ヴァールミーキのラーマーヤナ · サルガ 6.28
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.28.1
सारणस्य वचः श्रुत्वा रावणं राक्षसाधिपम्।
बलमादिश्य तत् सर्वं शुको वाक्यमथाब्रवीत् ॥ ६.२८.१ ॥
サーラナの言葉を聞き、全軍を描写した後、シュカはラークシャサの王ラーヴァナにこの言葉を述べた。
6.28.2
स्थितान् पश्यसि यानेतान् मत्तानिव महाद्विपान्।
न्यग्रोधानिव गाङ्गेयान् सालान् हैमवतानिव ॥ ६.२८.२ ॥
立っているこの者たちを見よ。狂暴な大象のよう、ガンジス河畔に生えたバニヤンの木のよう、ヒマラヤのサーラ樹のようだ。
6.28.3
एते दुष्प्रसहा राजन् बलिनः कामरूपिणः।
दैत्यदानवसंकाशा युद्धे देवपराक्रमाः ॥ ६.२८.३ ॥
王よ、この者たちは打ち倒しがたく、力強く、意のままに姿を変えることができる。ダイティヤやダーナヴァに似て、戦では神々の勇気を持つ。
6.28.4
एषां कोटिसहस्राणि नव पञ्च च सप्त च।
तथा शङ्कुसहस्राणि तथा वृन्दशतानि च ॥ ६.२८.४ ॥
その数は九、五、七千コーティであり、またシャンク数千、ヴリンダ数百もある。
6.28.5
एते सुग्रीवसचिवाः किष्किन्धानिलयाः सदा।
हरयो देवगन्धर्वैरुत्पन्नाः कामरूपिणः ॥ ६.२८.५ ॥
これらはスグリーヴァの大臣で、常にキシュキンダーに住む者たちである。神々とガンダルヴァから生まれた猿で、意のままに姿を変えることができる。
6.28.6
यौ तौ पश्यसि तिष्ठन्तौ कुमारौ देवरूपिणौ।
मैन्दश्च द्विविदश्चैव ताभ्यां नास्ति समो युधि ॥ ६.२८.६ ॥
立っているあの二人の若者、神の姿をしたマインダとドヴィヴィダ——戦において彼らに並ぶ者はいない。
6.28.7
ब्रह्मणा समनुज्ञातावमृतप्राशिनावुभौ।
आशंसेते यथा लङ्कामेतौ मर्दितुमोजसा ॥ ६.२८.७ ॥
ブラフマーの許しを得た、甘露を飲んだこの二人は、その力でラṅカーを砕こうと願っている。
6.28.8
यं तु पश्यसि तिष्ठन्तं प्रभिन्नमिव कुञ्जरम्।
यो बलात् क्षोभयेत् क्रुद्धः समुद्रमपि वानरः ॥ ६.२८.८ ॥
発情した象のように立っているのを見るあの者は、怒れば力ずくで海さえも揺り動かせる猿である。
6.28.9
एषोऽभिगन्ता लङ्कायां वैदेह्यास्तव च प्रभो।
एनं पश्य पुरा दृष्टं वानरं पुनरागतम् ॥ ६.२८.९ ॥
主よ、この者はラṅカーへ行き、ヴァidehī(シーター)とあなたのもとへ赴く者です。以前見られたこの猿が、再び戻ってきたのをご覧ください。
6.28.10
ज्येष्ठः केसरिणः पुत्रो वातात्मज इति श्रुतः।
हनूमानिति विख्यातो लङ्घितो येन सागरः ॥ ६.२८.१० ॥
ケサリンの長男、風神の子として知られ、ハヌマーンの名で名高い、海を跳び越えた者。
6.28.11
कामरूपो हरिश्रेष्ठो बलरूपसमन्वितः।
अनिवार्यगतिश्चैव यथा सततगः प्रभुः ॥ ६.२८.११ ॥
意のままに姿を変えられ、猿のうち最も優れ、力と美しさを備え、止められぬ速さを持つ。常に動き続ける主のようである。
6.28.12
उद्यन्तं भास्करं दृष्ट्वा बालः किल बुभुक्षितः।
त्रियोजनसहस्रं तु अध्वानमवतीर्य हि ॥ ६.२८.१२ ॥
昇る太陽を見て、空腹の子は実に三千ヨージャナの距離を降りてきた。
6.28.14
आदित्यमाहरिष्यामि न मे क्षुत् प्रतियास्यति।
अनाधृष्यतमं देवमपि देवर्षिराक्षसैः।
अनासाद्यैव पतितो भास्करोदयने गिरौ ॥ ६.२८.१४ ॥
私は太陽を捕まえよう。空腹は私を去らないのだから。神々も聖仙も羅刹も打ち負かせぬその神に届く前に、彼は日の出の山に落ちた。
6.28.15
पतितस्य कपेरस्य हनुरेका शिलातले।
किंचिद् भिन्ना दृढहनुर्हनूमानेष तेन वै ॥ ६.२८.१५ ॥
倒れた猿の顎の一つが岩の地面で少し砕けた。そのためこの堅い顎の者はハヌマーンと呼ばれるようになった。
6.28.16
सत्यमागमयोगेन ममैष विदितो हरिः।
नास्य शक्यं बलं रूपं प्रभावो वानुभाषितुम् ॥ ६.२८.१६ ॥
まことに、聖典の学びによって、私はこのハリを知っている。その力も姿も威力も語り尽くすことはできない。
6.28.17
एष आशंसते लङ्कामेको मथितुमोजसा।
येन जाज्वल्यतेऽसौ वै धूमकेतुस्तवाद्य वै।
लङ्कायां निहितश्चापि कथं विस्मरसे कपिम् ॥ ६.२८.१७ ॥
この者は一人で自らの力によってランカーをかき乱そうと望んでいる。だからこそ今日、あの彗星がお前の都で燃えているのだ。ランカーに置かれたこの猿を、どうして忘れたのか。
6.28.18
यश्चैषोऽनन्तरः शूरः श्यामः पद्मनिभेक्षणः।
इक्ष्वाकूणामतिरथो लोके विश्रुतपौरुषः ॥ ६.२८.१८ ॥
さらにこの英雄、黒い肌と蓮の眼を持つ、イクシュヴァーク族の大戦車兵、世に武勇の名高い者——
6.28.19
यस्मिन् न चलते धर्मो यो धर्मं नातिवर्तते।
यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः ॥ ६.२८.१९ ॥
その内では法(ダルマ)が決して揺らがず、法を踏み越えることもなく、梵天の矢とヴェーダを知る、ヴェーダに通じる者の中で最も優れた者——
6.28.20
यो भिन्द्याद् गगनं बाणैर्मेदिनीं वापि दारयेत्।
यस्य मृत्योरिव क्रोधः शक्रस्येव पराक्रमः ॥ ६.२८.२० ॥
矢で空を裂き、大地さえも引き裂くことができ、その怒りは死のごとく、武勇はインドラのごとき者、
6.28.21
यस्य भार्या जनस्थानात् सीता चापि हृता त्वया।
स एष रामस्त्वां राजन् योद्धुं समभिवर्तते ॥ ६.२८.२१ ॥
ジャナスターナから彼の妻シーターをおまえが奪ったその人、王よ、そのラーマがおまえと戦うために来たのだ。
6.28.22
यस्यैष दक्षिणे पार्श्वे शुद्धजाम्बूनदप्रभः।
विशालवक्षास्ताम्राक्षो नीलकुञ्चितमूर्धजः ॥ ६.२८.२२ ॥
その右側に立つこの人は、純金のように輝き、胸広く、赤い目をし、黒く縮れた髪を持つ。
6.28.23
एषो हि लक्ष्मणो नाम भ्रातुः प्रियहिते रतः।
नये युद्धे च कुशलः सर्वशस्त्रभृतां वरः ॥ ६.२८.२३ ॥
この者はラクシュマナという名で、兄の幸福と喜びに専念し、策略にも戦いにも長け、あらゆる武器の使い手の中で最も優れている。
6.28.24
अमर्षी दुर्जयो जेता विक्रान्तश्च जयी बली।
रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः ॥ ६.२८.२४ ॥
侮辱を許さず、打ち負かせず、勝者であり、勇猛で、勝利者であり、力強い。ラーマの右腕、常にラーマの命の息、外で動く者。
6.28.25
नह्येष राघवस्यार्थे जीवितं परिरक्षति।
एषैवाशंसते युद्धे निहन्तुं सर्वराक्षसान् ॥ ६.२८.२५ ॥
彼はラーガヴァのために自分の命を守ろうとはしない。戦いでは、すべての羅刹を討つことだけを望んでいる。
6.28.26
यस्तु सव्यमसौ पक्षं रामस्याश्रित्य तिष्ठति।
रक्षोगणपरिक्षिप्तो राजा ह्येष विभीषणः ॥ ६.२८.२६ ॥
ラーマに庇護を求めて左側に立ち、羅刹の群れに囲まれている者、この王こそヴィビーシャナである。
6.28.27
श्रीमता राजराजेन लङ्कायामभिषेचितः।
त्वामसौ प्रतिसंरब्धो युद्धायैषोऽभिवर्तते ॥ ६.२८.२७ ॥
ラーンカーで栄光ある王の中の王により灌頂された彼は、怒りをもって戦いのためにあなたに向かって進んでいる。
6.28.28
यं तु पश्यसि तिष्ठन्तं मध्ये गिरिमिवाचलम्।
सर्वशाखामृगेन्द्राणां भर्तारममितौजसम् ॥ ६.२८.२८ ॥
中央で山のように動かず立っている者、あなたが見ているそれは、すべての猿族の王たちの主であり、無限の力を持つ者である。
6.28.29
तेजसा यशसा बुद्ध्या बलेनाभिजनेन च।
यः कपीनतिबभ्राज हिमवानिव पर्वतः ॥ ६.२८.२९ ॥
威光、名声、知恵、力、そして家系によって、猿たちの中でヒマーラヤ山のように輝く者。
6.28.30
किष्किन्धां यः समध्यास्ते गुहां सगहनद्रुमाम्।
दुर्गां पर्वतदुर्गम्यां प्रधानैः सह यूथपैः ॥ ६.२८.३० ॥
主だった隊長たちとともに、密林に覆われ山々に守られて近づきがたいキシュキンダーの洞窟に住む者。
6.28.31
यस्यैषा काञ्चनी माला शोभते शतपुष्करा।
कान्ता देवमनुष्याणां यस्यां लक्ष्मीः प्रतिष्ठिता ॥ ६.२८.३१ ॥
百の蓮花からなる金の花環が輝いている者、その中に神々と人々に愛されるラクシュミーが鎮座している。
6.28.32
एतां मालां च तारां च कपिराज्यं च शाश्वतम्।
सुग्रीवो वालिनं हत्वा रामेण प्रतिपादितः ॥ ६.२८.३२ ॥
この花輪、ターラー、そして猴族の永遠の王国——ヴァーリンを殺した後、ラーマはそれらすべてをスグリーヴァに返した。
6.28.33
शतं शतसहस्राणां कोटिमाहुर्मनीषिणः।
शतं कोटिसहस्राणां शङ्कुरित्यभिधीयते ॥ ६.२८.३३ ॥
賢者は十万の百倍を一コーティと呼ぶ。十万コーティはシャンク(śaṅku)と呼ばれる。
6.28.34
शतं शङ्कुसहस्राणां महाशङ्कुरिति स्मृतः।
महाशङ्कुसहस्राणां शतं वृन्दमिहोच्यते ॥ ६.२८.३४ ॥
十万のシャンクは大シャンク(mahāśaṅku)と記憶される。十万の大シャンクはここでヴリンダ(vṛnda)と呼ばれる。
6.28.35
शतं वृन्दसहस्राणां महावृन्दमिति स्मृतम्।
महावृन्दसहस्राणां शतं पद्ममिहोच्यते ॥ ६.२८.३५ ॥
十万のヴリンダは大ヴリンダ(mahāvṛnda)と記憶される。十万の大ヴリンダはここでパドマ(padma)と呼ばれる。
6.28.36
शतं पद्मसहस्राणां महापद्ममिति स्मृतम्।
महापद्मसहस्राणां शतं खर्वमिहोच्यते ॥ ६.२८.३६ ॥
十万のパドマは大パドマ(mahāpadma)と記憶される。十万の大パドマはここでカルヴァ(kharva)と呼ばれる。
6.28.37
शतं खर्वसहस्राणां महाखर्वमिति स्मृतम्।
महाखर्वसहस्राणां समुद्रमभिधीयते।
शतं समुद्रसाहस्रमोघ इत्यभिधीयते ॥ ६.२८.३७ ॥
十万のカルヴァは大カルヴァ(mahākharva)と記憶される。千の大カルヴァはサムドラ(samudra)と呼ばれ、十万のサムドラはオーガ(ogha)と呼ばれる。
6.28.38
शतमोघसहस्राणां महौघा इति विश्रुतः।
एवं कोटिसहस्रेण शङ्कूनां च शतेन च।
महाशङ्कुसहस्रेण तथा वृन्दशतेन च ॥ ६.२८.३८ ॥
百千のオーガは大オーガと呼ばれる。同様に、千コーティと百シャンク、千マハーシャンクと百ヴリンダによっても。
6.28.39
महावृन्दसहस्रेण तथा पद्मशतेन च।
महापद्मसहस्रेण तथा खर्वशतेन च ॥ ६.२८.३९ ॥
千のマハーヴリンダと百のパドマ、千のマハーパドマと百のカルヴァによっても。
6.28.40
समुद्रेण च तेनैव महौघेन तथैव च
एष कोटिमहौघेन समुद्रसदृशेन च ॥ ६.२८.४० ॥
海とその大オーガ、同様に一コーティの大オーガと海に等しい数によっても。
6.28.41
विभीषणेन वीरेण सचिवैः परिवारितः।
सुग्रीवो वानरेन्द्रस्त्वां युद्धार्थमनुवर्तते।
महाबलवृतो नित्यं महाबलपराक्रमः ॥ ६.२८.४१ ॥
英雄ヴィビーシャナと大臣たちに囲まれた猿王スグリーヴァは、戦いのためにあなたを待っている。常に大いなる力に囲まれ、大いなる力と勇猛を備えた者である。
6.28.42
इमां महाराज समीक्ष्य वाहिनी-
मुपस्थितां प्रज्वलितग्रहोपमाम्।
ततः प्रयत्नः परमो विधीयतां
यथा जयः स्यान्न परैः पराभवः ॥ ६.२८.४२ ॥
偉大な王よ、燃える惑星のように布陣したこの軍勢を見て、最大の努力を尽くされますように。勝利があり、敵によって敗北が起こらぬように。