Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 6.126

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.126.1

बहूनि नाम वर्षाणि गतस्य सुमहद्वनम्।
शृणोम्यहं प्रीतिकरं मम नाथस्य कीर्तनम् ॥ ६.१२६.१ ॥

自他前往大林已过多年;我听到我夫君令人欣喜的称颂。

6.126.2

कल्याणी बत गाथेयं लौकिकी प्रतिभाति माम्।
एति जीवन्तमानन्दो नरं वर्षशतादपि ॥ ६.१२६.२ ॥

此故事多么吉祥!我觉得它是世间之事,因为活着的人即使经过百年,也会迎来喜悦。

6.126.3

राघवस्य हरीणां च कथमासीत् समागमः।
कस्मिन् देशे किमाश्रित्य तत्त्वमाख्याहि पृच्छतः ॥ ६.१२६.३ ॥

罗怙婆与猴众是如何相会的?在何处,依靠何人?请把真相告诉问者。

6.126.4

स पृष्टो राजपुत्रेण बृस्यां समुपवेशितः।
आचचक्षे ततः सर्वं रामस्य चरितं वने ॥ ६.१२६.४ ॥

王子询问之后,他被请坐于座位上,随即讲述了罗摩在森林中的全部事迹。

6.126.5

यथा प्रव्राजितो रामो मातुर्दत्तौ वरौ तव।
यथा च पुत्रशोकेन राजा दशरथो मृतः ॥ ६.१२६.५ ॥

罗摩如何被放逐,你的两个恩惠如何授予你的母亲,以及国王十车王如何因丧子之痛而死。

6.126.6

यथा दूतैस्त्वमानीतस्तूर्णं राजगृहात् प्रभो।
त्वयायोध्यां प्रविष्टेन यथा राज्यं न चेप्सितम् ॥ ६.१२६.६ ॥

你如何被使者从王宫火速召回,以及你进入阿约提亚后,并不想要王国。

6.126.7

चित्रकूटगिरिं गत्वा राज्येनामित्रकर्शनः।
निमन्त्रितस्त्वया भ्राता धर्ममाचरता सताम् ॥ ६.१२६.७ ॥

你前往吉祥山(Citrakūṭa),邀请那位克敌者、奉行善人之法的兄长接受王国。

6.126.8

स्थितेन राज्ञो वचने यथा राज्यं विसर्जितम्।
आर्यस्य पादुके गृह्य यथासि पुनरागतः ॥ ६.१२६.८ ॥

遵从国王之言,王国被放弃;你取了尊者的木屐,返回了。

6.126.9

सर्वमेतन्महाबाहो यथावद् विदितं तव।
त्वयि प्रतिप्रयाते तु यद् वृत्तं तन्निबोध मे ॥ ६.१२६.९ ॥

啊,大臂者!这一切你都清楚地知道。你离去之后所发生的事,请听我说。

6.126.10

अपयाते त्वयि तदा समुद्भ्रान्तमृगद्विजम्।
परिद्यूनमिवात्यर्थं तद् वनं समपद्यत ॥ ६.१२६.१० ॥

你离去之后,那片林中鹿与鸟慌乱地四处奔走,森林变得极其萧索,仿佛凋零了一般。

6.126.11

तद्धस्तिमृदितं घोरं सिंहव्याघ्रमृगाकुलम्।
प्रविवेशाथ विजनं स महद् दण्डकावनम् ॥ ६.१२६.११ ॥

那片被象群践踏、充满狮子、老虎与鹿的可怖而人迹罕至的大丹陀迦林,他走了进去。

6.126.12

तेषां पुरस्ताद् बलवान् गच्छतां गहने वने।
विनदन् सुमहानादं विराधः प्रत्यदृश्यत ॥ ६.१२६.१२ ॥

他们在茂密的林中行走时,强大的毗罗陀在他们面前现身,发出巨大的吼声。

6.126.13

तमुत्क्षिप्य महानादमूर्ध्वबाहुमधोमुखम्।
निखाते प्रक्षिपन्ति स्म नदन्तमिव कुञ्जरम् ॥ ६.१२६.१३ ॥

他们举起他,发出巨大的吼声,双臂高举,面朝下,将他抛入深坑,如同吼叫的大象。

6.126.14

तत् कृत्वा दुष्करं कर्म भ्रातरौ रामलक्ष्मणौ।
सायाह्ने शरभङ्गस्य रम्यमाश्रममीयतुः ॥ ६.१२६.१४ ॥

完成那项艰难的任务后,罗摩与罗什曼那两兄弟于傍晚抵达了舍罗婆伽的优美修行处。

6.126.15

शरभङ्गे दिवं प्राप्ते रामः सत्यपराक्रमः।
अभिवाद्य मुनीन् सर्वाञ्जनस्थानमुपागमत् ॥ ६.१२६.१५ ॥

舍罗婆伽升天之后,真正勇武的罗摩向所有仙人恭敬致礼,然后前往人民居地。

6.126.16

पश्चाच्छूर्पणखा नाम रामपार्श्वमुपागता।
ततो रामेण संदिष्टो लक्ष्मणः सहसोत्थितः ॥ ६.१२६.१६ ॥

随后,名叫首波那佉的罗刹女来到罗摩身边。于是罗什曼那听从罗摩的吩咐,猛然起身。

6.126.17

प्रगृह्य खड्गं चिच्छेद कर्णनासं महाबलः।
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ॥ ६.१२६.१७ ॥

大力的罗什曼那拿起剑,割下了她的耳朵和鼻子。还有十四千名行事可怖的罗刹。

6.126.18

हतानि वसता तत्र राघवेण महात्मना।
एकेन सह संगम्य रामेण रणमूर्धनि ॥ ६.१२६.१८ ॥

他们都被居住在那里的伟大心胸的罗ghava所杀。在战阵前沿,他们与罗摩独自交战,全部被消灭。

6.126.19

अह्नश्चतुर्थभागेन निःशेषा राक्षसाः कृताः।
महाबला महावीर्यास्तपसो विघ्नकारिणः ॥ ६.१२६.१९ ॥

在一天的四分之一时间内,所有扰乱苦行的、力大勇猛的罗刹都被灭尽。

6.126.20

निहता राघवेणाजौ दण्डकारण्यवासिनः।
राक्षसाश्च विनिष्पिष्टाः खरश्च निहतो रणे ॥ ६.१२६.२० ॥

在战斗中,罗怙子杀死了住在檀陀迦林中的罗刹并将其击溃;在这场战斗中,恰罗也被杀死。

6.126.21

दूषणं चाग्रतो हत्वा त्रिशिरास्तदनन्तरम्।
ततस्तेनार्दिता बाला रावणं समुपागता ॥ ६.१२६.२१ ॥

他先杀了杜沙那,接着又杀了三头;被他折磨的幸存罗刹于是来到罗波那面前。

6.126.22

रावणानुचरो घोरो मारीचो नाम राक्षसः।
लोभयामास वैदेहीं भूत्वा रत्नमयो मृगः ॥ ६.१२६.२२ ॥

罗波那的随从、凶恶的罗刹摩利者,化作一只宝石之鹿,开始诱惑毗提诃公主。

6.126.23

सा राममब्रवीद् दृष्ट्वा वैदेही गृह्यतामिति।
अयं मनोहरः कान्त आश्रमो नो भविष्यति ॥ ६.१२६.२३ ॥

毗提诃见到后对罗摩说:“请捉住它吧!这只可爱的鹿将成为我们修行处的装饰,夫君。”

6.126.24

ततो रामो धनुष्पाणिर्मृगं तमनुधावति।
स तं जघान धावन्तं शरेणानतपर्वणा ॥ ६.१२६.२४ ॥

于是罗摩手持弓箭追赶那只鹿;在它奔跑时,他用一支弯曲关节的箭射中了它。

6.126.25

अथ सौम्य दशग्रीवो मृगं याति तु राघवे।
लक्ष्मणे चापि निष्क्रान्ते प्रविवेशाश्रमं तदा ॥ ६.१२६.२५ ॥

于是,善良的人啊,罗怙之裔追逐那只鹿而去,罗什曼那也已出去,十颈者便在那时走进了修行处。

6.126.26

जग्राह तरसा सीतां ग्रहः खे रोहिणीमिव।
त्रातुकामं ततो युद्धे हत्वा गृध्रं जटायुषम् ॥ ६.१२६.२६ ॥

如同星辰在天空抓住罗希尼,他强行抓住了悉多;然后在战斗中杀死了想要保护她的秃鹫迦吒优。

6.126.27

प्रगृह्य सहसा सीतां जगामाशु स राक्षसः।
ततस्त्वद्भुतसंकाशाः स्थिताः पर्वतमूर्धनि ॥ ६.१२६.२७ ॥

那罗刹突然抓住悉多,迅速离去;此时他们满面惊异,站在山峰之上。

6.126.28

सीतां गृहीत्वा गच्छन्तं वानराः पर्वतोपमाः।
ददृशुर्विस्मिताकारा रावणं राक्षसाधिपम् ॥ ६.१२६.२८ ॥

如山岳般的猴众,看见罗刹之主罗波那抓着悉多离去,神情惊愕。

6.126.29

ततः शीघ्रतरं गत्वा तद् विमानं मनोजवम्।
आरुह्य सह वैदेह्या पुष्पकं स महाबलः ॥ ६.१२६.२९ ॥

随后更加迅速地前行,这位大力者与毗提诃公主一同登上了那辆如意念般迅捷的飞车普须波迦。

6.126.30

प्रविवेश तदा लङ्कां रावणो राक्षसेश्वरः।
तां सुवर्णपरिष्कारे शुभे महति वेश्मनि ॥ ६.१२६.३० ॥

于是罗刹之主罗波那进入楞伽城,来到一座以黄金装饰的吉祥大宅之中。

6.126.31

प्रवेश्य मैथिलीं वाक्यैः सान्त्वयामास रावणः।
तृणवद् भाषितं तस्य तं च नैर्ऋतपुङ्गवम् ॥ ६.१२६.३१ ॥

罗波那将摩ithili带入宫中,用言语安慰她;然而她把他的话,连同那位罗刹之最,都视作草芥一般微不足道。

6.126.32

अचिन्तयन्ती वैदेही ह्यशोकवनिकां गता।
न्यवर्तत तदा रामो मृगं हत्वा तदा वने ॥ ६.१२६.३२ ॥

维代希无所思虑,已前往无忧树林;此时罗摩在林中杀了一只鹿,返回了。

6.126.33

निवर्तमानः काकुत्स्थो दृष्ट्वा गृध्रं स विव्यथे।
गृध्रं हतं तदा दृष्ट्वा रामः प्रियतरं पितुः ॥ ६.१२६.३३ ॥

归来的迦古特斯特罗摩见到秃鹫,心中悲痛;见到这只对父亲最为亲爱的秃鹫已被杀死,罗摩更加悲伤。

6.126.34

मार्गमाणस्तु वैदेहीं राघवः सहलक्ष्मणः।
गोदावरीमनुचरन् वनोद्देशांश्च पुष्पितान् ॥ ६.१२६.३४ ॥

罗摩与罗什曼那一同寻找维代希,沿着戈达瓦里河岸,走遍林中百花盛开的地方。

6.126.35

आसेदतुर्महारण्ये कबन्धं नाम राक्षसम्।
ततः कबन्धवचनाद् रामः सत्यपराक्रमः ॥ ६.१२६.३५ ॥

两人在大森林中到达一个名叫迦班陀的罗刹处;然后依迦班陀之言,以真正勇力著称的罗摩(继续前行)。

6.126.36

ऋष्यमूकगिरिं गत्वा सुग्रीवेण समागतः।
तयोः समागमः पूर्वं प्रीत्या हार्दो व्यजायत ॥ ६.१२६.३६ ॥

罗摩前往力使山,与须羯哩婆相遇;他们初次相见时,便因彼此喜爱而生出真挚的友谊。

6.126.37

भ्रात्रा निरस्तः क्रुद्धेन सुग्रीवो वालिना पुरा।
इतरेतरसंवादात् प्रगाढः प्रणयस्तयोः ॥ ६.१२६.३७ ॥

往昔,苏羯哩婆被愤怒的兄长伐林驱逐;二人相互交谈,彼此之间生出深厚的情谊。

6.126.38

रामः स्वबाहुवीर्येण स्वराज्यं प्रत्यपादयत्।
वालिनं समरे हत्वा महाकायं महाबलम् ॥ ६.१२६.३८ ॥

罗摩凭借自己双臂的威力,在战斗中杀死了身躯庞大、力量强大的伐林,使苏羯哩婆重新夺回自己的王国。

6.126.39

सुग्रीवः स्थापितो राज्ये सहितः सर्ववानरैः।
रामाय प्रतिजानीते राजपुत्र्यास्तु मार्गणम् ॥ ६.१२६.३९ ॥

苏羯哩婆与所有猴众一同被立于王位,他向罗摩承诺寻找那位公主。

6.126.40

आदिष्टा वानरेन्द्रेण सुग्रीवेण महात्मना।
दश कोट्यः प्लवङ्गानां सर्वाः प्रस्थापिता दिशः ॥ ६.१२६.४० ॥

在大德的猴王苏羯哩婆的命令下,一千万亿(十克罗)跳跃的猴众被派往各个方向。

6.126.41

तेषां नो विप्रकृष्टानां विन्ध्ये पर्वतसत्तमे।
भृशं शोकाभितप्तानां महान् कालोऽत्यवर्तत ॥ ६.१२६.४१ ॥

我们在最好的山脉——温底耶山上四散分离,被深深的悲痛煎熬,漫长的时间就这样过去了。

6.126.42

भ्राता तु गृध्रराजस्य सम्पातिर्नाम वीर्यवान्।
समाख्याति स्म वसतीं सीतां रावणमन्दिरे ॥ ६.१२६.४२ ॥

金翅鸟王的兄弟、名叫僧波底的勇士宣称,悉多居住在罗波那的宫殿之中。

6.126.43

सोऽहं दुःखपरीतानां दुःखं तज्ज्ञातिनां नुदन्।
आत्मवीर्यं समास्थाय योजनानां शतं प्लुतः।
तत्राहमेकामद्राक्षमशोकवनिकां गताम् ॥ ६.१२६.४३ ॥

我为了解除被忧愁所困的亲族之苦,依靠自己的勇力,跃过了一百由旬。在那里,我看见一位来到无忧林中的女子。

6.126.44

कौशेयवस्त्रां मलिनां निरानन्दां दृढव्रताम्।
तया समेत्य विधिवत् पृष्ट्वा सर्वमनिन्दिताम् ॥ ६.१२६.४४ ॥

她身穿丝衣,面容憔悴,毫无欢颜,誓愿坚定。我依礼走近她,向这位无可指责的女子询问了一切。

6.126.45

अभिज्ञानं मया दत्तं रामनामाङ्गुलीयकम्।
अभिज्ञानं मणिं लब्ध्वा चरितार्थोऽहमागतः ॥ ६.१२६.४५ ॥

我所给的信物,刻有罗摩之名的指环;得到这枚信物之宝,我完成了使命而归来。

6.126.46

मया च पुनरागम्य रामस्याक्लिष्टकर्मणः।
अभिज्ञानं मया दत्तमर्चिष्मान् स महामणिः ॥ ६.१२६.४६ ॥

我再次前来,代表行事毫不费力的罗摩,将我所给的那枚光辉的大宝珠作为信物交给她。

6.126.47

श्रुत्वा तां मैथिलीं रामस्त्वाशशंसे च जीवितम्।
जीवितान्तमनुप्राप्तः पीत्वामृतमिवातुरः ॥ ६.१२६.४७ ॥

罗摩听到美提利的这些话,重新燃起生存的希望,如同濒临死亡的病人饮下甘露。

6.126.48

उद्योजयिष्यन्नुद्योगं दध्रे लङ्कावधे मनः।
जिघांसुरिव लोकान्ते सर्वाँल्लोकान् विभावसुः ॥ ६.१२६.४८ ॥

罗摩想要发动征伐,心念专注于毁灭楞伽,如同劫末之火欲焚尽一切世界。

6.126.49

ततः समुद्रमासाद्य नलं सेतुमकारयत्।
अतरत् कपिवीराणां वाहिनी तेन सेतुना ॥ ६.१२६.४९ ॥

随后抵达大海,他令那罗建造了一座桥,猴子英雄的大军借此桥渡过。

6.126.50

प्रहस्तमवधीन्नीलः कुम्भकर्णं तु राघवः।
लक्ष्मणो रावणसुतं स्वयं रामस्तु रावणम् ॥ ६.१२६.५० ॥

那罗陀(尼罗)杀了普罗诃斯塔;罗怙之后(罗摩)杀了俱卢羯罗那;罗什曼那杀了罗波那之子;罗摩亲自杀了罗波那。

6.126.51

स शक्रेण समागम्य यमेन वरुणेन च।
महेश्वरस्वयंभूभ्यां तथा दशरथेन च ॥ ६.१२६.५१ ॥

他与因陀罗、阎摩、伐楼那相见,也与摩醯首罗和自在者(梵天)相见,还与十车王相见。

6.126.52

तैश्च दत्तवरः श्रीमानृषिभिश्च समागतैः।
सुरर्षिभिश्च काकुत्स्थो वराँल्लेभे परंतपः ॥ ६.१२६.५२ ॥

他从他们以及齐集的仙人与天仙处获得了赐福;光荣的迦姑陀(罗摩),焚烧敌人者,获得了恩惠。

6.126.53

स तु दत्तवरः प्रीत्या वानरैश्च समागतैः।
पुष्पकेण विमानेन किष्किन्धामभ्युपागमत् ॥ ६.१२६.५३ ॥

他获得了恩惠,与怀着敬爱聚集而来的猴子们一同乘坐空中车辇“花车”,前往基什金陀。

6.126.54

तां गङ्गां पुनरासाद्य वसन्तं मुनिसंनिधौ।
अविघ्नं पुष्ययोगेन श्वो रामं द्रष्टुमर्हसि ॥ ६.१२६.५४ ॥

再次抵达那条恒河,留在仙人身边,在补沙星宿的吉时里毫无阻碍,明天你便应当去见罗摩。

6.126.55

ततः स वाक्यैर्मधुरैर्हनूमतो
निशम्य हृष्टो भरतः कृताञ्जलिः।
उवाच वाणीं मनसः प्रहर्षिणीं
चिरस्य पूर्णः खलु मे मनोरथः ॥ ६.१२६.५५ ॥

于是婆罗多听了哈奴曼甜美的话语,心中欢喜,合掌说出令人心悦的话语:“果然,经过很久,我的心愿终于实现了。”