Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 6.105

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

6.105.1

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्।
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥ ६.१०५.१ ॥

そのとき、戦いに疲れ、戦場で憂いに立ち、戦いのために現れたラーヴァナを前に見て。

6.105.2

दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्।
उपगम्याब्रवीद् राममगस्त्यो भगवांस्तदा ॥ ६.१०५.२ ॥

そのとき、神々とともに戦いを見に来た尊者アガスティヤはラーマに近づいて語った。

6.105.3

राम राम महाबाहो शृणु गुह्यं सनातनम्।
येन सर्वानरीन् वत्स समरे विजयिष्यसे ॥ ६.१०५.३ ॥

ラーマよ、ラーマよ、大腕の者よ、この秘密で永遠の教えを聞け。これによって、わが子よ、戦いで汝は全ての敵に勝つであろう。

6.105.4

आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्।
जयावहं जपं नित्यमक्षयं परमं शिवम् ॥ ६.१०५.४ ॥

このアーディティャ・フリダヤは神聖で、すべての敵を滅ぼし、勝利をもたらす。日々唱えれば、尽きることなく、至上で吉祥である。

6.105.5

सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम्।
चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् ॥ ६.१०५.५ ॥

これは全ての吉祥の中で最も吉祥であり、あらゆる罪を滅ぼし、憂いと悲しみを鎮め、寿命を増す至上のものである。

6.105.6

रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम्।
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥ ६.१०५.६ ॥

光線を持ち、昇りゆき、神々と阿修羅に礼拝される、ヴィヴァスヴァット、バースカラ、世界の主なる太陽を礼拝せよ。

6.105.7

सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः।
एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः ॥ ६.१०५.७ ॥

彼はすべての神々の本質であり、輝かしく、光線によって養う者である。その光線によって神々と阿修羅の群れ、そして諸世界を守護する。

6.105.8

एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः।
महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ॥ ६.१०५.८ ॥

彼はブラフマー、ヴィシュヌ、シヴァ、スカンダ、プラジャーパティである。彼はマヘーンドラ、ダナダ、カーラ、ヤマ、ソーマ、そして水の主である。

6.105.9

पितरो वसवः साध्या अश्विनौ मरुतो मनुः।
वायुर्वह्निः प्रजाः प्राण ऋतुकर्ता प्रभाकरः ॥ ६.१०५.९ ॥

彼は祖霊、ヴァス神群、サーディヤ神群、アシュヴィン双神、マルト神群、マヌである。彼は風、火、生き物、命の息であり、季節を作る者、光をもたらす者である。

6.105.10

आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान्।
सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः ॥ ६.१०५.१० ॥

彼はアーディティヤ、サヴィトリ、スーリヤ、空行者カガ、プーシャン、光線を持つ者である。黄金に似て、バーヌ、金の種子を持つ者、昼を作る者である。

6.105.11

हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान्।
तिमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्डकोंऽशुमान् ॥ ६.१०५.११ ॥

彼は黄褐色の馬を持ち、千の光、七頭の馬、光線を持つ。闇を滅ぼす者であり、シャンブ、トヴァシュトリ、マールタンダ、光線を持つ者である。

6.105.12

हिरण्यगर्भः शिशिरस्तपनोऽहस्करो रविः।
अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः ॥ ६.१०५.१२ ॥

彼はヒラニヤガルバ、シシラ、タパナ、アハスカラ、ラヴィである。火をその胎に宿し、アディティの子、シャンカ、寒さを滅ぼす者である。

6.105.13

व्योमनाथस्तमोभेदी ऋग्यजुःसामपारगः।
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवंगमः ॥ ६.१०५.१३ ॥

空の主、闇を払う者、リグ・ヤジュル・サーマの三ヴェーダに通じた者、雲からの雨、水の友、ヴィンドヤの道を素早く跳び行く者。

6.105.14

आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः।
कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः ॥ ६.१०५.१४ ॥

熱を与える者、輪を持つ者、死、赤茶色の者、万物を焼く者、詩人、遍在者、大いなる輝きの者、赤き者、あらゆる存在の生起の源。

6.105.15

नक्षत्रग्रहताराणामधिपो विश्वभावनः।
तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते ॥ ६.१०५.१५ ॥

星宿・惑星・星々の主、世界を養う者、もろもろの光の中でも輝く者。十二の姿を持つ者よ、あなたに礼拝あれ。

6.105.16

नमः पूर्वाय गिरये पश्चिमायाद्रये नमः।
ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥ ६.१०५.१६ ॥

東の山に礼拝、西の山に礼拝。光の群れの主に礼拝、昼の主に礼拝。

6.105.17

जयाय जयभद्राय हर्यश्वाय नमो नमः।
नमो नमः सहस्रांशो आदित्याय नमो नमः ॥ ६.१०५.१७ ॥

勝者に礼拝、吉祥なる勝者に礼拝、黄褐色の馬を持つ者に礼拝、礼拝、礼拝。千の光を持つ者よ、礼拝、アーディティヤに礼拝。

6.105.18

नम उग्राय वीराय सारङ्गाय नमो नमः।
नमः पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ॥ ६.१०५.१८ ॥

猛き者に礼拝、勇者に礼拝、礼拝、さまざまな色の者に礼拝。蓮を開かせる者に礼拝、激烈なる者に礼拝、あなたに礼拝あれ。

6.105.19

ब्रह्मेशानाच्युतेशाय सूरायादित्यवर्चसे।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥ ६.१०५.१९ ॥

梵天・自在天・不滅者の主に礼拝します。太陽神アーディティヤのように輝く勇士に、輝く者、すべてを呑む者、猛き姿の御方に礼拝します。

6.105.20

तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने।
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥ ६.१०५.२० ॥

闇を除く者、寒さを除く者、敵を討つ者、無限の自己を持つ御方に礼拝します。恩知らずを討つ神、諸光の主に礼拝します。

6.105.21

तप्तचामीकराभाय हरये विश्वकर्मणे।
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥ ६.१०५.२१ ॥

熔かした金の輝きを持つ御方、ハリ、万物の造り主、闇を除く者、輝く者、諸世界の証人に礼拝します。

6.105.22

नाशयत्येष वै भूतं तमेव सृजति प्रभुः।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥ ६.१०५.२२ ॥

この主は生き物を滅ぼし、またそれを創造する。光線によって潤し、熱を放ち、雨を降らせる。

6.105.23

एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः।
एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥ ६.१०५.२३ ॥

眠る者たちの中で目覚め、すべての生き物に宿っている。彼こそが火への供物であり、火祭を行う者の果報でもある。

6.105.24

देवाश्च क्रतवश्चैव क्रतूनां फलमेव च।
यानि कृत्यानि लोकेषु सर्वेषु परमप्रभुः ॥ ६.१०५.२४ ॥

神々も祭祀もこの方であり、祭祀の果報もこの方である。諸世界に存在するすべての行いの、至高の主でもある。

6.105.25

एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च।
कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव ॥ ६.१०५.२५ ॥

ラーghava よ、災い、困難、荒野、危険の中でこれを唱える人は、誰も滅びることがない。

6.105.26

पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम्।
एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यति ॥ ६.१०५.२६ ॥

神々の神、世界の主である彼を一心に礼拝せよ。これを三度唱えれば、戦いに勝利するであろう。

6.105.27

अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि।
एवमुक्त्वा ततोऽगस्त्यो जगाम स यथागतम् ॥ ६.१०५.२७ ॥

大力の者よ、この瞬間にお前はラーヴァナを討つだろう。そう告げて、アガスティヤは来た道を去っていった。

6.105.28

एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत् तदा।
धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥ ६.१०५.२८ ॥

これを聞いて、大いに輝くラーマは悲しみを失った。大いに喜び、自制したラーghavaは心を保った。

6.105.29

आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान्।
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥ ६.१०५.२९ ॥

太陽を仰ぎ見てこれを唱え、最高の喜びを得た。三度口を清め身を浄めた勇者は、弓を取った。

6.105.30

रावणं प्रेक्ष्य हृष्टात्मा जयार्थं समुपागमत्।
सर्वयत्नेन महता वृतस्तस्य वधेऽभवत् ॥ ६.१०५.३० ॥

ラーヴァナを見て、心喜び勝利のために進んだ。全力を尽くし、大軍に囲まれて、彼を討つことに専念した。

6.105.31

अथ रविरवदन्निरीक्ष्य रामं
मुदितमनाः परमं प्रहृष्यमाणः।
निशिचरपतिसंक्षयं विदित्वा
सुरगणमध्यगतो वचस्त्वरेति ॥ ६.१०५.३१ ॥

そのとき太陽はラーマを見て、心を喜ばせ、大いに歓喜し、夜行者の主の滅亡を知り、神々の群れの中に立って、急いでこの言葉を語った。