Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 6.122

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

6.122.1

उपस्थितं तु तं कृत्वा पुष्पकं पुष्पभूषितम्।
अविदूरे स्थितो राममित्युवाच विभीषणः ॥ ६.१२२.१ ॥

花で飾られたそのプシュパカ車を近くに寄せて止めた後、少し離れて立っていたヴィビーシャナはラーマにこう言った。

6.122.2

स तु बद्धाञ्जलिपुटो विनीतो राक्षसेश्वरः।
अब्रवीत् त्वरयोपेतः किं करोमीति राघवम् ॥ ६.१२२.२ ॥

羅刹の王は謙虚に合掌し、急いでラーガヴァに言った。「私は何をすればよいのでしょうか」

6.122.3

तमब्रवीन्महातेजा लक्ष्मणस्योपशृण्वतः।
विमृश्य राघवो वाक्यमिदं स्नेहपुरस्कृतम् ॥ ६.१२२.३ ॥

大いなる光輝のラーガヴァは、ラクシュマナが聞いている中、よく考えてから、愛情に導かれてこの言葉を彼に告げた。

6.122.4

कृतप्रयत्नकर्माणः सर्व एव वनौकसः।
रत्नैरर्थैश्च विविधैः सम्पूज्यन्तां विभीषण ॥ ६.१२२.४ ॥

「ヴィビーシャナよ、努力をもって功を成したこの森の者たちすべてを、宝石と様々な財物で厚くもてなしてくれ。」

6.122.5

सहामीभिस्त्वया लङ्का निर्जिता राक्षसेश्वर।
हृष्टैः प्राणभयं त्यक्त्वा संग्रामेष्वनिवर्तिभिः ॥ ६.१२२.५ ॥

「羅刹の王よ、この者たちとともに、お前はランカーを征服した。喜び勇み、命への恐れを捨て、戦いで決して退かなかった者たちである。」

6.122.6

त इमे कृतकर्माणः सर्व एव वनौकसः।
धनरत्नप्रदानैश्च कर्मैषां सफलं कुरु ॥ ६.१२२.६ ॥

「この森の者たちはみな己の務めを果たした。彼らに財宝と宝石を与え、その功を実らせてくれ。」

6.122.7

एवं सम्मानिताश्चैते नन्द्यमाना यथा त्वया।
भविष्यन्ति कृतज्ञेन निर्वृता हरियूथपाः ॥ ६.१२२.७ ॥

このようにあなたに敬われ喜ばされて、これらの猿の群れの主たちは、恩を知る人によって満足するでしょう。

6.122.8

त्यागिनं संग्रहीतारं सानुक्रोशं जितेन्द्रियम्।
सर्वे त्वामभिगच्छन्ति ततः सम्बोधयामि ते ॥ ६.१२२.८ ॥

寛大で配下をまとめ、慈悲深く感覚を制した君のもとに皆が集まる。ゆえに私は君に教えよう。

6.122.9

हीनं रतिगुणैः सर्वैरभिहन्तारमाहवे।
सेना त्यजति संविग्ना नृपतिं तं नरेश्वर ॥ ६.१२२.९ ॥

人を喜ばせる徳を一つも持たず、戦場で打ち倒すことしか知らない王を、人の主よ、軍は恐れて見捨てる。

6.122.10

एवमुक्तस्तु रामेण वानरांस्तान् विभीषणः।
रत्नार्थसंविभागेन सर्वानेवाभ्यपूजयत् ॥ ६.१२२.१० ॥

ラーマにこう言われて、ヴィビーシャナは宝玉と財を分け与えて、猿たちを皆敬った。

6.122.11

ततस्तान् पूजितान् दृष्ट्वा रत्नार्थैर्हरियूथपान्।
आरुरोह तदा रामस्तद् विमानमनुत्तमम् ॥ ६.१२२.११ ॥

そのとき、宝玉と財で敬われた猿の群れの主たちを見て、ラーマは最上の空飛ぶ車に乗った。

6.122.12

अङ्केनादाय वैदेहीं लज्जमानां मनस्विनीम्।
लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता ॥ ६.१२२.१२ ॥

恥じらう高潔なヴァイデーヒー(シーター)を膝に抱き、勇猛で弓を持つ弟ラクシュマナとともに、(ラーマは乗り込んだ)。

6.122.13

अब्रवीत् स विमानस्थः पूजयन् सर्ववानरान्।
सुग्रीवं च महावीर्यं काकुत्स्थः सविभीषणम् ॥ ६.१२२.१३ ॥

空飛ぶ車に立ち、すべての猿、大力のスグリーヴァ、そしてヴィビーシャナと共にいるカークツト(ラーマ)を敬いながら、彼は語った。

6.122.14

मित्रकार्यं कृतमिदं भवद्भिर्वानरर्षभाः।
अनुज्ञाता मया सर्वे यथेष्टं प्रतिगच्छत ॥ ६.१२२.१४ ॥

猿の中の雄牛たちよ、あなたがたは友のためにこの務めを果たした。私の許しを得て、皆それぞれ望むところへ帰るがよい。

6.122.15

यत् तु कार्यं वयस्येन स्निग्धेन च हितेन च।
कृतं सुग्रीव तत् सर्वं भवताधर्मभीरुणा ॥ ६.१२२.१५ ॥

スグリーヴァよ、親しく情深く益をなす友が為すべきことは、すべて不正を恐れるあなたが成し遂げた。

6.122.16

किष्किन्धां प्रति याह्याशु स्वसैन्येनाभिसंवृतः।
स्वराज्ये वस लङ्कायां मया दत्ते विभीषण।
न त्वां धर्षयितुं शक्ताः सेन्द्रा अपि दिवौकसः ॥ ६.१२२.१६ ॥

スグリーヴァよ、自軍に囲まれて速やかにキシュキンダーへ行け。ヴィビーシャナよ、私が与えた汝の王国ラṅカーに住め。インドラと共にいる神々でさえ、汝を攻めることはできないだろう。

6.122.17

अयोध्यां प्रति यास्यामि राजधानीं पितुर्मम।
अभ्यनुज्ञातुमिच्छामि सर्वानामन्त्रयामि वः ॥ ६.१२२.१७ ॥

私は父の都アヨーディヤーへ向かう。皆に別れを告げたいと思い、あなたがたに別れを告げる。

6.122.18

एवमुक्तास्तु रामेण हरीन्द्रा हरयस्तथा।
ऊचुः प्राञ्जलयः सर्वे राक्षसश्च विभीषणः ॥ ६.१२२.१८ ॥

ラーマにこう言われて、猿の王たちと全ての猿、そして羅刹ヴィビーシャナは合掌して答えた。

6.122.19

अयोध्यां गन्तुमिच्छामः सर्वान् नयतु नो भवान्।
मुद्युक्ता विचरिष्यामो वनान्युपवनानि च ॥ ६.१२२.१९ ॥

私たちはアヨーディヤーへ行きたいのです。どうか私たち皆をそこへお連れください。喜んで森や園を巡ります。

6.122.20

दृष्ट्वा त्वामभिषेकार्द्रं कौसल्यामभिवाद्य च।
अचिरादागमिष्यामः स्वगृहान् नृपसत्तम ॥ ६.१२२.२० ॥

灌頂に濡れたあなたを見て、カウサリヤーに敬礼した後、王の中の最上の方よ、私たちはまもなく自分の家に戻るでしょう。

6.122.21

एवमुक्तस्तु धर्मात्मा वानरैः सविभीषणैः।
अब्रवीद् वानरान् रामः ससुग्रीवविभीषणान् ॥ ६.१२२.२१ ॥

ヴァーナラたちとヴィビーシャナにこう言われて、法の魂を持つラーマは、スグリーヴァとヴィビーシャナとともにいるヴァーナラたちに語った。

6.122.22

प्रियात् प्रियतरं लब्धं यदहं ससुहृज्जनः।
सर्वैर्भवद्भिः सहितः प्रीतिं लप्स्ये पुरीं गतः ॥ ६.१२२.२२ ॥

愛しいものよりさらに愛しいものを得た私は、友人たちとあなたがた皆とともに都へ行き、喜びを得るでしょう。

6.122.23

क्षिप्रमारोह सुग्रीव विमानं सह वानरैः।
त्वमप्यारोह सामात्यो राक्षसेन्द्र विभीषण ॥ ६.१२२.२३ ॥

スグリーヴァよ、速やかにヴァーナラたちとともに空飛ぶ車に乗れ。ラークシャサの主ヴィビーシャナよ、お前も大臣たちとともに乗れ。

6.122.24

ततः स पुष्पकं दिव्यं सुग्रीवः सह वानरैः।
आरुरोह मुदा युक्तः सामात्यश्च विभीषणः ॥ ६.१२२.२४ ॥

そこでスグリーヴァはヴァーナラたちとともに、ヴィビーシャナは大臣たちとともに、喜びに満ちてその神聖なプシュパカ車に乗り込んだ。

6.122.25

तेष्वारूढेषु सर्वेषु कौबेरं परमासनम्।
राघवेणाभ्यनुज्ञातमुत्पपात विहायसम् ॥ ६.१२२.२५ ॥

皆が乗り込むと、ラーガヴァの許しを得て、クベーラの至高の座が空へ舞い上がった。

6.122.26

खगतेन विमानेन हंसयुक्तेन भास्वता।
प्रहृष्टश्च प्रतीतश्च बभौ रामः कुबेरवत् ॥ ६.१२२.२६ ॥

白鳥に引かれ空を進む、輝く飛車の上で、喜びと満足に満ちたラーマはクベーラのように輝いた。

6.122.27

ते सर्वे वानरर्क्षाश्च राक्षसाश्च महाबलाः।
यथासुखमसम्बाधं दिव्ये तस्मिन्नुपाविशन् ॥ ६.१२२.२७ ॥

すべての猿、熊、そして力強いラークシャサたちは、その神聖な車に、窮屈さなく心地よく座った。