Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 5.47

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.47.1

सेनापतीन् पञ्च स तु प्रमापितान्
हनूमता सानुचरान् सवाहनान्।
निशम्य राजा समरोद्धतोन्मुखं
कुमारमक्षं प्रसमैक्षताक्षम् ॥ ५.४७.१ ॥

国王听说五位将领连同随从与坐骑皆被哈努曼杀死,便注视着渴望战斗、锐气勃发的王子阿克莎。

5.47.2

स तस्य दृष्ट्यर्पणसम्प्रचोदितः
प्रतापवान् काञ्चनचित्रकार्मुकः।
समुत्पपाताथ सदस्युदीरितो
द्विजातिमुख्यैर्हविषेव पावकः ॥ ५.४७.२ ॥

在国王目光的催动下,那位手持镶金绘饰弓的勇猛者在议会中起身,恰如众位婆罗门的首席以祭品投入时,火焰腾起。

5.47.3

ततो महान् बालदिवाकरप्रभं
प्रतप्तजाम्बूनदजालसंततम्।
रथं समास्थाय ययौ स वीर्यवान्
महाहरिं तं प्रति नैर्ऋतर्षभः ॥ ५.४७.३ ॥

于是那位威力非凡的罗刹英杰登上一辆光芒如初升朝阳、覆满熔金网纹的大车,向那位大猴冲去。

5.47.4

ततस्तपःसंग्रहसंचयार्जितं
प्रतप्तजाम्बूनदजालचित्रितम्।
पताकिनं रत्नविभूषितध्वजं
मनोजवाष्टाश्ववरैः सुयोजितम् ॥ ५.४७.४ ॥

那辆车是以累积的苦行功德所得,饰有熔金网纹,插着旌旗,旗上镶满宝石,快如意念,以八匹上等骏马良好地驾御。

5.47.5

सुरासुराधृष्यमसङ्गचारिणं
तडित्प्रभं व्योमचरं समाहितम्।
सतूणमष्टासिनिबद्धबन्धुरं
यथाक्रमावेशितशक्तितोमरम् ॥ ५.४७.५ ॥

连天神与阿修罗也难以攻破,行动无碍,光如闪电,能在天空飞行,秩序井然;配有箭袋,以八把剑优美地系束,枪与投矛依次排列。

5.47.6

विराजमानं प्रतिपूर्णवस्तुना
सहेमदाम्ना शशिसूर्यवर्चसा।
दिवाकराभं रथमास्थितस्ततः
स निर्जगामामरतुल्यविक्रमः ॥ ५.४७.६ ॥

他登上一辆光彩如日、装备齐全、系着金色花环、光辉如日月的战车,随即出发,其勇武与天神相当。

5.47.7

स पूरयन् खं च महीं च साचलां
तुरङ्गमातङ्गमहारथस्वनैः।
बलैः समेतैः सहतोरणस्थितं
समर्थमासीनमुपागमत् कपिम् ॥ ५.४७.७ ॥

他以马匹、象群与大战车的轰鸣充满天空与连山的大地,与集结的军队一同来到那只站在门口、已准备就绪而坐着的猴子面前。

5.47.8

स तं समासाद्य हरिं हरीक्षणो
युगान्तकालाग्निमिव प्रजाक्षये।
अवस्थितं विस्मितजातसम्भ्रमं
समैक्षताक्षो बहुमानचक्षुषा ॥ ५.४७.८ ॥

他走近那只金褐色眼睛的猴子,以极为敬重的目光注视着它。那猴子如同劫末之火,在众生毁灭之时,屹立不动,既惊异又激动。

5.47.9

स तस्य वेगं च कपेर्महात्मनः
पराक्रमं चारिषु रावणात्मजः।
विचारयन् स्वं च बलं महाबलो
युगक्षये सूर्य इवाभिवर्धत ॥ ५.४७.९ ॥

他思量那位大德猴子的速度与勇力,以及自己在敌人中的力量,罗波那的这位大力之子变得愈发炽烈,犹如劫末之日。

5.47.10

स जातमन्युः प्रसमीक्ष्य विक्रमं
स्थितः स्थिरः संयति दुर्निवारणम्।
समाहितात्मा हनुमन्तमाहवे
प्रचोदयामास शितैः शरैस्त्रिभिः ॥ ५.४७.१० ॥

他怒气勃发,仔细审视那难以抵挡的勇力,在战斗中屹立不动,心意专一,以三支锋利的箭射向哈努曼。

5.47.11

ततः कपिं तं प्रसमीक्ष्य गर्वितं
जितश्रमं शत्रुपराजयोचितम्।
अवैक्षताक्षः समुदीर्णमानसं
सबाणपाणिः प्रगृहीतकार्मुकः ॥ ५.४७.११ ॥

然后他仔细看着那只骄傲的猴子,它已经恢复了体力,适合击败敌人;他手持箭,紧握弓,怒火满胸地望着它。

5.47.12

स हेमनिष्काङ्गदचारुकुण्डलः
समाससादाशुपराक्रमः कपिम्।
तयोर्बभूवाप्रतिमः समागमः
सुरासुराणामपि सम्भ्रमप्रदः ॥ ५.४७.१२ ॥

他佩戴着金项链、臂钏和精美的耳环,以迅猛的威力走近那只猴子。他们二人的相遇无与伦比,甚至令天神和阿修罗都为之震动。

5.47.13

ररास भूमिर्न तताप भानुमान्
ववौ न वायुः प्रचचाल चाचलः।
कपेः कुमारस्य च वीर्यसंयुगं
ननाद च द्यौरुदधिश्च चुक्षुभे ॥ ५.४७.१३ ॥

大地轰鸣;太阳不再炙热;风不吹动;山也不摇晃。猴子与王子的英勇之战使天空回荡,大海也为之翻腾。

5.47.14

स तस्य वीरः सुमुखान् पतत्रिणः
सुवर्णपुङ्खान् सविषानिवोरगान्।
समाधिसंयोगविमोक्षतत्त्ववि-
च्छरानथ त्रीन् कपिमूर्ध्न्यताडयत् ॥ ५.४७.१४ ॥

那位英雄深谙专注、结合与解脱之理,以三支箭射中猴子的头部;箭头锋利,尾羽如金,宛如毒蛇。

5.47.15

स तैः शरैर्मूर्ध्नि समं निपातितैः
क्षरन्नसृग्दिग्धविवृत्तनेत्रः।
नवोदितादित्यनिभः शरांशुमान्
व्यराजतादित्य इवांशुमालिकः ॥ ५.४७.१५ ॥

那些箭同时射中他的头部,鲜血淋漓,双眼圆睁,他闪耀如初升的朝阳,又似披着光芒花环的太阳。

5.47.16

ततः प्लवङ्गाधिपमन्त्रिसत्तमः
समीक्ष्य तं राजवरात्मजं रणे।
उदग्रचित्रायुधचित्रकार्मुकं
जहर्ष चापूर्यत चाहवोन्मुखः ॥ ५.४७.१६ ॥

于是,猴王最优秀的谋臣见那位王中至尊之子在战场上举着高扬、绚丽的兵器和彩饰之弓,心中欢喜,渴望交战,斗志昂扬。

5.47.17

स मन्दराग्रस्थ इवांशुमाली
विवृद्धकोपो बलवीर्यसंवृतः।
कुमारमक्षं सबलं सवाहनं
ददाह नेत्राग्निमरीचिभिस्तदा ॥ ५.४७.१७ ॥

阿克莎如立于曼陀罗山巅的日轮,怒气大增,力与勇环绕其身,便以眼中的火光,将王子连同其军队与坐骑一并焚烧。

5.47.18

ततः स बाणासनशक्रकार्मुकः
शरप्रवर्षो युधि राक्षसाम्बुदः।
शरान् मुमोचाशु हरीश्वराचले
बलाहको वृष्टिमिवाचलोत्तमे ॥ ५.४७.१८ ॥

于是那持如因陀罗之弓的罗刹之云,在战中降下箭雨,迅速向如山的猴王射出箭矢,犹如云层向最高的山峰降雨。

5.47.19

कपिस्ततस्तं रणचण्डविक्रमं
प्रवृद्धतेजोबलवीर्यसायकम्।
कुमारमक्षं प्रसमीक्ष्य संयुगे
ननाद हर्षाद् घनतुल्यनिःस्वनः ॥ ५.४७.१९ ॥

那猴王见王子阿克莎在战中威勇猛烈,箭矢因光辉、力量与勇气而愈加锐利,便看得分明,心中欢喜,发出如雷云般的吼声。

5.47.20

स बालभावाद् युधि वीर्यदर्पितः
प्रवृद्धमन्युः क्षतजोपमेक्षणः।
समाससादाप्रतिमं रणे कपिं
गजो महाकूपमिवावृतं तृणैः ॥ ५.४७.२० ॥

阿克莎因年少而以勇力自负,怒气愈增,双目赤红如血,便迎上了战场上无与伦比的猴王,如同大象走近一口被草掩覆的深井。

5.47.21

स तेन बाणैः प्रसभं निपातितै-
श्चकार नादं घननादनिःस्वनः।
समुत्सहेनाशु नभः समारुजन्
भुजोरुविक्षेपणघोरदर्शनः ॥ ५.४७.२१ ॥

他被那些箭猛力射落,发出如雷鸣般的吼声。挥动双臂与大腿,面目可怖,他急切地腾身而起,撕裂天空。

5.47.22

तमुत्पतन्तं समभिद्रवद् बली
स राक्षसानां प्रवरः प्रतापवान्।
रथी रथश्रेष्ठतरः किरन् शरैः
पयोधरः शैलमिवाश्मवृष्टिभिः ॥ ५.४७.२२ ॥

当他跃起时,强大而英勇的罗刹之首,车战中最优秀的战士冲向他,用箭雨倾泻而下,如同乌云向山岳倾下石雨。

5.47.23

स ताञ्छरांस्तस्य हरिर्विमोक्षयं-
श्चचार वीरः पथि वायुसेविते।
शरान्तरे मारुतवद् विनिष्पतन्
मनोजवः संयति भीमविक्रमः ॥ ५.४७.२३ ॥

那位英雄猴子哈里抖落那些箭,在风吹过的道路上穿行;如风般在箭矢之间穿梭,快如思念,在战斗中展现出可怖的威勇。

5.47.24

तमात्तबाणासनमाहवोन्मुखं
खमास्तृणन्तं विविधैः शरोत्तमैः।
अवैक्षताक्षं बहुमानचक्षुषा
जगाम चिन्तां स च मारुतात्मजः ॥ ५.४७.२४ ॥

看到他手持弓箭、急于应战,以众多精良箭矢遮蔽天空,风之子怀着极大的敬意望着他,陷入了沉思。

5.47.25

ततः शरैर्भिन्नभुजान्तरः कपिः
कुमारवर्येण महात्मना नदन्।
महाभुजः कर्मविशेषतत्त्वविद्
विचिन्तयामास रणे पराक्रमम् ॥ ५.४७.२५ ॥

于是这只猴子,胸膛被箭矢刺穿,对着那位卓越而心胸宽广的年轻王子怒吼,这位双臂有力、通晓特殊功业本质的猴王,开始思量自己在战场上的威勇。

5.47.26

अबालवद् बालदिवाकरप्रभः
करोत्ययं कर्म महन्महाबलः।
न चास्य सर्वाहवकर्मशालिनः
प्रमापणे मे मतिरत्र जायते ॥ ५.४७.२६ ॥

他不像孩童;如初升的太阳般光辉,大力无比,成就伟业。此处我心中并无杀他的念头,他精通一切战斗之事。

5.47.27

अयं महात्मा च महांश्च वीर्यतः
समाहितश्चातिसहश्च संयुगे।
असंशयं कर्मगुणोदयादयं
सनागयक्षैर्मुनिभिश्च पूजितः ॥ ५.४७.२७ ॥

此人心胸高尚,勇力过人,临战沉稳而极能忍耐。毫无疑问,因其业行之德显扬,连龙众、夜叉和诸仙人也都敬重他。

5.47.28

पराक्रमोत्साहविवृद्धमानसः-
समीक्षते मां प्रमुखोऽग्रतः स्थितः।
पराक्रमो ह्यस्य मनांसि कम्पयेत्
सुरासुराणामपि शीघ्रकारिणः ॥ ५.४७.२८ ॥

他的心因勇武与奋发而更加壮大,立于前方,正注视着我。他的勇力必能使行动迅捷的天神与阿修罗之心也为之震颤。

5.47.29

न खल्वयं नाभिभवेदुपेक्षितः
पराक्रमो ह्यस्य रणे विवर्धते।
प्रमापणं ह्यस्य ममाद्य रोचते
न वर्धमानोऽग्निरुपेक्षितुं क्षमः ॥ ५.४७.२९ ॥

即使置之不理,此人也必不会被击败,因为他在战斗中勇力日增。今日我愿杀他,因为增长的火焰是不可忽视的。

5.47.30

स्वकर्मयोगं च विधाय वीर्यवान्।
चकार वेगं तु महाबलस्तदा
मतिं च चक्रेऽस्य वधे तदानीम् ॥ ५.४७.३० ॥

他坚守自己的业行之道,勇猛而大力的他当时便施展疾速,并在那时决意杀死此人。

5.47.31

स तस्य तानष्ट वरान् महाहयान्
समाहितान् भारसहान् विवर्तने।
जघान वीरः पथि वायुसेविते
तलप्रहारैः पवनात्मजः कपिः ॥ ५.४७.३१ ॥

这位英雄、风神之子猴子,在风拂的道路上转弯之际,以手掌猛击,击毙了那八匹优良、训练有素、能负重的大马。

5.47.32

ततस्तलेनाभिहतो महारथः
स तस्य पिङ्गाधिपमन्त्रिनिर्जितः।
स भग्ननीडः परिवृत्तकूबरः
पपात भूमौ हतवाजिरम्बरात् ॥ ५.४७.३२ ॥

于是这位大车手被手掌击中,败于皮岗主之臣,车架破碎,车辕倒转,马匹被杀,从空中坠落到地上。

5.47.33

स तं परित्यज्य महारथो रथं
सकार्मुकः खड्गधरः खमुत्पतन्।
ततोऽभियोगादृषिरुग्रवीर्यवान्
विहाय देहं मरुतामिवालयम् ॥ ५.४७.३३ ॥

这位大车手离开战车,手持弓与剑跃入空中。那位威猛的勇士因受攻击,舍弃了身体,如同舍弃了摩如多的居所。

5.47.34

कपिस्ततस्तं विचरन्तमम्बरे
पतत्त्रिराजानिलसिद्धसेविते।
समेत्य तं मारुतवेगविक्रमः
क्रमेण जग्राह च पादयोर्दृढम् ॥ ५.४७.३४ ॥

此时那只拥有风速与勇力的猴子,来到在天空中盘旋的他身旁,那天空为鸟王、风神与悉地所常游之处,于是一步步牢牢抓住他的双脚。

5.47.35

स तं समाविध्य सहस्रशः कपि-
र्महोरगं गृह्य इवाण्डजेश्वरः।
मुमोच वेगात् पितृतुल्यविक्रमो
महीतले संयति वानरोत्तमः ॥ ५.४७.३५ ॥

犹如金翅鸟王抓住大蛇,旋转千次后猛然掷出,那位勇力与其父相当的猴中之王,在战斗中也将他旋转千次,猛然掷向大地。

5.47.36

स भग्नबाहूरुकटीपयोधरः
क्षरन्नसृङ्निर्मथितास्थिलोचनः।
सम्भिन्नसंधिः प्रविकीर्णबन्धनो
हतः क्षितौ वायुसुतेन राक्षसः ॥ ५.४७.३६ ॥

風神之子在地上殺死了那羅剎:其臂、股、腰、胸皆斷,血流不止,骨與眼皆被碾碎,關節破裂,束縛散落。

5.47.37

महाकपिर्भूमितले निपीड्य तं
चकार रक्षोऽधिपतेर्महद्भयम्।
महर्षिभिश्चक्रचरैः समागतैः
समेत्य भूतैश्च सयक्षपन्नगैः।
सुरैश्च सेन्द्रैर्भृशजातविस्मयै-
र्हते कुमारे स कपिर्निरीक्षितः ॥ ५.४७.३७ ॥

那大猴将他压在地上,使羅剎之主深感恐惧。王子被杀后,大仙、空中行者、眾生、夜叉與蛇、諸天與因陀羅一同聚集,極其驚異地注視著那隻猴子。

5.47.38

निहत्य तं वज्रिसुतोपमं रणे
कुमारमक्षं क्षतजोपमेक्षणम्।
तदेव वीरोऽभिजगाम तोरणं
कृतक्षणः काल इव प्रजाक्षये ॥ ५.४७.३८ ॥

他在战中杀死了如因陀羅之子的王子阿刹,其眼如血。那英雄随即走向城门,如同在众生毁灭之时选定时刻而行的时间(死神)。