Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 6.114

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

6.114.1

तमुवाच महाप्राज्ञः सोऽभिवाद्य प्लवङ्गमः।
रामं कमलपत्राक्षं वरं सर्वधनुष्मताम् ॥ ६.११४.१ ॥

大いに賢明なその猿は、彼に敬礼してから、蓮の花びらのような目をし、すべての弓の射手の中で最も優れたラーマに語った。

6.114.2

यन्निमित्तोऽयमारम्भः कर्मणां यः फलोदयः।
तां देवीं शोकसंतप्तां द्रष्टुमर्हसि मैथिलीम् ॥ ६.११४.२ ॥

この企ての目的であり、行為の成果であるあの女神マイティリーを、悲嘆に苦しむ彼女を、あなたはぜひ見るべきです。

6.114.3

सा हि शोकसमाविष्टा बाष्पपर्याकुलेक्षणा।
मैथिली विजयं श्रुत्वा द्रष्टुं त्वामभिकांक्षति ॥ ६.११४.३ ॥

悲しみに包まれ、涙で揺れる目をしたマイティリーは、あなたの勝利を聞いて、あなたに会いたいと切望しています。

6.114.4

पूर्वकात् प्रत्ययाच्चाहमुक्तो विश्वस्तया तया।
द्रष्टुमिच्छामि भर्तारमिति पर्याकुलेक्षणा ॥ ६.११४.४ ॥

以前の信頼から、彼女は信じて私に告げました。目を乱した彼女は言いました、「夫に会いたいのです」と。

6.114.5

एवमुक्तो हनुमता रामो धर्मभृतां वरः।
आगच्छत् सहसा ध्यानमीषद्बाष्पपरिप्लुतः ॥ ६.११४.५ ॥

ハヌマーンにこう言われると、法を守る者の中で最も優れたラーマは、たちまち思いに沈み、その目はわずかに涙で満ちた。

6.114.6

स दीर्घमभिनिःश्वस्य जगतीमवलोकयन्।
उवाच मेघसंकाशं विभीषणमुपस्थितम् ॥ ६.११४.६ ॥

彼は長く溜め息をつき、大地を見つめながら、目の前に立つ雲のような色のヴィビーシャナに語った。

6.114.7

दिव्याङ्गरागां वैदेहीं दिव्याभरणभूषिताम्।
इह सीतां शिरःस्नातामुपस्थापय मा चिरम् ॥ ६.११४.७ ॥

神聖な香油を塗り、神聖な装身具で飾られたヴァイデーヒー、シーターを、頭を洗わせて、遅れずにここへ連れて来い。

6.114.8

एवमुक्तस्तु रामेण त्वरमाणो विभीषणः।
प्रविश्यान्तःपुरं सीतां स्त्रीभिः स्वाभिरचोदयत् ॥ ६.११४.८ ॥

ラーマにそう言われ、急いだヴィビーシャナは後宮に入り、自分の女たちにシーターを整えさせた。

6.114.9

ततः सीतां महाभागां दृष्ट्वोवाच विभीषणः।
मूर्ध्नि बद्धाञ्जलिः श्रीमान् विनीतो राक्षसेश्वरः ॥ ६.११४.९ ॥

大いなる幸運の女性シーターを見て、頭上に合掌し、謙虚で威光あるラークシャサの王ヴィビーシャナは言った。

6.114.10

दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता।
यानमारोह भद्रं ते भर्ता त्वां द्रष्टुमिच्छति ॥ ६.११४.१० ॥

神聖な香油を塗り、神聖な装身具で飾られたヴァイデーヒーよ、乗り物にお乗りください。ご多幸を。あなたの夫があなたに会いたがっています。

6.114.11

एवमुक्ता तु वैदेही प्रत्युवाच विभीषणम्।
अस्नात्वा द्रष्टुमिच्छामि भर्तारं राक्षसेश्वर ॥ ६.११४.११ ॥

そう言われて、ヴァイデーヒーはヴィビーシャナに答えた。「ラークシャサの王よ、沐浴せずに夫に会いたいのです。」

6.114.12

तस्यास्तद् वचनं श्रुत्वा प्रत्युवाच विभीषणः।
यथाऽऽह रामो भर्ता ते तत् तथा कर्तुमर्हसि ॥ ६.११४.१२ ॥

彼女のその言葉を聞いて、ヴィビーシャナは答えた。「あなたの夫ラーマが言われたとおりにするのがよいでしょう。」

6.114.13

तस्य तद् वचनं श्रुत्वा मैथिली पतिदेवता।
भर्तृभक्त्यावृता साध्वी तथेति प्रत्यभाषत ॥ ६.११४.१३ ॥

その言葉を聞いて、夫を神と仰ぐマイティリーは、夫への信愛に満ちた貞淑な女性として、「そのとおりに」と答えた。

6.114.14

ततः सीतां शिरःस्नातां संयुक्तां प्रतिकर्मणा।
महार्हाभरणोपेतां महार्हाम्बरधारिणीम् ॥ ६.११४.१४ ॥

それからシーターは髪を洗い、化粧を整え、高価な装身具をつけ、高価な衣を身にまとって支度された。

6.114.15

आरोप्य शिबिकां दीप्तां परार्घ्याम्बरसंवृताम्।
रक्षोभिर्बहुभिर्गुप्तामाजहार विभीषणः ॥ ६.११४.१५ ॥

最上の高価な布で覆われた輝く輿にシーターを乗せ、多くのラークシャサに守られてヴィビーシャナが彼女を連れてきた。

6.114.16

सोऽभिगम्य महात्मानं ज्ञात्वापि ध्यानमास्थितम्।
प्रणतश्च प्रहृष्टश्च प्राप्तां सीतां न्यवेदयत् ॥ ६.११४.१६ ॥

彼は偉大な人に近づき、瞑想に没頭していると知りながらも、平伏し喜びをもって、到着したシーターのことを報告した。

6.114.17

तामागतामुपश्रुत्य रक्षोगृहचिरोषिताम्।
रोषं हर्षं च दैन्यं च राघवः प्राप शत्रुहा ॥ ६.११४.१७ ॥

彼女が到着し、ラークシャサの館に長く住んでいたと聞いて、敵を討つラーghavaは怒り、喜び、そして悲しみを覚えた。

6.114.18

ततो यानगतां सीतां सविमर्शं विचारयन्।
विभीषणमिदं वाक्यमहृष्टो राघवोऽब्रवीत् ॥ ६.११४.१८ ॥

そこで、乗り物に座るシーターについて熟考しながら、喜ばずにラーghavaはヴィビーシャナにこの言葉を語った。

6.114.19

राक्षसाधिपते सौम्य नित्यं मद्विजये रत।
वैदेही संनिकर्षं मे क्षिप्रं समभिगच्छतु ॥ ६.११४.१९ ॥

羅刹の主よ、善良なる者よ、常に私の勝利のために尽くしてきた者よ、ヴァイデーヒーをすみやかに私のもとへ連れてこさせよ。

6.114.20

तस्य तद् वचनं श्रुत्वा राघवस्य विभीषणः।
तूर्णमुत्सारणं तत्र कारयामास धर्मवित् ॥ ६.११४.२० ॥

ラーガヴァのその言葉を聞き、法に通じたヴィビーシャナはすぐにそこの群衆を退けさせた。

6.114.21

कञ्चुकोष्णीषिणस्तत्र वेत्रझर्झरपाणयः।
उत्सारयन्तस्तान् योधान् समन्तात् परिचक्रमुः ॥ ६.११४.२१ ॥

上衣と頭巾を身につけ、手に籐の杖と鳴り物の棒を持った者たちは、そこであの兵士らを四方から退けながら歩き回った。

6.114.22

ऋक्षाणां वानराणां च राक्षसानां च सर्वशः।
वृन्दान्युत्सार्यमाणानि दूरमुत्तस्थुरन्ततः ॥ ६.११४.२२ ॥

熊・猿・羅刹のあらゆる群れは、四方から退けられて遠くへ下がり、ついには立ち止まった。

6.114.23

तेषामुत्सार्यमाणानां निःस्वनः सुमहानभूत्।
वायुनोद्धूयमानस्य सागरस्येव निःस्वनः ॥ ६.११४.२३ ॥

彼らが退けられると、大きなざわめきが起こった。風に揺さぶられる海の轟きのようであった。

6.114.24

उत्सार्यमाणांस्तान् दृष्ट्वा समन्ताज्जातसम्भ्रमान्।
दाक्षिण्यात्तदमर्षाच्च वारयामास राघवः ॥ ६.११४.२४ ॥

四方で慌てふためき、退けられていく彼らを見て、ラーガヴァは慈悲により、また彼らの憤りを思い、彼らを押しとどめた。

6.114.25

संरम्भाच्चाब्रवीद् रामश्चक्षुषा प्रदहन्निव।
विभीषणं महाप्राज्ञं सोपालम्भमिदं वचः ॥ ६.११४.२५ ॥

ラーマは怒りに、まるで目で焼き尽くすかのように、大智者ヴィビーシャナに非難の言葉を述べた。

6.114.26

किमर्थं मामनादृत्य क्लिश्यतेऽयं त्वया जनः।
निवर्तयैनमुद्वेगं जनोऽयं स्वजनो मम ॥ ६.११४.२६ ॥

私を顧みず、なぜお前はこの人々を苦しめるのか。この動揺を止めよ。この人々は私の身内である。

6.114.27

न गृहाणि न वस्त्राणि न प्राकारस्तिरस्क्रिया।
नेदृशा राजसत्कारा वृत्तमावरणं स्त्रियाः ॥ ६.११४.२७ ॥

家も衣も垣も覆いも、このような王の敬意も、女性の覆いではない。女性の振る舞いこそが覆いである。

6.114.28

व्यसनेषु न कृच्छ्रेषु न युद्धेषु स्वयंवरे।
न क्रतौ नो विवाहे वा दर्शनं दूष्यते स्त्रियाः ॥ ६.११४.२८ ॥

災難、困苦、戦い、スヴァヤンヴァラ、祭祀、婚礼のいずれにおいても、女性を見ることは非難されない。

6.114.29

सैषा विपद्गता चैव कृच्छ्रेण च समन्विता।
दर्शने नास्ति दोषोऽस्या मत्समीपे विशेषतः ॥ ६.११४.२९ ॥

この女性は災難に陥り、苦難に囚われている。彼女を見ることに罪はない、ましてや私の傍にいるのだから。

6.114.30

विसृज्य शिबिकां तस्मात् पद्भ्यामेवापसर्पतु।
समीपे मम वैदेहीं पश्यन्त्वेते वनौकसः ॥ ६.११४.३० ॥

その輿を降り、徒歩で下りさせよ。この森の住人たちに、私の傍のヴァイデーヒーを見せよ。

6.114.31

एवमुक्तस्तु रामेण सविमर्शो विभीषणः।
रामस्योपानयत् सीतां संनिकर्षं विनीतवत् ॥ ६.११४.३१ ॥

ラーマにこう言われ、熟慮したヴィビーシャナは、謙虚にシーターをラーマの近くへ連れて行った。

6.114.32

ततो लक्ष्मणसुग्रीवौ हनूमांश्च प्लवङ्गमः।
निशम्य वाक्यं रामस्य बभूवुर्व्यथिता भृशम् ॥ ६.११४.३२ ॥

そのとき、ラクシュマナ、スグリーヴァ、猿のハヌマーンはラーマの言葉を聞いて、ひどく苦しんだ。

6.114.33

कलत्रनिरपेक्षैश्च इङ्गितैरस्य दारुणैः।
अप्रीतमिव सीतायां तर्कयन्ति स्म राघवम् ॥ ६.११४.३३ ॥

妻に無関心で厳しい身振りから、彼らはラーガヴァがシーターに不満なのだと推し量った。

6.114.34

लज्जया त्ववलीयन्ती स्वेषु गात्रेषु मैथिली।
विभीषणेनानुगता भर्तारं साभ्यवर्तत ॥ ६.११४.३४ ॥

恥じらいに身を縮めながら、マイティリーはヴィビーシャナに伴われて夫のもとへ近づいた。

6.114.35

विस्मयाच्च प्रहर्षाच्च स्नेहाच्च पतिदेवता।
उदैक्षत मुखं भर्तुः सौम्यं सौम्यतरानना ॥ ६.११४.३५ ॥

驚き、喜び、愛情から、夫を神として仕える貞淑なシーターは、夫の穏やかな顔を見上げた。彼女自身の顔はさらに穏やかであった。

6.114.36

अथ समपनुदन्मनःक्लमं सा
सुचिरमदृष्टमुदीक्ष्य वै प्रियस्य।
वदनमुदितपूर्णचन्द्रकान्तं
विमलशशाङ्कनिभानना तदाऽऽसीत् ॥ ६.११४.३६ ॥

長く見ることのなかった愛しい人の顔、昇る満月のように輝く顔を見て、彼女は心の疲れを完全に払い除けた。そのとき彼女の顔も清らかな月のようになった。