Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 6.43

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

6.43.1

युध्यतां तु ततस्तेषां वानराणां महात्मनाम्।
रक्षसां सम्बभूवाथ बलरोषः सुदारुणः ॥ ६.४३.१ ॥

そのとき、戦っていたその偉大な心のヴァーナラとラークシャサたちの間に、力の激しい怒りが起こった。

6.43.2

ते हयैः काञ्चनापीडैर्गजैश्चाग्निशिखोपमैः।
रथैश्चादित्यसंकाशैः कवचैश्च मनोरमैः ॥ ६.४३.२ ॥

その羅刹たちは、金で飾られた馬、炎の舌のような象、太陽に似た戦車、そして美しい鎧を携えて出てきた。

6.43.3

निर्ययू राक्षसा वीरा नादयन्तो दिशो दश।
राक्षसा भीमकर्माणो रावणस्य जयैषिणः ॥ ६.४३.३ ॥

勇猛な羅刹たちは十方に響き渡らせながら出陣した。恐ろしい行いをする彼らは、ラーヴァナの勝利を求めていた。

6.43.4

वानराणामपि चमूर्बृहती जयमिच्छताम्।
अभ्यधावत तां सेनां रक्षसां घोरकर्मणाम् ॥ ६.४३.४ ॥

勝利を望むヴァーナラの大軍もまた、その恐ろしい行いをするラークシャサの軍勢へと突進した。

6.43.5

एतस्मिन्नन्तरे तेषामन्योन्यमभिधावताम्।
रक्षसां वानराणां च द्वन्द्वयुद्धमवर्तत ॥ ६.४३.५ ॥

そのあいだに、互いに突進し合うラークシャサとヴァーナラの間で、一騎打ちが始まった。

6.43.6

अङ्गदेनेन्द्रजित्सार्धं वालिपुत्रेण राक्षसः।
अयुध्यत महातेजास्त्र्यम्बकेण यथान्धकः ॥ ६.४३.६ ॥

大いなる威光を放つラークシャサ、インドラジットは、ヴァーリの子アンガダと戦った。アンダカがトリャンバカ(シヴァ)と戦ったように。

6.43.7

प्रजङ्घेन च सम्पातिर्नित्यं दुर्धर्षणो रणे।
जम्बुमालिनमारब्धो हनूमानपि वानरः ॥ ६.४३.७ ॥

プラジャンガと共に、戦場で常に打ち破りがたいサンパーティ、そして猿のハヌマーンもジャンブマーリンと交戦した。

6.43.8

संगतस्तु महाक्रोधो राक्षसो रावणानुजः।
समरे तीक्ष्णवेगेन शत्रुघ्नेन विभीषणः ॥ ६.४३.८ ॥

ラーヴァナの弟で大いに怒れるラークシャサのヴィビーシャナは、鋭い勢いでシャトルグナと戦場で交戦した。

6.43.9

तपनेन गजः सार्धं राक्षसेन महाबलः।
निकुम्भेन महातेजा नीलोऽपि समयुध्यत ॥ ६.४३.९ ॥

大力のガジャはラークシャサのタパナと戦い、輝けるニーラもニクンバと交戦した。

6.43.10

वानरेन्द्रस्तु सुग्रीवः प्रघसेन सुसंगतः।
संगतः समरे श्रीमान् विरूपाक्षेण लक्ष्मणः ॥ ६.४३.१० ॥

猿王スグリーヴァはプラガサと激しく交戦し、栄光あるラクシュマナはヴィルーパークシャと戦った。

6.43.11

अग्निकेतुः सुदुर्धर्षो रश्मिकेतुश्च राक्षसः।
सुप्तघ्नो यज्ञकोपश्च रामेण सह संगताः ॥ ६.४३.११ ॥

きわめて打ち破りがたいアグニケートゥ、ラークシャサのラシュミケートゥ、スプタグナ、ヤジュニャコーパがラーマと交戦した。

6.43.12

वज्रमुष्टिश्च मैन्देन द्विविदेनाशनिप्रभः।
राक्षसाभ्यां सुघोराभ्यां कपिमुख्यौ समागतौ ॥ ६.४३.१२ ॥

ヴァジュラムシュティはマインダと、アシャニプラバはドヴィヴィダと交戦し、二人の主要な猿が二人の恐ろしいラークシャサと対峙した。

6.43.13

वीरः प्रतपनो घोरो राक्षसो रणदुर्धरः।
समरे तीक्ष्णवेगेन नलेन समयुध्यत ॥ ६.४३.१३ ॥

その英雄、焼き尽くす恐ろしいラークシャサは、戦いで手強く、戦場で鋭い速さをもってナラと戦った。

6.43.14

धर्मस्य पुत्रो बलवान् सुषेण इति विश्रुतः।
स विद्युन्मालिना सार्धमयुध्यत महाकपिः ॥ ६.४३.१४ ॥

ダルマの子、強力でスシェーナとして知られたその大いなる猿は、ヴィディユンマーリンと戦った。

6.43.15

वानराश्चापरे घोरा राक्षसैरपरैः सह।
द्वन्द्वं समीयुः सहसा युद्ध्वा च बहुभिः सह ॥ ६.४३.१५ ॥

ほかの恐ろしい猿たちは、突然ほかのラークシャサたちと一対一の戦いに入り、多くの者と戦った。

6.43.16

तत्रासीत् सुमहद् युद्धं तुमुलं रोमहर्षणम्।
रक्षसां वानराणां च वीराणां जयमिच्छताम् ॥ ६.४३.१६ ॥

そこでは非常に大きく、騒がしく、身の毛もよだつ戦いが起こった。ラークシャサと猿の勇士たちは勝利を望んで戦った。

6.43.17

हरिराक्षसदेहेभ्यः प्रभूताः केशशाद्वलाः।
शरीरसंघाटवहाः प्रसुस्रुः शोणतापगाः ॥ ६.४३.१७ ॥

猿とラークシャサの体から、髪の毛のような草の束が夥しく現れ、死体の山を運び、血の川となって流れ出た。

6.43.18

आजघानेन्द्रजित् क्रुद्धो वज्रेणेव शतक्रतुः।
अङ्गदं गदया वीरं शत्रुसैन्यविदारणम् ॥ ६.४३.१८ ॥

怒ったインドラジット(インドラの勝利者)は、インドラが雷霆で打つように、敵軍を粉砕する英雄アンガダを棍棒で打った。

6.43.19

तस्य काञ्चनचित्राङ्गं रथं साश्वं ससारथिम्।
जघान गदया श्रीमानङ्गदो वेगवान् हरिः ॥ ६.४३.१९ ॥

輝かしく俊敏な猿アンガダは、金で彩られたその戦車を、馬と御者もろとも棍棒で打ち砕いた。

6.43.20

सम्पातिस्तु प्रजङ्घेन त्रिभिर्बाणैः समाहतः।
निजघानाश्वकर्णेन प्रजङ्घं रणमूर्धनि ॥ ६.४३.२० ॥

しかし、プラジャンガの三本の矢に射られたサンパーティは、戦場の最前線でアシュヴァカルナの木によってプラジャンガを打ち倒した。

6.43.21

जम्बुमाली रथस्थस्तु रथशक्त्या महाबलः।
बिभेद समरे क्रुद्धो हनूमन्तं स्तनान्तरे ॥ ६.४३.२१ ॥

しかし、戦車に立つ大力のジャンブマーリは、怒りのうちに戦いで戦車の槍をもってハヌマーンの胸を貫いた。

6.43.22

तस्य तं रथमास्थाय हनूमान् मारुतात्मजः।
प्रममाथ तलेनाशु सह तेनैव रक्षसा ॥ ६.४३.२२ ॥

風の子ハヌマーンは彼の戦車に乗り、その羅刹もろとも掌の一撃で直ちに粉々にした。

6.43.23

नदन् प्रतपनो घोरो नलं सोऽभ्यनुधावत।
नलः प्रतपनस्याशु पातयामास चक्षुषी ॥ ६.४३.२३ ॥

吠えながら猛々しいプラタパナはナラに襲いかかったが、ナラは素早くプラタパナの両眼を射落とした。

6.43.24

भिन्नगात्रः शरैस्तीक्ष्णैः क्षिप्रहस्तेन रक्षसा।
ग्रसन्तमिव सैन्यानि प्रघसं वानराधिपः ॥ ६.४३.२४ ॥

鋭い矢に体を射抜かれながらも、速い手を持つその羅刹は、軍勢を呑み込まんばかりに猿王プラガサへと向かった。

6.43.25

सुग्रीवः सप्तपर्णेन निजघान जवेन च।
प्रपीड्य शरवर्षेण राक्षसं भीमदर्शनम् ॥ ६.४३.२५ ॥

スグリーヴァは七葉の矢で、素早く打ち、矢の雨で苦しめて、恐ろしい姿の羅刹を打ち倒した。

6.43.26

निजघान विरूपाक्षं शरेणैकेन लक्ष्मणः।
अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः।
सुप्तघ्नो यज्ञकोपश्च रामं निर्बिभिदुः शरैः ॥ ६.४३.२६ ॥

ラクシュマナは一本の矢でヴィルーパークシャを打ち倒した。アグニケートゥ、難攻不落の羅刹ラシュミケートゥ、スプタグナとヤジュニャコーパは、ラーマを矢で貫いた。

6.43.27

तेषां चतुर्णां रामस्तु शिरांसि समरे शरैः।
क्रुद्धश्चतुर्भिश्चिच्छेद घोरैरग्निशिखोपमैः ॥ ६.४३.२७ ॥

戦場で怒ったラーマは、炎の舌のような恐ろしい四本の矢で、その四人の首を切り落とした。

6.43.28

वज्रमुष्टिस्तु मैन्देन मुष्टिना निहतो रणे।
पपात सरथः साश्वः पुराट्ट इव भूतले ॥ ६.४३.२८ ॥

ヴァジュラムシュティは、戦いでマインダの拳に打たれて倒れ、戦車と馬もろともに山のように地に落ちた。

6.43.29

निकुम्भस्तु रणे नीलं नीलाञ्जनचयप्रभम्।
निर्बिभेद शरैस्तीक्ष्णैः करैर्मेघमिवांशुमान् ॥ ६.४३.२९ ॥

ニクンバは戦いで、青い黒目墨の山のように輝くナーラを鋭い矢で貫いた。太陽が光線で雲を貫くように。

6.43.30

पुनः शरशतेनाथ क्षिप्रहस्तो निशाचरः।
बिभेद समरे नीलं निकुम्भः प्रजहास च ॥ ६.४३.३० ॥

すると、素早い手の夜の徘徊者ニクンバは、戦いで百本の矢で再びナーラを貫き、笑った。

6.43.31

तस्यैव रथचक्रेण नीलो विष्णुरिवाहवे।
शिरश्चिच्छेद समरे निकुम्भस्य च सारथेः ॥ ६.४३.३१ ॥

戦いで、その戦車の車輪によって、ヴィシュヌのようにニーラはニクンバとその御者の首を斬り落とした。

6.43.32

वज्राशनिसमस्पर्शो द्विविदोऽप्यशनिप्रभम्।
जघान गिरिशृङ्गेण मिषतां सर्वरक्षसाम् ॥ ६.४३.३२ ॥

雷霆と稲妻のような触れ心地のドゥヴィヴィダは、稲妻のように輝くその羅刹を、すべての羅刹が見守る中、山の頂で打ち倒した。

6.43.33

द्विविदं वानरेन्द्रं तु द्रुमयोधिनमाहवे।
शरैरशनिसंकाशैः स विव्याधाशनिप्रभः ॥ ६.४३.३३ ॥

その稲妻のように輝く羅刹は、木を武器に戦う猿王ドゥヴィヴィダを、雷霆に似た矢で射抜いた。

6.43.34

स शरैरभिविद्धाङ्गो द्विविदः क्रोधर्मूच्छितः।
सालेन सरथं साश्वं निजघानाशनिप्रभम् ॥ ६.४३.३४ ॥

矢に体を射抜かれ怒りに我を失ったドゥヴィヴィダは、沙羅の木で、戦車と馬もろともその稲妻の羅刹を打ち殺した。

6.43.35

विद्युन्माली रथस्थस्तु शरैः काञ्चनभूषणैः।
सुषेणं ताडयामास ननाद च मुहुर्मुहुः ॥ ६.४३.३५ ॥

戦車に立つヴィディユンマーリーは、金の飾りをつけた矢でスシェーナを打ち、幾度も雄叫びをあげた。

6.43.36

तं रथस्थमथो दृष्ट्वा सुषेणो वानरोत्तमः।
गिरिशृङ्गेण महता रथमाशु न्यपातयत् ॥ ६.४३.३६ ॥

戦車に立つ彼を見て、猿の中の最良者スシェーナは、大きな山の頂で戦車をすぐさま打ち落とした。

6.43.37

लाघवेन तु संयुक्तो विद्युन्माली निशाचरः।
अपक्रम्य रथात् तूर्णं गदापाणिः क्षितौ स्थितः ॥ ६.४३.३७ ॥

しかし素早さに優れたヴィディユンマーリーという夜行の羅刹は、戦車から素早く降り、手に棍棒を握って大地に立った。

6.43.38

ततः क्रोधसमाविष्टः सुषेणो हरिपुङ्गवः।
शिलां सुमहतीं गृह्य निशाचरमभिद्रवत् ॥ ६.४३.३८ ॥

そこで猿の中の雄牛スシェーナは怒りに満ち、巨大な岩をつかんで夜行の羅刹めがけて突進した。

6.43.39

तमापतन्तं गदया विद्युन्माली निशाचरः।
वक्षस्यभिजघानाशु सुषेणं हरिपुङ्गवम् ॥ ६.४३.३९ ॥

襲いかかってきたスシェーナの胸を、夜行の羅刹ヴィディユンマーリーはすぐさま棍棒で打ち据えた。

6.43.40

गदाप्रहारं तं घोरमचिन्त्य प्लवगोत्तमः।
तां तूष्णीं पातयामास तस्योरसि महामृधे ॥ ६.४३.४० ॥

その恐ろしい棍棒の一撃にもかかわらず、跳躍者の中の最上の者は大激戦の中で黙ってその岩を彼の胸に落とした。

6.43.41

शिलाप्रहाराभिहतो विद्युन्माली निशाचरः।
निष्पिष्टहृदयो भूमौ गतासुर्निपपात ह ॥ ६.४३.४१ ॥

岩の一撃に打たれ、心臓を砕かれた夜行の羅刹ヴィディユンマーリーは、息絶えて地に倒れ伏した。

6.43.42

एवं तैर्वानरैः शूरैः शूरास्ते रजनीचराः।
द्वन्द्वे विमथितास्तत्र दैत्या इव दिवौकसैः ॥ ६.४३.४२ ॥

こうしてあの勇猛な猿たちは、そこで一騎打ちにおいて、あの勇猛な夜行の羅刹たちを、かつて天の神々がダイティヤを打ち砕いたように打ち砕いた。

6.43.43

भल्लैश्चान्यैर्गदाभिश्च शक्तितोमरसायकैः।
अपविद्धैश्चापि रथैस्तथा सांग्रामिकैर्हयैः ॥ ६.४३.४३ ॥

返しのついた矢、棍棒、槍、投げ槍、矢、投げ落とされた戦車、そして戦いに備えた馬が、そこで用いられた。

6.43.44

निहतैः कुञ्जरैर्मत्तैस्तथा वानरराक्षसैः।
चक्राक्षयुगदण्डैश्च भग्नैर्धरणिसंश्रितैः ॥ ६.४३.४४ ॥

討ち取られた狂暴な象、猿と羅刹、そして車輪・車軸・軛・轅が折れて地に散らばっており、戦場は満ちていた。

6.43.45

बभूवायोधनं घोरं गोमायुगणसेवितम्।
कबन्धानि समुत्पेतुर्दिक्षु वानररक्षसाम्।
विमर्दे तुमुले तस्मिन् देवासुररणोपमे ॥ ६.४३.४५ ॥

その戦場は恐ろしいものとなり、ジャッカルの群れが集まった。四方では猿と羅刹の首のない胴体が立ち上がっては倒れた。神々とアスラの戦いのような、その恐ろしく騒然たる殺戮の中で。

6.43.46

निहन्यमाना हरिपुङ्गवैस्तदा
निशाचराः शोणितगन्धमूर्च्छिताः।
पुनः सुयुद्धं तरसा समाश्रिता
दिवाकरस्यास्तमयाभिकाङ्क्षिणः ॥ ६.४३.४६ ॥

その時、最良の猿たちに討たれ続けていた夜行者たちは、血の匂いに朦朧となり、日没を待ち望みながら、再び激しい戦いに素早く身を投じた。