ヴァールミーキのラーマーヤナ · サルガ 6.27
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.27.1
तांस्तु ते सम्प्रवक्ष्यामि प्रेक्षमाणस्य यूथपान्।
राघवार्थे पराक्रान्ता ये न रक्षन्ति जीवितम् ॥ ६.२७.१ ॥
ラーガヴァのために勇敢に戦い、自らの命を守ろうとしない隊長たちについて、あなたに語りましょう。
6.27.2
स्निग्धा यस्य बहुव्यामा दीर्घलाङ्गूलमाश्रिताः।
ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः ॥ ६.२७.२ ॥
つややかな、幾ヴィヤーマもの長い尾を持ち、銅色・黄・黒・白に散らばる、恐るべき行いの猿たち。
6.27.3
प्रगृहीताः प्रकाशन्ते सूर्यस्येव मरीचयः।
पृथिव्यां चानुकृष्यन्ते हरो नामैष वानरः ॥ ६.२७.३ ॥
掲げられたそれらは太陽の光のように輝き、大地に引きずられる。この猿の名はハラである。
6.27.4
यं पृष्ठतोऽनुगच्छन्ति शतशोऽथ सहस्रशः।
वृक्षानुद्यम्य सहसा लङ्कारोहणतत्पराः ॥ ६.२७.४ ॥
その後ろには幾百、幾千の猿たちが続き、突然に木々を掲げ、ランカーに登ることに心を傾けている。
6.27.5
यूथपा हरिराजस्य किंकराः समुपस्थिताः।
नीलानिव महामेघांस्तिष्ठतो यांस्तु पश्यसि ॥ ६.२७.५ ॥
猿の王の従者である隊長たちが現れた。あなたが青い大雲のように立つのを見ている者たちである。
6.27.6
असिताञ्जनसंकाशान् युद्धे सत्यपराक्रमान्।
असंख्येयाननिर्देशान् परं पारमिवोदधेः ॥ ६.२७.६ ॥
黒い眼膏のような、戦いにおいて真の勇を持つ、数え切れず言い尽くせぬ、大海の彼方の岸のような者たち。
6.27.7
पर्वतेषु च ये केचिद् विषयेषु नदीषु च।
एते त्वामभिवर्तन्ते राजन्नृक्षाः सुदारुणाः ॥ ६.२७.७ ॥
山々、地方、川辺にいる者たち、この非常に凶暴な熊たちが、おお王よ、あなたに迫っている。
6.27.8
एषां मध्ये स्थितो राजन् भीमाक्षो भीमदर्शनः।
पर्जन्य इव जीमूतैः समन्तात् परिवारितः ॥ ६.२७.८ ॥
おお王よ、彼らの真ん中に、恐ろしい目と恐ろしい姿の者が立っている。雨雲に囲まれた雨の神パルジャニヤのように、四方を取り囲まれている。
6.27.9
ऋक्षवन्तं गिरिश्रेष्ठमध्यास्ते नर्मदां पिबन्।
सर्वर्क्षाणामधिपतिर्धूम्रो नामैष यूथपः ॥ ६.२७.९ ॥
最高の山ルクシャヴァットに住み、ナルマダーの水を飲むこの者は、ドゥーンラという群れの長であり、すべての熊の主である。
6.27.10
यवीयानस्य तु भ्राता पश्यैनं पर्वतोपमम्।
भ्रात्रा समानो रूपेण विशिष्टस्तु पराक्रमे ॥ ६.२७.१० ॥
これは彼の弟だ。山のようなこの者を見よ。姿は兄と同じだが、武勇においては抜きん出ている。
6.27.11
स एष जाम्बवान् नाम महायूथपयूथपः।
प्रशान्तो गुरुवर्ती च सम्प्रहारेष्वमर्षणः ॥ ६.२७.११ ॥
この者はジャーンバヴァーンという名で、大群の長たちの長である。穏やかで、年長者に従い、戦いでは激しい怒りを見せる。
6.27.12
एतेन साह्यं तु महत् कृतं शक्रस्य धीमता।
दैवासुरे जाम्बवता लब्धाश्च बहवो वराः ॥ ६.२७.१२ ॥
この賢者は神々と阿修羅の戦いでインドラに大きな助力をし、ジャーンバヴァーンはそこで多くの恩恵を得た。
6.27.13
आरुह्य पर्वताग्रेभ्यो महाभ्रविपुलाः शिलाः।
मुञ्चन्ति विपुलाकारा न मृत्योरुद्विजन्ति च ॥ ६.२७.१३ ॥
山の頂に登り、巨大な雲のような大岩を投げつける。その巨体の者たちは死さえも恐れない。
6.27.14
राक्षसानां च सदृशाः पिशाचानां च रोमशाः।
एतस्य सैन्या बहवो विचरन्त्यमितौजसः ॥ ६.२७.१४ ॥
羅刹や毘舎遮に似て、毛深い体をしている。彼の多くの軍勢は無限の力で歩き回っている。
6.27.15
य एनमभिसंरब्धं प्लवमानमवस्थितम्।
प्रेक्षन्ते वानराः सर्वे स्थिता यूथपयूथपम् ॥ ६.२७.१५ ॥
怒りに満ちて跳び跳ね、そして立ち止まる彼を、猿たちはみな立ったまま見つめる——群の長の中の長を。
6.27.16
एष राजन् सहस्राक्षं पर्युपास्ते हरीश्वरः।
बलेन बलसंयुक्तो दम्भो नामैष यूथपः ॥ ६.२७.१६ ॥
王よ、この猿の主は千眼のインドラに仕えている。力に満ちたこの群の長はダンバという名だ。
6.27.17
यः स्थितं योजने शैलं गच्छन् पार्श्वेन सेवते।
ऊर्ध्वं तथैव कायेन गतः प्राप्नोति योजनम् ॥ ६.२७.१७ ॥
一ヨージャナ先の山へ向かうとき、彼は横からそれに近づく。同様に体で上へ昇れば、一ヨージャナに達する。
6.27.18
यस्मात् तु परमं रूपं चतुष्पात्सु न विद्यते।
श्रुतः संनादनो नाम वानराणां पितामहः ॥ ६.२७.१८ ॥
四足の獣の中にこれほど優れた姿は見当たらない。猿族の祖父としてサンナーダナという名が伝えられている。
6.27.19
येन युद्धं तदा दत्तं रणे शक्रस्य धीमता।
पराजयश्च न प्राप्तः सोऽयं यूथपयूथपः ॥ ६.२७.१९ ॥
かつて賢明なインドラと戦い、一度も敗北を知らなかった者、それこそ群の長の中の長である。
6.27.20
यस्य विक्रममाणस्य शक्रस्येव पराक्रमः।
एष गन्धर्वकन्यायामुत्पन्नः कृष्णवर्त्मना ॥ ६.२७.२० ॥
その武勇を振るう者はインドラのごとく、この者は乾闥婆の乙女より闇の道を通って生まれた。
6.27.21
तदा देवासुरे युद्धे साह्यार्थं त्रिदिवौकसाम्।
यत्र वैश्रवणो राजा जम्बूमुपनिषेवते ॥ ६.२७.२१ ॥
かつて神々と阿修羅の戦いにおいて、天界の住人を助けるため——王ヴァイシュラヴァナ(クベーラ)がジャンブ樹に身を寄せるところで。
6.27.22
यो राजा पर्वतेन्द्राणां बहुकिंनरसेविनाम्।
विहारसुखदो नित्यं भ्रातुस्ते राक्षसाधिप ॥ ६.२७.२२ ॥
多くの緊那羅に仕えられ、常に遊興の楽しみを与える山々の王——それはお前の兄弟である、ラークシャサの主よ。
6.27.23
तत्रैष रमते श्रीमान् बलवान् वानरोत्तमः।
युद्धेष्वकत्थनो नित्यं क्रथनो नाम यूथपः ॥ ६.२७.२३ ॥
そこでこの栄光ある、力強い猿の最上者は楽しむ——戦いにおいて決して自慢せぬ、クラタナという名の群の長である。
6.27.24
वृतः कोटिसहस्रेण हरीणां समवस्थितः।
एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् ॥ ६.२७.२४ ॥
幾千万の猿に囲まれ、そこに立つこの者こそ、自らの軍勢でラーンカーを砕こうと望んでいる。
6.27.25
यो गङ्गामनुपर्येति त्रासयन् गजयूथपान्।
हस्तिनां वानराणां च पूर्ववैरमनुस्मरन् ॥ ६.२७.२५ ॥
ガンジス川沿いを歩き回り、象の群れの長たちを脅かし、象と猿の古い敵意を思い起こしながら。
6.27.26
एष यूथपतिर्नेता गर्जन् गिरिगुहाशयः।
गजान् रोधयते वन्यानारुजंश्च महीरुहान् ॥ ६.२७.२६ ॥
この群れの主、指導者は、山の洞窟に住み、吠えながら野生の象を阻み、木々を折る。
6.27.27
हरीणां वाहिनीमुख्यो नदीं हैमवतीमनु।
उशीरबीजमाश्रित्य मन्दरं पर्वतोत्तमम् ॥ ६.२७.२७ ॥
猿の軍の主将は、ヒマーラヤから流れる川に沿い、ウシーラの種子に身を寄せ、最上の山マンダラの近くにいる。
6.27.28
रमते वानरश्रेष्ठो दिवि शक्र इव स्वयम्।
एनं शतसहस्राणां सहस्रमभिवर्तते ॥ ६.२७.२८ ॥
猿の中の最上者は、天界のインドラ自身のように楽しむ。数十万の千が彼を取り囲む。
6.27.29
वीर्यविक्रमदृप्तानां नर्दतां बाहुशालिनाम्।
स एष नेता चैतेषां वानराणां महात्मनाम् ॥ ६.२७.२९ ॥
彼こそ、勇猛と武勇に誇り、吠え、腕力に優れたこれら大いなる猿たちの指導者である。
6.27.30
स एष दुर्धरो राजन् प्रमाथी नाम यूथपः।
वातेनेवोद्धतं मेघं यमेनमनुपश्यसि ॥ ६.२७.३० ॥
王よ、この難攻不落の群れの主はプラマティーという名です。風に吹き上げられた雲のように、あなたはこれを見ているのです。
6.27.31
अनीकमपि संरब्धं वानराणां तरस्विनाम्।
उद्धूतमरुणाभासं पवनेन समन्ततः ॥ ६.२७.३१ ॥
また、怒り狂い赤みを帯びた、俊足の猿軍の大群が、風によって四方に舞い上げられていた。
6.27.32
विवर्तमानं बहुशो यत्रैतद्बहुलं रजः।
एतेऽसितमुखा घोरा गोलाङ्गूला महाबलाः ॥ ६.२७.३२ ॥
この濃い砂塵が幾度も渦巻くところに、黒い顔の、恐ろしい、長い尾の大力の者たちがいる。
6.27.33
शतं शतसहस्राणि दृष्ट्वा वै सेतुबन्धनम्।
गोलाङ्गूलं महाराज गवाक्षं नाम यूथपम् ॥ ६.२७.३३ ॥
大王よ、橋の建設を見て、幾百、幾十万の(猿)、そして牛尾の群れの長ガヴァークシャ。
6.27.34
परिवार्याभिनर्दन्ते लङ्कां मर्दितुमोजसा।
भ्रमराचरिता यत्र सर्वकालफलद्रुमाः ॥ ६.२७.३४ ॥
ラーンカーを取り囲み、力でそれを砕こうと吠え立てている。そこには蜂が集う、四季を通じて実をつける木々がある。
6.27.35
यं सूर्यस्तुल्यवर्णाभमनुपर्येति पर्वतम्।
यस्य भासा सदा भान्ति तद्वर्णा मृगपक्षिणः ॥ ६.२७.३५ ॥
太陽はその山の周りを巡る。その色と輝きは太陽と同じである。その光によって、同じ色の獣と鳥が常に輝く。
6.27.36
यस्य प्रस्थं महात्मानो न त्यजन्ति महर्षयः।
सर्वकामफला वृक्षाः सदा फलसमन्विताः ॥ ६.२७.३६ ॥
その頂を偉大な心の聖仙たちは決して離れない。そこには、あらゆる願いを叶え、常に実をつける木々がある。
6.27.37
मधूनि च महार्हाणि यस्मिन् पर्वतसत्तमे।
तत्रैष रमते राजन् रम्ये काञ्चनपर्वते ॥ ६.२७.३७ ॥
王よ、貴重な蜂蜜のあるその最良の山で、あの美しい黄金の山で、彼は楽しんでいるのです。
6.27.38
मुख्यो वानरमुख्यानां केसरी नाम यूथपः।
षष्टिर्गिरिसहस्राणि रम्याः काञ्चनपर्वताः ॥ ६.२७.३८ ॥
ケーサリーという名の群れの長、猿の長たちの中で第一の者がいます。そこには六万の美しい黄金の山があります。
6.27.39
तेषां मध्ये गिरिवरस्त्वमिवानघ रक्षसाम्।
तत्रैके कपिलाः श्वेतास्ताम्रास्या मधुपिङ्गलाः ॥ ६.२७.३९ ॥
その中で最良の山は、無垢なる者よ、あなたと同じく羅刹のものです。そこには、茶褐色の者、白い者、銅色の顔の者、蜜のように黄色い者がいます。
6.27.40
निवसन्त्यन्तिमगिरौ तीक्ष्णदंष्ट्रा नखायुधाः।
सिंहा इव चतुर्दंष्ट्रा व्याघ्रा इव दुरासदाः ॥ ६.२७.४० ॥
彼らは最後の山に住んでいます。鋭い牙を持ち、爪を武器とし、獅子のように四本の牙があり、虎のように近寄りがたいのです。
6.27.41
सर्वे वैश्वानरसमा ज्वलदाशीविषोपमाः।
सुदीर्घाञ्चितलाङ्गूला मत्तमातङ्गसंनिभाः ॥ ६.२७.४१ ॥
彼らは皆、劫末の火のようで、燃え盛る毒蛇のようで、非常に長く巻いた尾を持ち、狂った象のようです。
6.27.42
महापर्वतसंकाशा महाजीमूतनिःस्वनाः।
वृत्तपिङ्गलनेत्रा हि महाभीमगतिस्वनाः ॥ ६.२७.४२ ॥
彼らは大山のようで、大きな雷雲の轟きのような声を立て、丸く黄褐色の目を持ち、動くときの音は非常に恐ろしいのです。
6.27.43
मर्दयन्तीव ते सर्वे तस्थुर्लङ्कां समीक्ष्य ते।
एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान् ॥ ६.२७.४३ ॥
まるでランカーを押しつぶすかのように、彼らは皆ランカーを見つめて立っていた。その主君である勇猛な英雄が、中央に立っている。
6.27.44
जयार्थी नित्यमादित्यमुपतिष्ठति वीर्यवान्।
नाम्ना पृथिव्यां विख्यातो राजन् शतबलीति यः ॥ ६.२७.४४ ॥
勝利を望むその勇者は、いつも太陽を礼拝している。王よ、地上で「シャタバリ」の名で知られるのは、この者である。
6.27.45
एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम्।
विक्रान्तो बलवान् शूरः पौरुषे स्वे व्यवस्थितः ॥ ६.२७.४५ ॥
自らの軍勢でランカーを打ち砕こうと望んでいるのは、この者である。勇敢で力強く勇猛な彼は、自らの男らしい勇気に確固として立っている。
6.27.46
रामप्रियार्थं प्राणानां दयां न कुरुते हरिः।
गजो गवाक्षो गवयो नलो नीलश्च वानरः ॥ ६.२७.४६ ॥
ラーマを喜ばせるために、この猿は自分の命さえ惜しまない。ガジャ、ガヴァークシャ、ガヴァヤ、ナラ、ニーラもまた猿である。
6.27.47
एकैकमेव योधानां कोटिभिर्दशभिर्वृतः।
तथान्ये वानरश्रेष्ठा विन्ध्यपर्वतवासिनः।
न शक्यन्ते बहुत्वात् तु संख्यातुं लघुविक्रमाः ॥ ६.२७.४७ ॥
彼らの一人一人は、それぞれ十コーティの軍勢に囲まれている。同様にヴィンディヤ山に住むほかの優れた猿たちもおり、その数が多すぎて数えることはできない。彼らは素早い勇者である。
6.27.48
सर्वे महाराज महाप्रभावाः
सर्वे महाशैलनिकाशकायाः।
सर्वे समर्थाः पृथिवीं क्षणेन
कर्तुं प्रविध्वस्तविकीर्णशैलाम् ॥ ६.२७.४८ ॥
偉大な王よ、彼らは皆大いなる威力を持ち、その身体は大山のようである。彼らは皆、一瞬のうちに大地さえも砕き、山々の破片で散乱させることができる。