Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 6.29

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.29.1

शुकेन तु समादिष्टान् दृष्ट्वा स हरियूथपान्।
लक्ष्मणं च महावीर्यं भुजं रामस्य दक्षिणम् ॥ ६.२९.१ ॥

看见了由舍俱指明的猴群首领们,以及大勇的罗什曼那,还有罗摩的右臂,

6.29.2

समीपस्थं च रामस्य भ्रातरं च विभीषणम्।
सर्ववानरराजं च सुग्रीवं भीमविक्रमम् ॥ ६.२९.२ ॥

以及站在罗摩身旁的兄弟毗昵沙那,还有群猴之王、威力可怖的须羯哩婆。

6.29.3

अङ्गदं चापि बलिनं वज्रहस्तात्मजात्मजम्।
हनूमन्तं च विक्रान्तं जाम्बवन्तं च दुर्जयम् ॥ ६.२९.३ ॥

以及强大的安伽陀——他是伐阇罗诃斯陀之子之子——勇猛的哈奴曼,还有难以战胜的遮婆梵。

6.29.4

सुषेणं कुमुदं नीलं नलं च प्लवगर्षभम्।
गजं गवाक्षं शरभं मैन्दं च द्विविदं तथा ॥ ६.२९.४ ॥

苏舍那、拘穆陀、尼罗、那罗——跳跃者中最优秀的、伽阇、伽婆叉、舍罗婆、摩因陀,以及提毗陀。

6.29.5

किंचिदाविग्नहृदयो जातक्रोधश्च रावणः।
भर्त्सयामास तौ वीरौ कथान्ते शुकसारणौ ॥ ६.२९.५ ॥

罗波那心中略有不安,怒气大发,在二人报告将尽时斥责了那两位勇士——舍俱与娑罗那。

6.29.6

अधोमुखौ तौ प्रणतावब्रवीच्छुकसारणौ।
रोषगद्गदया वाचा संरब्धं परुषं तथा ॥ ६.२९.६ ॥

二人低头俯身行礼,用因愤怒而哽咽的声音,激动而严厉地说道。

6.29.7

न तावत् सदृशं नाम सचिवैरुपजीविभिः।
विप्रियं नृपतेर्वक्तुं निग्रहे प्रग्रहे प्रभोः ॥ ६.२९.७ ॥

依附侍奉的大臣不应对君王说不悦耳的话,无论君主惩罚还是恩赐,那都是主上的权利。

6.29.8

रिपूणां प्रतिकूलानां युद्धार्थमभिवर्तताम्।
उभाभ्यां सदृशं नाम वक्तुमप्रस्तवे स्तवम् ॥ ६.२९.८ ॥

敌人正为战事逼近,你们二人在不合时宜之处赞美,实为不当。

6.29.9

आचार्या गुरवो वृद्धा वृथा वां पर्युपासिताः।
सारं यद् राजशास्त्राणामनुजीव्यं न गृह्यते ॥ ६.२९.९ ॥

你二人侍奉了老师、长辈和尊者,却是徒然的;你们没有掌握王道之学的精髓,那才是安身立命之本。

6.29.10

गृहीतो वा न विज्ञातो भारोऽज्ञानस्य वाह्यते।
ईदृशैः सचिवैर्युक्तो मूर्खैर्दिष्ट्या धराम्यहम् ॥ ६.२९.१० ॥

未曾承担、未曾理解的重担,只能当作无知之负担来背负;虽与这样愚昧的大臣同处,我幸而仍能承担它。

6.29.11

किं नु मृत्योर्भयं नास्ति मां वक्तुं परुषं वचः।
यस्य मे शासतो जिह्वा प्रयच्छति शुभाशुभम् ॥ ६.२९.११ ॥

你们难道不怕死,竟敢对我说严厉的话?当我执政时,我的口舌决定祸福。

6.29.12

अप्येव दहनं स्पृष्ट्वा वने तिष्ठन्ति पादपाः।
राजदण्डपरामृष्टास्तिष्ठन्ते नापराधिनः ॥ ६.२९.१२ ॥

林中的树木即使被火烧到仍然矗立;但被君王刑杖触及的罪人,却无法存活。

6.29.13

हन्यामहं त्विमौ पापौ शत्रुपक्षप्रशंसिनौ।
यदि पूर्वोपकारैर्मे क्रोधो न मृदुतां व्रजेत् ॥ ६.२९.१३ ॥

若非我以往的恩惠使我的愤怒趋于平息,我本会杀掉这两个赞美敌方的罪人。

6.29.14

अपध्वंसत नश्यध्वं संनिकर्षादितो मम।
नहि वां हन्तुमिच्छामि स्मराम्युपकृतानि वाम्।
हतावेव कृतघ्नौ द्वौ मयि स्नेहपराङ्मुखौ ॥ ६.२९.१४ ॥

滚开!从我眼前消失!我不想杀你们二人,因为我记得你们为我所做的效劳。但这两个背弃我情谊的忘恩负义之徒,已经是死人了。

6.29.15

एवमुक्तौ तु सव्रीडौ तौ दृष्ट्वा शुकसारणौ।
रावणं जयशब्देन प्रतिनन्द्याभिनिःसृतौ ॥ ६.२९.१५ ॥

二人被如此训斥,羞愧不已,高呼胜利向罗波那致意后退出。

6.29.16

अब्रवीच्च दशग्रीवः समीपस्थं महोदरम्।
उपस्थापय मे शीघ्रं चारानिति निशाचरः।
महोदरस्तथोक्तस्तु शीघ्रमाज्ञापयच्चरान् ॥ ६.२९.१६ ॥

于是十首罗波那对身旁的摩诃多罗说:"快把探子带到我面前。"摩诃多罗受命后,立即下令召唤探子。

6.29.17

ततश्चाराः संत्वरिताः प्राप्ताः पार्थिवशासनात्।
उपस्थिताः प्राञ्जलयो वर्धयित्वा जयाशिषः ॥ ६.२९.१७ ॥

于是,奉国王之命,探子们急忙赶来,合掌站立,以胜利的祝福向他致意。

6.29.18

तानब्रवीत् ततो वाक्यं रावणो राक्षसाधिपः।
चारान् प्रत्यायिकान् शूरान् धीरान् विगतसाध्वसान् ॥ ६.२९.१८ ॥

于是罗刹之主罗波那对那些探子说话——他们可靠、勇敢、坚定、无所畏惧。

6.29.19

इतो गच्छत रामस्य व्यवसायं परीक्षितुम्।
मन्त्रेष्वभ्यन्तरा येऽस्य प्रीत्या तेन समागताः ॥ ६.२९.१९ ॥

你们从此处前往,去试探罗摩的决心。查明他议事中的亲信,以及出于情谊与他结合的人。

6.29.20

कथं स्वपिति जागर्ति किमद्य च करिष्यति।
विज्ञाय निपुणं सर्वमागन्तव्यमशेषतः ॥ ६.२९.२० ॥

他如何入睡,如何醒来,今日将做什么?将这一切都仔细探明后,你们必须完整地返回。

6.29.21

चारेण विदितः शत्रुः पण्डितैर्वसुधाधिपैः।
युद्धे स्वल्पेन यत्नेन समासाद्य निरस्यते ॥ ६.२९.२१ ॥

经由间谍而知的敌人,智慧的君王在战斗中只需稍加努力,便可接近并将其击败。

6.29.22

चारास्तु ते तथेत्युक्त्वा प्रहृष्टा राक्षसेश्वरम्।
शार्दूलमग्रतः कृत्वा ततश्चक्रुः प्रदक्षिणम् ॥ ६.२९.२२ ॥

那些间谍说道“就这样吧”,欢喜地将罗刹之主置于前方,如猛虎一般,并向右绕行致敬。

6.29.23

ततस्तं तु महात्मानं चारा राक्षससत्तमम्।
कृत्वा प्रदक्षिणं जग्मुर्यत्र रामः सलक्ष्मणः ॥ ६.२९.२३ ॥

随后那些间谍绕行那位大德、罗刹中最优秀的人,前往罗摩与罗什曼那所在之处。

6.29.24

ते सुवेलस्य शैलस्य समीपे रामलक्ष्मणौ।
प्रच्छन्ना ददृशुर्गत्वा ससुग्रीवविभीषणौ ॥ ६.२९.२४ ॥

他们隐蔽前往,在苏维拉山附近看见了罗摩与罗什曼那,以及须羯哩婆和毗卑沙那。

6.29.25

प्रेक्षमाणाश्चमूं तां च बभूवुर्भयविह्वलाः।
ते तु धर्मात्मना दृष्टा राक्षसेन्द्रेण राक्षसाः ॥ ६.२९.२५ ॥

他们望着那支军队,惊恐万分;而那些罗刹被正直的罗刹之主看见了。

6.29.26

विभीषणेन तत्रस्था निगृहीता यदृच्छया।
शार्दूलो ग्राहितस्त्वेकः पापोऽयमिति राक्षसः ॥ ६.२९.२६ ॥

站在那里的他们偶然被毗భీषण擒获。一个罗刹认为“此人是恶人”,便让人抓来一只老虎。

6.29.27

मोचितः सोऽपि रामेण वध्यमानः प्लवंगमैः।
आनृशंस्येन रामेण मोचिता राक्षसाः परे ॥ ६.२९.२७ ॥

他在被猴子们击打时也被罗摩释放;出于慈悲,罗摩也释放了其他罗刹。

6.29.28

वानरैरर्दितास्ते तु विक्रान्तैर्लघुविक्रमैः।
पुनर्लङ्कामनुप्राप्ताः श्वसन्तो नष्टचेतसः ॥ ६.२९.२८ ॥

他们被那些勇猛而迅捷的猴子折磨,喘息着,心神慌乱,又回到了楞伽。

6.29.29

ततो दशग्रीवमुपस्थितास्ते
चारा बहिर्नित्यचरा निशाचराः।
गिरेः सुवेलस्य समीपवासिनं
न्यवेदयन् रामबलं महाबलाः ॥ ६.२९.२९ ॥

于是那些在城外常年巡行的夜行侦察者来到十首王面前,报告了驻扎在苏维罗山附近的罗摩大军;这些大力者。