Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 6.44

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

6.44.1

युध्यतामेव तेषां तु तदा वानररक्षसाम्।
रविरस्तं गतो रात्रिः प्रवृत्ता प्राणहारिणी ॥ ६.४४.१ ॥

ヴァーナラとラークシャサが戦っている最中に太陽が沈み、命を奪う夜が訪れた。

6.44.2

अन्योन्यं बद्धवैराणां घोराणं जयमिच्छताम्।
सम्प्रवृत्तं निशायुद्धं तदा वानररक्षसाम् ॥ ६.४४.२ ॥

互いに敵意を抱き勝利を望む恐ろしいヴァーナラとラークシャサの夜戦が、このとき本格的に始まった。

6.44.3

राक्षसोऽसीति हरयो वानरोऽसीति राक्षसाः।
अन्योन्यं समरे जघ्नुस्तस्मिंस्तमसि दारुणे ॥ ६.४४.३ ॥

「お前はラークシャサだ」とヴァーナラが、「お前はヴァーナラだ」とラークシャサが叫び、恐ろしい闇の中で互いに打ち合った。

6.44.4

हत दारय चैहीति कथं विद्रवसीति च।
एवं सुतुमुलः शब्दस्तस्मिन् सैन्ये तु शुश्रुवे ॥ ६.४४.४ ॥

「打て、引き裂け、来い」「なぜ逃げる」という叫びが、その軍勢に恐ろしい喧騒となって響いた。

6.44.5

कालाः काञ्चनसंनाहास्तस्मिंस्तमसि राक्षसाः।
सम्प्रदृश्यन्त शैलेन्द्रा दीप्तौषधिवना इव ॥ ६.४४.५ ॥

その闇の中、金の鎧をまとった黒いラークシャサたちは、輝く薬草の森を抱く高大な山々のように見えた。

6.44.6

तस्मिंस्तमसि दुष्पारे राक्षसाः क्रोधमूिर्च्छताः।
परिपेतुर्महावेगा भक्षयन्तः प्लवङ्गमान् ॥ ६.४४.६ ॥

越えがたい闇の中、怒りに我を失った俊足のラークシャサたちは、猿を喰らわんばかりに飛びかかった。

6.44.7

ते हयान् काञ्चनापीडान् ध्वजांश्चाशीविषोपमान्।
आप्लुत्य दशनैस्तीक्ष्णैर्भीमकोपा व्यदारयन् ॥ ६.४४.७ ॥

金の飾りをつけた馬や毒蛇のような旗竿に飛びつき、激しい怒りのまま鋭い牙でそれらを引き裂いた。

6.44.8

वानरा बलिनो युद्धेऽक्षोभयन् राक्षसीं चमूम्।
कुञ्जरान् कुञ्जरारोहान् पताकाध्वजिनो रथान् ॥ ६.४४.८ ॥

力強い猿たちは戦場で羅刹の軍勢を混乱させた。象とその乗り手、旗や幟を掲げた戦車を。

6.44.9

चकर्षुश्च ददंशुश्च दशनैः क्रोधमूिर्च्छताः।
लक्ष्मणश्चापि रामश्च शरैराशीविषोपमैः ॥ ६.४४.९ ॥

怒りに我を失い、引きずり、牙で噛みついた。ラクシュマナとラーマもまた、毒蛇のような矢で(戦った)。

6.44.10

दृश्यादृश्यानि रक्षांसि प्रवराणि निजघ्नतुः।
तुरंगखुरविध्वस्तं रथनेमिसमुत्थितम् ॥ ६.४४.१० ॥

姿の見える者も見えない者も、羅刹の勇者たちを討ち倒した。馬の蹄に踏みにじられ、戦車の車輪の縁から舞い上がった塵は、

6.44.11

रुरोध कर्णनेत्राणि युध्यतां धरणीरजः।
वर्तमाने तथा घोरे संग्रामे लोमहर्षणे।
रुधिरौघा महाघोरा नद्यस्तत्र विसुस्रुवुः ॥ ६.४४.११ ॥

大地の塵が戦う者たちの耳と目を覆った。このように恐ろしく身の毛もよだつ戦いが続く中、そこには凄まじい血の川が流れ出した。

6.44.12

ततो भेरीमृदङ्गानां पणवानां च निःस्वनः।
शङ्खनेमिस्वनोन्मिश्रः सम्बभूवाद्भुतोपमः ॥ ६.४४.१२ ॥

そのとき、太鼓や大鼓、小太鼓の轟きが、法螺貝や戦車の車輪の音と混じり合い、驚くべき響きが湧き起こった。

6.44.13

हतानां स्तनमानानां राक्षसानां च निःस्वनः।
शस्तानां वानराणां च सम्बभूवात्र दारुणः ॥ ६.४४.१३ ॥

ここでは、殺されて呻く羅刹たちと傷ついたヴァーナラたちの恐ろしい叫びが起こった。

6.44.14

हतैर्वानरमुख्यैश्च शक्तिशूलपरश्वधैः।
निहतैः पर्वताकारै राक्षसैः कामरूपिभिः ॥ ६.४४.१४ ॥

槍、三叉戟、斧で倒された猿族の長たちと、山のように大きく、意のままに姿を変える羅刹たちが倒れ、大地は覆われた。

6.44.15

शस्त्रपुष्पोपहारा च तत्रासीद् युद्धमेदिनी।
दुर्ज्ञेया दुर्निवेशा च शोणितास्त्रावकर्दमा ॥ ६.४४.१५ ॥

そこでは戦場が武器を花とした供物のようであり、見分けがたく、越えがたく、流れる血で泥濘となっていた。

6.44.16

सा बभूव निशा घोरा हरिराक्षसहारिणी।
कालरात्रीव भूतानां सर्वेषां दुरतिक्रमा ॥ ६.४४.१६ ॥

その夜は恐ろしくなり、ヴァーナラと羅刹を滅ぼした。すべての生き物にとって死の夜のように、越えがたいものであった。

6.44.17

ततस्ते राक्षसास्तत्र तस्मिंस्तमसि दारुणे।
राममेवाभ्यवर्तन्त संहृष्टाः शरवृष्टिभिः ॥ ६.४४.१७ ॥

そのとき羅刹たちは、その恐ろしい闇の中で喜び勇み、矢の雨を降らせながらラーマ自身に襲いかかった。

6.44.18

तेषामापततां शब्दः क्रुद्धानामपि गर्जताम्।
उद्वर्त इव सप्तानां समुद्राणामभूत् स्वनः ॥ ६.४४.१८ ॥

怒り猛り吠えながら襲いかかる者たちの音は、七つの海をかき混ぜるかのようになった。

6.44.19

तेषां रामः शरैः षड्भिः षड् जघान निशाचरान्।
निमेषान्तरमात्रेण शरैरग्निशिखोपमैः ॥ ६.४४.१९ ॥

ラーマは瞬きのあいだに、火炎の舌のような矢で、六本の矢をもって彼らのうち六人ずつの夜の鬼を倒した。

6.44.20

यज्ञशत्रुश्च दुर्धर्षो महापार्श्वमहोदरौ।
वज्रदंष्ट्रो महाकायस्तौ चोभौ शुकसारणौ ॥ ६.४४.२० ॥

ヤジュニャシャトルとドゥルダルシャ、マハーパールシュヴァとマホーダラ、ヴァジュラダンシュトラと巨体の者、そしてその二人、シュカとサーラナ。

6.44.21

ते तु रामेण बाणौघैः सर्वमर्मसु ताडिताः।
युद्धादपसृतास्तत्र सावशेषायुषोऽभवन् ॥ ६.४४.२१ ॥

ラーマの矢の雨で急所をことごとく射抜かれ、彼らは戦場から退いた。そこで彼らの命は半ばを残すのみとなった。

6.44.22

निमेषान्तरमात्रेण घोरैरग्निशिखोपमैः।
दिशश्चकार विमलाः प्रदिशश्च महारथः ॥ ६.४४.२२ ॥

瞬きのあいだに、火炎の舌のような恐ろしい矢で、その大戦車兵は方角と副方角を清めた。

6.44.23

ये त्वन्ये राक्षसा वीरा रामस्याभिमुखे स्थिताः।
तेऽपि नष्टाः समासाद्य पतङ्गा इव पावकम् ॥ ६.४४.२३ ॥

ラーマの正面に立っていた他の勇猛なラークシャサもまた、火に近づいた蛾のように滅びた。

6.44.24

सुवर्णपुङ्खैर्विशिखैः सम्पतद्भिः समन्ततः।
बभूव रजनी चित्रा खद्योतैरिव शारदी ॥ ६.४४.२४ ॥

金の羽根の矢が四方から飛び交うと、その夜は秋の夜に蛍が散りばめられたように、色とりどりに輝いた。

6.44.25

राक्षसानां च निनदैर्भेरीणां चैव निःस्वनैः।
सा बभूव निशा घोरा भूयो घोरतराभवत् ॥ ६.४४.२५ ॥

羅刹の咆哮と太鼓の轟きによって、その夜は恐ろしくなり、さらにいっそう恐ろしくなった。

6.44.26

तेन शब्देन महता प्रवृद्धेन समन्ततः।
त्रिकूटः कंदराकीर्णः प्रव्याहरदिवाचलः ॥ ६.४४.२६ ॥

その大いなる響きが四方に広がると、洞窟に満ちたトリクータ山は、山そのものが木霊するかのように鳴り響いた。

6.44.27

गोलाङ्गूला महाकायास्तमसा तुल्यवर्चसः।
सम्परिष्वज्य बाहुभ्यां भक्षयन् रजनीचरान् ॥ ६.४४.२७ ॥

巨大な体のゴーラーングーラ猿は、闇と同じ輝きを放ち、腕で夜を行く者たちを抱きしめて食らっていた。

6.44.28

अङ्गदस्तु रणे शत्रून् निहन्तुं समुपस्थितः।
रावणिं निजघानाशु सारथिं च हयानपि ॥ ६.४४.२८ ॥

しかしアンガダは戦場で敵を討つ構えで立ち、ラーヴァニの息子を素早く打ち倒し、その御者も馬も打ち倒した。

6.44.29

इन्द्रजित् तु रथं त्यक्त्वा हताश्वो हतसारथिः।
अङ्गदेन महाकायस्तत्रैवान्तरधीयत ॥ ६.४४.२९ ॥

インドラジットは、馬も御者も倒れた戦車を捨て、大柄なアンガダの目の前でその場から姿を消した。

6.44.30

तत् कर्म वालिपुत्रस्य सर्वे देवाः सहर्षिभिः।
तुष्टुवुः पूजनार्हस्य तौ चोभौ रामलक्ष्मणौ ॥ ६.४४.३० ॥

すべての神々は仙人たちとともに、ヴァーリの息子のその行いを讃え、また敬うべき二人、ラーマとラクシュマナをも讃えた。

6.44.31

प्रभावं सर्वभूतानि विदुरिन्द्रजितो युधि।
ततस्ते तं महात्मानं दृष्ट्वा तुष्टाः प्रधर्षितम् ॥ ६.४४.३१ ॥

すべての生き物はインドラジットの戦いでの力を知っていた。そして攻撃を受けたその偉大な魂を見て、彼らは満足した。

6.44.32

ततः प्रहृष्टाः कपयः ससुग्रीवविभीषणाः।
साधुसाध्विति नेदुश्च दृष्ट्वा शत्रुं पराजितम् ॥ ६.४४.३२ ॥

そこで喜んだ猿たちはスグリーヴァとヴィビーシャナとともに、「善いぞ、善いぞ」と叫んだ。敵が敗れたのを見て。

6.44.33

इन्द्रजित् तु तदानेन निर्जितो भीमकर्मणा।
संयुगे वालिपुत्रेण क्रोधं चक्रे सुदारुणम् ॥ ६.४४.३३ ॥

しかしそのとき、インドラジットは恐ろしい行いをするヴァーリンの息子に戦いで打ち負かされ、極めて激しい怒りに満たされた。

6.44.34

सोऽन्तर्धानगतः पापो रावणी रणकर्शितः।
ब्रह्मदत्तवरो वीरो रावणिः क्रोधमूर्च्छितः ॥ ६.४४.३४ ॥

その邪悪なラーヴァナの息子は戦いに疲れ、姿を消した。ブラフマーの恩寵を受けた英雄、ラーヴァナの息子は怒りに打ち震えていた。

6.44.35

अदृश्यो निशितान् बाणान् मुमोचाशनिवर्चसः।
रामं च लक्ष्मणं चैव घोरैर्नागमयैः शरैः ॥ ६.४४.३५ ॥

姿を見せず、雷のように輝く鋭い矢を放ち、ラーマとラクシュマナの上に恐ろしい蛇の形の矢の雨を降らせた。

6.44.36

बिभेद समरे क्रुद्धः सर्वगात्रेषु राक्षसः।
मायया संवृतस्तत्र मोहयन् राघवौ युधि ॥ ६.४४.३६ ॥

怒った羅刹は戦いで彼らの全身を貫いた。そこで幻術に隠れ、戦いの中で二人のラーガヴァを惑わし続けた。

6.44.37

अदृश्यः सर्वभूतानां कूटयोधी निशाचरः।
बबन्ध शरबन्धेन भ्रातरौ रामलक्ष्मणौ ॥ ६.४४.३७ ॥

すべての生き物に見えず、策略によって戦うその夜歩く羅刹は、ラーマとラクシュマナという二人の兄弟を矢の縛めで縛り上げた。

6.44.38

तौ तेन पुरुषव्याघ्रौ क्रुद्धेनाशीविषैः शरैः।
सहसाभिहतौ वीरौ तदा प्रेक्षन्त वानराः ॥ ६.४४.३८ ॥

怒れるその羅刹の毒蛇のような矢に突然射られ、その人中の虎である二人の英雄は傷つけられた。そのとき猿たちはただそれを見つめていた。

6.44.39

प्रकाशरूपस्तु यदा न शक्त-
स्तौ बाधितुं राक्षसराजपुत्रः।
मायां प्रयोक्तुं समुपाजगाम
बबन्ध तौ राजसुतौ दुरात्मा ॥ ६.४४.३९ ॥

しかし、姿を現したままでは二人を害することができなかったので、羅刹王の邪悪な息子は幻術を用いるために進み出て、二人の王子を縛り上げた。