蚁垤《罗摩衍那》 · 篇 6.4
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.4.1
श्रुत्वा हनूमतो वाक्यं यथावदनुपूर्वशः।
ततोऽब्रवीन्महातेजा रामः सत्यपराक्रमः ॥ ६.४.१ ॥
罗摩光辉无比、真正勇武,听完哈努曼的话,依次一一听闻之后,便说道:
6.4.2
यन्निवेदयसे लङ्कां पुरीं भीमस्य रक्षसः।
क्षिप्रमेनां वधिष्यामि सत्यमेतद् ब्रवीमि ते ॥ ६.४.२ ॥
你所描述的恐怖罗刹之城楞伽,我很快便会将它摧毁。这是我对你说的实话。
6.4.3
अस्मिन् मुहूर्ते सुग्रीव प्रयाणमभिरोचय।
युक्तो मुहूर्ते विजये प्राप्तो मध्यं दिवाकरः ॥ ६.४.३ ॥
苏羯罗婆啊,就在此刻下令出发吧;在这吉祥的胜利时刻,太阳已升至中天。
6.4.4
सीतां हृत्वा तु तद् यातु क्वासौ यास्यति जीवितः।
सीता श्रुत्वाभियानं मे आशामेष्यति जीविते।
जीवितान्तेऽमृतं स्पृष्ट्वा पीत्वामृतमिवातुरः ॥ ६.४.४ ॥
他劫走了悉多,无论逃往何处,又能在哪里活命呢?悉多听闻我的进军,将重新燃起生的希望,犹如濒死的病人触到甘露、饮下甘露而重获生机。
6.4.5
उत्तराफाल्गुनी ह्यद्य श्वस्तु हस्तेन योक्ष्यते।
अभिप्रयाम सुग्रीव सर्वानीकसमावृताः ॥ ६.४.५ ॥
今日是后方宿,明日它将与手宿相合;苏羯罗婆啊,让我们在全军簇拥下出发吧。
6.4.6
निमित्तानि च पश्यामि यानि प्रादुर्भवन्ति वै।
निहत्य रावणं सीतामानयिष्यामि जानकीम् ॥ ६.४.६ ॥
我也看见那些陆续出现的吉兆;斩杀罗婆那之后,我将把阁那基悉多带回来。
6.4.7
उपरिष्टाद्धि नयनं स्फुरमाणमिमं मम।
विजयं समनुप्राप्तं शंसतीव मनोरथम् ॥ ६.४.७ ॥
我的这只眼睛确实向上跳动,仿佛预示着我的心愿已获得胜利。
6.4.8
ततो वानरराजेन लक्ष्मणेन सुपूजितः।
उवाच रामो धर्मात्मा पुनरप्यर्थकोविदः ॥ ६.४.८ ॥
于是,罗摩——正直而善于权衡事理——受到猴王与罗什曼那的极大敬重,再次开口说道。
6.4.9
अग्रे यातु बलस्यास्य नीलो मार्गमवेक्षितुम्।
वृतः शतसहस्रेण वानराणां तरस्विनाम् ॥ ६.४.९ ॥
让那罗(Nīla)走在这支军队的前面去勘察道路,由十万名敏捷的猴子簇拥。
6.4.10
फलमूलवता नील शीतकाननवारिणा।
पथा मधुमता चाशु सेनां सेनापते नय ॥ ६.४.१० ॥
那罗啊,统帅!请沿着果实与块根丰富、林木清凉、水源充足的甘美道路,迅速引领大军前进。
6.4.11
दूषयेयुर्दुरात्मानः पथि मूलफलोदकम्।
राक्षसाः पथि रक्षेथास्तेभ्यस्त्वं नित्यमुद्यतः ॥ ६.४.११ ॥
邪恶的罗刹可能会污染路上的根茎、果实与水;你必须时刻保持警觉,守护道路,防范他们。
6.4.12
निम्नेषु वनदुर्गेषु वनेषु च वनौकसः।
अभिप्लुत्याभिपश्येयुः परेषां निहितं बलम् ॥ ६.४.१२ ॥
林中的猴子们穿越低地、林间险要与树林,跳跃前行,去窥探敌人隐藏的军队。
6.4.13
यत्तु फल्गु बलं किंचित् तदत्रैवोपपद्यताम्।
एतद्धि कृत्यं घोरं नो विक्रमेण प्रयुज्यताम् ॥ ६.४.१३ ॥
那些少量的兵力,就留在这里。我们这项可怕的任务,应当以勇武去完成。
6.4.14
सागरौघनिभं भीममग्रानीकं महाबलाः।
कपिसिंहाः प्रकर्षन्तु शतशोऽथ सहस्रशः ॥ ६.४.१४ ॥
愿大力的猴中雄狮,率领这如海潮般可怕的先锋大军,成百上千地向前推进。
6.4.15
गजश्च गिरिसंकाशो गवयश्च महाबलः।
गवाक्षश्चाग्रतो यातु गवां दृप्त इवर्षभः ॥ ६.४.१५ ॥
愿如山岳的迦阇、大力的牛吠,以及牛目,走在前面,如同骄傲的公牛走在牛群之前。
6.4.16
यातु वानरवाहिन्या वानरः प्लवतां पतिः।
पालयन् दक्षिणं पार्श्वमृषभो वानरर्षभः ॥ ६.४.१६ ॥
愿那位跳跃者之主的猴王,护卫猴军的右翼前行;他就是猴中之最、如牛王般的利舍跋。
6.4.17
गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः।
यातु वानरवाहिन्याः सव्यं पार्श्वमधिष्ठितः ॥ ६.४.१७ ॥
愿如发情象般不可抵挡、迅捷有力的乾陀摩陀那,立于猴军左翼前行。
6.4.18
यास्यामि बलमध्येऽहं बलौघमभिहर्षयन्।
अधिरुह्य हनूमन्तमैरावतमिवेश्वरः ॥ ६.४.१८ ॥
我将骑在哈努曼身上,行于军队中央,激励猴军的洪流,如同众神之主(因陀罗)骑乘爱罗婆多。
6.4.19
अङ्गदेनैष संयातु लक्ष्मणश्चान्तकोपमः।
सार्वभौमेन भूतेशो द्रविणाधिपतिर्यथा ॥ ६.४.१९ ॥
愿如死神般的罗什曼那与安伽达同行,正如众生之主与财神随普世之王同往。
6.4.20
जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः।
ऋक्षराजो महाबाहुः कुक्षिं रक्षन्तु ते त्रयः ॥ ६.४.२० ॥
耆槃婆与苏舍那、名为速见的猴子,以及大臂熊王——愿这三者护卫你的侧翼。
6.4.21
राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः।
व्यादिदेश महावीर्यो वानरान् वानरर्षभः ॥ ६.४.२१ ॥
罗怙之子的话语入耳后,统帅苏羯哩婆——大勇之猴中的雄牛——向众猴下达了命令。
6.4.22
ते वानरगणाः सर्वे समुत्पत्य महौजसः।
गुहाभ्यः शिखरेभ्यश्च आशु पुप्लुविरे तदा ॥ ६.४.२२ ॥
那些大力的猴群,全都从洞穴与峰顶跃起,立即纵身而去。
6.4.23
ततो वानरराजेन लक्ष्मणेन च पूजितः।
जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् ॥ ६.४.२३ ॥
于是,被猴王与罗什曼那所尊敬的法心之罗摩,率领大军向南方而行。
6.4.24
शतैः शतसहस्रैश्च कोटिभिश्चायुतैरपि।
वारणाभैश्च हरिभिर्ययौ परिवृतस्तदा ॥ ६.४.२४ ॥
被成百上千、数十万、数千万、数万如象般的猴众所环绕,他随即启程。
6.4.25
तं यान्तमनुयान्ती सा महती हरिवाहिनी।
हृष्टाः प्रमुदिताः सर्वे सुग्रीवेणापि पालिताः ॥ ६.४.२५ ॥
他前行时,那支庞大的猴军紧随其后;众人皆欢喜雀跃,由须揭利亲自护卫。
6.4.26
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः।
क्ष्वेलन्तो निनदन्तश्च जग्मुर्वै दक्षिणां दिशम् ॥ ६.४.२६ ॥
众猴跳跃、腾跃、吼叫、呼喊,朝南方而去。
6.4.27
भक्षयन्तः सुगन्धीनि मधूनि च फलानि च।
उद्वहन्तो महावृक्षान् मञ्जरीपुञ्जधारिणः ॥ ६.४.२७ ॥
食用芬芳的蜂蜜与果实,扛着大树,手持成串的花穗。
6.4.28
अन्योन्यं सहसा दृप्ता निर्वहन्ति क्षिपन्ति च।
पतन्तश्चोत्पतन्त्यन्ये पातयन्त्यपरे परान् ॥ ६.४.२८ ॥
有些猴子兴奋异常,忽然将彼此举起抛掷;有的跌倒,有的跃起,还有的把别的猴子打倒。
6.4.30
रावणो नो निहन्तव्यः सर्वे च रजनीचराः।
पुरस्तादृषभो नीलो वीरः कुमुद एव च।
पन्थानं शोधयन्ति स्म वानरैर्बहुभिः सह ॥ ६.४.३० ॥
“罗波那和所有夜行的罗刹,都必须由我们诛灭。”前方,里沙跋、尼罗、英雄俱牟陀等与众多猴子一同开辟道路。
6.4.31
मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च।
बलिभिर्बहुभिर्भीमैर्वृतः शत्रुनिबर्हणः ॥ ६.४.३१ ॥
中央是国王须揭利、罗摩与罗什曼那,被众多可畏的勇猛战士环绕,皆为歼灭敌人者。
6.4.32
हरिः शतबलिर्वीरः कोटिभिर्दशभिर्वृतः।
सर्वामेको ह्यवष्टभ्य ररक्ष हरिवाहिनीम् ॥ ६.४.३२ ॥
英勇的猴将百力(Śatabali)被十俱胝猴众环绕,他一人支撑并守护着整个猴军。
6.4.33
कोटीशतपरीवारः केसरी पनसो गजः।
अर्कश्च बहुभिः पार्श्वमेकं तस्याभिरक्षति ॥ ६.४.३३ ॥
凯萨里、帕那萨、迦贾与阿迦,被数百俱胝猴众环绕,与众多猴子一同守护军队的一侧。
6.4.34
सुषेणो जाम्बवांश्चैव ऋक्षैर्बहुभिरावृतौ।
सुग्रीवं पुरतः कृत्वा जघनं संररक्षतुः ॥ ६.४.३४ ॥
苏舍那与熊王遮婆梵,二人皆被众多熊群环绕,将须羯哩婆置于前方,全力守护军队的后尾。
6.4.35
तेषां सेनापतिर्वीरो नीलो वानरपुंगवः।
सम्पतन् प्लवतां श्रेष्ठस्तद् बलं पर्यवारयत् ॥ ६.४.३५ ॥
他们的统帅英雄那罗(Nīla),是猴中之最、跳跃者中之首,他疾驰而来,从四面将那军队围护起来。
6.4.36
दरीमुखः प्रजङ्घश्च जम्भोऽथ रभसः कपिः।
सर्वतश्च ययुर्वीरास्त्वरयन्तः प्लवंगमान् ॥ ६.४.३६ ॥
英勇的猴将达里木迦、普罗养伽、占婆与罗婆萨,奔走四方,催促那些跳跃的猴子。
6.4.37
एवं ते हरिशार्दूला गच्छन्ति बलदर्पिताः।
अपश्यन्त गिरिश्रेष्ठं सह्यं गिरिशतायुतम् ॥ ६.४.३७ ॥
这些以力量自豪的猴中猛虎如此前行,看见了群山之首、拥有千百峰峦的萨希耶山。
6.4.38
सरांसि च सुफुल्लानि तटाकानि वराणि च।
रामस्य शासनं ज्ञात्वा भीमकोपस्य भीतवत् ॥ ६.४.३८ ॥
知道罗摩的命令和他可怕的愤怒,盛开花朵的湖泊和优良的池塘仿佛都惊恐起来。
6.4.39
वर्जयन् नागराभ्याशांस्तथा जनपदानपि।
सागरौघनिभं भीमं तद् वानरबलं महत् ॥ ६.४.३९ ॥
避开城市附近的地区,那支庞大可怕的猴兵如同海浪般前进。
6.4.40
निःससर्प महाघोरं भीमघोषमिवार्णवम्।
तस्य दाशरथेः पार्श्वे शूरास्ते कपिकुञ्जराः ॥ ६.४.४० ॥
伴着可怕的吼声,那军队如海洋般涌出;在十车王之子罗摩身旁,那些英勇的猴中象王前行。
6.4.41
तूर्णमापुप्लुवुः सर्वे सदश्वा इव चोदिताः।
कपिभ्यामुह्यमानौ तौ शुशुभाते नरर्षभौ ॥ ६.४.४१ ॥
众猴迅速跃起,如同受驱策的良马;被猴子们扛着的那两位人中雄牛闪耀光辉。
6.4.42
महद्भ्यामिव संस्पृष्टौ ग्रहाभ्यां चन्द्रभास्करौ।
ततो वानरराजेन लक्ष्मणेन सुपूजितः ॥ ६.४.४२ ॥
如同被两颗大行星触及的日月,那两位闪耀。然后,罗摩受到猴王与罗什曼那的隆重礼敬……
6.4.43
जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम्।
तमङ्गदगतो रामं लक्ष्मणः शुभया गिरा ॥ ६.४.४३ ॥
德行高尚的罗摩率军向南方前进。罗什曼那以吉祥的言辞对坐在安加达背上的罗摩说道……
6.4.44
उवाच परिपूर्णार्थं पूर्णार्थप्रतिभानवान्।
हृतामवाप्य वैदेहीं क्षिप्रं हत्वा च रावणम् ॥ ६.४.४४ ॥
圆满之志、洞悉圆满之义的罗什曼那说道:“夺回毗提诃,并迅速杀死罗波那之后……”
6.4.45
समृद्धार्थः समृद्धार्थामयोध्यां प्रतियास्यसि।
महान्ति च निमित्तानि दिवि भूमौ च राघव ॥ ६.४.४५ ॥
罗怙之裔啊,你的志愿已成;你将回到繁荣的阿逾陀。天空与大地上出现了大吉之兆。
6.4.46
शुभानि तव पश्यामि सर्वाण्येवार्थसिद्धये।
अनुवाति शिवो वायुः सेनां मृदुहितः सुखः ॥ ६.४.४६ ॥
我看到一切吉兆,预示你的志愿必将成就:温和、有益、令人愉悦的吉风吹拂着大军。
6.4.47
पूर्णवल्गुस्वराश्चेमे प्रवदन्ति मृगद्विजाः।
प्रसन्नाश्च दिशः सर्वा विमलश्च दिवाकरः ॥ ६.४.४७ ॥
这些禽兽以圆润悦耳的声音鸣叫;四方明净,太阳清朗无瑕。
6.4.48
उशना च प्रसन्नार्चिरनु त्वां भार्गवो गतः।
ब्रह्मराशिर्विशुद्धश्च शुद्धाश्च परमर्षयः।
अर्चिष्मन्तः प्रकाशन्ते ध्रुवं सर्वे प्रदक्षिणम् ॥ ६.४.४८ ॥
婆利古之子乌莎那以清明之光随你而行;清净的梵天星座与纯净的大仙光辉闪耀,必定顺时针运行。
6.4.49
त्रिशङ्कुर्विमलो भाति राजर्षिः सपुरोहितः।
पितामहः पुरोऽस्माकमिक्ष्वाकूणां महात्मनाम् ॥ ६.४.४९ ॥
纯净的王仙特里山古与他的祭司一同闪耀;他在我们前方,是高贵的伊刹婆迦族的始祖。
6.4.50
विमले च प्रकाशेते विशाखे निरुपद्रवे।
नक्षत्रं परमस्माकमिक्ष्वाकूणां महात्मनाम् ॥ ६.४.५० ॥
清澈无扰的毗舍佉星宿闪耀,那是伟大的甘蔗王族的最尊星宿。
6.4.51
नैर्ऋतं नैर्ऋतानां च नक्षत्रमतिपीड्यते।
मूलो मूलवता स्पृष्टो धूप्यते धूमकेतुना ॥ ६.४.५१ ॥
罗刹的涅栗多星宿遭受重创;根星被有根者触及,并被彗星熏烧。
6.4.52
सर्वं चैतद् विनाशाय राक्षसानामुपस्थितम्।
काले कालगृहीतानां नक्षत्रं ग्रहपीडितम् ॥ ६.४.५२ ॥
这一切都已降临,用以毁灭罗刹;被时间所执者的星宿,正被行星所困扰。
6.4.53
प्रसन्नाः सुरसाश्चापो वनानि फलवन्ति च।
प्रवान्ति नाधिका गन्धा यथर्तुकुसुमा द्रुमाः ॥ ६.४.५३ ॥
水清而甘甜,林中硕果累累,芳香的风吹拂而不过烈,树木依时节开花。
6.4.54
व्यूढानि कपिसैन्यानि प्रकाशन्तेऽधिकं प्रभो।
देवानामिव सैन्यानि संग्रामे तारकामये।
एवमार्य समीक्ष्यैतत् प्रीतो भवितुमर्हसि ॥ ६.४.५४ ॥
主上啊,列阵的猴军光辉耀眼,如同天神在与塔拉卡的战斗中之军。尊者,见此景象,您理应欢喜。
6.4.55
अथावृत्य महीं कृत्स्नां जगाम हरिवाहिनी ॥ ६.४.५५ ॥
于是猴军遮蔽整个大地,启程前进。
6.4.56
ऋक्षवानरशार्दूलैर्नखद्रंष्ट्रायुधैरपि।
कराग्रैश्चरणाग्रैश्च वानरैरुद्धतं रजः ॥ ६.४.५६ ॥
熊与猴中的猛虎们——以爪与牙为武器——以及猴子们用手掌和脚尖扬起的尘土,高高升起。
6.4.57
भीममन्तर्दधे लोकं निवार्य सवितुः प्रभाम्।
सपर्वतवनाकाशं दक्षिणां हरिवाहिनी ॥ ६.४.५७ ॥
猴子大军遮蔽了阳光,使世界陷入可怕的昏暗,与山岳、森林和天空一同向南进发。
6.4.58
छादयन्ती ययौ भीमा द्यामिवाम्बुदसंततिः।
उत्तरन्त्याश्च सेनायाः सततं बहुयोजनम् ॥ ६.४.५८ ॥
войско, как гряда туч, ужасно застилая небо, шло вперёд, и, переходя, непрерывно преодолевало многие йоджаны.
6.4.59
नदीस्रोतांसि सर्वाणि सस्यन्दुर्विपरीतवत्।
सरांसि विमलाम्भांसि द्रुमाकीर्णांश्च पर्वतान् ॥ ६.४.५९ ॥
所有河流的水道都逆向流动;清澈湖水与密布树木的山岳也都如此。
6.4.60
समान् भूमिप्रदेशांश्च वनानि फलवन्ति च।
मध्येन च समन्ताच्च तिर्यक् चाधश्च साविशत् ॥ ६.४.६० ॥
平坦的原野与果实累累的森林;大军从中间、四面八方、斜向乃至下方深入其间。
6.4.61
समावृत्य महीं कृत्स्नां जगाम महती चमूः।
ते हृष्टवदनाः सर्वे जग्मुर्मारुतरंहसः ॥ ६.४.६१ ॥
大军遮蔽整个大地前进;他们个个面带喜色,疾行如风。
6.4.62
हरयो राघवस्यार्थे समारोपितविक्रमाः।
हर्षं वीर्यं बलोद्रेकान् दर्शयन्तः परस्परम् ॥ ६.४.६२ ॥
为了罗伽瓦,勇气被激发的猴子们一路向彼此展示喜悦、勇气与力量的奔涌。
6.4.63
यौवनोत्सेकजाद् दर्पाद् विविधांश्चक्रुरध्वनि।
तत्र केचिद् द्रुतं जग्मुरुत्पेतुश्च तथापरे ॥ ६.४.६३ ॥
因青春的豪情而生的傲气,他们在路上做出种种嬉戏。那里有的飞奔而去,有的则跃身腾起。
6.4.64
केचित् किलकिलां चक्रुर्वानरा वनगोचराः।
प्रास्फोटयंश्च पुच्छानि संनिजघ्नुः पदान्यपि ॥ ६.४.६४ ॥
林中游走的猴子中有些发出欢快的叫声;它们拍打着尾巴,也用脚猛烈地跺地。
6.4.65
भुजान् विक्षिप्य शैलांश्च द्रुमानन्ये बभञ्जिरे।
आरोहन्तश्च शृङ्गाणि गिरीणां गिरिगोचराः ॥ ६.४.६५ ॥
有的挥舞双臂推倒山岳,有的折断树木;居于山中的猴子攀上山峰的顶端。
6.4.66
महानादान् प्रमुञ्चन्ति क्ष्वेडामन्ये प्रचक्रिरे।
ऊरुवेगैश्च ममृदुर्लताजालान्यनेकशः ॥ ६.४.६६ ॥
有的发出巨大的吼声,有的发出凶猛的啸叫;他们凭借大腿的冲力,在许多地方踩碎了缠结的藤蔓。
6.4.67
जृम्भमाणाश्च विक्रान्ता विचिक्रीडुः शिलाद्रुमैः।
ततः शतसहस्रैश्च कोटिभिश्च सहस्रशः ॥ ६.४.६७ ॥
这些勇猛的猴子打着哈欠、伸展身体,与岩石和树木嬉戏。随后,成千上万、数以千万计的猴军向前推进。
6.4.68
वानराणां सुघोराणां श्रीमत्परिवृता मही।
सा स्म याति दिवारात्रं महती हरिवाहिनी ॥ ६.४.६८ ॥
大地充满凶猛的猴族(伐那罗),被光辉环绕;那支庞大的猴军日夜不停地前行。
6.4.69
प्रहृष्टमुदिताः सर्वे सुग्रीवेणाभिपालिताः।
वानरास्त्वरिता यान्ति सर्वे युद्धाभिनन्दिनः।
प्रमोक्षयिषवः सीतां मुहूर्तं क्वापि नावसन् ॥ ६.४.६९ ॥
受须羯哩婆保护的诸伐那罗都欢欣鼓舞;他们都乐于战斗,想要解救悉多,急速前行,一刻也不曾停留。
6.4.70
ततः पादपसम्बाधं नानावनसमायुतम्।
सह्यपर्वतमासाद्य वानरास्ते समारुहन् ॥ ६.४.७० ॥
随后,他们抵达了树木密布、林木众多的萨希亚山,那些伐那罗便攀登上去。
6.4.71
काननानि विचित्राणि नदीप्रस्रवणानि च।
पश्यन्नपि ययौ रामः सह्यस्य मलयस्य च ॥ ६.४.७१ ॥
罗摩一边观赏奇妙的森林、河流与泉水,一边沿着萨希亚山与摩罗耶山前行。
6.4.72
चम्पकांस्तिलकांश्चूतानशोकान् सिन्दुवारकान्।
तिनिशान् करवीरांश्च भञ्जन्ति स्म प्लवंगमाः ॥ ६.४.७२ ॥
那些跳跃的猴子折断了瞻波、底罗迦、芒果、无忧、信度婆罗、底尼舍与羯罗毗罗等树木。
6.4.73
अङ्कोलांश्च करञ्जांश्च प्लक्षन्यग्रोधपादपान्।
जम्बूकामलकान् नीपान् भञ्जन्ति स्म प्लवंगमाः ॥ ६.४.७३ ॥
那些跳跃的猴子折断了安科罗、羯罗阇、波罗叉与榕树、赡部与余甘子以及尼跋树。
6.4.74
प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः।
वायुवेगप्रचलिताः पुष्पैरवकिरन्ति तान् ॥ ६.४.७४ ॥
在美丽的岩石上,林中各种树木被风力吹动,向他们纷纷洒下花朵。
6.4.75
मारुतः सुखसंस्पर्शो वाति चन्दनशीतलः।
षट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु ॥ ६.४.७५ ॥
一阵触感宜人、凉如檀香的微风吹过,蜜蜂在充满蜜香的林中嗡嗡作响。
6.4.76
अधिकं शैलराजस्तु धातुभिस्तु विभूषितः।
धातुभ्यः प्रसृतो रेणुर्वायुवेगेन घट्टितः ॥ ६.४.७६ ॥
这座山中之王以矿石格外装饰;矿石中的尘土被风力吹扬,四散开来。
6.4.77
सुमहद्वानरानीकं छादयामास सर्वतः।
गिरिप्रस्थेषु रम्येषु सर्वतः सम्प्रपुष्पिताः ॥ ६.४.७७ ॥
庞大的猴子大军从四面八方覆盖了山峦;在美丽的山坡高原上,到处花开正盛。
6.4.78
केतक्यः सिन्दुवाराश्च वासन्त्यश्च मनोरमाः।
माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च पुष्पिताः ॥ ६.४.७८ ॥
草果花、榆樹花、迷人的瓦桑蒂、香气浓郁的摩陀维、昆陀灌木,全都花开满枝。
6.4.79
चिरिबिल्वा मधूकाश्च वञ्जुला बकुलास्तथा।
रञ्जकास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः ॥ ६.४.७९ ॥
赤里毗婆、摩度迦、旺朱罗、巴古罗、朗迦、提洛迦与那伽树,也都花开满枝。
6.4.80
चूताः पाटलिकाश्चैव कोविदाराश्च पुष्पिताः।
मुचुलिन्दार्जुनाश्चैव शिंशपाः कुटजास्तथा ॥ ६.४.८० ॥
芒果树、波吒利树和盛开的科维达拉树;木楚林达、阿周那、舍舍波和库吒迦树也在那里。
6.4.81
हिन्तालास्तिनिशाश्चैव चूर्णका नीपकास्तथा।
नीलाशोकाश्च सरला अङ्कोलाः पद्मकास्तथा ॥ ६.४.८१ ॥
欣塔拉棕榈、提尼舍、此尔那迦和尼波树;青阿输迦、萨罗罗、安科罗和波德摩迦树也在那里。
6.4.82
प्रीयमाणैः प्लवंगैस्तु सर्वे पर्याकुलीकृताः।
वाप्यस्तस्मिन् गिरौ रम्याः पल्वलानि तथैव च ॥ ६.४.८२ ॥
那座山上美丽的池塘和水潭,都被欢喜的猴子们搅得一片混乱。
6.4.83
चक्रवाकानुचरिताः कारण्डवनिषेविताः।
प्लवैः क्रौञ्चैश्च संकीर्णा वराहमृगसेविताः ॥ ६.४.८३ ॥
有赤麻鸭往来,有鸳鸯栖息,充满鹈鹕与鹤类,野猪与鹿时常来此。
6.4.84
ऋक्षैस्तरक्षुभिः सिंहैः शार्दूलैश्च भयावहैः।
व्यालैश्च बहुभिर्भीमैः सेव्यमानाः समन्ततः ॥ ६.४.८४ ॥
四周时常有熊、豺、狮、虎,以及许多可怕的毒蛇出没。
6.4.85
पद्मैः सौगन्धिकैः फुल्लैः कुमुदैश्चोत्पलैस्तथा।
वारिजैर्विविधैः पुष्पै रम्यास्तत्र जलाशयाः ॥ ६.४.८५ ॥
那里的湖泊以莲花、香莲、盛开的睡莲、青莲以及其他多种水生花卉而显得格外美丽。
6.4.86
तस्य सानुषु कूजन्ति नानाद्विजगणास्तथा।
स्नात्वा पीत्वोदकान्यत्र जले क्रीडन्ति वानराः ॥ ६.४.८६ ॥
山坡上也有各种鸟群啼鸣。猴子们在此沐浴饮水之后,在水中嬉戏。
6.4.87
अन्योन्यं प्लावयन्ति स्म शैलमारुह्य वानराः।
फलान्यमृतगन्धीनि मूलानि कुसुमानि च ॥ ६.४.८७ ॥
猴子们攀上山峰,互相把对方浸入水中。那里有散发甘露般香气的果实、根茎和花朵。
6.4.88
बभञ्जुर्वानरास्तत्र पादपानां मदोत्कटाः।
द्रोणमात्रप्रमाणानि लम्बमानानि वानराः ॥ ६.४.८८ ॥
猴子们醉意狂放,折断了那里垂挂的树木,每棵都有一德罗纳量那么大。
6.4.89
ययुः पिबन्तः स्वस्थास्ते मधूनि मधुपिङ्गलाः।
पादपानवभञ्जन्तो विकर्षन्तस्तथा लताः ॥ ६.४.८९ ॥
他们毛色如蜜般黄褐,饮着蜜酒,悠然离去,一路折断树木、拉扯藤蔓。
6.4.90
विधमन्तो गिरिवरान् प्रययुः प्लवगर्षभाः।
वृक्षेभ्योऽन्ये तु कपयो नदन्तो मधु दर्पिताः ॥ ६.४.९० ॥
猴中之雄撼动着最高的山峰前行,其他猴子因蜂蜜而兴奋,从树上发出吼叫。
6.4.91
अन्ये वृक्षान् प्रपद्यन्ते प्रपिबन्त्यपि चापरे।
बभूव वसुधा तैस्तु सम्पूर्णा हरिपुङ्गवैः।
यथा कमलकेदारैः पक्वैरिव वसुंधरा ॥ ६.४.९१ ॥
有的猴子爬上树,有的饮水。大地被这些猴中豪杰充满,犹如大地被成熟的莲田所充满。
6.4.92
महेन्द्रमथ सम्प्राप्य रामो राजीवलोचनः।
आरुरोह महाबाहुः शिखरं द्रुमभूषितम् ॥ ६.४.९२ ॥
罗摩眼如莲花、双臂强健,到达摩亨德罗山后,登上了林木装点的山峰。
6.4.93
ततः शिखरमारुह्य रामो दशरथात्मजः।
कूर्ममीनसमाकीर्णमपश्यत् सलिलाशयम् ॥ ६.४.९३ ॥
罗摩,十车王之子,登上山顶,看见了充满龟与鱼的水域。
6.4.94
ते सह्यं समतिक्रम्य मलयं च महागिरिम्।
आसेदुरानुपूर्व्येण समुद्रं भीमनिःस्वनम् ॥ ६.४.९४ ॥
他们越过萨希亚山与大山摩罗耶山,依次抵达了轰鸣可怖的大海。
6.4.95
अवरुह्य जगामाशु वेलावनमनुत्तमम्।
रामो रमयतां श्रेष्ठः ससुग्रीवः सलक्ष्मणः ॥ ६.४.९५ ॥
罗摩是令人欢喜者中最优秀的,他下山后与须羯里婆和罗什曼那一同迅速走向海边的殊胜林地。
6.4.96
अथ धौतोपलतलां तोयौघैः सहसोत्थितैः।
वेलामासाद्य विपुलां रामो वचनमब्रवीत् ॥ ६.४.९६ ॥
罗摩到达了广阔的海岸,岩石地面被突然涌起的水流冲洗,他于是说出了这些话。
6.4.97
एते वयमनुप्राप्ताः सुग्रीव वरुणालयम्।
इहेदानीं विचिन्ता सा या नः पूर्वमुपस्थिता ॥ ६.४.९७ ॥
须羯里婆啊,我们已经来到了水神伐楼那的居所——大海。现在我们应在此商议先前摆在我们面前的那件事。
6.4.98
अतः परमतीरोऽयं सागरः सरितां पतिः।
न चायमनुपायेन शक्यस्तरितुमर्णवः ॥ ६.४.९८ ॥
因此这片大洋,江河之主,彼岸不可见;无论用什么方法,都无法渡过这片海洋。
6.4.99
तदिहैव निवेशोऽस्तु मन्त्रः प्रस्तूयतामिह।
यथेदं वानरबलं परं पारमवाप्नुयात् ॥ ६.४.९९ ॥
因此就在此处扎营,就在此处提出计策,使这支猴军能够抵达彼岸。
6.4.100
इतीव स महाबाहुः सीताहरणकर्शितः।
रामः सागरमासाद्य वासमाज्ञापयत् तदा ॥ ६.४.१०० ॥
罗摩大臂之人,因悉多被劫而憔悴,如此说罢,抵达大海之滨,便下令扎营。
6.4.101
सर्वाः सेना निवेश्यन्तां वेलायां हरिपुङ्गव।
सम्प्राप्तो मन्त्रकालो नः सागरस्येह लङ्घने ॥ ६.४.१०१ ॥
猴中之雄啊,让所有军队在岸边驻扎;如今我们该商议渡越大海之事了。
6.4.102
स्वां स्वां सेनां समुत्सृज्य मा च कश्चित् कुतो व्रजेत्।
गच्छन्तु वानराः शूरा ज्ञेयं छन्नं भयं च नः ॥ ६.४.१०२ ॥
各自离开自己的军队,不得有任何人往别处去;让勇猛的猴子们前往那里,使我们隐藏的危险得以被察知。
6.4.103
रामस्य वचनं श्रुत्वा सुग्रीवः सहलक्ष्मणः।
सेनां निवेशयत् तीरे सागरस्य द्रुमायुते ॥ ६.४.१०३ ॥
苏格里婆听了罗摩的话,与罗什曼那一同,让军队在满是树木的大海之滨扎营。
6.4.104
विरराज समीपस्थं सागरस्य च तद् बलम्।
मधुपाण्डुजलः श्रीमान् द्वितीय इव सागरः ॥ ६.४.१०४ ॥
那支驻扎在大海旁的军队熠熠生辉,宛如另一片壮丽的海洋,其水色淡黄如蜜。
6.4.105
वेलावनमुपागम्य ततस्ते हरिपुङ्गवाः।
निविष्टाश्च परं पारं काङ्क्षमाणा महोदधेः ॥ ६.४.१०५ ॥
随后,这些猴中之雄来到海岸林中驻扎,渴望抵达大海的彼岸。
6.4.106
तेषां निविशमानानां सैन्यसंनाहनिःस्वनः।
अन्तर्धाय महानादमर्णवस्य प्रशुश्रुवे ॥ ६.४.१०६ ॥
他们驻扎之时,军中披甲整备的声响传来,连大海的雷鸣般轰响也被掩盖了。
6.4.107
सा वानराणां ध्वजिनी सुग्रीवेणाभिपालिता।
त्रिधा निविष्टा महती रामस्यार्थपराभवत् ॥ ६.४.१०७ ॥
这支由须羯里婆守护的庞大猴军分为三部驻扎,专心致力于罗摩的事业。
6.4.108
सा महार्णवमासाद्य हृष्टा वानरवाहिनी।
वायुवेगसमाधूतं पश्यमाना महार्णवम् ॥ ६.४.१०८ ॥
欢欣的猴军抵达大海,望着被风力激荡的大海。
6.4.109
दूरपारमसम्बाधं रक्षोगणनिषेवितम्।
पश्यन्तो वरुणावासं निषेदुर्हरियूथपाः ॥ ६.४.१०९ ॥
望着这片彼岸遥远、无边无际、为罗刹群所居、乃水神伐楼那之居所的大海,猴军的统帅们坐了下来。
6.4.110
चण्डनक्रग्राहघोरं क्षपादौ दिवसक्षये।
हसन्तमिव फेनौघैर्नृत्यन्तमिव चोर्मिभिः ॥ ६.४.११० ॥
夜初日暮之时,满是凶猛的鳄鱼与鲨鱼,恐怖骇人;泡沫堆积仿佛在笑,波涛起伏仿佛在舞。
6.4.111
चन्द्रोदये समुद्भूतं प्रतिचन्द्रसमाकुलम्।
चण्डानिलमहाग्राहैः कीर्णं तिमितिमिंगिलैः ॥ ६.४.१११ ॥
月升之时涌起,被映照的月影搅动,布满猛烈的风、大鲨鱼以及提米与提明吉罗鱼。
6.4.112
दीप्तभोगैरिवाकीर्णं भुजङ्गैर्वरुणालयम्।
अवगाढं महासत्त्वैर्नानाशैलसमाकुलम् ॥ ६.४.११२ ॥
水神伐楼那的居所,仿佛充满了盘身闪耀的蛇;大型生灵潜入其中,被众多山峦搅动。
6.4.113
सुदुर्गं दुर्गमार्गं तमगाधमसुरालयम्।
मकरैर्नागभोगैश्च विगाढा वातलोलिताः।
उत्पेतुश्च निपेतुश्च प्रहृष्टा जलराशयः ॥ ६.४.११३ ॥
阿修罗的居所极难穿越,道路艰险,深不可测;欢腾的水体与摩竭鱼及蛇身盘绕相混,被风吹动,时而涌起,时而跌落。
6.4.114
अग्निचूर्णमिवाविद्धं भास्वराम्बुमहोरगम्।
सुरारिनिलयं घोरं पातालविषयं सदा ॥ ६.४.११४ ॥
仿佛被火粉刺穿,水光闪耀,巨蛇游弋;是诸神之敌的可怖居所,常为地下世界之境。
6.4.115
सागरं चाम्बरप्रख्यमम्बरं सागरोपमम्।
सागरं चाम्बरं चेति निर्विशेषमदृश्यत ॥ ६.४.११५ ॥
大海仿佛天空,天空仿佛大海;如此二者浑然无别地显现。
6.4.116
सम्पृक्तं नभसाप्यम्भः सम्पृक्तं च नभोऽम्भसा।
तादृग्रूपे स्म दृश्येते तारारत्नसमाकुले ॥ ६.४.११६ ॥
水与天空相融,天空与水相连;满布如宝石般星辰的二者,看上去形态相同。
6.4.117
समुत्पतितमेघस्य वीचिमालाकुलस्य च।
विशेषो न द्वयोरासीत् सागरस्याम्बरस्य च ॥ ६.४.११७ ॥
升腾的云雾之天与被波浪之列翻涌的大海之间,已无任何分别。
6.4.118
अन्योन्यैरहताः सक्ताः सस्वनुर्भीमनिःस्वनाः।
ऊर्मयः सिन्धुराजस्य महाभेर्य इवाम्बरे ॥ ६.४.११८ ॥
海王之波相互撞击、交缠,发出可怖的轰鸣,如同天空中的巨大战鼓。
6.4.119
रत्नौघजलसंनादं विषक्तमिव वायुना।
उत्पतन्तमिव क्रुद्धं यादोगणसमाकुलम् ॥ ६.४.११९ ॥
那片大海,水声轰鸣,挟带着宝石的洪流,仿佛紧贴着风,仿佛愤怒地腾起,满是海中生灵的群聚。
6.4.120
ददृशुस्ते महात्मानो वाताहतजलाशयम्।
अनिलोद्धूतमाकाशे प्रवलान्तमिवोर्मिभिः ॥ ६.४.१२० ॥
那些大德之人看见被风击打的水域,被风卷起,在天空中因波浪而剧烈翻腾。
6.4.121
ततो विस्मयमापन्ना हरयो ददृशुः स्थिताः।
भ्रान्तोर्मिजालसंनादं प्रलोलमिव सागरम् ॥ ६.४.१२१ ॥
于是惊奇的猴群站立观望,看见那大海,波浪如乱网般翻涌轰鸣,仿佛在颤抖。