蚁垤《罗摩衍那》 · 篇 6.110
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.110.1
रावणं निहतं श्रुत्वा राघवेण महात्मना।
अन्तःपुराद् विनिष्पेतू राक्षस्यः शोककर्शिताः ॥ ६.११०.१ ॥
听闻伟大的罗怙家族后裔(罗摩)杀死了罗波那,被悲痛折磨的罗刹女们从内宫冲了出来。
6.110.2
वार्यमाणाः सुबहुशो वेष्टन्त्यः क्षितिपांसुषु।
विमुक्तकेश्यः शोकार्ता गावो वत्सहता इव ॥ ६.११०.२ ॥
虽被反复阻拦,她们仍在尘土中翻滚,披散着头发,悲痛欲绝,如同小牛被杀的母牛。
6.110.3
उत्तरेण विनिष्क्रम्य द्वारेण सह राक्षसैः।
प्रविश्यायोधनं घोरं विचिन्वन्त्यो हतं पतिम् ॥ ६.११०.३ ॥
她们与罗刹们一同从北门走出,进入可怕的战场,寻找被杀的丈夫。
6.110.4
आर्यपुत्रेति वादिन्यो हा नाथेति च सर्वशः।
परिपेतुः कबन्धाङ्कां महीं शोणितकर्दमाम् ॥ ६.११०.४ ॥
她们四处哭喊“夫君啊!”“哎呀,我的主啊!”,倒在布满无头躯干、血泥遍地的大地上。
6.110.5
ता बाष्पपरिपूर्णाक्ष्यो भर्तृशोकपराजिताः।
करिण्य इव नर्दन्त्यः करेण्वो हतयूथपाः ॥ ६.११०.५ ॥
她们泪眼盈盈,为丈夫之死悲痛欲绝,如同群象之首被杀的母象般哀鸣。
6.110.6
ददृशुस्ता महाकायं महावीर्यं महाद्युतिम्।
रावणं निहतं भूमौ नीलाञ्जनचयोपमम् ॥ ६.११०.६ ॥
她们看到罗波那身躯庞大、威力无穷、光辉耀眼,倒卧在地,如同一堆蓝色的眼膏。
6.110.7
ताः पतिं सहसा दृष्ट्वा शयानं रणपांसुषु।
निपेतुस्तस्य गात्रेषु च्छिन्ना वनलता इव ॥ ६.११०.७ ॥
她们忽然看见丈夫躺在战场的尘土中,便如被砍断的林中藤蔓一般,倒在他的身躯上。
6.110.8
बहुमानात् परिष्वज्य काचिदेनं रुरोद ह।
चरणौ काचिदालम्ब्य काचित् कण्ठेऽवलम्ब्य च ॥ ६.११०.८ ॥
有人满怀深情地拥抱他而哭泣;有人抱住他的双脚;还有人攀在他的颈上。
6.110.9
उत्क्षिप्य च भुजौ काचिद् भूमौ सुपरिवर्तते।
हतस्य वदनं दृष्ट्वा काचिन्मोहमुपागमत् ॥ ६.११०.९ ॥
有人举起双臂在地上翻滚;有人看见被杀丈夫的面容,便昏厥过去。
6.110.10
काचिदङ्के शिरः कृत्वा रुरोद मुखमीक्षती।
स्नापयन्ती मुखं बाष्पैस्तुषारैरिव पङ्कजम् ॥ ६.११०.१० ॥
有人把他的头放在自己膝上,凝视着他的脸哭泣,用泪水洗他的面容,犹如露珠沾湿莲花。
6.110.11
एवमार्ताः पतिं दृष्ट्वा रावणं निहतं भुवि।
चुक्रुशुर्बहुधा शोकाद् भूयस्ताः पर्यदेवयन् ॥ ६.११०.११ ॥
她们如此悲痛,看见丈夫罗波那倒毙于地上,便因哀伤而以种种方式哭喊,再度哀哭不已。
6.110.12
येन वित्रासितः शक्रो येन वित्रासितो यमः।
येन वैश्रवणो राजा पुष्पकेण वियोजितः ॥ ६.११०.१२ ॥
他曾使因陀罗恐惧,使阎摩恐惧,并使国王毗舍罗婆那(俱毗罗)离开了普什帕卡车。
6.110.13
गन्धर्वाणामृषीणां च सुराणां च महात्मनाम्।
भयं येन रणे दत्तं सोऽयं शेते रणे हतः ॥ ६.११०.१३ ॥
在战场上使乾闼婆、仙人、天神和大德者心生恐惧的那个人,如今被杀,倒卧在战场上。
6.110.14
असुरेभ्यः सुरेभ्यो वा पन्नगेभ्योऽपि वा तथा।
भयं यो न विजानाति तस्येदं मानुषाद् भयम् ॥ ६.११०.१४ ॥
对于那个从不惧怕阿修罗、天神或蛇类的人,这种恐惧却来自一个凡人。
6.110.15
अवध्यो देवतानां यस्तथा दानवरक्षसाम्।
हतः सोऽयं रणे शेते मानुषेण पदातिना ॥ ६.११०.१५ ॥
连天神、檀那婆和罗刹都无法杀死的他,如今被一个步行的凡人在战场上杀死,倒卧于此。
6.110.16
यो न शक्यः सुरैर्हन्तुं न यक्षैर्नासुरैस्तथा।
सोऽयं कश्चिदिवासत्त्वो मृत्युं मर्त्येन लम्भितः ॥ ६.११०.१६ ॥
天神、夜叉与阿修罗都不能杀死的他,如今却像某个弱小的生灵一样,死于凡人之手。
6.110.17
एवं वदन्त्यो रुरुदुस्तस्य ता दुःखिताः स्त्रियः।
भूय एव च दुःखार्ता विलेपुश्च पुनः पुनः ॥ ६.११०.१७ ॥
这样说着,那些悲伤的女子为他哭泣,被痛苦折磨的她们一次又一次地哀号。
6.110.18
अशृण्वता तु सुहृदां सततं हितवादिनाम्।
मरणायाहृता सीता राक्षसाश्च निपातिताः।
एताः सममिदानीं ते वयमात्मा च पातितः ॥ ६.११०.१८ ॥
因为你从不听从那些时常进言有益之语的朋友,悉多被带来赴死,罗刹们也被击倒。如今,连同你,这些人、我们,以及你自己,都已倒下。
6.110.19
ब्रुवाणोऽपि हितं वाक्यमिष्टो भ्राता विभीषणः।
दृष्टं परुषितो मोहात् त्वयाऽऽत्मवधकांक्षिणा ॥ ६.११०.१९ ॥
你那亲爱的兄弟毗伏沙虽说着有益的话,你却因迷惑、一心求死,严厉地辱骂了他。
6.110.20
यदि निर्यातिता ते स्यात् सीता रामाय मैथिली।
न नः स्याद् व्यसनं घोरमिदं मूलहरं महत् ॥ ६.११०.२० ॥
若你将迈提利之女悉多归还罗摩,这场可怕的、连根拔除的大灾难就不会降临到我们身上。
6.110.21
वृत्तकामो भवेद् भ्राता रामो मित्रकुलं भवेत्।
वयं चाविधवाः सर्वाः सकामा न च शत्रवः ॥ ६.११०.२१ ॥
罗摩的愿望便得实现,他会如兄弟一般,朋友之族也得以延续;我们的妻子都不会守寡,我们自己的愿望也会满足,我们也不会成为敌人。
6.110.22
त्वया पुनर्नृशंसेन सीतां संरुन्धता बलात्।
राक्षसा वयमात्मा च त्रयं तुल्यं निपातितम् ॥ ६.११०.२२ ॥
然而你残忍地以武力囚禁悉多,因此罗刹、我们以及你自己——这三者同样被摧毁了。
6.110.23
न कामकारः कामं वा तव राक्षसपुंगव।
दैवं चेष्टयते सर्वं हतं दैवेन हन्यते ॥ ६.११०.२३ ॥
罗刹中的英雄啊,人并非凭自己的意愿或随心所欲而行事;命运支配一切。被命运击倒的人,终将被命运所击倒。
6.110.24
वानराणां विनाशोऽयं राक्षसानां च ते रणे।
तव चैव महाबाहो दैवयोगादुपागतः ॥ ६.११०.२४ ॥
这是猴子的毁灭,也是你的罗刹在战场上的毁灭。啊,大臂者,由于天命的凑合,这毁灭也降临到了你身上。
6.110.25
नैवार्थेन च कामेन विक्रमेण न चाज्ञया।
शक्या दैवगतिर्लोके निवर्तयितुमुद्यता ॥ ६.११०.२५ ॥
无论以财富、欲望、勇力还是命令,都无法在世间扭转天命的运行。
6.110.26
विलेपुरेवं दीनास्ता राक्षसाधिपयोषितः।
कुरर्य इव दुःखार्ता बाष्पपर्याकुलेक्षणाः ॥ ६.११०.२६ ॥
如此,罗刹王的妻妾们悲痛哀泣,宛如被苦痛折磨的鹗鸟,双眼被泪水模糊。