Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 6.33

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

6.33.1

सीतां तु मोहितां दृष्ट्वा सरमा नाम राक्षसी।
आससादाथ वैदेहीं प्रियां प्रणयिनी सखीम् ॥ ६.३३.१ ॥

気を失ったシーターを見て、サラマーという羅刹女は、愛しく情深い友であるヴァイデーヒーのもとへ近づいた。

6.33.2

मोहितां राक्षसेन्द्रेण सीतां परमदुःखिताम्।
आश्वासयामास तदा सरमा मृदुभाषिणी ॥ ६.३३.२ ॥

羅刹王に惑わされ、ひどく悲しんでいるシーターを、そのとき穏やかに語るサラマーが慰めた。

6.33.3

सा हि तत्र कृता मित्रं सीतया रक्ष्यमाणया।
रक्षन्ती रावणादिष्टा सानुक्रोशा दृढव्रता ॥ ६.३३.३ ॥

そこでシーターに守られて彼女は友となった。ラーヴァナの命で見張りをしていたが、慈悲深く、固い誓いを守る者であった。

6.33.4

सा ददर्श सखी सीतां सरमा नष्टचेतनाम्।
उपावृत्योत्थितां ध्वस्तां वडवामिव पांसुषु ॥ ६.३३.४ ॥

その友サラマーは、塵の中に倒れ、起き上がっては再び倒れた雌馬のように、意識を失ったシーターを見た。

6.33.5

तां समाश्वासयामास सखीस्नेहेन सुव्रताम्।
समाश्वसिहि वैदेहि मा भूत् ते मनसो व्यथा।
उक्ता यद् रावणेन त्वं प्रयुक्तश्च स्वयं त्वया ॥ ६.३३.५ ॥

友情から、誓いを守るシーターを慰めて言った。「ヴァイデーヒーよ、安心なさい。心に苦しみを残してはなりません。ラーヴァナが言ったことも、あなた自身が引き起こしたことも──」

6.33.6

सखीस्नेहेन तद् भीरु मया सर्वं प्रतिश्रुतम्।
लीनया गहने शून्ये भयमुत्सृज्य रावणात्।
तव हेतोर्विशालाक्षि नहि मे रावणाद् भयम् ॥ ६.३३.६ ॥

臆病な方よ、友情から私はそのすべてを約束しました。深く人気のない所に身を隠し、ラーヴァナへの恐れを捨てて、広い目の方よ、あなたのために——私はラーヴァナを恐れてはいません。

6.33.7

स सम्भ्रान्तश्च निष्क्रान्तो यत्कृते राक्षसेश्वरः।
तत्र मे विदितं सर्वमभिनिष्क्रम्य मैथिलि ॥ ६.३३.७ ॥

マイティリーよ、羅刹王が動揺して出て行った理由は、そこから抜け出した後にすべて私に分かった。

6.33.8

न शक्यं सौप्तिकं कर्तुं रामस्य विदितात्मनः।
वधश्च पुरुषव्याघ्रे तस्मिन् नैवोपपद्यते ॥ ६.३३.८ ॥

自己を知る罗摩に夜陰に乗じて襲いかかることはできず、あの人中の虎を殺すことも適当ではない。

6.33.9

न त्वेवं वानरा हन्तुं शक्याः पादपयोधिनः।
सुरा देवर्षभेणेव रामेण हि सुरक्षिताः ॥ ६.३३.९ ॥

しかし、足と木々で戦う猿族をこのように殺すことはできない。神々の雄牛であるラーマによって、彼らは神々のように守られているのだ。

6.33.10

दीर्घवृत्तभुजः श्रीमान् महोरस्कः प्रतापवान्।
धन्वी संनहनोपेतो धर्मात्मा भुवि विश्रुतः ॥ ६.३३.१० ॥

長く丸みのある腕を持ち、栄光に満ち、胸の広い、威力ある弓の使い手、鎧を身につけ、心は法にかない、大地に名高いラーマ。

6.33.11

विक्रान्तो रक्षिता नित्यमात्मनश्च परस्य च।
लक्ष्मणेन सह भ्रात्रा कुलीनो नयशास्त्रवित् ॥ ६.३३.११ ॥

勇猛で、常に自分と他者を守り、弟ラクシュマナと共にあり、高貴な家系に生まれ、政治と行いの学に通じた者。

6.33.12

हन्ता परबलौघानामचिन्त्यबलपौरुषः।
न हतो राघवः श्रीमान् सीते शत्रुनिबर्हणः ॥ ६.३३.१२ ॥

敵軍の奔流を討ち破る者、思議しがたい力と勇武を持つ者。シーターよ、栄光あるラーghavaは殺されてはいない。彼は敵を滅ぼす者なのだ。

6.33.13

अयुक्तबुद्धिकृत्येन सर्वभूतविरोधिना।
एवं प्रयुक्ता रौद्रेण माया मायाविना त्वयि ॥ ६.३३.१३ ॥

不正な心と行いを持ち、すべての存在の敵である、その残酷な幻術者が、あなたにこの幻を仕掛けたのです。

6.33.14

शोकस्ते विगतः सर्वकल्याणं त्वामुपस्थितम्।
ध्रुवं त्वां भजते लक्ष्मीः प्रियं ते भवति शृणु ॥ ६.३३.१४ ॥

あなたの悲しみは去り、すべての吉祥があなたのもとに来ました。まことにラクシュミーがあなたを慕っています。お聞きなさい、これはあなたにとって喜ばしいことです。

6.33.15

उत्तीर्य सागरं रामः सह वानरसेनया।
संनिविष्टः समुद्रस्य तीरमासाद्य दक्षिणम् ॥ ६.३३.१५ ॥

大海を渡ったラーマは猿の軍勢とともに海の南岸に到着し、そこに陣を張っています。

6.33.16

दृष्टो मे परिपूर्णार्थः काकुत्स्थः सहलक्ष्मणः।
सहितैः सागरान्तस्थैर्बलैस्तिष्ठति रक्षितः ॥ ६.३३.१६ ॥

目的を成し遂げたカークツトゥスタ、ラーマをラクシュマナとともに私は見ました。彼は海辺に集まった軍勢に守られて立っています。

6.33.17

अनेन प्रेषिता ये च राक्षसा लघुविक्रमाः।
राघवस्तीर्ण इत्येवं प्रवृत्तिस्तैरिहाहृता ॥ ६.३३.१७ ॥

彼が遣わした、勇猛で素早い羅刹たちが、ラーガヴァが渡海したという知らせをここへ持ち帰りました。

6.33.18

स तां श्रुत्वा विशालाक्षि प्रवृत्तिं राक्षसाधिपः।
एष मन्त्रयते सर्वैः सचिवैः सह रावणः ॥ ६.३३.१८ ॥

広い目の方よ、その知らせを聞いて、羅刹の王ラーヴァナは、ここで全ての大臣と協議しているのです。

6.33.19

सर्वोद्योगेन सैन्यानां शब्दं शुश्राव भैरवम् ॥ ६.३३.१९ ॥

全力を尽くす軍勢の恐ろしい響きを彼は聞いた。

6.33.20

दण्डनिर्घातवादिन्याः श्रुत्वा भेर्या महास्वनम्।
उवाच सरमा सीतामिदं मधुरभाषिणी ॥ ६.३३.२० ॥

棍棒の打撃のように響く戦太鼓の大音声を聞き、甘い言葉の娘サラマーはシーターにこう言った。

6.33.21

संनाहजननी ह्येषा भैरवा भीरु भेरिका।
भेरीनादं च गम्भीरं शृणु तोयदनिःस्वनम् ॥ ६.३३.२१ ॥

この戦太鼓は甲冑を着ける源であり、恐ろしい。臆病な人よ、雲の轟きのような深い響きを聞きなさい。

6.33.22

कल्प्यन्ते मत्तमातङ्गा युज्यन्ते रथवाजिनः।
दृश्यन्ते तुरगारूढाः प्रासहस्ताः सहस्रशः ॥ ६.३३.२२ ॥

猛り狂う象が準備され、戦車の馬が繋がれ、槍を手にした馬上の兵が千々に見える。

6.33.23

तत्र तत्र च संनद्धाः सम्पतन्ति सहस्रशः।
आपूर्यन्ते राजमार्गाः सैन्यैरद्भुतदर्शनैः ॥ ६.३३.२३ ॥

あちこちで甲冑をまとった千々の戦士が駆け出し、王道は見事な姿の軍勢で埋め尽くされる。

6.33.24

वेगवद्भिर्नदद्भिश्च तोयौघैरिव सागरः।
शस्त्राणां च प्रसन्नानां चर्मणां वर्मणां तथा ॥ ६.३३.२४ ॥

速く吠えたける軍勢は水の奔流に満ちた大海のようだ。輝く武器、盾、甲冑もまた同様である。

6.33.25

रथवाजिगजानां च राक्षसेन्द्रानुयायिनाम्।
सम्भ्रमो रक्षसामेष हृषितानां तरस्विनाम् ॥ ६.३३.२५ ॥

これは戦車、馬、象、そして羅刹王に従う興奮した俊敏な羅刹たちの間に起きている動揺である。

6.33.26

प्रभां विसृजतां पश्य नानावर्णसमुत्थिताम्।
वनं निर्दहतो घर्मे यथा रूपं विभावसोः ॥ ६.३३.२६ ॥

彼らが放つ光を見よ。多彩な色を帯びて立ち上り、夏に森を焼き尽くす火の姿のようだ。

6.33.27

घण्टानां शृणु निर्घोषं रथानां शृणु निःस्वनम्।
हयानां हेषमाणानां शृणु तूर्यध्वनिं तथा ॥ ६.३३.२७ ॥

鐘の響きを聞け、戦車の轟きを聞け、いななく馬の声を聞け、そして角笛の音も聞け。

6.33.28

उद्यतायुधहस्तानां राक्षसेन्द्रानुयायिनाम्।
सम्भ्रमो रक्षसामेष तुमुलो लोमहर्षणम् ॥ ६.३३.२८ ॥

武器を手に高く掲げ、羅刹王に従う羅刹たちの動揺である。この騒々しい喧噪は身の毛もよだつものだ。

6.33.29

श्रीस्त्वां भजति शोकघ्नी रक्षसां भयमागतम्।
रामः कमलपत्राक्षो दैत्यानामिव वासवः ॥ ६.३३.२९ ॥

憂いを除く吉祥天女(シュリー)がおまえに寄り添っている。羅刹たちに恐怖が訪れた。蓮の花びらのような目をしたラーマは、ダイティヤたちに対するインドラのように来るだろう。

6.33.30

अवजित्य जितक्रोधस्तमचिन्त्यपराक्रमः।
रावणं समरे हत्वा भर्ता त्वाधिगमिष्यति ॥ ६.३३.३० ॥

怒りを克服し、思いも及ばぬ勇猛さを持つラーマは、彼を打ち破り、戦いでラーヴァナを討ち、おまえの夫としておまえを迎えるだろう。

6.33.31

विक्रमिष्यति रक्षःसु भर्ता ते सहलक्ष्मणः।
यथा शत्रुषु शत्रुघ्नो विष्णुना सह वासवः ॥ ६.३३.३१ ॥

あなたの夫はラクシュマナとともに羅刹たちの中で武勇を示すでしょう。シャトルグナが敵の中で、インドラがヴィシュヌと共にそうするように。

6.33.32

आगतस्य हि रामस्य क्षिप्रमङ्कागतां सतीम्।
अहं द्रक्ष्यामि सिद्धार्थां त्वां शत्रौ विनिपातिते ॥ ६.३३.३२ ॥

ラーマが来て敵が倒れたなら、私はすぐにあなたが彼の膝に座り、願いの叶った貞淑な妻となっているのを見るでしょう。

6.33.33

अस्राण्यानन्दजानि त्वं वर्तयिष्यसि जानकि।
समागम्य परिष्वक्ता तस्योरसि महोरसः ॥ ६.३३.३३ ॥

ジャーナキーよ、彼に会い、広い胸に抱きしめられて、あなたは喜びの涙を流すでしょう。

6.33.34

अचिरान्मोक्ष्यते सीते देवि ते जघनं गताम्।
धृतामेकां बहून् मासान् वेणीं रामो महाबलः ॥ ६.३३.३४ ॥

シーターよ、女神よ、あなたの腰まで垂れ、幾月も一本に編まれてきた髪を、偉大な力を持つラーマが間もなく解くでしょう。

6.33.35

तस्य दृष्ट्वा मुखं देवि पूर्णचन्द्रमिवोदितम्।
मोक्ष्यसे शोकजं वारि निर्मोकमिव पन्नगी ॥ ६.३३.३५ ॥

女神よ、昇った満月のような彼の顔を見て、あなたは蛇の女が脱皮するように、悲しみから生じた涙を流し去るでしょう。

6.33.36

रावणं समरे हत्वा नचिरादेव मैथिलि।
त्वया समग्रः प्रियया सुखार्हो लप्स्यते सुखम् ॥ ६.३३.३६ ॥

マイティリーよ、戦いでラーヴァナを倒した後、幸福にふさわしい彼は、愛する妻であるあなたと共に、間もなく完全な幸福を得るでしょう。

6.33.37

सभाजिता त्वं रामेण मोदिष्यसि महात्मना।
सुवर्षेण समायुक्ता यथा सस्येन मेदिनी ॥ ६.३३.३७ ॥

偉大な魂のラーマに敬われて、あなたは喜ぶでしょう。良い雨に恵まれた大地が穀物に喜ぶように。

6.33.38

गिरिवरमभितो विवर्तमानो
हय इव मण्डलमाशु यः करोति।
तमिह शरणमभ्युपैहि देवि
दिवसकरं प्रभवो ह्ययं प्रजानाम् ॥ ६.३३.३८ ॥

女神よ、山々の中で最も尊い山を、馬のように速く回って円を描く方に、ここで庇護を求めなさい。この方こそ生きとし生けるものの主、太陽なのです。