ヴァールミーキのラーマーヤナ · サルガ 6.102
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.102.1
लक्ष्मणेन तु तद् वाक्यमुक्तं श्रुत्वा स राघवः।
संदधे परवीरघ्नो धनुरादाय वीर्यवान् ॥ ६.१०२.१ ॥
ラクシュマナの言葉を聞き、敵の勇士を討つ勇猛なラーガヴァは弓を取った。
6.102.2
रावणाय शरान् घोरान् विससर्ज चमूमुखे।
अथान्यं रथमास्थाय रावणो राक्षसाधिपः ॥ ६.१०२.२ ॥
軍の先頭で彼はラーヴァナに恐ろしい矢を放った。するとラークシャサの王ラーヴァナは別の戦車に乗った。
6.102.3
अभ्यधावत काकुत्स्थं स्वर्भानुरिव भास्करम्।
दशग्रीवो रथस्थस्तु रामं वज्रोपमैः शरैः।
आजघान महाशैलं धाराभिरिव तोयदः ॥ ६.१०२.३ ॥
ラーフがスーリヤに飛びかかるように、戦車に立つ十頭のラーヴァナはカクツトゥの裔ラーマへと突進した。雷霆のような矢で彼を打つさまは、雲が大山に雨を注ぐようであった。
6.102.4
दीप्तपावकसंकाशैः शरैः काञ्चनभूषणैः।
अभ्यवर्षद् रणे रामो दशग्रीवं समाहितः ॥ ६.१०२.४ ॥
燃え盛る火のような、金で飾られた矢で、ラーマは精神を集中させ、戦場で十頭のラーヴァナに矢の雨を降らせた。
6.102.5
भूमौ स्थितस्य रामस्य रथस्थस्य स रक्षसः।
न समं युद्धमित्याहुर्देवगन्धर्वकिंनराः ॥ ६.१०२.५ ॥
神々、ガンダルヴァ、キンナラたちは、この戦いは対等ではないと言った。ラーマは地に立ち、あの羅刹は戦車に立っているのだから。
6.102.6
ततो देववरः श्रीमान् श्रुत्वा तेषां वचोऽमृतम्।
आहूय मातलिं शक्रो वचनं चेदमब्रवीत् ॥ ६.१०२.६ ॥
その時、栄光ある神々の王インドラは彼らの甘露のような言葉を聞き、マータリを呼んでこう言った。
6.102.7
रथेन मम भूमिष्ठं शीघ्रं याहि रघूत्तमम्।
आहूय भूतलं यात कुरु देवहितं महत् ॥ ६.१०२.७ ॥
私の戦車で速やかに、大地に立つラグ族の最上の人のもとへ行け。大地に降りて彼を呼び、神々のための大いなる務めを果たせ。
6.102.8
इत्युक्तो देवराजेन मातलिर्देवसारथिः।
प्रणम्य शिरसा देवं ततो वचनमब्रवीत् ॥ ६.१०२.८ ॥
神々の王にこう告げられると、神々の御者マータリは頭を垂れて神に礼拝し、そしてこの言葉を述べた。
6.102.9
शीघ्रं यास्यामि देवेन्द्र सारथ्यं च करोम्यहम्।
ततो हयैश्च संयोज्य हरितैः स्यन्दनोत्तमम् ॥ ६.१०२.९ ॥
神々の主よ、私は速やかに参り、御者の務めを果たしましょう。それから、黄緑色の馬を最上の戦車に繋いで、
6.102.10
ततः काञ्चनचित्राङ्गः किङ्किणीशतभूषितः।
तरुणादित्यसंकाशो वैदूर्यमयकूबरः।
सदश्वैः काञ्चनापीडैर्युक्तः श्वेतप्रकीर्णकैः ॥ ६.१०२.१० ॥
そして戦車が現れた。車体は金で彩られ、百の鈴で飾られ、若い太陽のように輝き、瑠璃の轅を持ち、金の馬具をつけた優れた馬に繋がれ、白い旗が翻っていた。
6.102.11
हरिभिः सूर्यसंकाशैर्हेमजालविभूषितैः।
रुक्मवेणुध्वजः श्रीमान् देवराजरथो वरः ॥ ६.१०२.११ ॥
太陽のように輝く、金の網で飾られた黄緑色の馬に繋がれ、金の竹の旗をもつ、神々の王の栄えある最上の戦車であった。
6.102.12
देवराजेन संदिष्टो रथमारुह्य मातलिः।
अभ्यवर्तत काकुत्स्थमवतीर्य त्रिविष्टपात् ॥ ६.१०२.१२ ॥
神々の王に命じられたマータリは戦車に乗り、天から降り、カークツトゥスタ(ラーマ)のもとへ近づいた。
6.102.13
अब्रवीच्च तदा रामं सप्रतोदो रथे स्थितः।
प्राञ्जलिर्मातलिर्वाक्यं सहस्राक्षस्य सारथिः ॥ ६.१०२.१३ ॥
その時、千眼インドラの御者マータリは、刺し棒を持って戦車に立ち、合掌してラーマにこの言葉を語った。
6.102.14
सहस्राक्षेण काकुत्स्थ रथोऽयं विजयाय ते।
दत्तस्तव महासत्त्व श्रीमन् शत्रुनिबर्हण ॥ ६.१०२.१४ ॥
カークツトスタよ、この戦車は千眼のインドラがあなたの勝利のために授けたものです。大いなる勇気の方よ、栄光の方よ、敵を滅ぼす方よ!
6.102.15
इदमैन्द्रं महच्चापं कवचं चाग्निसंनिभम्।
शराश्चादित्यसंकाशाः शक्तिश्च विमला शिवा ॥ ६.१०२.१५ ॥
これはインドラの大弓、これは火のような鎧、これは太陽のような矢、そしてこれは汚れなき吉祥の槍です。
6.102.16
आरुह्येमं रथं वीर राक्षसं जहि रावणम्।
मया सारथिना देव महेन्द्र इव दानवान् ॥ ६.१०२.१६ ॥
英雄よ、この戦車に乗り、羅刹ラーヴァナを討て。私が御者であったとき、マヘーンドラが檀那婆どもを討ったように、神よ!
6.102.17
इत्युक्तः सम्परिक्रम्य रथं तमभिवाद्य च।
आरुरोह तदा रामो लोकाँल्लक्ष्म्या विराजयन् ॥ ६.१०२.१७ ॥
このように言われ、ラーマは戦車を右回りに巡り、それに礼拝して乗り込み、その輝きで世界を照らした。
6.102.18
तद् बभौ चाद्भुतं युद्धं द्वैरथं रोमहर्षणम्।
रामस्य च महाबाहो रावणस्य च रक्षसः ॥ ६.१०२.१८ ॥
大いなる腕を持つ方よ、ラーマと羅刹ラーヴァナとの、驚くべき身の毛もよだつ一騎打ちの戦いが、その時輝いた。
6.102.19
स गान्धर्वेण गान्धर्वं दैवं दैवेन राघवः।
अस्त्रं राक्षसराजस्य जघान परमास्त्रवित् ॥ ६.१०२.१९ ॥
最高の武器に通じたラーghavaは、ガーンダルヴァの武器でガーンダルヴァを、神の武器で神の武器を打ち破り、羅刹王の武器を滅ぼした。
6.102.20
अस्त्रं तु परमं घोरं राक्षसं राक्षसाधिपः।
ससर्ज परमक्रुद्धः पुनरेव निशाचरः ॥ ६.१०२.२० ॥
最高に激怒した夜行の羅刹王は、再び最も恐ろしい羅刹の武器を放った。
6.102.21
ते रावणधनुर्मुक्ताः शराः काञ्चनभूषणाः।
अभ्यवर्तन्त काकुत्स्थं सर्पा भूत्वा महाविषाः ॥ ६.१०२.२१ ॥
ラーヴァナの弓から放たれ、金で飾られた矢は、猛毒の蛇となってカークツスタに襲いかかった。
6.102.22
ते दीप्तवदना दीप्तं वमन्तो ज्वलनं मुखैः।
राममेवाभ्यवर्तन्त व्यादितास्या भयानकाः ॥ ६.१०२.२२ ॥
燃える口を持ち、口から炎を吐き、大きく開いた顎の恐ろしい蛇たちは、まさにラーマめがけて襲いかかった。
6.102.23
तैर्वासुकिसमस्पर्शैर्दीप्तभोगैर्महाविषैः।
दिशश्च संतताः सर्वा विदिशश्च समावृताः ॥ ६.१०२.२३ ॥
ヴァースキのような感触を持ち、燃える体の輪を持つその大毒蛇によって、あらゆる方角と中間の方角は満たされ覆われた。
6.102.24
तान् दृष्ट्वा पन्नगान् रामः समापतत आहवे।
अस्त्रं गारुत्मतं घोरं प्रादुश्चक्रे भयावहम् ॥ ६.१०२.२४ ॥
戦いの中で迫り来る蛇たちを見て、ラーマは恐ろしく畏怖を呼び起こすガルダの武器を顕現させた。
6.102.25
ते राघवधनुर्मुक्ता रुक्मपुङ्खाः शिखिप्रभाः।
सुपर्णाः काञ्चना भूत्वा विचेरुः सर्पशत्रवः ॥ ६.१०२.२५ ॥
ラーガヴァの弓から放たれた、金の羽と火のような輝きをもつ矢は、金色のスパルナ(ガルダ)となり、蛇の敵として飛び回った。
6.102.26
ते तान् सर्वान् शराञ्जघ्नुः सर्परूपान् महाजवान्।
सुपर्णरूपा रामस्य विशिखाः कामरूपिणः ॥ ६.१०२.२६ ॥
ラーマの矢は、意のままに姿を変えるスパルナの姿となり、蛇の形をした迅速な矢をすべて打ち落とした。
6.102.27
अस्त्रे प्रतिहते क्रुद्धो रावणो राक्षसाधिपः।
अभ्यवर्षत् तदा रामं घोराभिः शरवृष्टिभिः ॥ ६.१०२.२७ ॥
その武器が退けられると、羅刹の王ラーヴァナは怒り、恐ろしい矢の雨をラーマに浴びせた。
6.102.28
ततः शरसहस्रेण राममक्लिष्टकारिणम्।
अर्दयित्वा शरौघेण मातलिं प्रत्यविध्यत ॥ ६.१०२.२८ ॥
それから千本の矢で不屈のラーマを苦しめ、矢の奔流でマータリを射た。
6.102.29
चिच्छेद केतुमुद्दिश्य शरेणैकेन रावणः।
पातयित्वा रथोपस्थे रथात् केतुं च काञ्चनम् ॥ ६.१०२.२९ ॥
ラーヴァナは一本の矢で旗を狙って切り落とし、金の旗を戦車の床に落として戦車から切り離した。
6.102.30
ऐन्द्रानपि जघानाश्वान् शरजालेन रावणः।
विषेदुर्देवगन्धर्वचारणा दानवैः सह ॥ ६.१०२.३० ॥
ラーヴァナは矢の網でインドラの血統の馬さえ打ち倒し、神々・ガンダルヴァ・チャーラナたちは、ダーナヴァとともに嘆き悲しんだ。
6.102.31
राममार्तं तदा दृष्ट्वा सिद्धाश्च परमर्षयः।
व्यथिता वानरेन्द्राश्च बभूवुः सविभीषणाः ॥ ६.१०२.३१ ॥
そのとき、苦しむラーマを見て、成就者たちと大仙人たち、そして猿の王たちはヴィビーシャナとともに心を痛めた。
6.102.32
रामचन्द्रमसं दृष्ट्वा ग्रस्तं रावणराहुणा।
प्राजापत्यं च नक्षत्रं रोहिणीं शशिनः प्रियाम् ॥ ६.१०२.३२ ॥
ラーマチャンドラという月がラーヴァナという羅睺に呑まれたのを見、また月の愛しきプラージャーパティの星宿ローヒニーをも見た。
6.102.33
समाक्रम्य बुधस्तस्थौ प्रजानामहितावहः।
सधूमपरिवृर्त्तोमिः प्रज्वलन्निव सागरः ॥ ६.१०२.३३ ॥
生き物に害をなす水星は(ローヒニーを)侵して立った。煙に包まれた波を持つ燃える海のように。
6.102.34
उत्पपात तदा क्रुद्धः स्पृशन्निव दिवाकरम्।
शस्त्रवर्णः सुपरुषो मन्दरश्मिर्दिवाकरः ॥ ६.१०२.३४ ॥
そのとき怒れる(火星)は太陽に触れるかのように昇った。武器の色をし、極めて恐ろしく、光の弱い太陽もまた。
6.102.35
अदृश्यत कबन्धाङ्कः संसक्तो धूमकेतुना।
कोसलानां च नक्षत्रं व्यक्तमिन्द्राग्निदैवतम् ॥ ६.१०२.३५ ॥
首のない胴の印をもつ(星)が彗星と結びついて現れた。インドラとアグニを主神とするコーサラの星宿も明らかに見えた。
6.102.36
आहत्याङ्गारकस्तस्थौ विशाखमपि चाम्बरे।
दशास्यो विंशतिभुजः प्रगृहीतशरासनः ॥ ६.१०२.३६ ॥
火星は毘舎佉を打って空に立った。十の顔と二十の腕をもつ者は、弓を取って立っていた。
6.102.37
अदृश्यत दशग्रीवो मैनाक इव पर्वतः।
निरस्यमानो रामस्तु दशग्रीवेण रक्षसा ॥ ६.१०२.३७ ॥
マイナーカ山のように十頭の羅刹が現れたが、ラーマはその十頸の羅刹に押し戻された。
6.102.38
नाशक्नोदभिसंधातुं सायकान् रणमूर्धनि।
स कृत्वा भ्रुकुटिं क्रुद्धः किंचित् संरक्तलोचनः ॥ ६.१०२.३८ ॥
戦場の最前線で彼は矢を狙うことができなかった。そこで怒りに眉をひそめ、少し赤くなった目で……
6.102.39
जगाम सुमहाक्रोधं निर्दहन्निव राक्षसान्।
तस्य क्रुद्धस्य वदनं दृष्ट्वा रामस्य धीमतः।
सर्वभूतानि वित्रेसुः प्राकम्पत च मेदिनी ॥ ६.१०२.३९ ॥
彼は大いなる怒りで、羅刹たちを焼き尽くさんばかりに進んだ。賢明なラーマの怒れる顔を見て、あらゆる生き物は震え、大地も揺れた。
6.102.40
सिंहशार्दूलवाञ्छैलः संचचाल चलद् द्रुमः।
बभूव चापि क्षुभितः समुद्रः सरितां पतिः ॥ ६.१०२.४० ॥
獅子と虎の棲む山々は震え、揺れる木々は揺らぎ、川々の主である海もまた波立った。
6.102.41
खराश्च खरनिर्घोषा गगने परुषा घनाः।
औत्पातिकाश्च नर्दन्तः समन्तात् परिचक्रमुः ॥ ६.१०२.४१ ॥
空では荒々しい雲が激しく轟き、凶兆を告げながら四方を巡った。
6.102.42
रामं दृष्ट्वा सुसंक्रुद्धमुत्पातांश्चैव दारुणान्।
वित्रेसुः सर्वभूतानि रावणस्याभवद् भयम् ॥ ६.१०२.४२ ॥
ラーマが激しく怒り、恐ろしい凶兆を目にして、あらゆる生き物は震え、ラーヴァナの心に恐れが生じた。
6.102.43
विमानस्थास्तदा देवा गन्धर्वाश्च महोरगाः।
ऋषिदानवदैत्याश्च गरुत्मन्तश्च खेचराः ॥ ६.१०२.४३ ॥
そのとき天車に立つ神々、ガンダルヴァと大蛇、聖仙、ダーナヴァとダイティヤ、ガルダ、そして空を行く者たち。
6.102.44
ददृशुस्ते तदा युद्धं लोकसंवर्तसंस्थितम्।
नानाप्रहरणैर्भीमैः शूरयोः सम्प्रयुध्यतोः ॥ ६.१०२.४४ ॥
そのとき彼らは、世界の終末のような、二人の勇士が様々な恐ろしい武器で戦う戦いを見た。
6.102.45
ऊचुः सुरासुराः सर्वे तदा विग्रहमागताः।
प्रेक्षमाणा महायुद्धं वाक्यं भक्त्या प्रहृष्टवत् ॥ ६.१०२.४५ ॥
そのとき戦いを見に来た神々とアスラたちは、その大戦を眺め、信心から喜ぶかのようにこれらの言葉を述べた。
6.102.46
दशग्रीवं जयेत्याहुरसुराः समवस्थिताः।
देवा राममथोचुस्ते त्वं जयेति पुनः पुनः ॥ ६.१०२.४६ ॥
そこに立つアスラたちは「十頭のダシャグリーヴァに勝利あれ!」と言い、神々はラーマに何度も「あなたに勝利あれ!」と言った。
6.102.47
एतस्मिन्नन्तरे क्रोधाद् राघवस्य च रावणः।
प्रहर्तुकामो दुष्टात्मा स्पृशन् प्रहरणं महत् ॥ ६.१०२.४७ ॥
そのとき、邪悪な心のラーヴァナは怒りにまかせ、ラガヴァ(ラーマ)を打とうと大いなる武器に手を触れた。
6.102.48
वज्रसारं महानादं सर्वशत्रुनिबर्हणम्।
शैलशृङ्गनिभैः कूटैश्चित्तदृष्टिभयावहम् ॥ ६.१०२.४८ ॥
その芯は金剛のように堅く、大音響を発し、あらゆる敵を滅ぼし、山頂のような突起を持ち、心と眼に恐怖をもたらすものであった。
6.102.49
सधूममिव तीक्ष्णाग्रं युगान्ताग्निचयोपमम्।
अतिरौद्रमनासाद्यं कालेनापि दुरासदम् ॥ ६.१०२.४९ ॥
劫末の火の山のようで、煙を上げ、鋭い先端を持ち、きわめて恐ろしく、近づき難く、時にさえ打ち勝ち難いものであった。
6.102.50
त्रासनं सर्वभूतानां दारणं भेदनं तथा।
प्रदीप्त इव रोषेण शूलं जग्राह रावणः ॥ ६.१०२.५० ॥
それは一切の生きものに恐怖を与え、裂き、刺し貫くものであった。怒りに燃えるようにラーヴァナはその槍を掴んだ。
6.102.51
तच्छूलं परमक्रुद्धो जग्राह युधि वीर्यवान्।
अनीकैः समरे शूरै राक्षसैः परिवारितः ॥ ६.१०२.५१ ॥
激しく怒った勇者は戦いでその槍を取った。戦場で勇猛な羅刹の軍勢に囲まれて。
6.102.52
समुद्यम्य महाकायो ननाद युधि भैरवम्।
संरक्तनयनो रोषात् स्वसैन्यमभिहर्षयन् ॥ ६.१०२.५२ ॥
それを高く掲げ、巨体の者は戦場で恐ろしい咆哮を上げた。怒りに目を赤くし、自軍を奮い立たせながら。
6.102.53
पृथिवीं चान्तरिक्षं च दिशश्च प्रदिशस्तथा।
प्राकम्पयत् तदा शब्दो राक्षसेन्द्रस्य दारुणः ॥ ६.१०२.५३ ॥
大地も虚空も、方角も副方角も、そのとき震えた。羅刹の王の恐ろしい響きがそれらを揺り動かしたのだ。
6.102.54
अतिकायस्य नादेन तेन तस्य दुरात्मनः।
सर्वभूतानि वित्रेसुः सागरश्च प्रचुक्षुभे ॥ ६.१०२.५४ ॥
その邪悪なアティカーヤの咆哮に、あらゆる生きものが怯え、海さえも波立った。
6.102.55
स गृहीत्वा महावीर्यः शूलं तद् रावणो महत्।
विनद्य सुमहानादं रामं परुषमब्रवीत् ॥ ६.१०२.५५ ॥
その大きな槍を取り、大力のラーヴァナは大声で吠え、ラーマに荒々しい言葉を投げかけた。
6.102.56
शूलोऽयं वज्रसारस्ते राम रोषान्मयोद्यतः।
तव भ्रातृसहायस्य सद्यः प्राणान् हरिष्यति ॥ ६.१०२.५६ ॥
ラーマよ、怒りに任せて私が掲げたこの槍は雷のように硬い。弟を助けとするお前の命を、たちまち奪うであろう。
6.102.57
रक्षसामद्य शूराणां निहतानां चमूमुखे।
त्वां निहत्य रणश्लाघिन् करोमि तरसा समम् ॥ ६.१०२.५७ ॥
今日、陣頭で討たれた勇猛なラークシャサたちと同じように、戦場で自慢する者よ、お前もたちまち討ち果たし、彼らと同じにしてやろう。
6.102.58
तिष्ठेदानीं निहन्मि त्वामेष शूलेन राघव।
एवमुक्त्वा स चिक्षेप तच्छूलं राक्षसाधिपः ॥ ६.१०२.५८ ॥
「ラーガヴァよ、待て!今この槍でお前を殺してやる。」こう言って、ラークシャサの王はその槍を投げつけた。
6.102.59
तद् रावणकरान्मुक्तं विद्युन्मालासमावृतम्।
अष्टघण्टं महानादं वियद्गतमशोभत ॥ ६.१०२.५९ ॥
ラーヴァナの手から放たれたその槍は、稲妻の輪に包まれ、八つの鈴を持ち、大きな音を立てて空を進み、輝いた。
6.102.60
तच्छूलं राघवो दृष्ट्वा ज्वलन्तं घोरदर्शनम्।
ससर्ज विशिखान् रामश्चापमायम्य वीर्यवान् ॥ ६.१०२.६० ॥
その燃え盛り恐ろしい姿の槍を見て、力あるラーガヴァは弓を引き絞り、矢を放った。
6.102.61
आपतन्तं शरौघेण वारयामास राघवः।
उत्पतन्तं युगान्ताग्निं जलौघैरिव वासवः ॥ ६.१०२.६१ ॥
ラーガヴァは、自分に迫り来るものを矢の雨で防いだ。ヴァーサヴァが水の奔流で劫末の火を鎮めるように。
6.102.62
निर्ददाह स तान् बाणान् रामकार्मुकनिःसृतान्।
रावणस्य महान् शूलः पतङ्गानिव पावकः ॥ ६.१०२.६२ ॥
ラーヴァナのあの大槍は、ラーマの弓から放たれた矢を、火が蛾を焼くように焼き尽くした。
6.102.63
तान् दृष्ट्वा भस्मसाद्भूतान् शूलसंस्पर्शचूर्णितान्।
सायकानन्तरिक्षस्थान् राघवः क्रोधमाहरत् ॥ ६.१०२.६३ ॥
槍に触れて砕け灰となり、空に散らばったそれらの矢を見て、ラーガヴァの怒りが燃え上がった。
6.102.64
स तां मातलिना नीतां शक्तिं वासवसम्मताम्।
जग्राह परमक्रुद्धो राघवो रघुनन्दनः ॥ ६.१०२.६४ ॥
ラグの歓喜ラーガヴァは、マータリがもたらした、ヴァーサヴァも認めたあの槍を、激怒のうちに掴んだ。
6.102.65
सा तोलिता बलवता शक्तिर्घण्टाकृतस्वना।
नभः प्रज्वालयामास युगान्तोल्केव सप्रभा ॥ ६.१०२.६५ ॥
力ある者が振るったその槍は、鐘のような音を立て、劫末の流星のようにその輝きで空を燃え立たせた。
6.102.66
सा क्षिप्ता राक्षसेन्द्रस्य तस्मिञ्छूले पपात ह।
भिन्नः शक्त्या महान् शूलो निपपात गतद्युतिः ॥ ६.१०२.६६ ॥
羅刹の王が投げたその槍はあの槍の上に落ちた。シャクティに打ち砕かれた大いなる槍は輝きを失って落ちた。
6.102.67
निर्बिभेद ततो बाणैर्हयानस्य महाजवान्।
रामस्तीक्ष्णैर्महावेगैर्वज्रकल्पैरजिह्मगैः ॥ ६.१०२.६७ ॥
そこでラーマは、鋭く非常に勢いのある、雷電のような、まっすぐ飛ぶ矢で、彼の速い馬を射抜いた。
6.102.68
निर्बिभेदोरसि तदा रावणं निशितैः शरैः।
राघवः परमायत्तो ललाटे पत्त्रिभिस्त्रिभिः ॥ ६.१०२.६८ ॥
そこでラーガヴァは全力を込めて、鋭い矢でラーヴァナの胸を射抜き、三本の羽矢で額を射た。
6.102.69
स शरैर्भिन्नसर्वाङ्गो गात्रप्रस्रुतशोणितः।
राक्षसेन्द्रः समूहस्थः फुल्लाशोक इवाबभौ ॥ ६.१०२.६९ ॥
その羅刹の王は全身を矢に射抜かれ、体から血を流し、群れの中に立ち、花咲くアショーカ樹のように輝いた。
6.102.70
स रामबाणैरतिविद्धगात्रो
निशाचरेन्द्रः क्षतजार्द्रगात्रः।
जगाम खेदं च समाजमध्ये
क्रोधं च चक्रे सुभृशं तदानीम् ॥ ६.१०२.७० ॥
ラーマの矢に深く射抜かれ、血に濡れた体のその夜行者の王は、集会の真ん中で苦悩に陥り、そのとき激しい怒りを募らせた。