Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 6.36

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

6.36.1

तत् तु माल्यवतो वाक्यं हितमुक्तं दशाननः।
न मर्षयति दुष्टात्मा कालस्य वशमागतः ॥ ६.३६.१ ॥

邪悪な心の十頭の羅刹王は、マーリヤヴァーンの有益な言葉に耐えられなかった。彼は時の支配下に入っていたのだ。

6.36.2

स बद्ध्वा भ्रुकुटिं वक्त्रे क्रोधस्य वशमागतः।
अमर्षात् परिवृत्ताक्षो माल्यवन्तमथाब्रवीत् ॥ ६.३६.२ ॥

怒りに支配された彼は眉をひそめ、苛立ちに目を剥いて、マーリヤヴァーンに言った。

6.36.3

हितबुद्ध्या यदहितं वचः परुषमुच्यते।
परपक्षं प्रविश्यैव नैतच्छ्रोत्रगतं मम ॥ ६.३६.३ ॥

善意から発せられたとしても、害をなし荒々しい言葉は敵陣に入り込んでしまった。それが私の耳に届くべきではなかった。

6.36.4

मानुषं कृपणं राममेकं शाखामृगाश्रयम्।
समर्थं मन्यसे केन त्यक्तं पित्रा वनाश्रयम् ॥ ६.३६.४ ॥

人間で哀れで孤独、猿に頼り、父に森での暮らしを強いられたこのラーマを、お前は何を根拠に有能だと思うのか。

6.36.5

रक्षसामीश्वरं मां च देवानां च भयंकरम्।
हीनं मां मन्यसे केन अहीनं सर्वविक्रमैः ॥ ६.३६.५ ॥

羅刹の王であり神々にとって恐ろしく、あらゆる武勇において劣らない私を、お前は何を根拠に劣っていると思うのか。

6.36.6

वीरद्वेषेण वा शङ्के पक्षपातेन वा रिपोः।
त्वयाहं परुषाण्युक्तो परप्रोत्साहनेन वा ॥ ६.३६.६ ॥

英雄への憎しみからか、敵への肩入れからか、あるいは敵の唆しによってか、お前が私にこのような荒々しい言葉を述べたのだと私は疑う。

6.36.7

प्रभवन्तं पदस्थं हि परुषं कोऽभिभाषते।
पण्डितः शास्त्रतत्त्वज्ञो विना प्रोत्साहनेन वा ॥ ६.३६.७ ॥

力があり高い地位にある人に、誰が厳しい言葉を投げかけるだろうか。経典の真髄を知る賢者は、励ましなしにそうはしない。

6.36.8

आनीय च वनात् सीतां पद्महीनामिव श्रियम्।
किमर्थं प्रतिदास्यामि राघवस्य भयादहम् ॥ ६.३६.८ ॥

森から連れてきたシーターは、蓮を失ったシュリーのようだ。ラーガヴァを恐れて、なぜ私が彼女を返さねばならないのか。

6.36.9

वृतं वानरकोटीभिः ससुग्रीवं सलक्ष्मणम्।
पश्य कैश्चिदहोभिश्च राघवं निहतं मया ॥ ६.३६.९ ॥

何万もの猿に囲まれ、スグリーヴァとラクシュマナとともにいるラーガヴァが、数日のうちに私によって殺されるのを見よ。

6.36.10

द्वन्द्वे यस्य न तिष्ठन्ति दैवतान्यपि संयुगे।
स कस्माद् रावणो युद्धे भयमाहारयिष्यति ॥ ६.३६.१० ॥

戦いにおいて神々さえも立ちはだかれない者が、なぜラーヴァナが戦で恐怖を抱くことがあろうか。

6.36.11

द्विधा भज्येयमप्येवं न नमेयं तु कस्यचित्।
एष मे सहजो दोषः स्वभावो दुरतिक्रमः ॥ ६.३६.११ ॥

たとえ二つに割れようとも、誰にも頭を下げはしない。これは私に生まれつき備わった欠点であり、私の性質は克服しがたい。

6.36.12

यदि तावत् समुद्रे तु सेतुर्बद्धो यदृच्छया।
रामेण विस्मयः कोऽत्र येन ते भयमागतम् ॥ ६.३६.१२ ॥

ラーマが偶然海に橋を架けたのだとしても、何が驚くことがあろうか。それでお前は恐れを抱いたのか。

6.36.13

स तु तीर्त्वार्णवं रामः सह वानरसेनया।
प्रतिजानामि ते सत्यं न जीवन् प्रतियास्यति ॥ ६.३६.१३ ॥

ラーマは猿の軍勢とともに大海を渡ってくるだろう。真実にお前に誓う、彼は生きて帰ることはない。

6.36.14

एवं ब्रुवाणं संरब्धं रुष्टं विज्ञाय रावणम्।
व्रीडितो माल्यवान् वाक्यं नोत्तरं प्रत्यपद्यत ॥ ६.३६.१४ ॥

このように怒り狂って話すラーヴァナを見て、マーリヤヴァーンは恥じ入り、答えることができなかった。

6.36.15

जयाशिषा तु राजानं वर्धयित्वा यथोचितम्।
माल्यवानभ्यनुज्ञातो जगाम स्वं निवेशनम् ॥ ६.३६.१५ ॥

王に勝利の祝福を相応しく与え、許しを得てマーリヤヴァーンは自分の住居へ去った。

6.36.16

रावणस्तु सहामात्यो मन्त्रयित्वा विमृश्य च।
लङ्कायास्तु तदा गुप्तिं कारयामास राक्षसः ॥ ६.३६.१६ ॥

その後、羅刹ラーヴァナは大臣たちと相談し熟慮して、ランカーの防備を整えさせた。

6.36.17

व्यादिदेश च पूर्वस्यां प्रहस्तं द्वारि राक्षसम्।
दक्षिणस्यां महावीर्यौ महापार्श्वमहोदरौ ॥ ६.३६.१७ ॥

東門には羅刹プラハスタを配置し、南には大力のマハーパールシュヴァとマハーウダラを配置した。

6.36.18

पश्चिमायामथ द्वारि पुत्रमिन्द्रजितं तदा।
व्यादिदेश महामायं राक्षसैर्बहुभिर्वृतम् ॥ ६.३६.१८ ॥

次に西門には息子インドラジットを配置した。彼は大いなる幻術の使い手で、多くの羅刹に囲まれていた。

6.36.19

उत्तरस्यां पुरद्वारि व्यादिश्य शुकसारणौ।
स्वयं चात्र गमिष्यामि मन्त्रिणस्तानुवाच ह ॥ ६.३६.१९ ॥

北の城門にシュカとサーラナを配置した後、彼は大臣たちに言った。「私自身がここへ行こう。」

6.36.20

राक्षसं तु विरूपाक्षं महावीर्यपराक्रमम्।
मध्यमेऽस्थापयद् गुल्मे बहुभिः सह राक्षसैः ॥ ६.३६.२० ॥

大いなる勇気と武勇を持つ羅刹ヴィルーパークシャを、多くの羅刹とともに中央の部隊に配置した。

6.36.21

एवं विधानं लङ्कायां कृत्वा राक्षसपुंगवः।
कृतकृत्यमिवात्मानं मन्यते कालचोदितः ॥ ६.३६.२१ ॥

ラーンカーでこのように手配を整えた羅刹の長は、時に駆られて、自らの務めを果たしたかのように思った。

6.36.22

विसर्जयामास ततः स मन्त्रिणो
विधानमाज्ञाप्य पुरस्य पुष्कलम्।
जयाशिषा मन्त्रिगणेन पूजितो
विवेश सोऽन्तःपुरमृद्धिमन्महत् ॥ ६.३६.२२ ॥

その後、都の防備の全体を命じて大臣たちを退出させ、勝利の祝福を受けて大臣たちに敬われ、壮麗で広大な後宮に入った。