Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 5.68

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.68.1

अथाहमुत्तरं देव्या पुनरुक्तः ससम्भ्रमम्।
तव स्नेहान्नरव्याघ्र सौहार्दादनुमान्य च ॥ ५.६८.१ ॥

当女神再次发问时,我心中焦急,出于对你的深情与友善,人中之雄啊,我恭敬地回答了她。

5.68.2

एवं बहुविधं वाच्यो रामो दाशरथिस्त्वया।
यथा मां प्राप्नुयाच्छीघ्रं हत्वा रावणमाहवे ॥ ५.६८.२ ॥

你应当这样多方面地对十车王之子罗摩说,使他在战斗中杀死罗波那后,能尽快将我迎回。

5.68.3

यदि वा मन्यसे वीर वसैकाहमरिंदम।
कस्मिंश्चित् संवृते देशे विश्रान्तः श्वो गमिष्यसि ॥ ५.६८.३ ॥

勇士啊,制服敌人的人啊,如果你认为可以,就在某个隐蔽之处停留一天,休息后明天再走。

5.68.4

मम चाप्यल्पभाग्यायाः सांनिध्यात् तव वानर।
अस्य शोकविपाकस्य मुहूर्तं स्याद् विमोक्षणम् ॥ ५.६८.४ ॥

猴子啊,即使对我这薄命之人,有你在身边,这积累已久的悲痛也许能暂时得到片刻的解脱。

5.68.5

गते हि त्वयि विक्रान्ते पुनरागमनाय वै।
प्राणानामपि संदेहो मम स्यान्नात्र संशयः ॥ ५.६८.५ ॥

勇敢的人啊,你一旦离去,以为还会回来,我的性命也将悬而未决,这毫无疑问。

5.68.6

तवादर्शनजः शोको भूयो मां परितापयेत्।
दुखाद् दुःखपराभूतां दुर्गतां दुःखभागिनीम् ॥ ५.६८.६ ॥

因见不到你而生的悲痛,会再次折磨我——我被痛苦所压倒,处于困境之中,身负苦难。

5.68.7

अयं च वीर संदेहस्तिष्ठतीव ममाग्रतः।
सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर ॥ ५.६८.७ ॥

英雄啊,猴王!我心中对你的伙伴——猴子与熊——存有很大的疑虑。

5.68.8

कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम्।
तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ ॥ ५.६८.८ ॥

那些猴熊大军,或者那两位人中俊杰之子,怎样才能渡过这难以逾越的大海呢?

5.68.9

त्रयाणामेव भूतानां सागरस्यास्य लङ्घने।
शक्तिः स्याद् वैनतेयस्य वायोर्वा तव चानघ ॥ ५.६८.९ ॥

能够飞越这片大海的力量,只属于三者:Vinatā之子迦楼罗、风神,或者你,无瑕之人啊。

5.68.10

तदस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे।
किं पश्यसि समाधानं ब्रूहि कार्यविदां वर ॥ ५.६८.१० ॥

那么,英雄啊,在这难以完成的使命中,你看到了什么解决之道?说吧,知晓大事者中的最优者。

5.68.11

काममस्य त्वमेवैकः कार्यस्य परिसाधने।
पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः ॥ ५.६८.११ ॥

这件事只要你一人便足够完成,灭敌英雄者啊。你力量的勃发必将带来荣耀。

5.68.12

बलैः समग्रैर्यदि मां हत्वा रावणमाहवे।
विजयी स्वपुरीं रामो नयेत् तत् स्याद् यशस्करम् ॥ ५.६८.१२ ॥

若罗摩率全军在战场上杀死我与罗婆那,凯旋回到自己的城池,那将是光荣的。

5.68.13

यथाहं तस्य वीरस्य वनादुपधिना हृता।
रक्षसा तद्भयादेव तथा नार्हति राघवः ॥ ५.६८.१३ ॥

正如我因那英雄而被罗刹以诡计从森林中掠走,他并非因此而理应如此;罗怙之子(罗摩)也不应承担此事。

5.68.14

बलैस्तु संकुलां कृत्वा लङ्कां परबलार्दनः।
मां नयेद् यदि काकुत्स्थस्तत् तस्य सदृशं भवेत् ॥ ५.६८.१४ ॥

若摧毁敌军的迦恭输(罗摩)以大军充满楞伽,并将我带走,那便与他相称。

5.68.15

तद् यथा तस्य विक्रान्तमनुरूपं महात्मनः।
भवत्याहवशूरस्य तथा त्वमुपपादय ॥ ५.६८.१५ ॥

你要成就此事,使之与那位在战场上勇猛的大德之人的威勇相称。

5.68.16

तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम्।
निशम्याहं ततः शेषं वाक्यमुत्तरमब्रवम् ॥ ५.६८.१६ ॥

听罢这些为此目的而说的谦逊而有理的话,我随即说出了其余的回答。

5.68.17

देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः।
सुग्रीवः सत्त्वसम्पन्नस्त्वदर्थे कृतनिश्चयः ॥ ५.६८.१७ ॥

女神啊!猴与熊大军之主、诸跳跃者中最杰出者、具有勇气的须羯里婆,为你已下定决心。

5.68.18

तस्य विक्रमसम्पन्नाः सत्त्ववन्तो महाबलाः।
मनःसंकल्पसदृशा निदेशे हरयः स्थिताः ॥ ५.६८.१८ ॥

他的猴子们具有威勇,勇敢而极其强大,听从他的号令,迅捷如心念的意愿,随时待命。

5.68.19

येषां नोपरि नाधस्तान्न तिर्यक् सज्जते गतिः।
न च कर्मसु सीदन्ति महत्स्वमिततेजसः ॥ ५.६८.१९ ॥

其行动上下左右皆无阻碍,于伟大之事从不退缩——他们拥有无限的光辉。

5.68.20

असकृत् तैर्महाभागैर्वानरैर्बलसंयुतैः।
प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः ॥ ५.६८.२० ॥

那些随风而行、大福且有力的猴众,已多次绕行此大地。

5.68.21

मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः।
मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसंनिधौ ॥ ५.६८.२१ ॥

那里的林中居民,既有胜过我的,也有与我相当的;在须羯哩婆面前,没有一个比我低下的。

5.68.22

अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः।
नहि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ॥ ५.६८.२२ ॥

我已经来到这里;那些大力者更能前来。出类拔萃的人不被派遣,被派遣的是其他人。

5.68.23

तदलं परितापेन देवि मन्युरपैतु ते।
एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः ॥ ५.६८.२३ ॥

因此,女神啊,这份忧伤已够了;愿你的烦恼散去。猴群的统领们将一跃之间便抵达楼揭。

5.68.24

मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ।
त्वत्सकाशं महाभागे नृसिंहावागमिष्यतः ॥ ५.६८.२४ ॥

那二人在我背上,如升起的日月;大福之人啊,那两位人中雄狮将来到你面前。

5.68.25

अरिघ्नं सिंहसंकाशं क्षिप्रं द्रक्ष्यसि राघवम्।
लक्ष्मणं च धनुष्मन्तं लङ्काद्वारमुपागतम् ॥ ५.६८.२५ ॥

你很快就会看到如狮子般的罗怙后裔(罗摩),这位消灭敌人者,以及已抵达楞伽城门、手持弓箭的罗什曼那。

5.68.26

नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान्।
वानरान् वारणेन्द्राभान् क्षिप्रं द्रक्ष्यसि संगतान् ॥ ५.६८.२६ ॥

你很快就会看到以爪牙为武器、勇猛如狮虎、形如大象的猴族勇士们聚集在一起。

5.68.27

शैलाम्बुदनिकाशानां लङ्कामलयसानुषु।
नर्दतां कपिमुख्यानां नचिराच्छ्रोष्यसे स्वनम् ॥ ५.६८.२७ ॥

不久你就会听到猴族首领们的吼声,他们如山似云,在楞伽的山坡上咆哮。

5.68.28

निवृत्तवनवासं च त्वया सार्धमरिंदमम्।
अभिषिक्तमयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम् ॥ ५.६८.२८ ॥

你很快就会看到罗怙后裔(罗摩),这位制服敌人者,森林流放已结束,与你一同在阿逾陀被加冕为王。

5.68.29

ततो मया वाग्भिरदीनभाषिणी
शिवाभिरिष्टाभिरभिप्रसादिता।
उवाह शान्तिं मम मैथिलात्मजा
तवातिशोकेन तथातिपीडिता ॥ ५.६८.२९ ॥

于是,在我吉祥而悦耳的话语安慰下,这位说话不带沮丧的弥提罗之女(悉多)得到了平静,尽管她因对你的深切哀伤而备受煎熬。