ヴァールミーキのラーマーヤナ · サルガ 6.23
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.23.1
निमित्तानि निमित्तज्ञो दृष्ट्वा लक्ष्मणपूर्वजः।
सौमित्रिं सम्परिष्वज्य इदं वचनमब्रवीत् ॥ ६.२३.१ ॥
ラクシュマナの兄であり、前兆に通じたラーマは、凶兆を見て、サウミトリ(ラクシュマナ)を抱きしめ、この言葉を述べた。
6.23.2
परिगृह्योदकं शीतं वनानि फलवन्ति च।
बलौघं संविभज्येमं व्यूह्य तिष्ठेम लक्ष्मण ॥ ६.२३.२ ॥
ラクシュマナよ、冷たい水と実のなる森を確保し、この軍勢を分けて陣形を組み、我らはここに踏みとどまろう。
6.23.3
लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम्।
प्रबर्हणं प्रवीराणामृक्षवानररक्षसाम् ॥ ६.२३.३ ॥
世界を滅ぼす恐ろしい危難が迫っているのが見える。それは勇士たち、熊、猿、羅刹たちを屠るだろう。
6.23.4
वाताश्च कलुषा वान्ति कम्पते च वसुंधरा।
पर्वताग्राणि वेपन्ते पतन्ति च महीरुहाः ॥ ६.२३.४ ॥
不吉な風が吹き、大地は震え、山々の頂は揺れ、木々が倒れている。
6.23.5
मेघाः क्रव्यादसंकाशाः परुषाः परुषस्वनाः।
क्रूराः क्रूरं प्रवर्षन्ति मिश्रं शोणितबिन्दुभिः ॥ ६.२३.५ ॥
肉食獣のように見え、荒々しい音を立てる残忍な雲が、血の滴をまじえて無慈悲に降り注いでいる。
6.23.6
रक्तचन्दनसंकाशा संध्या परमदारुणा।
ज्वलतः प्रपतत्येतदादित्यादग्निमण्डलम् ॥ ६.२३.६ ॥
赤栴檀のような夕暮れは極めて恐ろしい。太陽から燃え盛る火の円盤が落ちてくる。
6.23.7
दीना दीनस्वराः क्रूराः सर्वतो मृगपक्षिणः।
प्रत्यादित्यं विनर्दन्ति जनयन्तो महद्भयम् ॥ ६.२३.७ ॥
四方で、哀れな声をあげる残忍な獣や鳥たちが太陽に向かって叫び、大きな恐怖を生じさせている。
6.23.8
रजन्यामप्रकाशस्तु संतापयति चन्द्रमाः।
कृष्णरक्तांशुपर्यन्तो लोकक्षय इवोदितः ॥ ६.२३.८ ॥
夜、光を失った月が灼きつけるように照らす。その光線の端は黒と赤。まるで世界の破滅のために昇ったかのようだ。
6.23.9
ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषस्तु लोहितः।
आदित्ये विमले नीलं लक्ष्म लक्ष्मण दृश्यते ॥ ६.२३.९ ॥
小さく粗く不吉な赤い暈が現れた。ラクシュマナよ、澄んだ太陽の周りに濃い青の印が見える。
6.23.10
रजसा महता चापि नक्षत्राणि हतानि च।
युगान्तमिव लोकानां पश्य शंसन्ति लक्ष्मण ॥ ६.२३.१० ॥
大きな塵によって星々さえも打たれ、輝きを失った。ラクシュマナよ、見よ、それは世界の劫末を告げている。
6.23.11
काकाः श्येनास्तथा नीचा गृध्राः परिपतन्ति च।
शिवाश्चाप्यशुभान् नादान् नदन्ति सुमहाभयान् ॥ ६.२३.११ ॥
カラスやタカ、卑しいハゲワシが舞い降りる。ジャッカルもまた、不吉で非常に恐ろしい声で吠え立てる。
6.23.12
शैलैः शूलैश्च खड्गैश्च विमुक्तैः कपिराक्षसैः।
भविष्यत्यावृता भूमिर्मांसशोणितकर्दमा ॥ ६.२३.१२ ॥
猿と羅刹が投げる山石、槍、剣によって大地は覆われ、肉と血の泥沼となるだろう。
6.23.13
क्षिप्रमद्यैव दुर्धर्षां पुरीं रावणपालिताम्।
अभियाम जवेनैव सर्वैर्हरिभिरावृताः ॥ ६.२३.१३ ॥
今日のうちに速やかに、ラーヴァナが守るあの難攻不落の都へ、全ての猿たちに囲まれて進軍しよう。
6.23.14
इत्येवमुक्त्वा धन्वी स रामः संग्रामधर्षणः।
प्रतस्थे पुरतो रामो लङ्कामभिमुखो विभुः ॥ ६.२३.१४ ॥
こう言って、弓を持ち戦場で敵を攻める、力ある者ラーマは、先頭に立ちラーンカーへ向かって出発した。
6.23.15
सविभीषणसुग्रीवाः सर्वे ते वानरर्षभाः।
प्रतस्थिरे विनर्दन्तो धृतानां द्विषतां वधे ॥ ६.२३.१५ ॥
ヴィビーシャナとスグリーヴァとともに、猿の中の雄牛たちは皆吠え猛りながら、抵抗する敵を討つために出発した。
6.23.16
राघवस्य प्रियार्थं तु सुतरां वीर्यशालिनाम्।
हरीणां कर्मचेष्टाभिस्तुतोष रघुनन्दनः ॥ ६.२३.१६ ॥
ラーガヴァを喜ばせるため、ラグの末裔は勇猛な猿たちの行いと奮闘によって大いに満足された。