Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 6.1

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.1.1

श्रुत्वा हनूमतो वाक्यं यथावदभिभाषितम्।
रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ॥ ६.१.१ ॥

罗摩听了哈努曼所说的话,一字不差,心中充满喜悦,于是回答道:

6.1.2

कृतं हनूमता कार्यं सुमहद् भुवि दुर्लभम्।
मनसापि यदन्येन न शक्यं धरणीतले ॥ ६.१.२ ॥

哈努曼完成了一件在大地上极为罕见的伟大功业,即便在心中,别人也无法做到。

6.1.3

नहि तं परिपश्यामि यस्तरेत महोदधिम्।
अन्यत्र गरुडाद् वायोरन्यत्र च हनूमतः ॥ ६.१.३ ॥

除了迦鲁达、风神和哈努曼,我看不到还有谁能够渡过这大海。

6.1.4

देवदानवयक्षाणां गन्धर्वोरगरक्षसाम्।
अप्रधृष्यां पुरीं लङ्कां रावणेन सुरक्षिताम् ॥ ६.१.४ ॥

楼陀罗所守护的楼城,即使天神、檀那婆、夜叉、乾闼婆、龙和罗刹也无法攻破,由罗波那严密防守。

6.1.5

प्रविष्टः सत्त्वमाश्रित्य जीवन् को नाम निष्क्रमेत्।
को विशेत् सुदुराधर्षां राक्षसैश्च सुरक्षिताम् ॥ ६.१.५ ॥

凭着勇气进入之后,又有谁能活着出来?那座极难攻取、被罗刹严密守卫的城市,又有谁能够进入?

6.1.6

यो वीर्यबलसम्पन्नो न समः स्याद्धनूमतः।
भृत्यकार्यं हनुमता सुग्रीवस्य कृतं महत्।
एवं विधाय स्वबलं सदृशं विक्रमस्य च ॥ ६.१.६ ॥

即使是有勇力与力量的人,也无人能与哈努曼相比。哈努曼完成了须羯哩婆仆人的伟大使命,以此展现了与他自身力量和勇武相称的功业。

6.1.7

यो हि भृत्यो नियुक्तः सन् भर्त्रा कर्मणि दुष्करे।
कुर्यात् तदनुरागेण तमाहुः पुरुषोत्तमम् ॥ ६.१.७ ॥

仆人受主人委派去做艰难之事,出于对主人的忠诚而完成,人们称他为人中最优者(补卢舍坦摩)。

6.1.8

यो नियुक्तः परं कार्यं न कुर्यान्नृपतेः प्रियम्।
भृत्यो युक्तः समर्थश्च तमाहुर्मध्यमं नरम् ॥ ६.१.८ ॥

仆人受命,且有能力、有才干,却不去做国王最为珍视的要事,人们称他为中等之人。

6.1.9

नियुक्तो नृपतेः कार्यं न कुर्याद् यः समाहितः।
भृत्यो युक्तः समर्थश्च तमाहुः पुरुषाधमम् ॥ ६.१.९ ॥

仆人受国王任命,且专心致志,却不完成国王之事,尽管他有能力、有才干,人们称他为人中最下等者。

6.1.10

तन्नियोगे नियुक्तेन कृतं कृत्यं हनूमता।
न चात्मा लघुतां नीतः सुग्रीवश्चापि तोषितः ॥ ६.१.१० ॥

哈奴曼受命于此事,完成了任务,未使自己贬损;苏羯梨婆也因此而欢喜。

6.1.11

अहं च रघुवंशश्च लक्ष्मणश्च महाबलः।
वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः ॥ ६.१.११ ॥

今日因见到维代希,我、罗怙族以及大力的罗什曼那,皆依法得到护佑。

6.1.12

इदं तु मम दीनस्य मनो भूयः प्रकर्षति।
यदिहास्य प्रियाख्यातुर्न कुर्मि सदृशं प्रियम् ॥ ६.१.१२ ॥

然而我这困苦之心,一再为此所牵:此处我无法赠予带来这喜讯之人一份相称的厚礼。

6.1.13

एष सर्वस्वभूतस्तु परिष्वङ्गो हनूमतः।
मया कालमिमं प्राप्य दत्तस्तस्य महात्मनः ॥ ६.१.१३ ॥

这份对我而言如同一切的拥抱,此刻我将它赠予这位大德的哈努曼。

6.1.14

इत्युक्त्वा प्रीतिहृष्टाङ्गो रामस्तं परिषस्वजे।
हनूमन्तं कृतात्मानं कृतकार्यमुपागतम् ॥ ६.१.१४ ॥

说完这些,罗摩因喜爱而身体战栗,拥抱了那位克制自我、功成而归的哈努曼。

6.1.15

ध्यात्वा पुनरुवाचेदं वचनं रघुसत्तमः।
हरीणामीश्वरस्यापि सुग्रीवस्योपशृण्वतः ॥ ६.१.१५ ॥

罗摩沉思之后,这位罗怙族中最优秀者再次说出这番话,猴王苏羯裏婆也在一旁倾听。

6.1.16

सर्वथा सुकृतं तावत् सीतायाः परिमार्गणम्।
सागरं तु समासाद्य पुनर्नष्टं मनो मम ॥ ६.१.१६ ॥

寻找悉多在各方面都做得很好;但抵达大海之后,我的心又一次迷乱了。

6.1.17

कथं नाम समुद्रस्य दुष्पारस्य महाम्भसः।
हरयो दक्षिणं पारं गमिष्यन्ति समागताः ॥ ६.१.१७ ॥

聚集于此的猴子们,怎样才能渡过这片难以横越、水势浩大的大海,抵达南岸呢?

6.1.18

यद्यप्येष तु वृत्तान्तो वैदेह्या गदितो मम।
समुद्रपारगमने हरीणां किमिवोत्तरम् ॥ ६.१.१८ ॥

虽然毗提诃公主已将此消息告诉我,但猴子们对于渡过大海,又会给出怎样的回答呢?

6.1.19

इत्युक्त्वा शोकसम्भ्रान्तो रामः शत्रुनिबर्हणः।
हनूमन्तं महाबाहुस्ततो ध्यानमुपागमत् ॥ ६.१.१९ ॥

罗摩说完这些话,因悲痛而心神慌乱,这位摧毁敌人的大臂者便陷入了对哈奴曼的沉思。