Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 5.59

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

5.59.1

एतदाख्याय तत् सर्वं हनूमान् मारुतात्मजः।
भूयः समुपचक्राम वचनं वक्तुमुत्तरम् ॥ ५.५९.१ ॥

これらすべてを語り終えると、風神の子ハヌマーンは再び答えを述べ始めた。

5.59.2

सफलो राघवोद्योगः सुग्रीवस्य च सम्भ्रमः।
शीलमासाद्य सीताया मम च प्रीणितं मनः ॥ ५.५९.२ ॥

ラーガヴァの努力とスグリーヴァの熱意は実を結んだ。シーターの徳を知り、私の心は喜びに満たされた。

5.59.3

आर्यायाः सदृशं शीलं सीतायाः प्लवगर्षभाः।
तपसा धारयेल्लोकान् क्रुद्धा वा निर्दहेदपि ॥ ५.५९.३ ॥

猿の中の勇士たちよ!高貴なシーターの徳は彼女にふさわしい。苦行によって彼女は諸世界を支えることもでき、怒れば焼き尽くすことさえできるのだ。

5.59.4

सर्वथातिप्रकृष्टोऽसौ रावणो राक्षसेश्वरः।
यस्य तां स्पृशतो गात्रं तपसा न विनाशितम् ॥ ५.५९.४ ॥

羅刹の王ラーヴァナは、あらゆる点で極めて卑しい。彼女の身体に触れたのに、その苦行によって焼き滅ぼされなかったのだから。

5.59.5

न तदग्निशिखा कुर्यात् संस्पृष्टा पाणिना सती।
जनकस्य सुता कुर्याद् यत् क्रोधकलुषीकृता ॥ ५.५९.५ ॥

手で触れられた貞淑なジャナカの娘は、炎の舌のような振る舞いはしないだろう。だが怒りに曇らされた時、彼女は炎にもできないことをなし得るのだ。

5.59.6

जाम्बवत्प्रमुखान् सर्वाननुज्ञाप्य महाकपीन्।
अस्मिन् नेवंगते कार्ये भवतां च निवेदिते।
न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ ॥ ५.५९.६ ॥

ジャーンバヴァーンをはじめとする偉大な猿たちに別れを告げ、この任務がこのように成し遂げられたことをあなた方に報告した後、あの二人の王子がヴァイデーヒーに会うことこそ正しいことである。

5.59.7

अहमेकोऽपि पर्याप्तः सराक्षसगणां पुरीम्।
तां लङ्कां तरसा हन्तुं रावणं च महाबलम् ॥ ५.५९.७ ॥

私一人でも、羅刹の群れとともにあの都ラṅカーと、大力のラーヴァナを速やかに滅ぼすに十分である。

5.59.8

किं पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिः।
कृतास्त्रैः प्लवगैः शक्तैर्भवद्भिर्विजयैषिभिः ॥ ५.५९.८ ॥

あなたがた、力強く自制し、武芸に熟達し、有能で勝利を求める勇士たち、猿の中の者たちと共にあれば、何を言うことがあろうか。

5.59.9

अहं तु रावणं युद्धे ससैन्यं सपुरःसरम्।
सहपुत्रं वधिष्यामि सहोदरयुतं युधि ॥ ५.५९.९ ॥

私は戦場でラーヴァナを、その軍勢、先鋒、息子、兄弟たちと共に討ち果たそう。

5.59.10

ब्राह्ममस्त्रं च रौद्रं च वायव्यं वारुणं तथा।
यदि शक्रजितोऽस्त्राणि दुर्निरीक्ष्याणि संयुगे।
तान्यहं निहनिष्यामि विधमिष्यामि राक्षसान् ॥ ५.५९.१० ॥

インドラジットの武器、すなわちブラフマー、ルドラ、ヴァーヤヴヤ、ヴァルナの武器や、戦場で直視し難い武器であっても、私はそれらを砕き、羅刹たちを散らすであろう。

5.59.11

भवतामभ्यनुज्ञातो विक्रमो मे रुणद्धि तम्।
मयातुला विसृष्टा हि शैलवृष्टिर्निरन्तरा ॥ ५.५९.११ ॥

あなたがたの許しを得た私の武勇が彼を阻むであろう。また私が放つ比類なく絶え間ない岩山の雨も彼を阻むであろう。

5.59.12

देवानपि रणे हन्यात् किं पुनस्तान् निशाचरान्।
भवतामननुज्ञातो विक्रमो मे रुणद्धि माम् ॥ ५.५९.१२ ॥

私の武勇は戦場で神々さえ討ち果たせるほどだ。ましてあの夜行者たちなどは言うまでもない。しかし、あなたがたの許しがなければ、この私の武勇こそが私を阻むであろう。

5.59.13

सागरोऽप्यतियाद् वेलां मन्दरः प्रचलेदपि।
न जाम्बवन्तं समरे कम्पयेदरिवाहिनी ॥ ५.५९.१३ ॥

海が岸を越え、マンダラ山が動くことがあっても、敵の軍勢は戦いにおいてジャーンバヴァーンを震わせることはできない。

5.59.14

सर्वराक्षससङ्घानां राक्षसा ये च पूर्वजाः।
अलमेकोऽपि नाशाय वीरो वालिसुतः कपिः ॥ ५.५९.१४ ॥

ラークシャサの全ての群れとその祖先を滅ぼすには、ただ一人で足りる。あの勇猛な猿、ヴァーリの息子こそが。

5.59.15

प्लवगस्योरुवेगेन नीलस्य च महात्मनः।
मन्दरोऽप्यवशीर्येत किं पुनर्युधि राक्षसाः ॥ ५.५९.१५ ॥

跳躍する猿の大いなる速さと、大いなる魂の持ち主ニーラの速さによって、マンダラ山さえも砕け落ちるだろう——戦いにおけるラークシャサなど言うまでもない。

5.59.16

सदेवासुरयक्षेषु गन्धर्वोरगपक्षिषु।
मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा ॥ ५.५९.१६ ॥

神々、アスラ、ヤクシャ、ガンダルヴァ、蛇、鳥のうちで、マインダやドゥヴィヴィダに匹敵する相手を挙げよ。

5.59.17

अश्विपुत्रौ महावेगावेतौ प्लवगसत्तमौ।
एतयोः प्रतियोद्धारं न पश्यामि रणाजिरे ॥ ५.५९.१७ ॥

この二人はアシュヴィンの息子で、大いなる速さを持ち、跳躍する者の中で最も優れている。戦場で彼らに対抗する者は私には見えない。

5.59.18

मयैव निहता लङ्का दग्धा भस्मीकृता पुरी।
राजमार्गेषु सर्वेषु नाम विश्रावितं मया ॥ ५.५९.१८ ॥

ランカーを滅ぼしたのは私だ。都を焼き払って灰燼に帰せしめた。そして王道の全てに、私の名は布告されたのだ。

5.59.19

जयत्यतिबलो रामो लक्ष्मणश्च महाबलः।
राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ ५.५९.१९ ॥

極めて強大なラーマに勝利あれ、偉大なる力を持つラクシュマナに勝利あれ!ラーghaヴァに守られる王スグリーヴァに勝利あれ!

5.59.20

अहं कोसलराजस्य दासः पवनसम्भवः।
हनूमानिति सर्वत्र नाम विश्रावितं मया ॥ ५.५९.२० ॥

私はコーサラ王の僕、風の神の子ハヌマーンである。私は自らの名をあらゆる所に知らしめた。

5.59.21

अशोकवनिकामध्ये रावणस्य दुरात्मनः।
अधस्ताच्छिंशपामूले साध्वी करुणमास्थिता ॥ ५.५९.२१ ॥

邪悪なラーヴァナのアショーカ園の中央、シンシャパー樹の根元に、その貞淑な女性は悲しみに沈んで座していた。

5.59.22

राक्षसीभिः परिवृता शोकसंतापकर्शिता।
मेघरेखापरिवृता चन्द्ररेखेव निष्प्रभा ॥ ५.५९.२२ ॥

羅刹女たちに囲まれ、悲しみと苦悩にやつれ、雲の筋に覆われた三日月のように輝きを失っていた。

5.59.23

अचिन्तयन्ती वैदेही रावणं बलदर्पितम्।
पतिव्रता च सुश्रोणी अवष्टब्धा च जानकी ॥ ५.५९.२३ ॥

ヴァイデーヒーは力に驕るラーヴァナのことを考えてもいなかった。夫に忠実で、美しい腰の、堅固な貞淑なジャーナキーは、彼に一顧だにしなかった。

5.59.24

अनुरक्ता हि वैदेही रामे सर्वात्मना शुभा।
अनन्यचित्ता रामेण पौलोमीव पुरन्दरे ॥ ५.५९.२४ ॥

吉祥なるヴァイデーヒーは全身全霊でラーマに愛着していた。心は他の誰にも向けられず、パウローミーがプランダラ(インドラ)を想うように、ラーマに定められていた。

5.59.25

तदेकवासःसंवीता रजोध्वस्ता तथैव च।
सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ॥ ५.५९.२५ ॥

ただ一枚の衣をまとい、塵にまみれ、羅刹女たちの中で幾度も脅されているのを、私は見た。

5.59.26

राक्षसीभिर्विरूपाभिर्दृष्टा हि प्रमदावने।
एकवेणीधरा दीना भर्तृचिन्तापरायणा ॥ ५.५९.२६ ॥

歓楽園で私は彼女を見た。醜い羅刹女たちに囲まれ、一本の三つ編みを結び、悲しみに沈み、夫のことを思い続けていた。

5.59.27

अधःशय्या विवर्णाङ्गी पद्मिनीव हिमोदये।
रावणाद् विनिवृत्तार्था मर्तव्यकृतनिश्चया ॥ ५.५९.२७ ॥

地面に横たわり、体は蒼白で、霜の昇る時の蓮の花のよう。ラーヴァナへの望みをすべて捨て、死を決意していた。

5.59.28

कथंचिन्मृगशावाक्षी विश्वासमुपपादिता।
ततः सम्भाषिता चैव सर्वमर्थं प्रकाशिता ॥ ५.५९.२८ ॥

何とかして鹿の子のような目の彼女の信頼を得た。それから彼女と話し、事の全てを明かした。

5.59.29

रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता।
नियतः समुदाचारो भक्तिर्भर्तरि चोत्तमा ॥ ५.५९.२९ ॥

ラーマとスグリーヴァの友誼を聞いて、彼女は喜んだ。その振る舞いは慎み深く、夫への献身は至上のものであった。

5.59.30

यन्न हन्ति दशग्रीवं स महात्मा दशाननः।
निमित्तमात्रं रामस्तु वधे तस्य भविष्यति ॥ ५.५९.३० ॥

その大いなる御方が今、十頸十面のラーヴァナを殺さないのは、彼の滅びにおいてラーマが単なる手段となるからである。

5.59.31

सा प्रकृत्यैव तन्वङ्गी तद्वियोगाच्च कर्शिता।
प्रतिपत्पाठशीलस्य विद्येव तनुतां गता ॥ ५.५९.३१ ॥

彼女は生まれつき細身であり、彼との別離によっていっそうやつれた。初日の誦習を続ける者の学問が衰えるように。

5.59.32

एवमास्ते महाभागा सीता शोकपरायणा।
यदत्र प्रतिकर्तव्यं तत् सर्वमुपकल्प्यताम् ॥ ५.५९.३२ ॥

このように大いなる幸運のシーターは悲しみにひたすら沈んでいる。ここですべきことは、すべて整えられよ。