Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 6.20

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.20.1

ततो निविष्टां ध्वजिनीं सुग्रीवेणाभिपालिताम्।
ददर्श राक्षसोऽभ्येत्य शार्दूलो नाम वीर्यवान् ॥ ६.२०.१ ॥

随后,一名名叫舍尔杜拉的勇猛罗刹走近,看见了由须羯哩婆守护、驻扎营中的大军。

6.20.2

चारो राक्षसराजस्य रावणस्य दुरात्मनः।
तां दृष्ट्वा सर्वतोऽव्यग्रां प्रतिगम्य स राक्षसः ॥ ६.२०.२ ॥

那名残暴的罗刹王罗波那的密探,见大军四面皆安然无忧,便返身离去。

6.20.3

आविश्य लङ्कां वेगेन राजानमिदमब्रवीत्।
एष वै वानरर्क्षौघो लङ्कां समभिवर्तते ॥ ६.२०.३ ॥

他迅速进入楞伽城,对国王说:“看,这支猴子与熊的大军正向楞伽推进。”

6.20.4

अगाधश्चाप्रमेयश्च द्वितीय इव सागरः।
पुत्रौ दशरथस्येमौ भ्रातरौ रामलक्ष्मणौ ॥ ६.२०.४ ॥

他们深不可测、不可度量,犹如第二片大海。这两位是十车王之子,兄弟罗摩与罗什曼那。

6.20.5

उत्तमौ रूपसम्पन्नौ सीतायाः पदमागतौ।
एतौ सागरमासाद्य संनिविष्टौ महाद्युते ॥ ६.२०.५ ॥

这两位卓越俊美之人已来到悉多所经之路。啊,大光明者,他们已抵达大海并扎下营寨。

6.20.6

बलं चाकाशमावृत्य सर्वतो दशयोजनम्।
तत्त्वभूतं महाराज क्षिप्रं वेदितुमर्हसि ॥ ६.२०.६ ॥

他们的大军遮蔽天空,四面绵延十由旬。啊,大王,您应当迅速查明其中的真相。

6.20.7

तव दूता महाराज क्षिप्रमर्हन्ति वेदितुम्।
उपप्रदानं सान्त्वं वा भेदो वात्र प्रयुज्यताम् ॥ ६.२०.७ ॥

大王,您的使者应当迅速探明。此处应采用赠礼、安抚或离间之一。

6.20.8

शार्दूलस्य वचः श्रुत्वा रावणो राक्षसेश्वरः।
उवाच सहसा व्यग्रः सम्प्रधार्यार्थमात्मनः।
शुकं साधु तदा रक्षो वाक्यमर्थविदां वरम् ॥ ६.२०.८ ॥

罗刹王罗波那听了舍尔杜拉之言,心中不安,忽然权衡自己的利益,便对精通利害的罗刹中最优秀者舒迦说道。

6.20.9

सुग्रीवं ब्रूहि गत्वाऽऽशु राजानं वचनान्मम।
यथासंदेशमक्लीबं श्लक्ष्णया परया गिरा ॥ ६.२०.९ ॥

速去告诉国王须羯哩婆,依我的话,原原本本地传达信息,不畏缩,以最温和、最高尚的言辞。

6.20.10

त्वं वै महाराजकुलप्रसूतो
महाबलश्चर्क्षरजःसुतश्च।
न कश्चनार्थस्तव नास्त्यनर्थ-
स्तथापि मे भ्रातृसमो हरीश ॥ ६.२०.१० ॥

你出身于伟大的王族,强大,是熊王之子。你无所求,也无损害;然而,猴王啊,你对我如同兄弟。

6.20.11

अहं यद्यहरं भार्यां राजपुत्रस्य धीमतः।
किं तत्र तव सुग्रीव किष्किन्धां प्रति गम्यताम् ॥ ६.२०.११ ॥

如果我掳走了那位智慧王子的妻子,须羯哩婆啊,那与你何干?请回返吉湿吉敏陀。

6.20.12

नहीयं हरिभिर्लङ्का प्राप्तुं शक्या कथंचन।
देवैरपि सगन्धर्वैः किं पुनर्नरवानरैः ॥ ६.२०.१२ ॥

此楞伽城,猴子无论如何也无法到达;即使诸天与乾闼婆也不能到达,更何况人类与猴子呢。

6.20.13

स तदा राक्षसेन्द्रेण संदिष्टो रजनीचरः।
शुको विहंगमो भूत्वा तूर्णमाप्लुत्य चाम्बरम् ॥ ६.२०.१३ ॥

于是,受罗刹王嘱托的夜行者shuka化作一只鸟,迅速腾身飞入天空。

6.20.14

स गत्वा दूरमध्वानमुपर्युपरि सागरम्।
संस्थितो ह्यम्बरे वाक्यं सुग्रीवमिदमब्रवीत् ॥ ६.२०.१४ ॥

他飞越遥远的路程,停在海洋上空,对须羯里婆说了这番话。

6.20.15

सर्वमुक्तं यथाऽऽदिष्टं रावणेन दुरात्मना।
तत् प्रापयन्तं वचनं तूर्णमाप्लुत्य वानराः ॥ ६.२०.१५ ॥

我把一切都照邪恶的罗波那所命令的说了。带着这番话,诸位猴子啊,我迅速腾空而去。

6.20.16

प्रापद्यन्त तदा क्षिप्रं लोप्तुं हन्तुं च मुष्टिभिः।
सर्वैः प्लवंगैः प्रसभं निगृहीतो निशाचरः ॥ ६.२०.१६ ॥

于是众猴立即扑上去抓住他,并用拳头击打,那夜行者被强行擒住。

6.20.17

गगनाद् भूतले चाशु प्रतिगृह्यावतारितः।
वानरैः पीड्यमानस्तु शुको वचनमब्रवीत् ॥ ६.२०.१७ ॥

他被迅速从天空抓下并带到地面,受到众猴折磨的shuka说出了这番话。

6.20.18

न दूतान् घ्नन्ति काकुत्स्थ वार्यन्तां साधु वानराः।
यस्तु हित्वा मतं भर्तुः स्वमतं सम्प्रधारयेत्।
अनुक्तवादी दूतः सन् स दूतो वधमर्हति ॥ ६.२०.१८ ॥

啊,迦恶斯特,不杀使者;请诸位猴子好好地拦住他们。但那舍弃主人之意、自作主张、未经吩咐而妄言的使者,唯有他才该处死。

6.20.19

शुकस्य वचनं रामः श्रुत्वा तु परिदेवितम्।
उवाच मावधिष्टेति घ्नतः शाखामृगर्षभान् ॥ ६.२०.१९ ॥

罗摩听到shuka哀求的话,对正在殴打他的诸位猴中雄牛说:“不要杀他。”

6.20.20

स च पत्रलघुर्भूत्वा हरिभिर्दर्शितेऽभये।
अन्तरिक्षे स्थितो भूत्वा पुनर्वचनमब्रवीत् ॥ ६.२०.२० ॥

他变得轻如树叶,猴子们示意他安全后,他站在空中再次开口说话。

6.20.21

सुग्रीव सत्त्वसम्पन्न महाबलपराक्रम।
किं मया खलु वक्तव्यो रावणो लोकरावणः ॥ ६.२०.२१ ॥

苏格利婆啊,勇敢而具大力大勇者!我该对令世界恐惧的罗波那说什么呢?

6.20.22

स एवमुक्तः प्लवगाधिपस्तदा
प्लवंगमानामृषभो महाबलः।
उवाच वाक्यं रजनीचरस्य
चारं शुकं शुद्धमदीनसत्त्वः ॥ ६.२०.२२ ॥

听他这样说,猴王苏格利婆,猴中的雄牛,大力勇猛,心无畏惧,对探子shuka说出了关于夜行者的这番话。

6.20.23

न मेऽसि मित्रं न तथानुकम्प्यो
न चोपकर्तासि न मे प्रियोऽसि।
अरिश्च रामस्य सहानुबन्ध-
स्ततोऽसि वालीव वधार्ह वध्यः ॥ ६.२०.२३ ॥

你既非我的朋友,也不值得怜悯,既非我的恩人,也不是我所爱的人。你是罗摩的仇敌,与他的随从同在;因此,你应当像婆利一样受死,应当被杀。

6.20.24

निहन्म्यहं त्वां ससुतं सबन्धुं
सज्ञातिवर्गं रजनीचरेश।
लङ्कां च सर्वां महता बलेन
सर्वैः करिष्यामि समेत्य भस्म ॥ ६.२०.२४ ॥

夜行者之主啊!我要连同你的儿子、亲属和全族一起杀死你;并且我将与所有人会合,以大军把整个楞伽焚为灰烬。

6.20.25

न मोक्ष्यसे रावण राघवस्य
सुरैः सहेन्द्रैरपि मूढ गुप्तः।
अन्तर्हितः सूर्यपथं गतोऽपि
तथैव पातालमनुप्रविष्टः।
गिरीशपादाम्बुजसंगतो वा
हतोऽसि रामेण सहानुजस्त्वम् ॥ ६.२०.२५ ॥

愚蠢的罗波那啊!即使有因陀罗率领诸神守护,你也逃不过罗怙之裔。无论你隐身于日轮之路,还是潜入地底,或是投奔山主的莲足,你都将被罗摩与其幼弟杀死。

6.20.26

तस्य ते त्रिषु लोकेषु न पिशाचं न राक्षसम्।
त्रातारं नानुपश्यामि न गन्धर्वं न चासुरम् ॥ ६.२०.२६ ॥

在三界之中,我看不到任何一个毕舍遮或罗刹,也看不到能在他面前护佑你的保护者——既无乾闼婆,也无阿修罗。

6.20.27

अवधीस्त्वं जरावृद्धं गृध्रराजं जटायुषम्।
किं नु ते रामसांनिध्ये सकाशे लक्ष्मणस्य च।
हृता सीता विशालाक्षी यां त्वं गृह्य न बुध्यसे ॥ ६.२०.२७ ॥

你杀死了年迈的禿鹫王遮陀由。在罗摩与罗什曼那的面前,你劫走了大眼的悉多;抓住她之后,你竟还没有明白自己在做什么。

6.20.28

महाबलं महात्मानं दुराधर्षं सुरैरपि।
न बुध्यसे रघुश्रेष्ठं यस्ते प्राणान् हरिष्यति ॥ ६.२०.२८ ॥

你不认识那位大力、高尚、连诸神也无法战胜的罗怙最杰出者;正是他将夺去你的性命。

6.20.29

ततोऽब्रवीद् वालिसुतोऽप्यङ्गदो हरिसत्तमः।
नायं दूतो महाराज चारकः प्रतिभाति मे ॥ ६.२०.२९ ॥

于是,婆林之子、猴群中最杰出的安耆陀说道:“大王啊!此人不是使者,在我看来他像是奸细。”

6.20.30

तुलितं हि बलं सर्वमनेन तव तिष्ठता।
गृह्यतां मागमल्लङ्कामेतद्धि मम रोचते ॥ ६.२०.३० ॥

他站在你面前,已经量过了你全部的力量。把他抓起来吧;不要让他回到楞伽——这正是我所愿。

6.20.31

ततो राज्ञा समादिष्टाः समुत्पत्य वलीमुखाः।
जगृहुश्च बबन्धुश्च विलपन्तमनाथवत् ॥ ६.२०.३१ ॥

于是,奉国王之命,猴群跃起,抓住了哀号的他,像对待无依无靠之人一样把他捆绑起来。

6.20.32

शुकस्तु वानरैश्चण्डैस्तत्र तैः सम्प्रपीडितः।
व्याचुक्रोश महात्मानं रामं दशरथात्मजम्।
लुप्येते मे बलात् पक्षौ भिद्येते मे तथाक्षिणी ॥ ६.२०.३२ ॥

然而,酥迦在那里被那些凶猛的猴子折磨得厉害,便高声呼唤大德的十车王之子罗摩:“他们正强行拔我的羽翼,还要挖我的双眼!”

6.20.33

यां च रात्रिं मरिष्यामि जाये रात्रिं च यामहम्।
एतस्मिन्नन्तरे काले यन्मया ह्यशुभं कृतम्।
सर्वं तदुपपद्येथा जह्यां चेद् यदि जीवितम् ॥ ६.२०.३३ ॥

“在我将死之夜,以及我重生之夜——在这中间的时间里,我所做的一切恶事,即便我舍弃性命,也请你将其全部了结。”

6.20.34

नाघातयत् तदा रामः श्रुत्वा तत्परिदेवितम्।
वानरानब्रवीद् रामो मुच्यतां दूत आगतः ॥ ६.२०.३४ ॥

罗摩听到这哀号,便不许他们殴打。罗摩对猴子们说:“使者已经到来,放了他吧。”