蚁垤《罗摩衍那》 · 篇 5.58
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.58.1
ततस्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः।
हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम् ॥ ५.५८.१ ॥
于是在摩亨陀罗山的那座山峰上,以哈努曼为首的大力猴群获得了无上的喜悦。
5.58.2
प्रीतिमत्सूपविष्टेषु वानरेषु महात्मसु।
तं ततः प्रतिसंहृष्टः प्रीतियुक्तं महाकपिम् ॥ ५.५८.२ ॥
当那些高尚的猴子欢喜地坐好后,他们满怀喜悦地望着那位充满深情的大猴。
5.58.3
जाम्बवान् कार्यवृत्तान्तमपृच्छदनिलात्मजम्।
कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते ॥ ५.५८.३ ॥
耆婆凡问风之子(哈努曼)事情的经过:“你是如何见到女神的?她在那里情况如何?”
5.58.4
तस्यां चापि कथं वृत्तः क्रूरकर्मा दशाननः।
तत्त्वतः सर्वमेतन्नः प्रब्रूहि त्वं महाकपे ॥ ५.५८.४ ॥
那残暴行事的十首罗波那对她如何?大猴啊,请把这一切如实告诉我们。
5.58.5
सम्मार्गिता कथं देवी किं च सा प्रत्यभाषत।
श्रुतार्थाश्चिन्तयिष्यामो भूयः कार्यविनिश्चयम् ॥ ५.५८.५ ॥
女神是如何被找到的?她又回答了什么?听完此事,我们将再次考虑关于此事的决定。
5.58.6
यश्चार्थस्तत्र वक्तव्यो गतैरस्माभिरात्मवान्।
रक्षितव्यं च यत्तत्र तद् भवान् व्याकरोतु नः ॥ ५.५८.६ ॥
我们去到那里该说什么事,那里该守护什么,请您向我们讲明。
5.58.7
स नियुक्तस्ततस्तेन सम्प्रहृष्टतनूरुहः।
नमस्यन् शिरसा देव्यै सीतायै प्रत्यभाषत ॥ ५.५८.७ ॥
他受命之后,因喜悦而汗毛竖立,低头向女神悉多行礼,然后回答道。
5.58.8
प्रत्यक्षमेव भवतां महेन्द्राग्रात् खमाप्लुतः।
उदधेर्दक्षिणं पारं काङ्क्षमाणः समाहितः ॥ ५.५८.८ ॥
就在你们眼前,我从摩亨陀罗山顶跃入天空,心神专一,渴望抵达大海的南岸。
5.58.9
गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत्।
काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम् ॥ ५.५८.९ ॥
我前行时,它仿佛变成了一个可怕的阻碍;我看见一座神圣而极其美丽的金色山峰。
5.58.10
स्थितं पन्थानमावृत्य मेने विघ्नं च तं नगम्।
उपसंगम्य तं दिव्यं काञ्चनं नगमुत्तमम् ॥ ५.५८.१० ॥
他认为那座挡在路上的山是阻碍;随后他走近那座神圣、金色而卓越的山。
5.58.11
कृता मे मनसा बुद्धिर्भेत्तव्योऽयं मयेति च।
प्रहतस्य मया तस्य लाङ्गूलेन महागिरेः ॥ ५.५८.११ ॥
我心中决定:“这座山我必须击碎。”于是我用尾巴击打那座大山。
5.58.12
शिखरं सूर्यसंकाशं व्यशीर्यत सहस्रधा।
व्यवसायं च तं बुद्ध्वा स होवाच महागिरिः ॥ ५.५८.१२ ॥
那座如太阳般的山峰被粉碎成千块;大山知晓了他的决心,便开口说道。
5.58.13
पुत्रेति मधुरां वाणीं मनः प्रह्लादयन्निव।
पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः ॥ ५.५८.१३ ॥
他仿佛以甘美之言使人心悦,说道:“孩子,你应知道我是你父亲的兄弟,也是风神摩多利溪凡的朋友。”
5.58.14
मैनाकमिति विख्यातं निवसन्तं महोदधौ।
पक्षवन्तः पुरा पुत्र बभूवुः पर्वतोत्तमाः ॥ ५.५८.१४ ॥
“孩子,我名为摩诃那伽,居住在大海之中。古时,最高的山岳曾拥有翅膀。”
5.58.15
छन्दतः पृथिवीं चेरुर्बाधमानाः समन्ततः।
श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः ॥ ५.५८.१५ ॥
它们随心所欲地在大地四方游走,扰乱众生。因听闻群山的这种行为,那降伏巴卡的因陀罗摩亨德罗……
5.58.16
वज्रेण भगवान् पक्षौ चिच्छेदैषां सहस्रशः।
अहं तु मोचितस्तस्मात् तव पित्रा महात्मना ॥ ५.५८.१६ ॥
世尊因陀罗以金刚杵将它们的翅膀千百次斩断;而我却被你那高尚的父亲从中解救出来。
5.58.17
मारुतेन तदा वत्स प्रक्षिप्तो वरुणालये।
राघवस्य मया साह्ये वर्तितव्यमरिंदम ॥ ५.५८.१७ ॥
那时,孩子,我被风吹入伐楼那的居所——大海。啊,降伏敌人者,我应当协助罗怙之裔(罗摩)。
5.58.18
रामो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः।
एतच्छ्रुत्वा मया तस्य मैनाकस्य महात्मनः ॥ ५.५८.१८ ॥
罗摩,持法者中的最优者,其勇力与摩亨德罗相等——我闻知这出自高尚的摩诃那伽之言后……
5.58.19
कार्यमावेद्य च गिरेरुद्धतं वै मनो मम।
तेन चाहमनुज्ञातो मैनाकेन महात्मना ॥ ५.५८.१९ ॥
说明使命之后,山的激昂之心激励了我;在伟大的摩纳卡许可下,我继续前行。
5.58.20
स चाप्यन्तर्हितः शैलो मानुषेण वपुष्मता।
शरीरेण महाशैलः शैलेन च महोदधौ ॥ ५.५८.२० ॥
那座山也化作人形,隐没于大海之中;那座大山以其身躯与山一同潜入海中。
5.58.21
उत्तमं जवमास्थाय शेषमध्वानमास्थितः।
ततोऽहं सुचिरं कालं जवेनाभ्यगमं पथि ॥ ५.५८.२१ ॥
我以至高的速度前行,沿着剩余的路途;此后很长时间,我疾速沿途而去。
5.58.22
ततः पश्याम्यहं देवीं सुरसां नागमातरम्।
समुद्रमध्ये सा देवी वचनं चेदमब्रवीत् ॥ ५.५८.२२ ॥
随后,在大海之中,我看见了蛇母女神苏罗娑;那位女神说了这些话。
5.58.23
मम भक्ष्यः प्रदिष्टस्त्वममरैर्हरिसत्तम।
ततस्त्वां भक्षयिष्यामि विहितस्त्वं हि मे सुरैः ॥ ५.५८.२३ ॥
哦,猴中之最,诸神已将你指定为我的食物;所以我要吃你,因为诸神为我安排了你。
5.58.24
एवमुक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः।
विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयम् ॥ ५.५८.२४ ॥
苏罗娑如此说后,我合掌恭立,俯身致敬;面色苍白,我说出了这些话。
5.58.25
रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम्।
लक्ष्मणेन सह भ्रात्रा सीतया च परंतपः ॥ ५.५८.२५ ॥
十车王之子、光辉的罗摩,焚烧敌人者,与其弟罗什曼那及悉多一同进入了檀荼迦森林。
5.58.26
तस्य सीता हृता भार्या रावणेन दुरात्मना।
तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात् ॥ ५.५८.२६ ॥
他的妻子悉多被恶毒的罗波那劫走了。我将奉罗摩之命,作为使者前往她那里。
5.58.27
कर्तुमर्हसि रामस्य साहाय्यं विषये सती।
अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ॥ ५.५८.२७ ॥
贞洁的女子啊,你应当在此地协助罗摩。或者,见到了迈提利,也见到了毫不费力行事的罗摩之后……
5.58.28
आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते।
एवमुक्ता मया सा तु सुरसा कामरूपिणी ॥ ५.५८.२८ ॥
我将进入你的口中——这是真的,我向你保证。苏罗娑被我这样说后,她是能随意变化形态的……
5.58.29
अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम।
एवमुक्तः सुरसया दशयोजनमायतः ॥ ५.५८.२९ ॥
她说:“谁也不得违背我的这份恩赐。”苏罗娑如此说后,我的身形便长到了十由旬。
5.58.30
ततोऽर्धगुणविस्तारो बभूवाहं क्षणेन तु।
मत्प्रमाणाधिकं चैव व्यादितं तु मुखं तया ॥ ५.५८.३० ॥
于是,我在顷刻之间增长到她的一倍半,而她张开的口比我自身的身量还要大。
5.58.31
तद् दृष्ट्वा व्यादितं त्वास्यं ह्रस्वं ह्यकरवं पुनः।
तस्मिन् मुहूर्ते च पुनर्बभूवाङ्गुष्ठसम्मितः ॥ ५.५८.३१ ॥
我看见她张开的大口,立即把自己缩小;就在那一刻,我又变得只有拇指那么大。
5.58.32
अभिपत्याशु तद्वक्त्रं निर्गतोऽहं ततः क्षणात् ।
अब्रवीत् सुरसा देवी स्वेन रूपेण मां पुनः ॥ ५.५८.३२ ॥
我迅速冲入她的口中,转瞬便从中出来。这时,女神苏罗娑以她本来的面貌再次对我说话。
5.58.33
अर्थसिद्धौ हरिश्रेष्ठ गच्छ सौम्य यथासुखम्।
समानय च वैदेहीं राघवेण महात्मना ॥ ५.५८.३३ ॥
愿你的使命成功,猴中最杰出者。善良的人啊,随意前行,把维德哈国的公主带回给伟大的罗怙后裔。
5.58.34
सुखी भव महाबाहो प्रीतास्मि तव वानर।
ततोऽहं साधुसाध्वीति सर्वभूतैः प्रशंसितः ॥ ५.५८.३४ ॥
愿你安乐,臂力强大的猴子;我对你很满意。那时,一切众生都赞叹我:“善哉,善哉!”
5.58.35
ततोऽन्तरिक्षं विपुलं प्लुतोऽहं गरुडो यथा।
छाया मे निगृहीता च न च पश्यामि किंचन ॥ ५.५८.३५ ॥
于是我像迦卢达一样跃入广阔的天空;然而我的影子被抓住了,我什么也看不见。
5.58.36
सोऽहं विगतवेगस्तु दिशो दश विलोकयन्।
न किंचित् तत्र पश्यामि येन मे विहता गतिः ॥ ५.५८.३६ ॥
我的速度已经减缓,我环顾十方,却看不见有什么阻碍了我的行程。
5.58.37
अथ मे बुद्धिरुत्पन्ना किंनाम गमने मम।
ईदृशो विघ्न उत्पन्नो रूपमत्र न दृश्यते ॥ ५.५८.३७ ॥
此时我心中生出一念:我前行之时,为何出现了这样的阻碍?这里看不到任何形体。
5.58.38
अधोभागे तु मे दृष्टिः शोचतः पतिता तदा।
तत्राद्राक्षमहं भीमां राक्षसीं सलिलेशयाम् ॥ ५.५८.३८ ॥
我悲伤之时,目光便向下落去,在那里我看见一个可怖的罗刹女卧在水中。
5.58.39
प्रहस्य च महानादमुक्तोऽहं भीमया तया।
अवस्थितमसम्भ्रान्तमिदं वाक्यमशोभनम् ॥ ५.५८.३९ ॥
那可怖的女子放声大笑,对站立不惊的我说出了这些不得体的话。
5.58.40
क्वासि गन्ता महाकाय क्षुधिताया ममेप्सितः।
भक्षः प्रीणय मे देहं चिरमाहारवर्जितम् ॥ ५.५८.४० ॥
你这大身躯者要去哪里?对饥饿的我来说,你正是所求的食物。请满足我这长久没有食物的身体吧。
5.58.41
बाढमित्येव तां वाणीं प्रत्यगृह्णामहं ततः।
आस्यप्रमाणादधिकं तस्याः कायमपूरयम् ॥ ५.५८.४१ ॥
我只说了一句“好吧”,便回应了她的话。然后我将自己的身躯增大到超过她口的尺寸,充满了她的身体。
5.58.42
तस्याश्चास्यं महद् भीमं वर्धते मम भक्षणे।
न तु मां सा नु बुबुधे मम वा विकृतं कृतम् ॥ ५.५८.४२ ॥
她企图吞食我时,那可怖的巨口越张越大;然而她既没有察觉到我,也没有察觉到我所做的变化。
5.58.43
ततोऽहं विपुलं रूपं संक्षिप्य निमिषान्तरात्।
तस्या हृदयमादाय प्रपतामि नभःस्थलम् ॥ ५.५८.४३ ॥
随即,我在一瞬间收缩巨大的身形,抓住她的心,向天空飞去。
5.58.44
सा विसृष्टभुजा भीमा पपात लवणाम्भसि।
मया पर्वतसंकाशा निकृत्तहृदया सती ॥ ५.५८.४४ ॥
那可怖的女子松开双臂,如山一般,心被我撕裂,坠入咸水之中。
5.58.45
शृणोमि खगतानां च वाचः सौम्या महात्मनाम्।
राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हता ॥ ५.५८.४५ ॥
我听见天空中行走的温和大德之言:“可怖的罗刹女辛醯迦已被哈努曼迅速杀死。”
5.58.46
तां हत्वा पुनरेवाहं कृत्यमात्ययिकं स्मरन्।
गत्वा च महदध्वानं पश्यामि नगमण्डितम् ॥ ५.५८.४६ ॥
杀了她之后,我再次想起紧要的使命,走过漫长的路途,看见了群山装点的大地。
5.58.47
दक्षिणं तीरमुदधेर्लङ्का यत्र गता पुरी।
अस्तं दिनकरे याते रक्षसां निलयं पुरीम् ॥ ५.५८.४७ ॥
大海的南岸,楼迦城所在之处——日落之时,我抵达了罗刹们居住的城市。
5.58.48
प्रविष्टोऽहमविज्ञातो रक्षोभिर्भीमविक्रमैः।
तत्र प्रविशतश्चापि कल्पान्तघनसप्रभा ॥ ५.५८.४८ ॥
我未被那些勇武可怖的罗刹认出,便进入了城中;进入之时,我的光辉如同劫末之云。
5.58.49
अट्टहासं विमुञ्चन्ती नारी काप्युत्थिता पुरः।
जिघांसन्तीं ततस्तां तु ज्वलदग्निशिरोरुहाम् ॥ ५.५८.४९ ॥
一名女子发出大笑,突然在我面前站起。那想要杀我、头发如熊熊烈火的女子,
5.58.50
सव्यमुष्टिप्रहारेण पराजित्य सुभैरवाम्।
प्रदोषकाले प्रविशं भीतयाहं तयोदितः ॥ ५.५८.५० ॥
我以左拳击败了那可怖的女子,黄昏时分进入;那受惊的女子对我说——
5.58.51
अहं लङ्कापुरी वीर निर्जिता विक्रमेण ते।
यस्मात् तस्माद् विजेतासि सर्वरक्षांस्यशेषतः ॥ ५.५८.५१ ॥
"啊,英雄!我即是楞伽城,已被你的勇武所征服;因此你是所有罗刹的完全征服者。"
5.58.52
तत्राहं सर्वरात्रं तु विचरञ्जनकात्मजाम्।
रावणान्तःपुरगतो न चापश्यं सुमध्यमाम् ॥ ५.५८.५२ ॥
我在那里整夜游荡,寻找阁那伽之女;我进入罗波那的内宫,却没有见到那位腰肢纤细的女子。
5.58.53
ततः सीतामपश्यंस्तु रावणस्य निवेशने।
शोकसागरमासाद्य न पारमुपलक्षये ॥ ५.५८.५३ ॥
随后,在罗波那的居所中见不到悉多,我陷入了悲伤的海洋,看不到它的彼岸。
5.58.54
शोचता च मया दृष्टं प्राकारेणाभिसंवृतम्।
काञ्चनेन विकृष्टेन गृहोपवनमुत्तमम् ॥ ५.५८.५४ ॥
我正悲伤时,看见一座上好的园林,被一道长长的金墙所环绕。
5.58.55
सप्राकारमवप्लुत्य पश्यामि बहुपादपम्।
अशोकवनिकामध्ये शिंशपापादपो महान् ॥ ५.५८.५५ ॥
我跃过围墙,看见在多树的无忧林中央,有一棵大的舍利树。
5.58.56
तमारुह्य च पश्यामि काञ्चनं कदलीवनम्।
अदूराच्छिंशपावृक्षात् पश्यामि वरवर्णिनीम् ॥ ५.५८.५६ ॥
我爬上那棵树,看见一片金色的芭蕉林;在离舍利树不远处,我看见一位肤色美丽的女子。
5.58.57
श्यामां कमलपत्राक्षीमुपवासकृशाननाम्।
तदेकवासःसंवीतां रजोध्वस्तशिरोरुहाम् ॥ ५.५८.५७ ॥
她肤色微黑,眼睛如莲花花瓣,因斋戒而消瘦的面容,只穿一件衣服,头发被尘土弄乱。
5.58.58
शोकसंतापदीनाङ्गीं सीतां भर्तृहिते स्थिताम्।
राक्षसीभिर्विरूपाभिः क्रूराभिरभिसंवृताम् ॥ ५.५८.५८ ॥
悉多身形因悲伤与煎熬而憔悴,却坚守着为夫君谋福的心志,被丑陋而残忍的罗刹女围绕着。
5.58.59
मांसशोणितभक्ष्याभिर्व्याघ्रीभिर्हरिणीं यथा।
सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ॥ ५.५८.५९ ॥
如同被以血肉为食的母虎包围的母鹿,她在罗刹女之中屡次被恐吓;这是我所见。
5.58.60
एकवेणीधरा दीना भर्तृचिन्तापरायणा।
भूमिशय्या विवर्णाङ्गी पद्मिनीव हिमागमे ॥ ५.५८.६० ॥
她梳着一条发辫,憔悴不堪,心念全在夫君身上,睡在地上,肢体苍白,如同寒冬时节的莲花。
5.58.61
रावणाद् विनिवृत्तार्था मर्तव्ये कृतनिश्चया।
कथंचिन्मृगशावाक्षी तूर्णमासादिता मया ॥ ५.५८.६१ ॥
她对罗波那已绝望,决心赴死,这鹿眼女子我终于迅速地以某种方式找到了。
5.58.62
तां दृष्ट्वा तादृशीं नारीं रामपत्नीं यशस्विनीम्।
तत्रैव शिंशपावृक्षे पश्यन्नहमवस्थितः ॥ ५.५८.६२ ॥
看到罗摩那位声名显赫的妻子处于这般境地,我便仍坐在那棵铁树上观望。
5.58.63
ततो हलहलाशब्दं काञ्चीनूपुरमिश्रितम्।
शृणोम्यधिकगम्भीरं रावणस्य निवेशने ॥ ५.५८.६३ ॥
随后,我在罗波那的宫中听到一阵极其低沉的“哈拉哈拉”声,夹杂着腰带与脚环的叮当声。
5.58.64
ततोऽहं परमोद्विग्नः स्वरूपं प्रत्यसंहरम्।
अहं च शिंशपावृक्षे पक्षीव गहने स्थितः ॥ ५.५८.६४ ॥
于是我极度不安,收敛了自身的形体,像鸟儿一样隐藏在茂密的铁树之中。
5.58.65
ततो रावणदाराश्च रावणश्च महाबलः।
तं देशमनुसम्प्राप्तो यत्र सीताभवत् स्थिता ॥ ५.५८.६५ ॥
随后,罗波那的众妃与大力罗波那来到了悉多所坐的那个地方。
5.58.66
तं दृष्ट्वाथ वरारोहा सीता रक्षोगणेश्वरम्।
संकुच्योरू स्तनौ पीनौ बाहुभ्यां परिरभ्य च ॥ ५.५८.६६ ॥
悉多看见罗刹众的主宰,这位腰肢优美的女子收拢双腿与丰满的双乳,以双臂环抱,蜷缩起身子。
5.58.67
वित्रस्तां परमोद्विग्नां वीक्ष्यमाणामितस्ततः।
त्राणं कंचिदपश्यन्तीं वेपमानां तपस्विनीम् ॥ ५.५८.६७ ॥
见悉多这位苦行女子惊恐万分、焦虑不安,四处张望,找不到任何庇护,浑身颤抖。
5.58.68
तामुवाच दशग्रीवः सीतां परमदुःखिताम्।
अवाक्शिराः प्रपतितो बहुमन्यस्व मामिति ॥ ५.५८.६८ ॥
于是十首罗波那对极度悲伤的悉多说:“我低头跪倒在你面前,请尊重我吧。”
5.58.69
यदि चेत्त्वं तु मां दर्पान्नाभिनन्दसि गर्विते।
द्विमासानन्तरं सीते पास्यामि रुधिरं तव ॥ ५.५८.६९ ॥
“骄傲的悉多啊!你若因骄傲而不接受我,两个月后我就要饮你的血。”
5.58.70
एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः।
उवाच परमक्रुद्धा सीता वचनमुत्तमम् ॥ ५.५८.७० ॥
悉多听了这恶人罗波那的话,极为愤怒,说出了这番高尚的话语。
5.58.71
राक्षसाधम रामस्य भार्याममिततेजसः।
इक्ष्वाकुवंशनाथस्य स्नुषां दशरथस्य च ॥ ५.५८.७१ ॥
“最卑劣的罗刹啊!你竟劫走了无量光辉的罗摩之妻,伊刹婆迦族之主十车王的儿媳!”
5.58.72
अवाच्यं वदतो जिह्वा कथं न पतिता तव।
किंस्विद्वीर्य तवानार्य यो मां भर्तुरसंनिधौ ॥ ५.५८.७२ ॥
“说出不该说的话的你,舌头为何没有掉落?卑鄙之人啊!趁丈夫不在而劫持我,这就是你的勇气吗?”
5.58.73
अपहृत्यागतः पाप तेनादृष्टो महात्मना।
न त्वं रामस्य सदृशो दास्येऽप्यस्य न युज्यसे ॥ ५.५८.७३ ॥
罪人啊,你被趁伟大的罗摩未曾看见时劫来此处。你不配与罗摩相比,甚至不配做他的侍女。
5.58.74
अजेयः सत्यवाक् शूरो रणश्लाघी च राघवः।
जानक्या परुषं वाक्यमेवमुक्तो दशाननः ॥ ५.५८.७४ ॥
罗怙婆(罗摩)不可战胜,诚实,英勇,善于在战场上自夸。悉多如此说出严厉的话语时,十首王(罗波那)这样回答。
5.58.75
जज्वाल सहसा कोपाच्चितास्थ इव पावकः।
विवृत्य नयने क्रूरे मुष्टिमुद्यम्य दक्षिणम् ॥ ५.५८.७५ ॥
他因愤怒而骤然燃烧,如同火葬柴堆上的火焰。他睁大凶残的双眼,举起右拳。
5.58.76
मैथिलीं हन्तुमारब्धः स्त्रीभिर्हाहाकृतं तदा।
स्त्रीणां मध्यात् समुत्पत्य तस्य भार्या दुरात्मनः ॥ ५.५८.७६ ॥
他开始要杀害弥提利(悉多),众女子便哀号起来。这时,那恶心之人的妻子从众女子中起身。
5.58.77
वरा मन्दोदरी नाम तया स प्रतिषेधितः।
उक्तश्च मधुरां वाणीं तया स मदनार्दितः ॥ ५.५८.७७ ॥
贤良的曼陀罗陀以温言阻止了他,他被欲望所折磨,她用甜美的话语对他说。
5.58.78
सीतया तव किं कार्यं महेन्द्रसमविक्रम।
मया सह रमस्वाद्य मद्विशिष्टा न जानकी ॥ ५.५८.७८ ॥
啊,你的勇力堪比因陀罗,与悉多有何相干?今日与我同乐吧;悉多并不比我更尊贵。
5.58.79
देवगन्धर्वकन्याभिर्यक्षकन्याभिरेव च।
सार्धं प्रभो रमस्वेति सीतया किं करिष्यसि ॥ ५.५८.७९ ॥
主上啊,与天神、干闼婆和夜叉的女儿们共乐吧。你何必要悉多呢?
5.58.80
ततस्ताभिः समेताभिर्नारीभिः स महाबलः।
उत्थाप्य सहसा नीतो भवनं स्वं निशाचरः ॥ ५.५८.८० ॥
于是那些聚集的女子突然将这位大力的夜行者抬起,带回了她们自己的宫殿。
5.58.81
याते तस्मिन् दशग्रीवे राक्षस्यो विकृताननाः।
सीतां निर्भर्त्सयामासुर्वाक्यैः क्रूरैः सुदारुणैः ॥ ५.५८.८१ ॥
十首之王离去后,面目狰狞的罗刹女们用残酷可怖的言语威吓、辱骂悉多。
5.58.82
तृणवद् भाषितं तासां गणयामास जानकी।
गर्जितं च तथा तासां सीतां प्राप्य निरर्थकम् ॥ ५.५८.८२ ॥
耶那吉视她们的言语如草芥,她们在悉多面前的咆哮也全属徒劳。
5.58.83
वृथा गर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः।
रावणाय शशंसुस्ताः सीताव्यवसितं महत् ॥ ५.५८.८३ ॥
食肉的罗刹女们徒然咆哮、束手无策后,便把悉多的坚定决心报告给了罗波那。
5.58.84
ततस्ताः सहिताः सर्वा विहताशा निरुद्यमाः।
परिक्लिश्य समस्तास्ता निद्रावशमुपागताः ॥ ५.५८.८४ ॥
于是她们全都聚在一起,希望破灭、毫无斗志,疲惫不堪,陷入了睡眠之中。
5.58.85
तासु चैव प्रसुप्तासु सीता भर्तृहिते रता।
विलप्य करुणं दीना प्रशुशोच सुदुःखिता ॥ ५.५८.८५ ॥
她们都睡去之后,一心为夫君福祉着想的悉多,悲切地哭泣,凄苦而极度伤心地悲叹起来。
5.58.86
तासां मध्यात् समुत्थाय त्रिजटा वाक्यमब्रवीत्।
आत्मानं खादत क्षिप्रं न सीतामसितेक्षणाम् ॥ ५.५८.८६ ॥
三遮从她们中间起身说道:"你们快吃掉自己吧,不要去吃那黑眼睛的悉多。"
5.58.87
जनकस्यात्मजां साध्वीं स्नुषां दशरथस्य च।
स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः ॥ ५.५८.८७ ॥
关于悉多——遮那迦之女、十车王的贤良儿媳,我今日见到一个可怕、令人毛骨悚然的梦。
5.58.88
रक्षसां च विनाशाय भर्तुरस्या जयाय च।
अलमस्मान् परित्रातुं राघवाद् राक्षसीगणम् ॥ ५.५८.८८ ॥
为了罗刹的毁灭,为了她丈夫的胜利,也为了使我们免受罗怙之子的伤害,这对罗刹女群来说已经足够了。
5.58.89
अभियाचाम वैदेहीमेतद्धि मम रोचते।
यदि ह्येवंविधः स्वप्नो दुःखितायाः प्रदृश्यते ॥ ५.५८.८९ ॥
我们应当恳求维黛依;如果悲伤的她出现这样的梦,我认为这样做是对的。
5.58.90
सा दुःखैर्विविधैर्मुक्ता सुखमाप्नोत्यनुत्तमम्।
प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा ॥ ५.५८.९० ॥
她将摆脱种种苦难,获得至高的快乐,因为遮那迦之女、迈提里,会因恭敬的叩拜而欢喜。
5.58.91
अलमेषा परित्रातुं राक्षस्यो महतो भयात्।
ततः सा ह्रीमती बाला भर्तुर्विजयहर्षिता ॥ ५.५८.९१ ॥
她能使这些罗刹女免于大恐惧。那时,这位羞怯的年轻女子因丈夫的胜利而欢喜。
5.58.92
अवोचद् यदि तत् तथ्यं भवेयं शरणं हि वः।
तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम् ॥ ५.५८.९२ ॥
她说:“如果这是真的,我愿成为你们的庇护所。”我见到悉多如此悲惨的境况,
5.58.93
चिन्तयामास विश्रान्तो न च मे निर्वृतं मनः।
सम्भाषणार्थे च मया जानक्याश्चिन्तितो विधिः ॥ ५.५८.९३ ॥
休息之后我思量,但心中仍不安宁。我便思考如何与耶那基交谈。
5.58.94
इक्ष्वाकुकुलवंशस्तु स्तुतो मम पुरस्कृतः।
श्रुत्वा तु गदितां वाचं राजर्षिगणभूषिताम् ॥ ५.५८.९४ ॥
我赞美伊刹婆迦王族的世系并将其置于前面。听了那番由诸王仙装饰的言辞,
5.58.95
प्रत्यभाषत मां देवी बाष्पैः पिहितलोचना।
कस्त्वं केन कथं चेह प्राप्तो वानरपुङ्गव ॥ ५.५८.९५ ॥
女神泪眼朦胧地回答我:“你是谁?是受何人差遣,如何来到这里的,猴中之杰?”
5.58.96
का च रामेण ते प्रीतिस्तन्मे शंसितुमर्हसि।
तस्यास्तद् वचनं श्रुत्वा अहमप्यब्रुवं वचः ॥ ५.५८.९६ ॥
“你与罗摩有何关系?请告诉我。”听了她的话,我也回答了。
5.58.97
देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः।
सुग्रीवो नाम विक्रान्तो वानरेन्द्रो महाबलः ॥ ५.५८.९७ ॥
女神啊,你的夫君罗摩有一位盟友,名叫须羯哩婆,是猴王,勇猛可畏,英勇而大力。
5.58.98
तस्य मां विद्धि भृत्यं त्वं हनूमन्तमिहागतम्।
भर्त्रा सम्प्रहितस्तुभ्यं रामेणाक्लिष्टकर्मणा ॥ ५.५८.९८ ॥
你应知道我是他的仆人哈努曼,来到这里;正是你的夫君罗摩,行事不知疲倦,派我来到你面前。
5.58.99
इदं तु पुरुषव्याघ्रः श्रीमान् दाशरथिः स्वयम्।
अङ्गुलीयमभिज्ञानमदात् तुभ्यं यशस्विनि ॥ ५.५८.९९ ॥
这枚戒指是人中之杰、光荣的十车王之子亲手赠予你的,作为相认的信物,哦,尊贵的女子。
5.58.100
तदिच्छामि त्वयाज्ञप्तं देवि किं करवाण्यहम्।
रामलक्ष्मणयोः पार्श्वं नयामि त्वां किमुत्तरम् ॥ ५.५८.१०० ॥
因此,女神啊,我希望你下令:我该怎么做?是带你到罗摩和罗什曼那身边,还是你另有回答?
5.58.101
एतच्छ्रुत्वा विदित्वा च सीता जनकनन्दिनी।
आह रावणमुत्पाट्य राघवो मां नयत्विति ॥ ५.५८.१०१ ॥
悉多,闍那迦之女,听闻并明白此言后说道:"愿罗怙之子连根拔除罗婆那,带我离去。"
5.58.102
प्रणम्य शिरसा देवीमहमार्यामनिन्दिताम्।
राघवस्य मनोह्लादमभिज्ञानमयाचिषम् ॥ ५.५८.१०२ ॥
我向那位女神、高贵而无瑕的夫人低首致礼,请求她给我一个能使罗怙之子心中欢喜的相认信物。
5.58.103
अथ मामब्रवीत् सीता गृह्यतामयमुत्तमः।
मणिर्येन महाबाहू रामस्त्वां बहु मन्यते ॥ ५.५८.१०३ ॥
悉多对我说:"请收下这颗上好的宝珠,罗摩因此十分看重你,大臂者。"
5.58.104
इत्युक्त्वा तु वरारोहा मणिप्रवरमुत्तमम्।
प्रायच्छत् परमोद्विग्ना वाचा मां संदिदेश ह ॥ ५.५८.१०४ ॥
她说完这些,这位腰身纤美的女子极为忧急,把那颗上好的殊胜宝珠交给我,并用言语嘱咐我。
5.58.105
ततस्तस्यै प्रणम्याहं राजपुत्र्यै समाहितः।
प्रदक्षिणं परिक्राममिहाभ्युद्गतमानसः ॥ ५.५८.१०५ ॥
于是我向那位公主敬礼,凝神专注,心中振奋,在此右绕她行礼。
5.58.106
उत्तरं पुनरेवाह निश्चित्य मनसा तदा।
हनूमन् मम वृत्तान्तं वक्तुमर्हसि राघवे ॥ ५.५८.१०६ ॥
她心中打定主意,又说道:"哈奴曼,你应当把我的遭遇告诉罗怙王之后。"
5.58.107
यथा श्रुत्वैव नचिरात् तावुभौ रामलक्ष्मणौ।
सुग्रीवसहितौ वीरावुपेयातां तथा कुरु ॥ ५.५८.१०७ ॥
"一旦听闻,愿那两位英雄罗摩与罗什曼那,同须羯哩婆,不久便来到此处;请如此去做。"
5.58.108
यदन्यथा भवेदेतद् द्वौ मासौ जीवितं मम।
न मां द्रक्ष्यति काकुत्स्थो म्रिये साहमनाथवत् ॥ ५.५८.१०८ ॥
"若不如此,我的生命只剩两个月。迦古特斯塔不会再见到我,我会像无依无靠的人那样死去。"
5.58.109
तच्छ्रुत्वा करुणं वाक्यं क्रोधो मामभ्यवर्तत।
उत्तरं च मया दृष्टं कार्यशेषमनन्तरम् ॥ ५.५८.१०९ ॥
听到这哀切的话语,我怒火中烧,随即看清了剩下该做的事。
5.58.110
ततोऽवर्धत मे कायस्तदा पर्वतसंनिभः।
युद्धाकाङ्क्षी वनं तस्य विनाशयितुमारभे ॥ ५.५८.११० ॥
那时我的身体长得如同山岳,我渴望战斗,便开始毁坏他的园林。
5.58.111
तद् भग्नं वनखण्डं तु भ्रान्तत्रस्तमृगद्विजम्।
प्रतिबुद्ध्य निरीक्षन्ते राक्षस्यो विकृताननाः ॥ ५.५८.१११ ॥
看到那片被毁的林地,鹿与鸟惊惶逃窜,醒来的罗刹女们面目狰狞,四处张望。
5.58.112
मां च दृष्ट्वा वने तस्मिन् समागम्य ततस्ततः।
ताः समभ्यागताः क्षिप्रं रावणायाचचक्षिरे ॥ ५.५८.११२ ॥
她们在林中看见了我,便从四面八方聚集,迅速赶来禀告罗波那。
5.58.113
राजन् वनमिदं दुर्गं तव भग्नं दुरात्मना।
वानरेण ह्यविज्ञाय तव वीर्यं महाबल ॥ ५.५८.११३ ॥
大王!您这片难以靠近的林园,被一只凶恶的猴子毁坏了,他不知道您的威力,啊大力者。
5.58.114
तस्य दुर्बुद्धिता राजंस्तव विप्रियकारिणः।
वधमाज्ञापय क्षिप्रं यथासौ न पुनर्व्रजेत् ॥ ५.५८.११४ ॥
大王!请迅速下令处死那个给您带来不快的愚妄之徒,使他不再来。
5.58.115
तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा बहुदुर्जयाः।
राक्षसाः किंकरा नाम रावणस्य मनोऽनुगाः ॥ ५.५८.११५ ॥
罗刹之主闻言,派出了难以战胜的、听从罗波那心意的“金伽罗”罗刹。
5.58.116
तेषामशीतिसाहस्रं शूलमुद्गरपाणिनाम्।
मया तस्मिन् वनोद्देशे परिघेण निषूदितम् ॥ ५.५८.११६ ॥
其中手持长矛和铁棒的八万罗刹,在那片林区被我用铁杵杀死。
5.58.117
तेषां तु हतशिष्टा ये ते गता लघुविक्रमाः।
निहतं च मया सैन्यं रावणायाचचक्षिरे ॥ ५.५८.११७ ॥
其中侥幸未死的、勇猛迅捷的罗刹逃走,向罗波那禀报说大军已被我所杀。
5.58.118
ततो मे बुद्धिरुत्पन्ना चैत्यप्रासादमुत्तमम्।
तत्रस्थान् राक्षसान् हत्वा शतं स्तम्भेन वै पुनः ॥ ५.५८.११८ ॥
于是我心中生出一念:杀死那座殊胜的神殿宫中站立的百名罗刹,再用石柱将它推倒。
5.58.119
ललामभूतो लङ्काया मया विध्वंसितो रुषा।
ततः प्रहस्तस्य सुतं जम्बुमालिनमादिशत् ॥ ५.५८.११९ ॥
我怒而摧毁了那座作为楞伽装饰的宫殿。于是(罗波那)派普拉哈斯塔之子遮浮摩利来对付我。
5.58.120
राक्षसैर्बहुभिः सार्धं घोररूपैर्भयानकैः।
तमहं बलसम्पन्नं राक्षसं रणकोविदम् ॥ ५.५८.१२० ॥
与许多形貌可怖、令人恐惧的罗刹一同而来,我迎战那位有力量、精通战斗的罗刹。
5.58.121
परिघेणातिघोरेण सूदयामि सहानुगम्।
तच्छ्रुत्वा राक्षसेन्द्रस्तु मन्त्रिपुत्रान् महाबलान् ॥ ५.५८.१२१ ॥
“我将以极可怕的铁杵连同他们的随从一并杀死。”罗刹之主听闻此言,便派遣了强大的大臣之子。
5.58.122
पदातिबलसम्पन्नान् प्रेषयामास रावणः।
परिघेणैव तान् सर्वान् नयामि यमसादनम् ॥ ५.५८.१२२ ॥
罗波那派遣了配备步兵的部队。“我将仅用铁杵把他们全部送往阎摩之所。”
5.58.123
मन्त्रिपुत्रान् हतान् श्रुत्वा समरे लघुविक्रमान्।
पञ्च सेनाग्रगान् शूरान् प्रेषयामास रावणः ॥ ५.५८.१२३ ॥
罗波那听闻善于勇猛迅捷的大臣之子已在战中阵亡,便派遣了五位走在军前的勇士。
5.58.124
तानहं सहसैन्यान् वै सर्वानेवाभ्यसूदयम्।
ततः पुनर्दशग्रीवः पुत्रमक्षं महाबलम् ॥ ५.५८.१२४ ॥
我将他们全部连同其军队一并杀死。于是十首之王再次派遣了他强大的儿子阿刹。
5.58.125
बहुभी राक्षसैः सार्धं प्रेषयामास संयुगे।
तं तु मन्दोदरीपुत्रं कुमारं रणपण्डितम् ॥ ५.५८.१२५ ॥
他与众多罗刹一同派他上阵:那是曼陀那之子,精通战阵的王子。
5.58.126
सहसा खं समुद्यन्तं पादयोश्च गृहीतवान्।
तमासीनं शतगुणं भ्रामयित्वा व्यपेषयम् ॥ ५.५८.१२६ ॥
他忽然冲向天空,我抓住他的双脚;将他旋转一百圈,然后把他捶碎了。
5.58.127
तमक्षमागतं भग्नं निशम्य स दशाननः।
ततश्चेन्द्रजितं नाम द्वितीयं रावणः सुतम् ॥ ५.५८.१२७ ॥
十首罗波那听闻阿刹已被杀、军队已被摧毁,便召唤了他的第二个儿子,名叫因陀罗耆须。
5.58.128
व्यादिदेश सुसंक्रुद्धो बलिनं युद्धदुर्मदम्।
तच्चाप्यहं बलं सर्वं तं च राक्षसपुङ्गवम् ॥ ५.५८.१२८ ॥
他极为愤怒,向那位强大而好战的儿子下令:去对付我、我的全部力量,以及那位罗刹中的首领。
5.58.129
नष्टौजसं रणे कृत्वा परं हर्षमुपागतः।
महतापि महाबाहुः प्रत्ययेन महाबलः ॥ ५.५८.१२९ ॥
在战斗中使他失去力量之后,这位大臂、大力者获得了无上的喜悦,并且也充满了大信心。
5.58.130
प्रहितो रावणेनैष सह वीरैर्मदोद्धतैः।
सोऽविषह्यं हि मां बुद्ध्वा स्वसैन्यं चावमर्दितम् ॥ ५.५८.१३० ॥
这位(因陀罗耆须)与骄狂的勇士们一同受罗波那派遣,他看出我难以抵挡,且自己的军队已被践踏——
5.58.131
ब्रह्मणोऽस्त्रेण स तु मां प्रबद्ध्वा चातिवेगिनः।
रज्जुभिश्चापि बध्नन्ति ततो मां तत्र राक्षसाः ॥ ५.५८.१३१ ॥
因陀罗耆须用梵天之箭将我捆缚;随后那里的罗刹又用绳索捆住了我——我本是速度极快的。
5.58.132
रावणस्य समीपं च गृहीत्वा मामुपागमन्।
दृष्ट्वा सम्भाषितश्चाहं रावणेन दुरात्मना ॥ ५.५८.१३२ ॥
他们抓住我,把我带到罗波那面前;罗波那见到我,便对我说话——那个邪恶之人。
5.58.133
पृष्टश्च लङ्कागमनं राक्षसानां च तं वधम्।
तत्सर्वं च रणे तत्र सीतार्थमुपजल्पितम् ॥ ५.५८.१३३ ॥
当他问及我到达楞伽、罗刹的被杀以及在那里为悉多而进行的战斗的一切时,我把这一切都讲述了。
5.58.134
तस्यास्तु दर्शनाकाङ्क्षी प्राप्तस्त्वद्भवनं विभो।
मारुतस्यौरसः पुत्रो वानरो हनुमानहम् ॥ ५.५८.१३४ ॥
我渴望见到她,主人,我来到了您的府邸。我是猴子哈努曼,风神的亲生儿子。
5.58.135
रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम्।
सोऽहं दौत्येन रामस्य त्वत्सकाशमिहागतः ॥ ५.५८.१३५ ॥
你应知道我是罗摩的使者,是须羯履婆的大臣猴子。我奉罗摩之命作为使节来到你面前。
5.58.136
शृणु चापि समादेशं यदहं प्रब्रवीमि ते।
राक्षसेश हरीशस्त्वां वाक्यमाह समाहितम् ॥ ५.५८.१३६ ॥
罗刹之主啊,请听我转达给你的信息。猴王以深思熟虑的话语对你说了。
5.58.137
सुग्रीवश्च महाभागः स त्वां कौशलमब्रवीत्।
धर्मार्थकामसहितं हितं पथ्यमुवाच ह ॥ ५.५८.१३७ ॥
大福的须羯履婆问候了你的安好,并对你说了与法、利、欲相应的有益而恰当的话。
5.58.138
वसतो ऋष्यमूके मे पर्वते विपुलद्रुमे।
राघवो रणविक्रान्तो मित्रत्वं समुपागतः ॥ ५.५८.१३८ ॥
我居住在多树的仙人山时,在战场上勇猛的罗怙后裔与我结为友好。
5.58.139
तेन मे कथितं राजन् भार्या मे रक्षसा हृता।
तत्र साहाय्यहेतोर्मे समयं कर्तुमर्हसि ॥ ५.५८.१३९ ॥
他对我说,国王啊,我的妻子被一个罗刹劫走了。因此,您应当与我订立盟约,以便帮助他。
5.58.140
वालिना हृतराज्येन सुग्रीवेण सह प्रभुः।
चक्रेऽग्निसाक्षिकं सख्यं राघवः सहलक्ष्मणः ॥ ५.५८.१४० ॥
罗怙王之子与罗希曼那一同,与被婆黎夺去王国的须羯哩婆结为盟友,以火神为见证。
5.58.141
तेन वालिनमाहत्य शरेणैकेन संयुगे।
वानराणां महाराजः कृतः सम्प्लवतां प्रभुः ॥ ५.५८.१४१ ॥
他在战斗中以一支箭射杀了婆黎,立须羯哩婆为跳跃猴群的大王与主君。
5.58.142
तस्य साहाय्यमस्माभिः कार्यं सर्वात्मना त्विह।
तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः ॥ ५.५८.१४२ ॥
我们应当全心全意地在此助他;他依法派我来到您这里。
5.58.143
क्षिप्रमानीयतां सीता दीयतां राघवस्य च।
यावन्न हरयो वीरा विधमन्ति बलं तव ॥ ५.५८.१४३ ॥
趁英勇的猴子尚未冲散你的军队,快快把悉多带来,归还罗怙王之子。
5.58.144
वानराणां प्रभावोऽयं न केन विदितः पुरा।
देवतानां सकाशं च ये गच्छन्ति निमन्त्रिताः ॥ ५.५८.१४४ ॥
这些猴子的威力,凡被神明邀请而前往天神之前的,先前无人知晓。
5.58.145
मामैक्षत ततो रुष्टश्चक्षुषा प्रदहन्निव ॥ ५.५८.१४५ ॥
于是他愤怒地看着我,目光仿佛要将我烧尽。
5.58.146
तेन वध्योऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा।
मत्प्रभावमविज्ञाय रावणेन दुरात्मना ॥ ५.५८.१४६ ॥
那残暴的罗刹、恶魔罗波那不知我的威力,下令将我处死。
5.58.147
ततो विभीषणो नाम तस्य भ्राता महामतिः।
तेन राक्षसराजश्च याचितो मम कारणात् ॥ ५.५८.१४७ ॥
于是他的兄弟、大智慧的维毗沙那为了我向罗刹王请求。
5.58.148
नैवं राक्षसशार्दूल त्यज्यतामेष निश्चयः।
राजशास्त्रव्यपेतो हि मार्गः संलक्ष्यते त्वया ॥ ५.५८.१४८ ॥
不可如此,罗刹中的猛虎啊,请放弃这个决定。你所选择的道路,显然背离了王者的法典。
5.58.149
दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस।
दूतेन वेदितव्यं च यथाभिहितवादिना ॥ ५.५८.१४९ ॥
罗刹啊,在王者的典籍中,并未见到使者应当被杀;使者应被理解为依所嘱而言之人。
5.58.150
सुमहत्यपराधेऽपि दूतस्यातुलविक्रम।
विरूपकरणं दृष्टं न वधोऽस्ति हि शास्त्रतः ॥ ५.५८.१५० ॥
无比勇猛者啊,即使使者犯下极大的过错,所见的惩罚也只是毁伤肢体;依据典籍,并无杀戮之法。
5.58.151
विभीषणेनैवमुक्तो रावणः संदिदेश तान्।
राक्षसानेतदेवाद्य लाङ्गूलं दह्यतामिति ॥ ५.५८.१५१ ॥
维毗沙那如此进言后,罗波那命令那些罗刹:“今天就把这个家伙的尾巴烧掉。”
5.58.152
ततस्तस्य वचः श्रुत्वा मम पुच्छं समन्ततः।
वेष्टितं शणवल्कैश्च पट्टैः कार्पासकैस्तथा ॥ ५.५८.१५२ ॥
他们听了他的话,用麻线、树皮、布条和棉絮把我的尾巴从四面缠裹起来。
5.58.153
राक्षसाः सिद्धसंनाहास्ततस्ते चण्डविक्रमाः।
तदादीप्यन्त मे पुच्छं हनन्तः काष्ठमुष्टिभिः ॥ ५.५८.१५३ ॥
于是那些披甲待战、勇猛剽悍的罗刹,用木拳击打着我,点燃了我的尾巴。
5.58.154
बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसैः।
न मे पीडाभवत् काचिद् दिदृक्षोर्नगरीं दिवा ॥ ५.५८.१५४ ॥
尽管罗刹用许多绳索把我捆绑束缚,我却没有任何痛苦,因为我想在白天看看这座城市。
5.58.155
ततस्ते राक्षसाः शूरा बद्धं मामग्निसंवृतम्।
अघोषयन् राजमार्गे नगरद्वारमागताः ॥ ५.५८.१५५ ॥
于是那些勇猛的罗刹把被捆绑、裹在火中的我带到城门,并在王道上宣告。
5.58.156
ततोऽहं सुमहद्रूपं संक्षिप्य पुनरात्मनः।
विमोचयित्वा तं बन्धं प्रकृतिस्थः स्थितः पुनः ॥ ५.५८.१५६ ॥
于是我又将巨大的身形收缩回来,挣脱了那束缚,重新以原本的形态站立。
5.58.157
आयसं परिघं गृह्य तानि रक्षांस्यसूदयम्।
ततस्तन्नगरद्वारं वेगेन प्लुतवानहम् ॥ ५.५८.१५७ ॥
我手持铁杵,杀死了那些罗刹。随后我疾速跃向那座城门。
5.58.158
पुच्छेन च प्रदीप्तेन तां पुरीं साट्टगोपुराम्।
दहाम्यहमसम्भ्रान्तो युगान्ताग्निरिव प्रजाः ॥ ५.५८.१५८ ॥
我以燃烧的尾巴焚烧那座城市,连同其楼阁与城门,毫不惊慌,如同劫末之火焚烧众生。
5.58.159
विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते।
लङ्कायाः कश्चिदुद्देशः सर्वा भस्मीकृता पुरी ॥ ५.५८.१५९ ॥
悉多必已毁灭,因为楞伽城中看不到任何未被焚烧之处;整座城市已化为灰烬。
5.58.160
दहता च मया लङ्कां दग्धा सीता न संशयः।
रामस्य च महत्कार्यं मयेदं विफलीकृतम् ॥ ५.५८.१६० ॥
焚烧楞伽时,悉多也因我而被焚,毫无疑问;罗摩的大事也因我而落空。
5.58.161
ततोऽहं वाचमश्रौषं चारणानां शुभाक्षराम् ॥ ५.५८.१६१ ॥
于是我听到了斥候仙人(cāraṇa)吉祥的话语。
5.58.162
जानकी न च दग्धेति विस्मयोदन्तभाषिणाम्।
ततो मे बुद्धिरुत्पन्ना श्रुत्वा तामद्भुतां गिरम् ॥ ५.५८.१६२ ॥
"悉多并未被焚"——听到那些惊叹而说的奇妙之言,我心中生出一念。
5.58.163
अदग्धा जानकीत्येव निमित्तैश्चोपलक्षितम्।
दीप्यमाने तु लाङ्गूले न मां दहति पावकः ॥ ५.५८.१६३ ॥
悉多未被焚毁,这也由征兆得以确认;尾巴燃烧之时,火却不曾烧我。
5.58.164
हृदयं च प्रहृष्टं मे वाताः सुरभिगन्धिनः।
तैर्निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः ॥ ५.५८.१६४ ॥
我心欢喜,芬芳的风正在吹拂;由于那些征兆、显见的迹象和大德的缘由,[我感到欢喜]。
5.58.165
ऋषिवाक्यैश्च दृष्टार्थैरभवं हृष्टमानसः।
पुनर्दृष्टा च वैदेही विसृष्टश्च तया पुनः ॥ ५.५८.१६५ ॥
因贤者的言语和显见的迹象,我心欢喜;我再次见到了毗提醯,并再次从她那里辞别。
5.58.166
ततः पर्वतमासाद्य तत्रारिष्टमहं पुनः।
प्रतिप्लवनमारेभे युष्मद्दर्शनकाङ्क्षया ॥ ५.५८.१६६ ॥
于是我到达那座山,在阿利什塔山上再次开始跳跃,渴望见到你们。
5.58.167
ततः श्वसनचन्द्रार्कसिद्धगन्धर्वसेवितम्।
पन्थानमहमाक्रम्य भवतो दृष्टवानिह ॥ ५.५८.१६७ ॥
随后,我越过风、月、日、悉陀与乾闼婆所护持的道路,在此见到了你们。
5.58.168
राघवस्य प्रसादेन भवतां चैव तेजसा।
सुग्रीवस्य च कार्यार्थं मया सर्वमनुष्ठितम् ॥ ५.५८.१६८ ॥
凭借罗怙的恩典和你们的光辉,为了须羯哩婆的使命,我完成了一切。
5.58.169
एतत् सर्वं मया तत्र यथावदुपपादितम्।
तत्र यन्न कृतं शेषं तत् सर्वं क्रियतामिति ॥ ५.५८.१६९ ॥
这一切都已由我在那里按规矩完成了。那里尚未完成的部分,现在都应当去做。