Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 6.38

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.38.1

स तु कृत्वा सुवेलस्य मतिमारोहणं प्रति।
लक्ष्मणानुगतो रामः सुग्रीवमिदमब्रवीत् ॥ ६.३८.१ ॥

罗摩与罗什曼那同行,决定攀登苏维罗山,于是对须羯哩婆说了这番话。

6.38.2

विभीषणं च धर्मज्ञमनुरक्तं निशाचरम्।
मन्त्रज्ञं च विधिज्ञं च श्लक्ष्णया परया गिरा ॥ ६.३८.२ ॥

罗摩以极其温和的声音对知法、忠诚的罗刹维毗沙那,以及通晓谋略与礼仪的人说道。

6.38.3

सुवेलं साधु शैलेन्द्रमिमं धातुशतैश्चितम्।
अध्यारोहामहे सर्वे वत्स्यामोऽत्र निशामिमाम् ॥ ६.३८.३ ॥

我们都登上这座优美的山王苏维罗,它布满百道矿脉,今夜便在此留宿。

6.38.4

लङ्कां चालोकयिष्यामो निलयं तस्य रक्षसः।
येन मे मरणान्ताय हृता भार्या दुरात्मना ॥ ६.३८.४ ॥

我们要看看楞伽城和那罗刹的住处——那恶徒夺走我的妻子,是要置我于死地。

6.38.5

येन धर्मो न विज्ञातो न वृत्तं न कुलं तथा।
राक्षस्या नीचया बुद्ध्या येन तद् गर्हितं कृतम् ॥ ६.३८.५ ॥

他既不知法,也不知德行与家族,受一个卑劣罗刹女的低劣心念驱使,做出了这件可耻之事。

6.38.6

तस्मिन् मे वर्तते रोषः कीर्तिते राक्षसाधमे।
यस्यापराधान्नीचस्य वधं द्रक्ष्यामि रक्षसाम् ॥ ६.३८.६ ॥

一提到那最卑劣的罗刹,我的怒火便升起;因这卑鄙者的罪过,我将亲眼看见罗刹们的覆灭。

6.38.7

एको हि कुरुते पापं कालपाशवशं गतः।
नीचेनात्मापचारेण कुलं तेन विनश्यति ॥ ६.३८.७ ॥

唯有一人作恶,陷入时间(Kāla)的绳索之中;因这卑劣者自己的过犯,其整个族系便归于毁灭。

6.38.8

एवं सम्मन्त्रयन् नेव सक्रोधो रावणं प्रति।
रामः सुवेलं वासाय चित्रसानुमुपारुहत् ॥ ६.३८.८ ॥

如此,罗摩怀着对罗波那的愤怒商议之际,登上了有着光亮峰顶的苏维罗山,前去歇息。

6.38.9

पृष्ठतो लक्ष्मणश्चैनमन्वगच्छत् समाहितः।
सशरं चापमुद्यम्य सुमहद्विक्रमे रतः ॥ ६.३८.९ ॥

罗什曼那也专心地跟随在他身后,手持弓箭,专注于大无畏的勇武。

6.38.10

तमन्वारोहत् सुग्रीवः सामात्यः सविभीषणः।
हनुमानङ्गदो नीलो मैन्दो द्विविद एव च ॥ ६.३८.१० ॥

随后,苏格里瓦携大臣与维毗沙那也登上了山;哈努曼、安伽陀、尼罗、曼达与德维维达也在其中。

6.38.11

गजो गवाक्षो गवयः शरभो गन्धमादनः।
पनसः कुमुदश्चैव हरो रम्भश्च यूथपः ॥ ६.३८.११ ॥

迦阇、伽婆叉、伽婆耶、舍罗婆、乾陀摩陀那、波那娑、俱牟陀、诃罗,以及群长楞婆。

6.38.12

जाम्बवांश्च सुषेणश्च ऋषभश्च महामतिः।
दुर्मुखश्च महातेजास्तथा शतवलिः कपिः ॥ ६.३८.१२ ॥

熊王遮婆梵、苏舍那,大智慧的里沙婆,大光辉的杜尔穆卡,以及猴子舍达跋利。

6.38.13

एते चान्ये च बहवो वानराः शीघ्रगामिनः।
ते वायुवेगप्रवणास्तं गिरिं गिरिचारिणः ॥ ६.३८.१३ ॥

这些以及许多其他迅捷的猴族战士,疾如风,行于山间,向那座山进发。

6.38.14

अध्यारोहन्त शतशः सुवेलं यत्र राघवः।
ते त्वदीर्घेण कालेन गिरिमारुह्य सर्वतः ॥ ६.३८.१४ ॥

数以百计的猴族战士登上了苏维罗山,罗غava(罗怙后裔)所在之处。他们不费多时,从四面登上了那座山。

6.38.15

ददृशुः शिखरे तस्य विषक्तामिव खे पुरीम्।
तां शुभां प्रवरद्वारां प्राकारवरशोभिताम् ॥ ६.३८.१५ ॥

他们从山峰上望见那座城市,仿佛悬挂在空中,美丽而有殊胜的城门,以殊胜的城墙装饰。

6.38.16

लङ्कां राक्षससम्पूर्णां ददृशुर्हरियूथपाः।
प्राकारवरसंस्थैश्च तथा नीलैश्च राक्षसैः ॥ ६.३८.१६ ॥

猴群的首领们看见了充满罗刹的楞伽城,看见了站在殊胜城墙上的罗刹,也看见了蓝色的罗刹。

6.38.17

ददृशुस्ते हरिश्रेष्ठाः प्राकारमपरं कृतम् ॥ ६.३८.१७ ॥

那些猴族的英杰看见了另一道已筑成的城墙。

6.38.18

ते दृष्ट्वा वानराः सर्वे राक्षसान् युद्धकाङ्क्षिणः।
मुमुचुर्विविधान् नादांस्तस्य रामस्य पश्यतः ॥ ६.३८.१८ ॥

众猴族看见渴望战斗的罗刹,便在罗摩注视之下,发出各种吼声。

6.38.19

ततोऽस्तमगमत् सूर्यः संध्यया प्रतिरञ्जितः।
पूर्णचन्द्रप्रदीप्ता च क्षपा समतिवर्तत ॥ ६.३८.१९ ॥

于是太阳在晚霞映照下落山了,被满月照亮的夜晚缓缓推移。

6.38.20

ततः स रामो हरिवाहिनीपति-
र्विभीषणेन प्रतिनन्द्य सत्कृतः।
सलक्ष्मणो यूथपयूथसंयुतः
सुवेलपृष्ठे न्यवसद् यथासुखम् ॥ ६.३८.२० ॥

于是猴军统帅罗摩受到毗भीषण的欢迎与敬重,与罗什曼那及众统领的部众一同,安然住在苏维罗山的山脊上。