蚁垤《罗摩衍那》 · 篇 6.35
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.35.1
तेन शङ्खविमिश्रेण भेरीशब्देन नादिना।
उपयाति महाबाहू रामः परपुरंजयः ॥ ६.३५.१ ॥
在与海螺声相混、鼓声轰鸣之中,大臂的罗摩——征服敌城者——正在逼近。
6.35.2
तं निनादं निशम्याथ रावणो राक्षसेश्वरः।
मुहूर्तं ध्यानमास्थाय सचिवानभ्युदैक्षत ॥ ६.३५.२ ॥
罗波那(罗刹王)听到那吼声,凝神片刻,然后望向他的大臣们。
6.35.3
अथ तान् सचिवांस्तत्र सर्वानाभाष्य रावणः।
सभां संनादयन् सर्वामित्युवाच महाबलः ॥ ६.३५.३ ॥
于是,这位大力的罗波那向在场的所有大臣发话,使整个议会为之回响,他这样说道。
6.35.4
जगत्संतापनः क्रूरोऽगर्हयन् राक्षसेश्वरः।
तरणं सागरस्यास्य विक्रमं बलपौरुषम् ॥ ६.३५.४ ॥
这位使世界受苦的残忍罗刹王罗波那,轻蔑地谈论他们渡过这片大海之事,以及他们的勇猛、力量与气概。
6.35.5
यदुक्तवन्तो रामस्य भवन्तस्तन्मया श्रुतम्।
भवतश्चाप्यहं वेद्मि युद्धे सत्यपराक्रमान्।
तूष्णीकानीक्षतोऽन्योन्यं विदित्वा रामविक्रमम् ॥ ६.३५.५ ॥
你们所说关于罗摩的话,我都听到了。你们在战斗中的真正勇气,我也知道。你们知道罗摩的勇武,便沉默不语,彼此相望。
6.35.6
ततस्तु सुमहाप्राज्ञो माल्यवान् नाम राक्षसः।
रावणस्य वचः श्रुत्वा इति मातामहोऽब्रवीत् ॥ ६.३५.६ ॥
于是,极有智慧的罗刹摩利耶梵听了罗波那的话,以他外祖父的身份这样说道。
6.35.7
विद्यास्वभिविनीतो यो राजा राजन् नयानुगः।
स शास्ति चिरमैश्वर्यमरींश्च कुरुते वशे ॥ ६.३५.७ ॥
受过学问熏陶、遵循policy正道的君王,能长久治理其权势,并使敌人臣服。
6.35.8
संदधानो हि कालेन विगृह्णंश्चारिभिः सह।
स्वपक्षे वर्धनं कुर्वन्महदैश्वर्यमश्नुते ॥ ६.३५.८ ॥
适时与敌人讲和、时机来临时便作战、并壮大己方之人,便能获得巨大的权势。
6.35.9
हीयमानेन कर्तव्यो राज्ञा संधिः समेन च।
न शत्रुमवमन्येत ज्यायान् कुर्वीत विग्रहम् ॥ ६.३५.९ ॥
衰弱的国王应与势均力敌者讲和;不可轻视敌人;强者则可以发动战争。
6.35.10
तन्मह्यं रोचते संधिः सह रामेण रावण।
यदर्थमभियुक्तोऽसि सीता तस्मै प्रदीयताम् ॥ ६.३५.१० ॥
罗波那啊,我愿与罗摩讲和。你所因而被控之人悉多,应当交还给他。
6.35.11
तस्य देवर्षयः सर्वे गन्धर्वाश्च जयैषिणः।
विरोधं मा गमस्तेन संधिस्ते तेन रोचताम् ॥ ६.३५.११ ॥
所有天仙圣人与乾闼婆都希望他获胜。你不要与他为敌,愿与他讲和才合你的心意。
6.35.12
असृजद् भगवान् पक्षौ द्वावेव हि पितामहः।
सुराणामसुराणां च धर्माधर्मौ तदाश्रयौ ॥ ६.३५.१२ ॥
尊贵的祖父(梵天)只创造了两方——天神与阿修罗;他们所依托的是法与非法。
6.35.13
धर्मो हि श्रूयते पक्ष अमराणां महात्मनाम्।
अधर्मो रक्षसां पक्षो ह्यसुराणां च राक्षस ॥ ६.३५.१३ ॥
据说法(dharma)是伟大的不死者一方,非法(adharma)是罗刹的一方。啊,罗刹,阿修罗的一方也是如此。
6.35.14
धर्मो वै ग्रसतेऽधर्मं यदा कृतमभूद् युगम्।
अधर्मो ग्रसते धर्मं यदा तिष्यः प्रवर्तते ॥ ६.३५.१४ ॥
当圆满时代(Kṛta)存在时,法吞没非法;当提希亚时代(Tiṣya)到来时,非法吞没法。
6.35.15
तत् त्वया चरता लोकान् धर्मोऽपि निहतो महान्।
अधर्मः प्रगृहीतश्च तेनास्मद् बलिनः परे ॥ ६.३५.१५ ॥
因此,你在世间游荡时,连伟大的法也被你打倒,非法被你夺取;因此我们强大的敌人才变得强盛。
6.35.16
स प्रमादात् प्रवृद्धस्तेऽधर्मोऽहिर्ग्रसते हि नः।
विवर्धयति पक्षं च सुराणां सुरभावनः ॥ ६.३५.१६ ॥
你那因疏忽而增长的非法,像蛇一样吞噬我们;而使诸神成就者(神)则增长着神的一方。
6.35.17
विषयेषु प्रसक्तेन यत्किंचित्कारिणा त्वया।
ऋषीणामग्निकल्पानामुद्वेगो जनितो महान् ॥ ६.३५.१७ ॥
你沉溺于感官之乐,任意妄为,给那些如火般的仙人造成了巨大的困扰。
6.35.18
तेषां प्रभावो दुर्धर्षः प्रदीप्त इव पावकः।
तपसा भावितात्मानो धर्मस्यानुग्रहे रताः ॥ ६.३५.१८ ॥
他们的力量不可抵挡,如同熊熊烈火;他们以苦行净化了自身,乐于行持法的恩典。
6.35.19
मुख्यैर्यज्ञैर्यजन्त्येते तैस्तैर्यत्ते द्विजातयः।
जुह्वत्यग्नींश्च विधिवद् वेदांश्चोच्चैरधीयते ॥ ६.३५.१९ ॥
这些再生者以主要的祭祀进行供奉,各自专心于其中;依照仪轨向圣火献供,并高声诵读吠陀。
6.35.20
अभिभूय च रक्षांसि ब्रह्मघोषानुदीरयन्।
दिशो विप्रद्रुताः सर्वाः स्तनयित्नुरिवोष्णगे ॥ ६.३५.२० ॥
征服罗刹,高声诵念梵音,如同炎夏的雷鸣,一切方向都在他们面前四散奔逃。
6.35.21
ऋषीणामग्निकल्पानामग्निहोत्रसमुत्थितः।
आदत्ते रक्षसां तेजो धूमो व्याप्य दिशो दश ॥ ६.३५.२१ ॥
如火一般的仙人们的祭火升起的烟,遍布十方,夺去罗刹的光辉。
6.35.22
तेषु तेषु च देशेषु पुण्येष्वेव दृढव्रतैः।
चर्यमाणं तपस्तीव्रं संतापयति राक्षसान् ॥ ६.३५.२२ ॥
在那些圣地,坚守誓愿者所行的猛烈苦行,灼烧着罗刹。
6.35.23
देवदानवयक्षेभ्यो गृहीतश्च वरस्त्वया।
मनुष्या वानरा ऋक्षा गोलाङ्गूला महाबलाः।
बलवन्त इहागम्य गर्जन्ति दृढविक्रमाः ॥ ६.३५.२३ ॥
你从诸天、檀那婆与夜叉那里获得了恩赐;然而人类、猴子、熊与猿猴——大力、强壮、勇武坚定——来到这里,怒吼不已。
6.35.24
उत्पातान् विविधान् दृष्ट्वा घोरान् बहुविधान् बहून्।
विनाशमनुपश्यामि सर्वेषां रक्षसामहम् ॥ ६.३५.२४ ॥
我看到种种可怕的凶兆,预见到所有罗刹将要毁灭。
6.35.25
खराभिस्तनिता घोरा मेघाः प्रतिभयंकराः।
शोणितेनाभिवर्षन्ति लङ्कामुष्णेन सर्वतः ॥ ६.३५.२५ ॥
雷声刺耳轰鸣的可怕乌云,令人极度惊恐,从四面八方向楞卡倾泻热血。
6.35.26
रुदतां वाहनानां च प्रपतन्त्यश्रुबिन्दवः।
रजोध्वस्ता विवर्णाश्च न प्रभान्ति यथापुरम् ॥ ६.३५.२६ ॥
哭泣的坐骑眼中落下泪珠;它们蒙尘变色,不再像从前那样光彩照人。
6.35.27
व्याला गोमायवो गृध्रा वाश्यन्ति च सुभैरवम्।
प्रविश्य लङ्कामारामे समवायांश्च कुर्वते ॥ ६.३५.२७ ॥
猛兽、豺狼和秃鹫闯入楞卡,发出极其可怖的嚎叫,并在园林中聚集成群。
6.35.28
कालिकाः पाण्डुरैर्दन्तैः प्रहसन्त्यग्रतः स्थिताः।
स्त्रियः स्वप्नेषु मुष्णन्त्यो गृहाणि प्रतिभाष्य च ॥ ६.३५.२८ ॥
黑色的女子露出苍白的牙齿,在我们面前嘲笑;她们在梦中低语,窃取人们的房屋。
6.35.29
गृहाणां बलिकर्माणि श्वानः पर्युपभुञ्जते।
खरा गोषु प्रजायन्ते मूषका नकुलेषु च ॥ ६.३५.२९ ॥
狗吞食家中的祭品;母牛生下驴子,獴生下老鼠。
6.35.30
मार्जारा द्वीपिभिः सार्धं सूकराः शुनकैः सह।
किंनरा राक्षसैश्चापि समेयुर्मानुषैः सह ॥ ६.३५.३० ॥
猫与豹相混,野猪与狗相杂;紧那罗也与罗刹及人类交会。
6.35.31
पाण्डुरा रक्तपादाश्च विहगाः कालचोदिताः।
राक्षसानां विनाशाय कपोता विचरन्ति च ॥ ६.३५.३१ ॥
淡白色、足呈红色的鸟,受时运驱使,为罗刹的毁灭而出现,鸽子也在四处游荡。
6.35.32
चीचीकूचीति वाशन्त्यः शारिका वेश्मसु स्थिताः।
पतन्ति ग्रथिताश्चापि निर्जिताः कलहैषिभिः ॥ ६.३५.३२ ॥
鸣叫着“吃吃—库吃”,屋中的鹩哥纷纷坠落,互相缠绕,仿佛被好争斗者击败。
6.35.33
पक्षिणश्च मृगाः सर्वे प्रत्यादित्यं रुदन्ति ते।
करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः ॥ ६.३५.३३ ॥
鸟兽都面向太阳哭泣。一个可怖、丑陋、光头、黑中带黄的男子。
6.35.34
कालो गृहाणि सर्वेषां काले कालेऽन्ववेक्षते।
एतान्यन्यानि दुष्टानि निमित्तान्युत्पतन्ति च ॥ ६.३५.३४ ॥
时间时时注视着每个人的家。这些以及其他不祥的征兆正在出现。
6.35.35
विष्णुं मन्यामहे रामं मानुषं रूपमास्थितम्।
नहि मानुषमात्रोऽसौ राघवो दृढविक्रमः ॥ ६.३५.३५ ॥
我们认为化作人形的罗摩即是毗湿奴。这位勇武坚定的罗怙之子,绝非凡人。
6.35.36
येन बद्धः समुद्रे च सेतुः स परमाद्भुतः।
कुरुष्व नरराजेन संधिं रामेण रावण।
ज्ञात्वावधार्य कर्माणि क्रियतामायतिक्षमम् ॥ ६.३५.३६ ॥
罗波那啊,请与人王罗摩讲和,他曾在海上架起那座奇妙的桥梁。认清并权衡所行之事,做那对未来有利之事吧。
6.35.37
इदं वचस्तस्य निगद्य माल्यवान्
परीक्ष्य रक्षोधिपतेर्मनः पुनः।
अनुत्तमेषूत्तमपौरुषो बली
बभूव तूष्णीं समवेक्ष्य रावणम् ॥ ६.३५.३७ ॥
माल्यवान說完這番話,再次試探羅剎之主的心意;那位具有至高勇力的強者便看着羅波那,沉默不語。