ヴァールミーキのラーマーヤナ · サルガ 6.24
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.24.1
सा वीरसमिती राज्ञा विरराज व्यवस्थिता।
शशिना शुभनक्षत्रा पौर्णमासीव शारदी ॥ ६.२४.१ ॥
王によって配置されたその英雄たちの軍勢は、月と吉祥の星々を伴う秋の満月の夜のように輝いた。
6.24.2
प्रचचाल च वेगेन त्रस्ता चैव वसुंधरा।
पीड्यमाना बलौघेन तेन सागरवर्चसा ॥ ६.२४.२ ॥
海のような輝きを持つその軍勢の奔流に押しつぶされ、怯えた大地は激しく震えた。
6.24.3
ततः शुश्रुवुराक्रुष्टं लङ्कायां काननौकसः।
भेरीमृदङ्गसंघुष्टं तुमुलं लोमहर्षणम् ॥ ६.२४.३ ॥
そのとき、森に住む猿たちは、ラーンカーでベーリーとムリダンガの太鼓に響きわたる、騒がしく身の毛もよだつ叫びを聞いた。
6.24.4
बभूवुस्तेन घोषेण संहृष्टा हरियूथपाः।
अमृष्यमाणास्तद् घोषं विनेदुर्घोषवत्तरम् ॥ ६.२४.४ ॥
その響きに猿の群れの首領たちは奮い立ち、それに耐えられず、その響きよりもさらに大きく吠えた。
6.24.5
राक्षसास्तत् प्लवंगानां शुश्रुवुस्तेऽपि गर्जितम्।
नर्दतामिव दृप्तानां मेघानामम्बरे स्वनम् ॥ ६.२४.५ ॥
羅刹たちもまた、その猿たちの咆哮を聞いた。空に轟く誇り高き雲の響きのようであった。
6.24.6
दृष्ट्वा दाशरथिर्लङ्कां चित्रध्वजपताकिनीम्।
जगाम मनसा सीतां दूूयमानेन चेतसा ॥ ६.२४.६ ॥
色とりどりの旗や幟で飾られたラーンカーを見て、ダシャラタの子ラーマは悩む心で、心の中でシーターのもとへ向かった。
6.24.7
अत्र सा मृगशावाक्षी रावणेनोपरुध्यते।
अभिभूता ग्रहेणेव लोहिताङ्गेन रोहिणी ॥ ६.२४.७ ॥
ここで鹿の目の女は羅刹王ラーヴァナに囚われている。赤い体の星に覆われたローヒニーのように。
6.24.8
दीर्घमुष्णं च निःश्वस्य समुद्वीक्ष्य च लक्ष्मणम्।
उवाच वचनं वीरस्तत्कालहितमात्मनः ॥ ६.२४.८ ॥
長く熱いため息をつき、ラクシュマナをじっと見つめて、英雄は当時の自分にふさわしい言葉を告げた。
6.24.9
आलिखन्तीमिवाकाशमुत्थितां पश्य लक्ष्मण।
मनसेव कृतां लङ्कां नगाग्रे विश्वकर्मणा ॥ ६.२४.९ ॥
ラクシュマナよ、空を掻くかのように立ち上がるラン カー を見よ。山頂にヴィシュヴァカルマンが心で造ったかのようだ。
6.24.10
विमानैर्बहुभिर्लङ्का संकीर्णा रचिता पुरा।
विष्णोः पदमिवाकाशं छादितं पाण्डुभिर्घनैः ॥ ६.२४.१० ॥
昔造られたラン カーは多くの空飛ぶ宮殿で混み合い、ヴィシュヌの足跡のような空は淡い雲に覆われている。
6.24.11
पुष्पितैः शोभिता लङ्का वनैश्चित्ररथोपमैः।
नानापतगसंघुष्टफलपुष्पोपगैः शुभैः ॥ ६.२४.११ ॥
花咲く森で飾られたラン カー は、チトララタ(クベーラ)の園のようで、多くの鳥の声に響き、果実と花に満ちている。
6.24.12
पश्य मत्तविहंगानि प्रलीनभ्रमराणि च।
कोकिलाकुलखण्डानि दोधवीति शिवोऽनिलः ॥ ६.२४.१२ ॥
見よ、酔った鳥たち、身を隠した蜂、カッコウで満ちた林を。穏やかな風がそれらを揺らしている。
6.24.13
बलं च तत्र विभजच्छास्त्रदृष्टेन कर्मणा ॥ ६.२४.१३ ॥
そこで、典籍に記された方法に従って軍を分けながら。
6.24.14
शशास कपिसेनां तां बलादादाय वीर्यवान्।
अङ्गदः सह नीलेन तिष्ठेदुरसि दुर्जयः ॥ ६.२४.१४ ॥
勇猛なアンガダは猿の軍を力で掌握し命じた。無敵のアンガダはニーラと共に軍の胸部に立つべし。
6.24.15
तिष्ठेद् वानरवाहिन्या वानरौघसमावृतः।
आश्रितो दक्षिणं पार्श्वमृषभो नाम वानरः ॥ ६.२४.१५ ॥
猿の軍の右翼に位置し、猿の群れに囲まれたリシャバという名の猿が立つべし。
6.24.16
गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः।
तिष्ठेद् वानरवाहिन्याः सव्यं पार्श्वमधिष्ठितः ॥ ६.२४.१६ ॥
発情した象のように抗しがたく、俊敏なガンダマーダナは、猿の軍の左翼に位置して立つべし。
6.24.17
मूर्ध्नि स्थास्याम्यहं यत्तो लक्ष्मणेन समन्वितः।
जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः ॥ ६.२४.१७ ॥
私はラクシュマナと共に注意深く軍の先頭に立つ。ジャーンバヴァーン、スシェーナ、ヴェーガダルシンの猿たちも。
6.24.18
ऋक्षमुख्या महात्मानः कुक्षिं रक्षन्तु ते त्रयः।
जघनं कपिसेनायाः कपिराजोऽभिरक्षतु।
पश्चार्धमिव लोकस्य प्रचेतास्तेजसा वृतः ॥ ६.२४.१८ ॥
熊の長である三人の偉大な魂たちがその腹部を守れ。猿王は猿の軍の後尾を守れ、世界の後半を輝きで包むヴァルナのように。
6.24.19
सुविभक्तमहाव्यूहा महावानररक्षिता।
अनीकिनी सा विबभौ यथा द्यौः साभ्रसम्प्लवा ॥ ६.२४.१९ ॥
大きな陣形によく整えられ、偉大なヴァーナラたちに守られたその軍勢は、雲に覆われた空のように輝いた。
6.24.20
प्रगृह्य गिरिशृङ्गाणि महतश्च महीरुहान्।
आसेदुर्वानरा लङ्कां मिमर्दयिषवो रणे ॥ ६.२४.२० ॥
山の頂と大木を手に取り、戦いでラーンカーを打ち砕こうと望んで、ヴァーナラたちはラーンカーに近づいた。
6.24.22
शिखरैर्विकिरामैनां लङ्कां मुष्टिभिरेव वा।
ततो रामो महातेजाः सुग्रीवमिदमब्रवीत्।
सुविभक्तानि सैन्यानि शुक एष विमुच्यताम् ॥ ६.२४.२२ ॥
「この都を峰で、あるいは拳だけでも散らしてしまおう」。そして威光輝くラーマはスグリーヴァに言った。「軍勢はよく配置された。このシュカを解放せよ。」
6.24.23
रामस्य तु वचः श्रुत्वा वानरेन्द्रो महाबलः।
मोचयामास तं दूतं शुकं रामस्य शासनात् ॥ ६.२४.२३ ॥
ラーマの言葉を聞いて、大力のヴァーナラの王は、ラーマの命によって使者シュカを解放させた。
6.24.24
मोचितो रामवाक्येन वानरैश्च निपीडितः।
शुकः परमसंत्रस्तो रक्षोधिपमुपागमत् ॥ ६.२४.२४ ॥
ラーマの言葉によって解放されたが、ヴァーナラたちに打ちのめされ、極度に怯えたシュカは羅刹の主のもとへ向かった。
6.24.25
रावणः प्रहसन्नेव शुकं वाक्यमुवाच ह।
किमिमौ ते सितौ पक्षौ लूनपक्षश्च दृश्यसे ॥ ६.२४.२५ ॥
ラーヴァナは笑いながらシュカに言った。「お前のその二枚の白い翼はどうしたのだ。翼をもがれたように見えるぞ。」
6.24.26
कच्चिन्नानेकचित्तानां तेषां त्वं वशमागतः।
ततः स भयसंविग्नस्तेन राज्ञाभिचोदितः।
वचनं प्रत्युवाचेदं राक्षसाधिपमुत्तमम् ॥ ६.२४.२६ ॥
お前はあの多くの心を持つ者たちの支配下に落ちたのか。するとその者は恐怖に震え、あの王に促されて、羅刹の最高の主にこの言葉を答えた。
6.24.27
सागरस्योत्तरे तीरेऽब्रुवं ते वचनं तथा।
यथा संदेशमक्लिष्टं सान्त्वयन् श्लक्ष्णया गिरा ॥ ६.२४.२७ ॥
海の北岸で、私はあなたにまさにこのように語った。伝言を歪めず、やさしい言葉で宥めながら。
6.24.28
क्रुद्धैस्तैरहमुत्प्लुत्य दृष्टमात्रः प्लवंगमैः।
गृहीतोऽस्म्यपि चारब्धो हन्तुं लोप्तुं च मुष्टिभिः ॥ ६.२४.२८ ॥
怒った猿たちは私を見るやいなや飛びかかって捕まえ、拳で打ち、引き裂こうとし始めた。
6.24.29
न ते संभाषितुं शक्याः सम्प्रश्नोऽत्र न विद्यते।
प्रकृत्या कोपनास्तीक्ष्णा वानरा राक्षसाधिप ॥ ६.२४.२९ ॥
彼らと話すことはできず、ここでは問いただす余地もない。羅刹の主よ、猿は生まれつき怒りっぽく荒々しいのだ。
6.24.30
स च हन्ता विराधस्य कबन्धस्य खरस्य च।
सुग्रीवसहितो रामः सीतायाः पदमागतः ॥ ६.२४.३० ॥
彼はヴィラーダ、カバンダ、カラを倒した者である。スグリーヴァと共にラーマはシーターの居所に到着した。
6.24.31
स कृत्वा सागरे सेतुं तीर्त्वा च लवणोदधिम्।
एष रक्षांसि निर्धूय धन्वी तिष्ठति राघवः ॥ ६.२४.३१ ॥
海に橋を架けて塩の海を渡ったこの弓の名手ラーghava は、羅刹たちを滅ぼして立っている。
6.24.32
ऋक्षवानरसङ्घानामनीकानि सहस्रशः।
गिरिमेघनिकाशानां छादयन्ति वसुंधराम् ॥ ६.२४.३२ ॥
熊と猿の群れの軍勢が幾千となく、山や雲のように大地を覆っている。
6.24.33
राक्षसानां बलौघस्य वानरेन्द्रबलस्य च।
नैतयोर्विद्यते संधिर्देवदानवयोरिव ॥ ६.२४.३३ ॥
羅刹の大軍と猿王の軍勢のあいだには、神々と阿修羅のあいだのように、和睦はない。
6.24.34
पुरा प्राकारमायान्ति क्षिप्रमेकतरं कुरु।
सीतां चास्मै प्रयच्छाशु युद्धं वापि प्रदीयताम् ॥ ६.२४.३४ ॥
彼らはすでに城壁に迫っている。二つのうち一つを速やかに選べ――直ちにシーターを彼に返すか、戦いを挑むかだ。
6.24.35
शुकस्य वचनं श्रुत्वा रावणो वाक्यमब्रवीत्।
रोषसंरक्तनयनो निर्दहन्निव चक्षुषा ॥ ६.२४.३५ ॥
シュカの言葉を聞いたラーヴァナは、怒りに目を赤く染め、まるで視線で焼き尽くすかのように、この言葉を口にした。
6.24.36
यदि मां प्रति युद्धेरन् देवगन्धर्वदानवाः।
नैव सीतां प्रदास्यामि सर्वलोकभयादपि ॥ ६.२४.३६ ॥
神々やガンダルヴァ、ダーナヴァが私と戦おうとも、全世界への恐れからであっても、私はシーターを渡さない。
6.24.37
कदा समभिधावन्त मामका राघवं शराः।
वसन्ते पुष्पितं मत्ता भ्रमरा इव पादपम् ॥ ६.२४.३७ ॥
春に酔った蜜蜂が花の咲く木に群がるように、私の矢はいつラーガヴァ(ラーマ)に殺到するだろうか。
6.24.38
कदा शोणितदिग्धाङ्गं दीप्तैः कार्मुकविच्युतैः।
शरैरादीपयिष्यामि उल्काभिरिव कुञ्जरम् ॥ ६.२४.३८ ॥
いつ私は、弓から放たれた燃える矢で、血に染まった体のあの男を、松明で象を焼くように焼き尽くすのか?
6.24.39
तच्चास्य बलमादास्ये बलेन महता वृतः।
ज्योतिषामिव सर्वेषां प्रभामुद्यन् दिवाकरः ॥ ६.२४.३९ ॥
大軍に囲まれて、私は彼の力を奪い取ろう。昇る太陽がすべての光の輝きを奪うように。
6.24.40
सागरस्येव मे वेगो मारुतस्येव मे बलम्।
न च दाशरथिर्वेद तेन मां योद्धुमिच्छति ॥ ६.२४.४० ॥
私の勢いは海のよう、力は風のよう。ダシャラタの子はそれを知らず、だから私と戦おうとするのだ。
6.24.41
न मे तूणीशयान् बाणान् सविषानिव पन्नगान्।
रामः पश्यति संग्रामे तेन मां योद्धुमिच्छति ॥ ६.२४.४१ ॥
私の箭筒に横たわる毒蛇のような矢を、ラーマは戦場で見たことがない。だから私と戦おうとするのだ。
6.24.42
न जानाति पुरा वीर्यं मम युद्धे स राघवः।
मम चापमयीं वीणां शरकोणैः प्रवादिताम् ॥ ६.२४.४२ ॥
あのラーガヴァは、戦場での私の武勇をまだ知らない。弓で作った私の琵琶は、矢を撥として奏でられている。
6.24.43
ज्याशब्दतुमुलां घोरामार्तगीतमहास्वनाम्।
नाराचतलसंनादां नदीमहितवाहिनीम्।
अवगाह्य महारङ्गं वादयिष्याम्यहं रणे ॥ ६.२४.४३ ॥
弦の響きで騒然とし、恐ろしく、哀歌のような大音声に満ち、矢の弦の残響がこだまし、軍勢が川のように流れるこの大舞台に降り立ち、私は戦場で奏でよう。
6.24.44
न वासवेनापि सहस्रचक्षुषा
युद्धेऽस्मि शक्यो वरुणेन वा स्वयम्।
यमेन वा धर्षयितुं शराग्निना
महाहवे वैश्रवणेन वा पुनः ॥ ६.२४.४४ ॥
千眼のヴァーサヴァ(インドラ)にも、ヴァルナ自身にも、戦いで私は打ち負かされることはない。ヤマが矢の火で私を抑えることも、大戦でヴァイシュラヴァナ(クベーラ)が私を屈服させることもできない。