Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 5.62

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.62.1

तानुवाच हरिश्रेष्ठो हनूमान् वानरर्षभः।
अव्यग्रमनसो यूयं मधु सेवत वानराः ॥ ५.६२.१ ॥

猴中之最、猴中之牛的哈努曼对他们说:猴子们,心无忧虑地享用蜂蜜吧。

5.62.2

अहमावर्जयिष्यामि युष्माकं परिपन्थिनः।
श्रुत्वा हनूमतो वाक्यं हरीणां प्रवरोऽङ्गदः ॥ ५.६२.२ ॥

我将驱退你们的阻碍者。猴中第一的安伽达听了哈努曼的话……

5.62.3

प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु।
अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया ॥ ५.६२.३ ॥

他心情愉快地回答:让猴子们喝蜂蜜吧。完成使命的哈努曼的话,我必定遵从。

5.62.4

अकार्यमपि कर्तव्यं किमङ्गं पुनरीदृशम्।
अङ्गदस्य मुखाच्छ्रुत्वा वचनं वानरर्षभाः ॥ ५.६२.४ ॥

即使不当做的事也必须去做,何况这样的事呢!猴中之牛们听了安伽达口中的话……

5.62.5

साधु साध्विति संहृष्टा वानराः प्रत्यपूजयन्।
पूजयित्वाङ्गदं सर्वे वानरा वानरर्षभम् ॥ ५.६२.५ ॥

“好啊,好啊!”欢喜的猴子们齐声称赞,并向他致敬。向安伽达致敬之后,所有猴子又向猴中之牛致敬……

5.62.6

जग्मुर्मधुवनं यत्र नदीवेग इव द्रुमम्।
ते प्रविष्टा मधुवनं पालानाक्रम्य शक्तितः ॥ ५.६२.६ ॥

他们前往蜜林,犹如河水奔向树木。他们以力量压制守卫,进入了蜜林。

5.62.7

अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा च मैथिलीम्।
पपुः सर्वे मधु तदा रसवत् फलमाददुः ॥ ५.६२.७ ॥

因不受约束,那些机敏的猴子见到了美提里并听到了她的话语,于是大家便饮蜜,摘取了美味的果实。

5.62.8

उत्पत्य च ततः सर्वे वनपालान् समागतान्।
ते ताडयन्तः शतशः सक्ता मधुवने तदा ॥ ५.६२.८ ॥

于是众猴跳起,成百次地打击前来聚集的林中守卫,那时他们都沉浸于蜜林之中。

5.62.9

मधूनि द्रोणमात्राणि बाहुभिः परिगृह्य ते।
पिबन्ति कपयः केचित् सङ्घशस्तत्र हृष्टवत् ॥ ५.६२.९ ॥

用双臂抱住以“德罗纳”计量的蜂蜜,一些猴子成群地在那里欢快地畅饮。

5.62.10

घ्नन्ति स्म सहिताः सर्वे भक्षयन्ति तथापरे।
केचित् पीत्वापविध्यन्ति मधूनि मधुपिङ्गलाः ॥ ५.६२.१० ॥

众猴一同击打,其他的吃食,有些喝了蜜便将其丢弃,因蜜而变得黄褐色。

5.62.11

मधूच्छिष्टेन केचिच्च जघ्नुरन्योन्यमुत्कटाः।
अपरे वृक्षमूलेषु शाखा गृह्य व्यवस्थिताः ॥ ५.६२.११ ॥

有些狂暴的猴子用蜜的残余彼此击打,其他的则站在树根处,手握树枝。

5.62.12

अत्यर्थं च मदग्लानाः पर्णान्यास्तीर्य शेरते।
उन्मत्तवेगाः प्लवगा मधुमत्ताश्च हृष्टवत् ॥ ५.६२.१२ ॥

因极度醉意而困乏,他们铺开树叶便躺下;那些以疯狂速度跳跃的猴子,因蜜而醉,欢喜无比。

5.62.13

क्षिपन्त्यपि तथान्योन्यं स्खलन्ति च तथापरे।
केचित् क्ष्वेडान् प्रकुर्वन्ति केचित् कूजन्ति हृष्टवत् ॥ ५.६२.१३ ॥

有的互相投掷,有的踉跄跌倒。有的发出吼叫,有的欢喜地呼喊。

5.62.14

हरयो मधुना मत्ताः केचित् सुप्ता महीतले।
धृष्टाः केचिद्धसन्त्यन्ये केचित् कुर्वन्ति चेतरत् ॥ ५.६२.१४ ॥

有些猴子因蜜酒而醉,躺在地上睡着了;有些胆大的在大笑,另一些则做着别的事。

5.62.15

कृत्वा केचिद् वदन्त्यन्ये केचिद् बुध्यन्ति चेतरत्।
येऽप्यत्र मधुपालाः स्युः प्रेष्या दधिमुखस्य तु ॥ ५.६२.१५ ॥

有的做完某事后便开口说话;有的醒来后又去做别的事。此处守护蜜林的人,是达底牟珂的仆从。

5.62.16

तेऽपि तैर्वानरैर्भीमैः प्रतिषिद्धा दिशो गताः।
जानुभिश्च प्रघृष्टाश्च देवमार्गं च दर्शिताः ॥ ५.६२.१६ ॥

他们也被那些凶猛的猴子阻挡,四散奔逃,双膝擦伤,仿佛被指示了天神之路。

5.62.17

अब्रुवन् परमोद्विग्ना गत्वा दधिमुखं वचः।
हनूमता दत्तवरैर्हतं मधुवनं बलात्।
वयं च जानुभिर्घृष्टा देवमार्गं च दर्शिताः ॥ ५.६२.१७ ॥

他们极为惊惶,前往达底牟珂处禀告道:"蒙受恩赐的哈奴曼,竟以武力摧毁了蜜林。我们双膝擦伤,被指示了天神之路。"

5.62.18

तदा दधिमुखः क्रुद्धो वनपस्तत्र वानरः।
हतं मधुवनं श्रुत्वा सान्त्वयामास तान् हरीन् ॥ ५.६२.१८ ॥

那时,守护蜜林的猴子达底牟珂大怒;听闻蜜林被毁,便安慰那些猴子。

5.62.19

एतागच्छत गच्छामो वानरानतिदर्पितान्।
बलेनावारयिष्यामि प्रभुञ्जानान् मधूत्तमम् ॥ ५.६२.१९ ॥

来吧,我们去;那些极其傲慢、正在享用最上等蜂蜜的猴子,我将以武力阻止他们。

5.62.20

श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाः।
पुनर्वीरा मधुवनं तेनैव सहिता ययुः ॥ ५.६२.२० ॥

众猴中的英雄们听了檀弥佉的这番话,又与他一同前往蜜林。

5.62.21

मध्ये चैषां दधिमुखः सुप्रगृह्य महातरुम्।
समभ्यधावन् वेगेन सर्वे ते च प्लवंगमाः ॥ ५.६२.२१ ॥

在他们中间,檀弥佉紧紧抓起一棵大树,疾速冲上前去;那些跳跃的猴子也全都迅猛地冲了上来。

5.62.22

ते शिलाः पादपांश्चैव पाषाणानपि वानराः।
गृहीत्वाभ्यागमन् क्रुद्धा यत्र ते कपिकुञ्जराः ॥ ५.६२.२२ ॥

那些愤怒的猴子拿起巨石、树木和石块,来到了那些猴中象王所在之处。

5.62.23

बलान्निवारयन्तश्च आसेदुर्हरयो हरीन्।
संदष्टौष्ठपुटाः क्रुद्धा भर्त्सयन्तो मुहुर्मुहुः ॥ ५.६२.२३ ॥

众猴以武力相互阻拦,逼近了彼此;怒气中咬紧嘴唇,一次又一次地恫吓。

5.62.24

अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुङ्गवाः।
अभ्यधावन्त वेगेन हनुमत्प्रमुखास्तदा ॥ ५.६२.२४ ॥

此时,众猴之首的哈奴曼见到愤怒的檀弥佉,那些猴中的英豪便疾速扑向他。

5.62.25

सवृक्षं तं महाबाहुमापतन्तं महाबलम्।
वेगवन्तं विजग्राह बाहुभ्यां कुपितोऽङ्गदः ॥ ५.६२.२५ ॥

愤怒的安伽陀用双臂抓住了那个扑来的大臂、大力、迅猛者,连同他手中的树木。

5.62.26

मदान्धो न कृपां चक्रे आर्यकोऽयं ममेति सः।
अथैनं निष्पिपेषाशु वेगेन वसुधातले ॥ ५.६२.२६ ॥

他因傲慢而昏了头,毫不怜悯,甚至没有想“这是我的祖父”。随即他迅猛地将其摔倒在地并碾碎。

5.62.27

स भग्नबाहूरुमुखो विह्वलः शोणितोक्षितः।
प्रमुमोह महावीरो मुहूर्तं कपिकुञ्जरः ॥ ५.६२.२७ ॥

那位大英雄,猴群中的象王,手臂、大腿和面部折断,神志昏乱、浑身是血,昏迷了片刻。

5.62.28

स कथंचिद् विमुक्तस्तैर्वानरैर्वानरर्षभः।
उवाचैकान्तमागत्य स्वान् भृत्यान् समुपागतान् ॥ ५.६२.२८ ॥

那群猴子好不容易将他松开,猴中之牛独自走到一旁,对走近的部下说道。

5.62.29

एतागच्छत गच्छामो भर्ता नो यत्र वानरः।
सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति ॥ ५.६२.२९ ॥

来吧,我们去我们的主人、广颈猴王须羯哩婆与罗摩同住之处。

5.62.30

सर्वं चैवाङ्गदे दोषं श्रावयिष्याम पार्थिवे।
अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान् ॥ ५.६२.३० ॥

我们要把安伽陀的全部过错禀告国王;愤怒的国王听了这话,必会下令杀死猴子们。

5.62.31

इष्टं मधुवनं ह्येतत् सुग्रीवस्य महात्मनः।
पितृपैतामहं दिव्यं देवैरपि दुरासदम् ॥ ५.६२.३१ ॥

这片蜜林是高尚的须羯利婆所珍爱的。它是从祖先传下的神圣林园,即使诸神也难以进入。

5.62.32

स वानरानिमान् सर्वान् मधुलुब्धान् गतायुषः।
घातयिष्यति दण्डेन सुग्रीवः ससुहृज्जनान् ॥ ५.६२.३२ ॥

须羯利婆将以刑罚处死这些贪恋蜜的猴子,他们寿数已尽,连同其同伴一起。

5.62.33

वध्या ह्येते दुरात्मानो नृपाज्ञापरिपन्थिनः।
अमर्षप्रभवो रोषः सफलो मे भविष्यति ॥ ५.६२.३३ ॥

这些违抗国王命令的恶徒理应被处死。我因无法忍受而生的怒火,如今将得以实现。

5.62.34

एवमुक्त्वा दधिमुखो वनपालान् महाबलः।
जगाम सहसोत्पत्य वनपालैः समन्वितः ॥ ५.६२.३४ ॥

说完这些,大力的达底穆卡突然跃起,在林中守卫的陪同下出发了。

5.62.35

निमेषान्तरमात्रेण स हि प्राप्तो वनालयः।
सहस्रांशुसुतो धीमान् सुग्रीवो यत्र वानरः ॥ ५.६२.३५ ॥

在眨眼之间,他便来到了智慧的须羯利婆身边。须羯利婆是千光之日的儿子,居于林中,那里正是猴王所在之处。

5.62.36

रामं च लक्ष्मणं चैव दृष्ट्वा सुग्रीवमेव च।
समप्रतिष्ठां जगतीमाकाशान्निपपात ह ॥ ५.६२.३६ ॥

看见罗摩、罗什曼那和须羯利婆后,他从天空降落到大地,稳稳地站定。

5.62.37

स निपत्य महावीरः सर्वैस्तैः परिवारितः।
हरिर्दधिमुखः पालैः पालानां परमेश्वरः ॥ ५.६२.३७ ॥

这位大英雄降下,被众人围绕。守卫者的至高之主猴王达提穆伽与守卫者一同到来。

5.62.38

स दीनवदनो भूत्वा कृत्वा शिरसि चाञ्जलिम्।
सुग्रीवस्याशु तौ मूर्ध्ना चरणौ प्रत्यपीडयत् ॥ ५.६२.३८ ॥

他面容悲戚,双手合十置于头上,随即以自己的头紧紧贴压住须羯哩婆的两只脚。