蚁垤《罗摩衍那》 · 篇 6.15
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.15.1
बृहस्पतेस्तुल्यमतेर्वचस्त-
न्निशम्य यत्नेन विभीषणस्य।
ततो महात्मा वचनं बभाषे
तत्रेन्द्रजिन्नैर्ऋतयूथमुख्यः ॥ ६.१५.१ ॥
罗刹众之首、大心的因陀罗耆特仔细听完了与布利哈斯帕蒂一样智慧的维毗沙那的话,随即在那里说道。
6.15.2
किं नाम ते तात कनिष्ठ वाक्य-
मनर्थकं वै बहुभीतवच्च।
अस्मिन् कुले योऽपि भवेन्न जातः
सोऽपीदृशं नैव वदेन्न कुर्यात् ॥ ६.१५.२ ॥
亲爱的幼弟啊,你的话为何如此无益,又像极度恐惧之人所说?即便是非生于此族的人,也不会这样说,也不会这样做。
6.15.3
सत्त्वेन वीर्येण पराक्रमेण
धैर्येण शौर्येण च तेजसा च।
एकः कुलेऽस्मिन् पुरुषो विमुक्तो
विभीषणस्तात कनिष्ठ एषः ॥ ६.१५.३ ॥
亲爱的,在这个家族中,以内在力量、勇武、威势、坚毅、英勇与光辉而独立出众的人,只有这一位——维毗沙那,这位幼弟。
6.15.4
किं नाम तौ मानुषराजपुत्रा-
वस्माकमेकेन हि राक्षसेन।
सुप्राकृतेनापि निहन्तुमेतौ
शक्यौ कुतो भीषयसे स्म भीरो ॥ ६.१५.४ ॥
难道我们中间任何一个普通的罗刹,都不能杀死这两位人王之子吗?懦夫,那你为何如此害怕?
6.15.5
त्रिलोकनाथो ननु देवराजः
शक्रो मया भूमितले निविष्टः।
भयार्पिताश्चापि दिशः प्रपन्नाः
सर्वे तदा देवगणाः समग्राः ॥ ६.१५.५ ॥
我曾将三界之主、天王帝释(因陀罗)打倒在地;那时,方位与诸天众皆因恐惧而前来投诚。
6.15.6
ऐरावतो निःस्वनमुन्नदन् स
निपातितो भूमितले मया तु।
विकृष्य दन्तौ तु मया प्रसह्य
वित्रासिता देवगणाः समग्राः ॥ ६.१५.६ ॥
象王爱罗婆多高声咆哮,被我击倒在地;我又强行拔下它的象牙,诸天神众全都惊恐万分。
6.15.7
सोऽहं सुराणामपि दर्पहन्ता
दैत्योत्तमानामपि शोककर्ता।
कथं नरेन्द्रात्मजयोर्न शक्तो
मनुष्ययोः प्राकृतयोः सुवीर्यः ॥ ६.१५.७ ॥
我能摧毁诸天神的傲慢,也能使最优秀的达提耶人悲痛,怎么会不能对付这两个普通凡人、人王之子展现我的威力呢?
6.15.8
अथेन्द्रकल्पस्य दुरासदस्य
महौजसस्तद् वचनं निशम्य।
ततो महार्थं वचनं बभाषे
विभीषणः शस्त्रभृतां वरिष्ठः ॥ ६.१५.८ ॥
听完这位如同因陀罗、难以接近、威力巨大的罗波那的那番话,持武器者中最优秀的维毗沙那便说出了意义重大的言语。
6.15.9
न तात मन्त्रे तव निश्चयोऽस्ति
बालस्त्वमद्याप्यविपक्वबुद्धिः।
तस्मात् त्वयाप्यात्मविनाशनाय
वचोऽर्थहीनं बहु विप्रलप्तम् ॥ ६.१५.९ ॥
亲爱的,你的谋划中没有坚定的决断;你还是个孩子,见识尚未成熟。因此你为了自取毁灭,说了许多毫无意义的空话。
6.15.10
पुत्रप्रवादेन तु रावणस्य
त्वमिन्द्रजिन्मित्रमुखोऽसि शत्रुः।
यस्येदृशं राघवतो विनाशं
निशम्य मोहादनुमन्यसे त्वम् ॥ ६.१५.१० ॥
因陀罗耆,你打着罗波那之子的名义,实则是披着朋友面孔的敌人。听闻罗怙后裔将遭如此毁灭,你竟因迷惑而表示赞同。
6.15.11
त्वमेव वध्यश्च सुदुर्मतिश्च
स चापि वध्यो य इहानयत् त्वाम्।
बालं दृढं साहसिकं च योऽद्य
प्रावेशयन्मन्त्रकृतां समीपम् ॥ ६.१५.११ ॥
你自己便该被杀,心术如此恶毒。今日把你带到此处、引到众谋士面前的人,也该被杀。你是个愚昧、执拗而莽撞的孩子。
6.15.12
मूढोऽप्रगल्भोऽविनयोपपन्न-
स्तीक्ष्णस्वभावोऽल्पमतिर्दुरात्मा।
मूर्खस्त्वमत्यन्तसुदुर्मतिश्च
त्वमिन्द्रजिद् बालतया ब्रवीषि ॥ ६.१५.१२ ॥
你迷惑而不成熟,无礼,性情暴烈,见识短浅,心肠邪恶。你愚蠢至极,心术极坏;因陀罗耆,你是出于孩童般的无知才这样说。
6.15.13
को ब्रह्मदण्डप्रतिमप्रकाशा-
नर्चिष्मतः कालनिकाशरूपान्।
सहेत बाणान् यमदण्डकल्पान्
समक्षमुक्तान् युधि राघवेण ॥ ६.१५.१३ ॥
谁能承受那些光芒如梵天之杖、形如时间、如阎摩之杖的烈焰之箭?那是罗ghava在战场上当众射出的。
6.15.14
धनानि रत्नानि सुभूषणानि
वासांसि दिव्यानि मणींश्च चित्रान्।
सीतां च रामाय निवेद्य देवीं
वसेम राजन्निह वीतशोकाः ॥ ६.१५.१४ ॥
我们把财富、珍宝、华美的饰物、天衣和奇异的宝珠,连同女神悉多,一并献给罗摩,然后,国王啊,让我们在此无忧地生活。