蚁垤《罗摩衍那》 · 篇 6.41
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.41.1
अथ तस्मिन् निमित्तानि दृष्ट्वा लक्ष्मणपूर्वजः।
सुग्रीवं सम्परिष्वज्य रामो वचनमब्रवीत् ॥ ६.४१.१ ॥
此时,罗什曼那的长兄罗摩见到了那里的兆象,拥抱了须羯哩婆,说出了这些话。
6.41.2
असम्मन्त्र्य मया सार्धं तदिदं साहसं कृतम्।
एवं साहसयुक्तानि न कुर्वन्ति जनेश्वराः ॥ ६.४१.२ ॥
你未与我商议便做了这件鲁莽之事。君王不会做这样冒失的事情。
6.41.3
संशये स्थाप्य मां चेदं बलं चेमं विभीषणम्।
कष्टं कृतमिदं वीर साहसं साहसप्रिय ॥ ६.४१.३ ॥
勇士啊,你使我、这支军队和这位毗婆沙那陷入危险,这件事令人痛苦。好冒险的人啊,这般鲁莽实在艰难。
6.41.4
इदानीं मा कृथा वीर एवंविधमरिंदम।
त्वयि किंचित्समापन्ने किं कार्यं सीतया मम ॥ ६.४१.४ ॥
勇士,降伏敌人者啊,今后不要再这样做了。若你有什么不测,我还要悉多何用?
6.41.5
भरतेन महाबाहो लक्ष्मणेन यवीयसा।
शत्रुघ्नेन च शत्रुघ्न स्वशरीरेण वा पुनः ॥ ६.४१.५ ॥
大臂者啊,敌人的摧毁者啊,即便有婆罗多、幼弟罗什曼那和沙特卢干那,或连我自己的身体,于我又有何意义。
6.41.6
त्वयि चानागते पूर्वमिति मे निश्चिता मतिः।
जानतश्चापि ते वीर्यं महेन्द्रवरुणोपम ॥ ६.४१.६ ॥
即便你未来之前,我的决心早已如此确定。你堪与因陀罗、伐楼那相比,我也深知你的勇力。
6.41.7
हत्वाहं रावणं युद्धे सपुत्रबलवाहनम्।
अभिषिच्य च लङ्कायां विभीषणमथापि च ॥ ६.४१.७ ॥
在战斗中杀死罗波那及其子嗣、军队与车骑,并在楞伽为维毗沙那行灌顶礼,
6.41.8
भरते राज्यमारोप्य त्यक्ष्ये देहं महाबल।
तमेवं वादिनं रामं सुग्रीवः प्रत्यभाषत ॥ ६.४१.८ ॥
把王国交付给婆罗多后,大力者啊,我将舍弃此身。
6.41.9
तव भार्यापहर्तारं दृष्ट्वा राघव रावणम्।
मर्षयामि कथं वीर जानन् विक्रममात्मनः ॥ ६.४१.९ ॥
罗怀婆啊,见到劫走你妻子的罗波那,英雄啊,我知晓自己的威勇,怎能忍受?
6.41.10
इत्येवं वादिनं वीरमभिनन्द्य च राघवः।
लक्ष्मणं लक्ष्मिसम्पन्नमिदं वचनमब्रवीत् ॥ ६.४१.१० ॥
罗怀婆赞扬了这样说话的英雄,然后对具有吉祥相的罗什曼那说了这番话。
6.41.11
परिगृह्योदकं शीतं वनानि फलवन्ति च।
बलौघं संविभज्येमं व्यूह्य तिष्ठाम लक्ष्मण ॥ ६.४१.११ ॥
占据清凉的水源和多果的林地,罗什曼那啊,让我们分割这支大军,列成阵势,坚守阵地。
6.41.12
लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम्।
निबर्हणं प्रवीराणामृक्षवानररक्षसाम् ॥ ६.४१.१२ ॥
我看见一场可怖的危难已经降临,它将毁灭诸世界,灭尽熊、猴与罗刹的大英雄。
6.41.13
वाता हि परुषं वान्ति कम्पते च वसुंधरा।
पर्वताग्राणि वेपन्ते नदन्ति धरणीधराः ॥ ६.४१.१३ ॥
狂风猛烈地吹刮,大地在颤抖。山峰摇撼,承载大地的群山轰鸣。
6.41.14
मेघाः क्रव्यादसंकाशाः परुषाः परुषस्वराः।
क्रूराः क्रूरं प्रवर्षन्ते मिश्रं शोणितबिन्दुभिः ॥ ६.४१.१४ ॥
乌云如食肉的罗刹,粗暴且声音刺耳。残酷的乌云残忍地降下夹杂着血滴的雨。
6.41.15
रक्तचन्दनसंकाशा संध्या परमदारुणा।
ज्वलच्च निपतत्येतदादित्यादग्निमण्डलम् ॥ ६.४१.१५ ॥
如红檀般的暮色极为可怖。看,一个燃烧的火轮正从太阳坠落。
6.41.16
आदित्यमभिवाश्यन्ति जनयन्तो महद्भयम्।
दीना दीनस्वरा घोरा अप्रशस्ता मृगद्विजाः ॥ ६.४१.१६ ॥
面向太阳,引起巨大的恐惧,可怜的鸟兽发出凄厉的哀鸣,可怕而不祥。
6.41.17
रजन्यामप्रकाशश्च संतापयति चन्द्रमाः।
कृष्णरक्तांशुपर्यन्तो यथा लोकस्य संक्षये ॥ ६.४१.१७ ॥
夜里失去光明的月亮灼烧着,光线边缘呈黑红色,仿佛世界毁灭之时。
6.41.18
ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषः सुलोहितः।
आदित्यमण्डले नीलं लक्ष्म लक्ष्मण दृश्यते ॥ ६.४१.१८ ॥
太阳圆盘周围有一圈短促、粗糙、不祥且殷红的光环。罗什曼那,太阳圆盘中可见一道深蓝色的印记。
6.41.19
दृश्यन्ते न यथावच्च नक्षत्राण्यभिवर्तते।
युगान्तमिव लोकस्य पश्य लक्ष्मण शंसति ॥ ६.४१.१९ ॥
星辰不再如常显现,星宿也在运行中游转。看啊,Lakṣmaṇa,这似乎预示着世界一个纪元的终结。
6.41.20
काकाः श्येनास्तथा गृध्रा नीचैः परिपतन्ति च।
शिवाश्चाप्यशुभा वाचः प्रवदन्ति महास्वनाः ॥ ६.४१.२० ॥
乌鸦、鹰隼和秃鹫向下俯冲,豺狼也发出不吉利的大声哀嚎。
6.41.21
शैलैः शूलैश्च खड्गैश्च विमुक्तैः कपिराक्षसैः।
भविष्यत्यावृता भूमिर्मांसशोणितकर्दमा ॥ ६.४१.२१ ॥
猴子与罗刹投掷的山石、长矛与刀剑将覆盖大地,大地将成为血肉泥泞。
6.41.22
क्षिप्रमद्य दुराधर्षां पुरीं रावणपालिताम्।
अभियाम जवेनैव सर्वतो हरिभिर्वृताः ॥ ६.४१.२२ ॥
今日就快速出击,由猴众环绕,从四面八方向那座由罗波那守护的坚不可摧的城池进军。
6.41.23
इत्येवं तु वदन् वीरो लक्ष्मणं लक्ष्मणाग्रजः।
तस्मादवातरच्छीघ्रं पर्वताग्रान्महाबलः ॥ ६.४१.२३ ॥
他如此对Lakṣmaṇa说完,这位英雄、Lakṣmaṇa的兄长、大力者,迅速从山峰上走了下来。
6.41.24
अवतीर्य तु धर्मात्मा तस्माच्छैलात् स राघवः।
परैः परमदुर्धर्षं ददर्श बलमात्मनः ॥ ६.४१.२४ ॥
从那座山下来后,心地正直的罗怙后裔看到了自己的军队,那是敌人极难攻破的。
6.41.25
संनह्य तु ससुग्रीवः कपिराजबलं महत्।
कालज्ञो राघवः काले संयुगायाभ्यचोदयत् ॥ ६.४१.२५ ॥
罗怙之子知晓时机,与须羯哩婆一同整饬猴王的庞大军队,在恰当的时刻催促其出征迎战。
6.41.26
ततः काले महाबाहुर्बलेन महता वृतः।
प्रस्थितः पुरतो धन्वी लङ्कामभिमुखः पुरीम् ॥ ६.४१.२६ ॥
于是在恰当的时候,臂力强大的持弓者在大军环绕下走在前面,面向楞伽城出发。
6.41.27
तं विभीषणसुग्रीवौ हनूमाञ्जाम्बवान् नलः।
ऋक्षराजस्तथा नीलो लक्ष्मणश्चान्वयुस्तदा ॥ ६.४१.२७ ॥
毗伯沙那与须羯哩婆、哈奴曼、遮婆伽、那罗、熊王,以及难陀与罗什曼那,当时都跟随在他身后。
6.41.28
ततः पश्चात् सुमहती पृतनर्क्षवनौकसाम्।
प्रच्छाद्य महतीं भूमिमनुयाति स्म राघवम् ॥ ६.४१.२८ ॥
随后,后方由熊与林中猴组成的庞大军队,遮蔽了广阔的大地,跟随在罗怙之子身后。
6.41.29
शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान्।
जगृहुः कुञ्जरप्रख्या वानराः परवारणाः ॥ ६.४१.२९ ॥
如象般的猴子,是阻挡敌人的勇士,它们抓起了成百上千的山峰与高大的树木。
6.41.30
तौ त्वदीर्घेण कालेन भ्रातरौ रामलक्ष्मणौ।
रावणस्य पुरीं लङ्कामासेदतुररिंदमौ ॥ ६.४१.३० ॥
两位兄弟罗摩与罗什曼那,乃是降伏敌人者,不久便抵达了罗波那的楞伽城。
6.41.31
पताकामालिनीं रम्यामुद्यानवनशोभिताम्।
चित्रवप्रां सुदुष्प्रापामुच्चैः प्राकारतोरणाम् ॥ ६.४१.३१ ॥
楞伽城,装饰着旗幡花环,美丽,园林与树林辉映,城墙奇妙,极难接近,高大的城墙与门楼。
6.41.32
तां सुरैरपि दुर्धर्षां रामवाक्यप्रचोदिताः।
यथानिदेशं सम्पीड्य न्यविशन्त वनौकसः ॥ ६.४१.३२ ॥
这座连诸神也难以攻克的城市,林中居住的猴众受罗摩之言驱使,依照命令挤压着进入了城中。
6.41.33
लङ्कायास्तूत्तरद्वारं शैलशृङ्गमिवोन्नतम्।
रामः सहानुजो धन्वी जुगोप च रुरोध च ॥ ६.४१.३३ ॥
楞伽城的北门高如山峰,持弓的罗摩与其幼弟一同守护并围攻了它。
6.41.34
लङ्कामुपनिविष्टस्तु रामो दशरथात्मजः।
लक्ष्मणानुचरो वीरः पुरीं रावणपालिताम् ॥ ६.४१.३४ ॥
十车王之子英雄罗摩,随从于罗什曼那,在罗波那所守护的楞伽城旁扎营驻守。
6.41.35
उत्तरद्वारमासाद्य यत्र तिष्ठति रावणः।
नान्यो रामाद्धि तद् द्वारं समर्थः परिरक्षितुम् ॥ ६.४१.३५ ॥
到达北门,罗波那就站在那里,除了罗摩,没有别人能够守住那道门。
6.41.36
रावणाधिष्ठितं भीमं वरुणेनेव सागरम्।
सायुधै राक्षसैर्भीमैरभिगुप्तं समन्ततः ॥ ६.४१.३६ ॥
那座由罗波那统治的可怖楞伽城,犹如由伐楼那统治的大海,四面都有手持兵器的凶猛罗刹守卫。
6.41.37
लघूनां त्रासजननं पातालमिव दानवैः।
विन्यस्तानि च योधानां बहूनि विविधानि च ॥ ६.४१.३७ ॥
它使弱小的猴子心生恐惧,如同充满檀那婆的地底世界;那里陈列着众多各式各样的武士兵器。
6.41.38
ददर्शायुधजालानि तथैव कवचानि च।
पूर्वं तु द्वारमासाद्य नीलो हरिचमूपतिः ॥ ६.४१.३८ ॥
他看到了成堆的兵器,也看到了铠甲。首先,猴军统帅那罗抵达城门。
6.41.39
अतिष्ठत् सह मैन्देन द्विविदेन च वीर्यवान्।
अङ्गदो दक्षिणद्वारं जग्राह सुमहाबलः ॥ ६.४१.३९ ॥
勇猛的他与猛达和双毗一同站立;大力的安伽达守住了南门。
6.41.40
ऋषभेण गवाक्षेण गजेन गवयेन च।
हनूमान् पश्चिमद्वारं ररक्ष बलवान् कपिः ॥ ६.४१.४० ॥
与利沙巴、加瓦克莎、伽阇和伽瓦耶同在。强大的猴子哈努曼守卫西门。
6.41.41
प्रमाथिप्रघसाभ्यां च वीरैरन्यैश्च संगतः।
मध्यमे च स्वयं गुल्मे सुग्रीवः समतिष्ठत ॥ ६.४१.४१ ॥
与普拉玛提、普腊伽萨及其他英雄会合,须羯里婆亲自站在中路军营中。
6.41.42
सह सर्वैर्हरिश्रेष्ठैः सुपर्णपवनोपमैः।
वानराणां तु षट्त्रिंशत्कोट्यः प्रख्यातयूथपाः ॥ ६.४१.४२ ॥
与所有如迦楼罗和风一般的猴中俊杰同在;猴军中有三千六百万名著名的群主。
6.41.43
निपीड्योपनिविष्टाश्च सुग्रीवो यत्र वानरः।
शासनेन तु रामस्य लक्ष्मणः सविभीषणः ॥ ६.४१.४३ ॥
在须羯哩婆与猴军逼近扎营之处,依罗摩之命,罗什曼那与毗卜沙那一同站定。
6.41.44
द्वारे द्वारे हरीणां तु कोटिं कोटीर्न्यवेशयत्।
पश्चिमेन तु रामस्य सुषेणः सहजाम्बवान् ॥ ६.४१.४४ ॥
他在每一道门都部署了千万万的猴兵;罗摩一方西面,苏舍那与遮婆梵同在。
6.41.45
अदूरान्मध्यमे गुल्मे तस्थौ बहुबलानुगः।
ते तु वानरशार्दूलाः शार्दूला इव दंष्ट्रिणः।
गृहीत्वा द्रुमशैलाग्रान् हृष्टा युद्धाय तस्थिरे ॥ ६.४१.४५ ॥
不远处,在中军阵中,他率领强大的大军而立;那些如獠牙猛虎般的猿中虎,手持树木与山峰,欣然准备迎战。
6.41.46
सर्वे विकृतलाङ्गूलाः सर्वे दंष्ट्रानखायुधाः।
सर्वे विकृतचित्राङ्गाः सर्वे च विकृताननाः ॥ ६.४१.४६ ॥
他们的尾巴都卷曲扭转;他们的武器都是牙与爪;他们的身体都带着怪异的斑纹;他们的脸都狰狞可怖。
6.41.47
दशनागबलाः केचित् केचिद् दशगुणोत्तराः।
केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ॥ ६.४१.४७ ॥
有的力量如十头象;有的比它强十倍;有的勇武则与千头象相等。
6.41.48
सन्ति चौघबलाः केचित् केचिच्छतगुणोत्तराः।
अप्रमेयबलाश्चान्ये तत्रासन् हरियूथपाः ॥ ६.४१.४८ ॥
有的力量如洪流;有的强百倍;还有的力量不可估量——那里有群猴的统帅。
6.41.49
अद्भुतश्च विचित्रश्च तेषामासीत् समागमः।
तत्र वानरसैन्यानां शलभानामिवोद्गमः ॥ ६.४१.४९ ॥
他们的聚集奇异而非凡;那里的猴兵如蝗虫飞起一般涌动。
6.41.50
परिपूर्णमिवाकाशं सम्पूर्णेव च मेदिनी।
लङ्कामुपनिविष्टैश्च सम्पतद्भिश्च वानरैः ॥ ६.४१.५० ॥
天空仿佛充满,大地仿佛被填满,驻扎在楞伽周围并扑下来的猴兵使然。
6.41.51
शतं शतसहस्राणां पृतनर्क्षवनौकसाम्।
लङ्काद्वाराण्युपाजग्मुरन्ये योद्धुं समन्ततः ॥ ६.४१.५१ ॥
数以百万计的熊族与林中猴兵抵达楞伽城门;其他人从四面八方赶来交战。
6.41.52
आवृतः स गिरिः सर्वैस्तैः समन्तात् प्लवङ्गमैः।
अयुतानां सहस्रं च पुरीं तामभ्यवर्तत ॥ ६.४१.५२ ॥
那座山四面都被那些跳跃的猴兵包围;成千上万的猴兵包围了那座城市。
6.41.53
वानरैर्बलवद्भिश्च बभूव द्रुमपाणिभिः।
सर्वतः संवृता लङ्का दुष्प्रवेशापि वायुना ॥ ६.४१.५३ ॥
楞伽被手持树木的强大猴兵从四面包围;连风也难以进入其中。
6.41.54
राक्षसा विस्मयं जग्मुः सहसाभिनिपीडिताः।
वानरैर्मेघसंकाशैः शक्रतुल्यपराक्रमैः ॥ ६.४१.५४ ॥
罗刹们突然遭受猛烈压迫,对那些如云般的猴兵、勇武堪比因陀罗的猴兵感到惊愕。
6.41.55
महाञ्छब्दोऽभवत् तत्र बलौघस्याभिवर्ततः।
सागरस्येव भिन्नस्य यथा स्यात् सलिलस्वनः ॥ ६.४१.५५ ॥
当大军如洪流般推进时,那里响起巨大的声音,仿佛破裂的大海发出的水声。
6.41.56
तेन शब्देन महता सप्राकारा सतोरणा।
लङ्का प्रचलिता सर्वा सशैलवनकानना ॥ ६.४१.५६ ॥
在那巨大的声音中,整个楞伽连同城墙与城门、山岳、树林和丛林都震动起来。
6.41.57
रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी।
बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः ॥ ६.४१.५७ ॥
由罗摩与罗什曼那守护,那支大军与须羯里婆同在,即使诸天与阿修罗全体也难以战胜。
6.41.58
राघवः संनिवेश्यैवं स्वसैन्यं रक्षसां वधे।
सम्मन्त्र्य मन्त्रिभिः सार्धं निश्चित्य च पुनः पुनः ॥ ६.४१.५८ ॥
罗怙之后如此部署自己的军队以诛灭罗刹,与大臣们商议,并一再作出决断。
6.41.59
आनन्तर्यमभिप्रेप्सुः क्रमयोगार्थतत्त्ववित् ।
विभीषणस्यानुमते राजधर्ममनुस्मरन् ॥ ६.४१.५९ ॥
罗摩通晓次序与方略的真义,欲行下一步之事,经维毗沙那同意,并念及王者之法,(作出了决定)。
6.41.60
अङ्गदं वालितनयं समाहूयेदमब्रवीत्।
गत्वा सौम्य दशग्रीवं ब्रूहि मद्वचनात् कपे ॥ ६.४१.६० ॥
召来伐利之子安伽陀,他说道:"善良的猴子,去,以我的话告诉十首罗波那。"
6.41.61
लङ्घयित्वा पुरीं लङ्कां भयं त्यक्त्वा गतव्यथः।
भ्रष्टश्रीकं गतैश्वर्यं मुमूर्षानष्टचेतनम् ॥ ६.४१.६१ ॥
我跃过楼迦城,无畏无忧,看到你的城市失去了光彩与权势,人们在求死的念头中失去了知觉。
6.41.62
ऋषीणां देवतानां च गन्धर्वाप्सरसां तथा।
नागानामथ यक्षाणां राज्ञां च रजनीचर ॥ ६.४१.६२ ॥
诸仙人、天神、乾闼婆、阿卜莎罗、龙、夜叉以及诸王,也都是如此,哦,夜行者。
6.41.63
यच्च पापं कृतं मोहादवलिप्तेन राक्षस।
नूनं ते विगतो दर्पः स्वयंभूवरदानजः।
तस्य पापस्य सम्प्राप्ता व्युष्टिरद्य दुरासदा ॥ ६.४१.६३ ॥
你因迷惑与傲慢所犯的罪孽,哦罗刹,你因自生神的赐福而生的骄傲必定已经消失。那罪孽难以承受的果报,今日已经降临。
6.41.64
यस्य दण्डधरस्तेऽहं दाराहरणकर्शितः।
दण्डं धारयमाणस्तु लङ्काद्वारे व्यवस्थितः ॥ ६.४१.६४ ॥
我,你的惩罚者,因妻子被劫而憔悴,手持权杖站在楼迦城门前。
6.41.65
पदवीं देवतानां च महर्षीणां च राक्षस।
राजर्षीणां च सर्वेषां गमिष्यसि युधि स्थिरः ॥ ६.४१.६५ ॥
哦罗刹,若你在战中坚定不移,便将走上诸神、大仙、王仙以及所有人的道路。
6.41.66
बलेन येन वै सीतां मायया राक्षसाधम।
मामतिक्रमयित्वा त्वं हृतवांस्तन्निदर्शय ॥ ६.४१.६६ ॥
哦,最卑劣的罗刹,现在就显出你当初借幻术躲过我、劫走悉多的那份力量吧。
6.41.67
अराक्षसमिमं लोकं कर्तास्मि निशितैः शरैः।
न चेच्छरणमभ्येषि तामादाय तु मैथिलीम् ॥ ६.४१.६७ ॥
若你不带着迈提利来求庇护,我将以利箭使这世界不再有罗刹。
6.41.68
धर्मात्मा राक्षसश्रेष्ठः सम्प्राप्तोऽयं विभीषणः।
लङ्कैश्वर्यमिदं श्रीमान् ध्रुवं प्राप्नोत्यकण्टकम् ॥ ६.४१.६८ ॥
正直的罗刹之首毗缚沙已到此处;这位光辉之人必将无阻地获得楞伽的王权。
6.41.69
नहि राज्यमधर्मेण भोक्तुं क्षणमपि त्वया।
शक्यं मूर्खसहायेन पापेनाविदितात्मना ॥ ६.४१.६९ ॥
以不义之道,与愚昧的同伙同行,你这罪人又不自知,即便一刻也不能享有此王国。
6.41.70
युध्यस्व मा धृतिं कृत्वा शौर्यमालम्ब्य राक्षस।
मच्छरैस्त्वं रणे शान्तस्ततः पूतो भविष्यसि ॥ ६.४१.७० ॥
罗刹啊,怀着坚定与勇气而战吧;在战场上被我的箭所平息之后,你便会得到净化。
6.41.71
यद्याविशसि लोकांस्त्रीन् पक्षीभूतो निशाचर।
मम चक्षुःपथं प्राप्य न जीवन् प्रतियास्यसि ॥ ६.४१.७१ ॥
夜行者啊,即使你化作飞鸟进入三界,一旦落入我的视野,你也不能活着回去。
6.41.72
ब्रवीमि त्वां हितं वाक्यं क्रियतामौर्ध्वदेहिकम्।
सुदृष्टा क्रियतां लङ्का जीवितं ते मयि स्थितम् ॥ ६.४१.७२ ॥
我对你说一句有益的话:请为自己安排后事,好好看一看楞伽吧,因为你的生命系于我身。
6.41.73
इत्युक्तः स तु तारेयो रामेणाक्लिष्टकर्मणा।
जगामाकाशमाविश्य मूर्तिमानिव हव्यवाट् ॥ ६.४१.७३ ॥
不知疲倦之业的罗摩如此吩咐后,多罗之子安光如具形的祭火一般升入天空。
6.41.74
सोऽतिपत्य मुहूर्तेन श्रीमान् रावणमन्दिरम्।
ददर्शासीनमव्यग्रं रावणं सचिवैः सह ॥ ६.४१.७४ ॥
这位光辉的安光须臾间便到了罗波那的宫殿,看见罗波那与大臣们一同安坐,神色镇定。
6.41.75
ततस्तस्याविदूरेण निपत्य हरिपुंगवः।
दीप्ताग्निसदृशस्तस्थावङ्गदः कनकाङ्गदः ॥ ६.४१.७५ ॥
随后,猴中之英安光在近处落下,如熊熊烈火,戴着金臂钏,挺立而立。
6.41.76
तद् रामवचनं सर्वमन्यूनाधिकमुत्तमम्।
सामात्यं श्रावयामास निवेद्यात्मानमात्मना ॥ ६.४१.७६ ॥
他自我通报后,将罗摩那些殊胜的言辞一字不少、不多,连同大臣们一起宣读出来。
6.41.77
दूतोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः।
वालिपुत्रोऽङ्गदो नाम यदि ते श्रोत्रमागतः ॥ ६.४१.७७ ॥
我是不知疲倦之业的憍萨罗之主罗摩的使者;我名为安光,乃婆利之子——若此名已传入你耳中。
6.41.78
आह त्वां राघवो रामः कौसल्यानन्दवर्धनः।
निष्पत्य प्रतियुध्यस्व नृशंस पुरुषो भव ॥ ६.४१.७८ ॥
令考莎厘雅欢喜的罗怙后裔罗摩对你说:残忍者啊,出来应战吧,做个真正的男子汉。
6.41.79
हन्तास्मि त्वां सहामात्यं सपुत्रज्ञातिबान्धवम्।
निरुद्विग्नास्त्रयो लोका भविष्यन्ति हते त्वयि ॥ ६.४१.७९ ॥
我要连同你的大臣、儿子、族人和亲属一起杀死你。你一旦被杀,三界便将不再恐惧。
6.41.80
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम्।
शत्रुमद्योद्धरिष्यामि त्वामृषीणां च कण्टकम् ॥ ६.४१.८० ॥
今日我将拔除你——你是天神、檀那婆、夜叉、乾闼婆、龙蛇与罗刹的敌人,也是仙人的荆棘。
6.41.81
विभीषणस्य चैश्वर्यं भविष्यति हते त्वयि।
न चेत् सत्कृत्य वैदेहीं प्रणिपत्य प्रदास्यसि ॥ ६.४१.८१ ॥
你一旦被杀,毗भीषण将得到权位。若你不恭敬地向维代希行礼并将她送还,
6.41.82
इत्येवं परुषं वाक्यं ब्रुवाणे हरिपुङ्गवे।
अमर्षवशमापन्नो निशाचरगणेश्वरः ॥ ६.४१.८२ ॥
当猴中之雄如此说出严厉的话时,夜行者之主被愤怒所支配。
6.41.83
ततः स रोषमापन्नः शशास सचिवांस्तदा।
गृह्यतामिति दुर्मेधा वध्यतामिति चासकृत् ॥ ६.४१.८३ ॥
于是,愚昧的他在愤怒中一再命令大臣:“抓住他!杀了他!”
6.41.84
रावणस्य वचः श्रुत्वा दीप्ताग्निमिव तेजसा।
जगृहुस्तं ततो घोराश्चत्वारो रजनीचराः ॥ ६.४१.८४ ॥
听到罗波那的话,四个凶恶的夜行者抓住了他;他光芒耀眼,如同燃烧的烈火。
6.41.85
ग्राहयामास तारेयः स्वयमात्मानमात्मवान्।
बलं दर्शयितुं वीरो यातुधानगणे तदा ॥ ६.४१.८५ ॥
塔拉之子英雄自制,遂自愿被擒,以在罗刹众前展示其力量。
6.41.86
स तान् बाहुद्वयासक्तानादाय पतगानिव।
प्रासादं शैलसंकाशमुत्पपाताङ्गदस्तदा ॥ ६.४१.८६ ॥
安伽达将挂在他双臂上的那些人如鸟般抓起,随即向如山的宫殿跃起。
6.41.87
तस्योत्पतनवेगेन निर्धूतास्तत्र राक्षसाः।
भूमौ निपतिताः सर्वे राक्षसेन्द्रस्य पश्यतः ॥ ६.४१.८७ ॥
因他跃起的猛力,那里的罗刹全被甩开,在罗刹王眼前纷纷跌落在地。
6.41.88
ततः प्रासादशिखरं शैलशृङ्गमिवोन्नतम्।
चक्राम राक्षसेन्द्रस्य वालिपुत्रः प्रतापवान् ॥ ६.४१.८८ ॥
于是,伐林之子英勇的安伽达,在罗刹王宫殿的顶上行走,那殿顶高耸如山峰。
6.41.89
पफाल च तदाक्रान्तं दशग्रीवस्य पश्यतः।
पुरा हिमवतः शृङ्गं वज्रेणेव विदारितम् ॥ ६.४१.८९ ॥
此时十首罗刹王眼看那殿宇被他的脚踏碎,裂开了,正如往昔雷杵劈裂了喜马拉雅的山峰。
6.41.90
भङ्क्त्वा प्रासादशिखरं नाम विश्राव्य चात्मनः।
विनद्य सुमहानादमुत्पपात विहायसा ॥ ६.४१.९० ॥
他打碎殿顶,宣告自己的名号,发出巨大的吼声,跃入天空。
6.41.91
व्यथयन् राक्षसान् सर्वान् हर्षयंश्चापि वानरान्।
स वानराणां मध्ये तु रामपार्श्वमुपागतः ॥ ६.४१.९१ ॥
他折磨所有罗刹,使猴众欢喜,穿过猴群来到罗摩身旁。
6.41.92
रावणस्तु परं चक्रे क्रोधं प्रासादधर्षणात्।
विनाशं चात्मनः पश्यन् निःश्वासपरमोऽभवत् ॥ ६.४१.९२ ॥
然而罗波那因宫殿被毁而极为愤怒;看到自己的毁灭,他开始深深叹息。
6.41.93
रामस्तु बहुभिर्हृष्टैर्विनदद्भिः प्लवङ्गमैः।
वृतो रिपुवधाकाङ्क्षी युद्धायैवाभ्यवर्तत ॥ ६.४१.९३ ॥
然而罗摩渴望斩杀敌人,被众多欢呼咆哮的跳跃猴众所围绕,径直向战场进发。
6.41.94
सुषेणस्तु महावीर्यो गिरिकूटोपमो हरिः।
बहुभिः संवृतस्तत्र वानरैः कामरूपिभिः ॥ ६.४१.९४ ॥
苏舍那,勇力极大,如山峰一般,在那里被众多能随意变化形体的猴众所围绕。
6.41.95
स तु द्वाराणि संयम्य सुग्रीववचनात् कपिः।
पर्यक्रामत दुर्धर्षो नक्षत्राणीव चन्द्रमाः ॥ ६.४१.९५ ॥
遵从须羯里婆的话,那位不可战胜的猴子封闭了城门,像群星中的月亮一样四处巡行。
6.41.96
तेषामक्षौहिणिशतं समवेक्ष्य वनौकसाम्।
लङ्कामुपनिविष्टानां सागरं चाभिवर्तताम् ॥ ६.४१.९६ ॥
看见那些林中猴众的百支阿克绍希尼大军,他们驻扎在楞伽周围,正向大海推进。
6.41.97
राक्षसा विस्मयं जग्मुस्त्रासं जग्मुस्तथापरे।
अपरे समरे हर्षाद्धर्षमेवोपपेदिरे ॥ ६.४१.९७ ॥
一些罗刹陷入惊愕,另一些则陷入恐惧。另一些人在战斗中因喜悦而只是欢欣鼓舞。
6.41.98
कृत्स्नं हि कपिभिर्व्याप्तं प्राकारपरिखान्तरम्।
ददृशू राक्षसा दीनाः प्राकारं वानरीकृतम्।
हाहाकारमकुर्वन्त राक्षसा भयमागताः ॥ ६.४१.९८ ॥
悲伤的罗刹看到城墙与壕沟之间的整个空间都被猴子占满,城墙已化为猴子的领地。惊恐万分的罗刹发出了哀号。
6.41.99
तस्मिन् महाभीषणके प्रवृत्ते
कोलाहले राक्षसराजयोधाः।
प्रगृह्य रक्षांसि महायुधानि
युगान्तवाता इव संविचेरुः ॥ ६.४१.९९ ॥
当那可怕的喧嚣爆发时,罗刹王的战士们手持巨大的武器,如同劫末的狂风一般四处奔涌。