
这不是智慧,不是力量与勇气,也不是变化形体;应当知道这是大力量,安住于猴子之形。
5.46.15
प्रयत्नं महदास्थाय क्रियतामस्य निग्रहः।
कामं लोकास्त्रयः सेन्द्राः ससुरासुरमानवाः ॥ ५.४६.१५ ॥
应当付出巨大努力制服他;纵使三界连同因陀罗、天神、阿修罗与人类,也无法在他面前站立。
5.46.16
भवतामग्रतः स्थातुं न पर्याप्ता रणाजिरे।
तथापि तु नयज्ञेन जयमाकाङ्क्षता रणे ॥ ५.४६.१६ ॥
你们在战场上不足以站在他面前;然而,通晓治国之道者,应当为战胜而谋求方略。
5.46.17
आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला।
ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः ॥ ५.४६.१७ ॥
须以努力守护自身,因为战争的成败是无常的。那些大力之士接受主君之命,(便向前进发)。
5.46.18
समुत्पेतुर्महावेगा हुताशसमतेजसः।
रथैश्च मत्तैर्नागैश्च वाजिभिश्च महाजवैः ॥ ५.४६.१८ ॥
他们速度极快,光辉如同火焰,纷纷跃起,驾着战车、狂躁的象群与疾如风的骏马。
5.46.19
शस्त्रैश्च विविधैस्तीक्ष्णैः सर्वैश्चोपहिता बलैः।
ततस्तु ददृशुर्वीरा दीप्यमानं महाकपिम् ॥ ५.४६.१९ ॥
众军皆持各式利器,此时众勇士看见那熠熠生辉的大猴。
5.46.20
रश्मिमन्तमिवोद्यन्तं स्वतेजोरश्मिमालिनम्।
तोरणस्थं महावेगं महासत्त्वं महाबलम् ॥ ५.४६.२० ॥
如同升起的太阳,以自身光辉之环绕,立于门楼之上,具有极大的速度、勇气与力量。
5.46.21
महामतिं महोत्साहं महाकायं महाभुजम्।
तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्ववस्थिताः ॥ ५.४६.२१ ॥
众人见其智慧广大、志气宏伟、身躯巨大、双臂有力,便都分布在各个方向。
5.46.22
तैस्तैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः।
तस्य पञ्चायसास्तीक्ष्णाः सिताः पीतमुखाः शराः।
शिरस्युत्पलपत्राभा दुर्धरेण निपातिताः ॥ ५.४६.२२ ॥
众人各持可怖兵器,从四面八方向他扑去。杜尔达拉射出的五支铁箭,锋利、洁白、尖端发黄,光如莲花瓣,落在他的头上。
5.46.23
स तैः पञ्चभिराविद्धः शरैः शिरसि वानरः।
उत्पपात नदन् व्योम्नि दिशो दश विनादयन् ॥ ५.४६.२३ ॥
猴子头部中了五支箭,便怒吼着跃向天空,震响十方。
5.46.24
ततस्तु दुर्धरो वीरः सरथः सज्जकार्मुकः।
किरन् शरशतैर्नैकैरभिपेदे महाबलः ॥ ५.४६.२४ ॥
于是勇士杜尔达拉乘车张弓,射出数百支箭,向那大力者发起攻击。
5.46.25
स कपिर्वारयामास तं व्योम्नि शरवर्षिणम्।
वृष्टिमन्तं पयोदान्ते पयोदमिव मारुतः ॥ ५.४६.२५ ॥
猴子在空中阻挡那降下箭雨的人,正如雨季末了时风阻挡降雨的云。
5.46.26
अर्द्यमानस्ततस्तेन दुर्धरेणानिलात्मजः।
चकार निनदं भूयो व्यवर्धत च वीर्यवान् ॥ ५.४६.२६ ॥
被杜尔达拉逼迫,风之子再次吼叫,英勇者更加壮大。
5.46.27
स दूरं सहसोत्पत्य दुर्धरस्य रथे हरिः।
निपपात महावेगो विद्युद्राशिर्गिराविव ॥ ५.४६.२७ ॥
那位速度极快的猴子突然远远跃起,落在杜尔达拉的战车上,如同一堆闪电落在山上。
5.46.28
ततः स मथिताष्टाश्वं रथं भग्नाक्षकूबरम्।
विहाय न्यपतद् भूमौ दुर्धरस्त्यक्तजीवितः ॥ ५.४६.२८ ॥
于是杜尔达拉舍弃了那辆八马被践踏、车轴与车辕折断的战车,如同放弃了生命,倒在地上。
5.46.29
तं विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितं भुवि।
तौ जातरोषौ दुर्धर्षावुत्पेततुररिंदमौ ॥ ५.४६.२९ ॥
二人见他倒在地上,怒火中烧;这两位难以抵挡、降伏敌人的勇士便跃身而起。
5.46.30
स ताभ्यां सहसोत्प्लुत्य विष्ठितो विमलेऽम्बरे।
मुद्गराभ्यां महाबाहुर्वक्षस्यभिहतः कपिः ॥ ५.४६.३० ॥
他突然跃起,立于晴朗的天空中;然而这位臂力强大的猴子却被两人的铁锤击中胸膛。
5.46.31
तयोर्वेगवतोर्वेगं निहत्य स महाबलः।
निपपात पुनर्भूमौ सुपर्ण इव वेगितः ॥ ५.४६.३१ ॥
他阻住了那两人迅猛的冲击,这位大力者再次倒向地面,如迦鲁达疾速俯冲而下。
5.46.32
स सालवृक्षमासाद्य समुत्पाट्य च वानरः।
तावुभौ राक्षसौ वीरौ जघान पवनात्मजः ॥ ५.४६.३२ ॥
这位猴子,风神之子,走到一棵娑罗树旁,将其连根拔起,击杀了那两位勇猛的罗刹。
5.46.33
ततस्तांस्त्रीन् हतान् ज्ञात्वा वानरेण तरस्विना।
अभिपेदे महावेगः प्रहस्य प्रघसो बली ॥ ५.४६.३३ ॥
得知那三人已被这敏捷的猴子杀死,大力而迅疾的普拉伽萨笑着朝他逼近。
5.46.34
भासकर्णश्च संक्रुद्धः शूलमादाय वीर्यवान्।
एकतः कपिशार्दूलं यशस्विनमवस्थितौ ॥ ५.४६.३४ ॥
婆沙迦尔纳满怀愤怒、威力强大,手持长矛,从一侧站在那位荣耀的猴中之虎面前。
5.46.35
पट्टिशेन शिताग्रेण प्रघसः प्रत्यपोथयत्।
भासकर्णश्च शूलेन राक्षसः कपिकुञ्जरम् ॥ ५.४६.३५ ॥
普拉伽萨以尖锐的长刃钺反击,而罗刹婆沙迦尔纳则用长矛击打那只猴中之象。
5.46.36
स ताभ्यां विक्षतैर्गात्रैरसृग्दिग्धतनूरुहः।
अभवद् वानरः क्रुद्धो बालसूर्यसमप्रभः ॥ ५.४६.३६ ॥
他的肢体被二者所伤,毛发沾满鲜血,这位愤怒的猴子却光芒四射,犹如初升的朝阳。
5.46.37
समुत्पाट्य गिरेः शृङ्गं समृगव्यालपादपम्।
जघान हनुमान् वीरो राक्षसौ कपिकुञ्जरः।
गिरिशृङ्गसुनिष्पिष्टौ तिलशस्तौ बभूवतुः ॥ ५.४६.३७ ॥
英勇的哈努曼,猴中之象,连同鹿、猛兽和树木一起拔起一座山峰,击打那两个罗刹,二人被山峰碾压得粉碎,碎成芝麻般大小。
5.46.38
ततस्तेष्ववसन्नेषु सेनापतिषु पञ्चसु।
बलं तदवशेषं तु नाशयामास वानरः ॥ ५.४६.३८ ॥
那五位统帅倒下之后,那只猴子又摧毁了剩余的军队。
5.46.39
अश्वैरश्वान् गजैर्नागान् योधैर्योधान् रथै रथान्।
स कपिर्नाशयामास सहस्राक्ष इवासुरान् ॥ ५.४६.३९ ॥
那只猴子以马击马,以象击象,以士兵击士兵,以战车击战车,将它们全部消灭,如同千眼因陀罗消灭阿修罗一般。
5.46.40
हयैर्नागैस्तुरंगैश्च भग्नाक्षैश्च महारथैः।
हतैश्च राक्षसैर्भूमी रुद्धमार्गा समन्ततः ॥ ५.४६.४० ॥
马、象和骏马,断折的大战车武士,以及被杀的罗刹,使大地四面八方的道路都被阻塞了。
5.46.41
ततः कपिस्तान् ध्वजिनीपतीन् रणे
निहत्य वीरान् सबलान् सवाहनान्।
तथैव वीरः परिगृह्य तोरणं
कृतक्षणः काल इव प्रजाक्षये ॥ ५.४६.४१ ॥
于是,那只猴子在战场上连同他们的军队和坐骑一起杀死了那些统帅和勇士,然后手握门楼,屹立如同在众生毁灭之时待命的死神。