Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 5.60

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.60.1

तस्य तद् वचनं श्रुत्वा वालिसूनुरभाषत।
अश्विपुत्रौ महावेगौ बलवन्तौ प्लवंगमौ ॥ ५.६०.१ ॥

瓦利之子听了他的话,便谈起阿什文之子那两位迅捷而强壮的跳跃猴王。

5.60.2

पितामहवरोत्सेकात् परमं दर्पमास्थितौ।
अश्विनोर्माननार्थं हि सर्वलोकपितामहः ॥ ५.६०.२ ॥

因祖父所赐之恩而生出傲慢,二人怀着极大的骄矜;为尊崇双阿什文,万界之祖(梵天)曾赐予他们恩典。

5.60.3

सर्वावध्यत्वमतुलमनयोर्दत्तवान् पुरा।
वरोत्सेकेन मत्तौ च प्रमथ्य महतीं चमूम् ॥ ५.६०.३ ॥

往昔他曾赐予二人无人能杀之的无比恩典;二人因恩典的傲慢而沉醉,摧毁了庞大的军队。

5.60.4

सुराणाममृतं वीरौ पीतवन्तौ महाबलौ।
एतावेव हि संक्रुद्धौ सवाजिरथकुञ्जराम् ॥ ५.६०.४ ॥

这两位大力勇士曾饮用诸神的甘露;他们一旦愤怒,便能连同战马、战车与象军一并摧毁大军。

5.60.5

लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः।
अहमेकोऽपि पर्याप्तः सराक्षसगणां पुरीम् ॥ ५.६०.५ ॥

能够毁灭楞伽城的只有这二人;其余猴众都留下吧。我一人便足以毁灭那座城池及其罗刹众。

5.60.6

तां लङ्कां तरसा हन्तुं रावणं च महाबलम्।
किं पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिः ॥ ५.६०.६ ॥

要迅速毁灭那座楞伽城并击杀大力的罗波那,我一人便足够;何况有强大而自制的勇士与我同行呢?

5.60.7

कृतास्त्रैः प्लवगैः शक्तैर्भवद्भिर्विजयैषिभिः।
वायुसूनोर्बलेनैव दग्धा लङ्केति नः श्रुतम् ॥ ५.६०.७ ॥

诸位精通武艺、渴望胜利的跳跃者啊,我们听说楞伽只是靠风之子的力量被焚毁的。

5.60.8

दृष्टा देवी न चानीता इति तत्र निवेदितुम्।
न युक्तमिव पश्यामि भवद्भिः ख्यातपौरुषैः ॥ ५.६०.८ ॥

在那里禀报说见到了女神却没有带回,我觉得对于你们这些以勇武著称的人来说并不合适。

5.60.9

नहि वः प्लवने कश्चिन्नापि कश्चित् पराक्रमे।
तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः ॥ ५.६०.९ ॥

诸位猴中最优秀者啊,你们之中无论谁在跳跃还是勇武上,在包括天神与阿修罗在内的三界中都无人能与之相比。

5.60.10

जित्वा लङ्कां सरक्षौघां हत्वा तं रावणं रणे।
सीतामादाय गच्छामः सिद्धार्था हृष्टमानसाः ॥ ५.६०.१० ॥

征服楞伽及其守卫之众,在战场上杀死罗波那之后,我们带着悉多离去,目的已达成,心中欢喜。

5.60.11

तेष्वेवं हतवीरेषु राक्षसेषु हनूमता।
किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम् ॥ ५.६०.११ ॥

既然罗刹的勇士们已被哈努曼如此杀死,此地还有什么可做的呢?让我们带着耆那吉离去吧。

5.60.12

रामलक्ष्मणयोर्मध्ये न्यस्याम जनकात्मजाम्।
किं व्यलीकैस्तु तान् सर्वान् वानरान् वानरर्षभान् ॥ ५.६०.१२ ॥

让耆那卡之女置于罗摩与罗什曼那之间。对那些猿中之雄牛般的诸位猴子施以欺骗,又有何益?

5.60.13

वयमेव हि गत्वा तान् हत्वा राक्षसपुङ्गवान्।
राघवं द्रष्टुमर्हामः सुग्रीवं सहलक्ष्मणम् ॥ ५.६०.१३ ॥

我们亲自前往,杀死那些罗刹中的雄杰,应当去见罗怙后裔、须羯里婆与罗什曼那。

5.60.14

तमेवं कृतसंकल्पं जाम्बवान् हरिसत्तमः।
उवाच परमप्रीतो वाक्यमर्थवदर्थवित् ॥ ५.६०.१४ ॥

对于如此立下决心的他,猴中最优秀的熊王(Jāmbavān)深感欢喜,知晓利害,便说出了有意义的话。

5.60.15

नैषा बुद्धिर्महाबुद्धे यद् ब्रवीषि महाकपे।
विचेतुं वयमाज्ञप्ता दक्षिणां दिशमुत्तमाम् ॥ ५.६०.१५ ॥

你所说的并非明智之策,啊大智者,啊大猴;我们受命去寻找那殊胜的南方。

5.60.16

नानेतुं कपिराजेन नैव रामेण धीमता।
कथंचिन्निर्जितां सीतामस्माभिर्नाभिरोचयेत् ॥ ५.६०.१६ ॥

无论猴王还是智慧的罗摩,都未命令我们以任何方式征服悉多并将她带回;他们不会赞同我们这样做。

5.60.17

राघवो नृपशार्दूलः कुलं व्यपदिशन् स्वकम्।
प्रतिज्ञाय स्वयं राजा सीताविजयमग्रतः ॥ ५.६०.१७ ॥

罗怙后裔(罗摩),王中之虎,提及自家的门第,自己先前已立下了征服悉多的誓言。

5.60.18

सर्वेषां कपिमुख्यानां कथं मिथ्या करिष्यति।
विफलं कर्म च कृतं भवेत् तुष्टिर्न तस्य च ॥ ५.६०.१८ ॥

他怎会使所有猴中首领的事业化为虚妄?已做的事将毫无结果,他自己也不会感到满足。

5.60.19

वृथा च दर्शितं वीर्यं भवेद् वानरपुङ्गवाः।
तस्माद् गच्छाम वै सर्वे यत्र रामः सलक्ष्मणः।
सुग्रीवश्च महातेजाः कार्यस्यास्य निवेदने ॥ ५.६०.१९ ॥

否则,我们的勇力便是白白展示了。因此,诸位猿中之雄,我们都去罗摩与罗什曼那所在之处,并向威光赫赫的须羯里婆报告此事的经过。

5.60.20

न तावदेषा मतिरक्षमा नो
यथा भवान् पश्यति राजपुत्र।
यथा तु रामस्य मतिर्निविष्टा
तथा भवान् पश्यतु कार्यसिद्धिम् ॥ ५.६०.२० ॥

王子啊,这个主意目前我们难以接受;但请您按照您认为恰当的去做。正如罗摩的心意已经坚定,愿您也看到此事的成功。