Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 6.46

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

6.46.1

ततो द्यां पृथिवीं चैव वीक्षमाणा वनौकसः।
ददृशुः संततौ बाणैर्भ्रातरौ रामलक्ष्मणौ ॥ ६.४६.१ ॥

そのとき、空と大地を見渡していた森の猿たちは、矢に覆われた二人の兄弟ラーマとラクシュマナを見た。

6.46.2

वृष्ट्वेवोपरते देवे कृतकर्मणि राक्षसे।
आजगामाथ तं देशं ससुग्रीवो विभीषणः ॥ ६.४६.२ ॥

その羅刹は雨のように矢を降らせて己の務めを果たし、神のように退いた。そののちスグリーヴァとともにヴィビーシャナがその場所へ来た。

6.46.3

नीलश्च द्विविदो मैन्दः सुषेणः कुमुदोऽङ्गदः।
तूर्णं हनुमता सार्धमन्वशोचन्त राघवौ ॥ ६.४६.३ ॥

ニーラ、ドヴィヴィダ、マインダ、スシェーナ、クムダ、アンガダは、ハヌマーンとともにすぐに二人のラーガヴァのために嘆き始めた。

6.46.4

अचेष्टौ मन्दनिःश्वासौ शोणितेन परिप्लुतौ।
शरजालाचितौ स्तब्धौ शयानौ शरतल्पगौ ॥ ६.४६.४ ॥

二人は動かず、かすかに息をし、血にまみれ、矢の網に覆われ、硬直して矢の寝床に横たわっていた。

6.46.5

निःश्वसन्तौ यथा सर्पौ निश्चेष्टौ मन्दविक्रमौ।
रुधिरस्रावदिग्धाङ्गौ तपनीयाविव ध्वजौ ॥ ६.४६.५ ॥

二匹の蛇のように息をし、動かず、力は衰え、流れる血に四肢を汚し、金色の旗のように横たわっていた。

6.46.6

तौ वीरशयने वीरौ शयानौ मन्दचेष्टितौ।
यूथपैः स्वैः परिवृतौ बाष्पव्याकुललोचनैः ॥ ६.४६.६ ॥

その二人の英雄は英雄の寝床に横たわり、かすかに動き、涙に曇った目をした自らの軍の長たちに囲まれていた。

6.46.7

राघवौ पतितौ दृष्ट्वा शरजालसमन्वितौ।
बभूवुर्व्यथिताः सर्वे वानराः सविभीषणाः ॥ ६.४६.७ ॥

矢の網に覆われて倒れた二人のラーghava(ラーマとラクシュマナ)を見て、ヴィビーシャナを含む全ての猿たちは苦しんだ。

6.46.8

अन्तरिक्षं निरीक्षन्तो दिशः सर्वाश्च वानराः।
न चैनं मायया छन्नं ददृशू रावणिं रणे ॥ ६.४६.८ ॥

空と四方を見渡しても、猿たちは幻術に隠れたラーヴァナの息子を戦場で見つけられなかった。

6.46.9

तं तु मायाप्रतिच्छन्नं माययैव विभीषणः।
वीक्षमाणो ददर्शाग्रे भ्रातुः पुत्रमवस्थितम्।
तमप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे ॥ ६.४६.९ ॥

幻術に隠れた彼を、ヴィビーシャナはまさに幻術によって見た。兄の息子が目の前に立っているのを見た——比類なき業を成す者、戦いに並ぶ敵なき者を。

6.46.10

ददर्शान्तर्हितं वीरं वरदानाद् विभीषणः।
तेजसा यशसा चैव विक्रमेण च संयुतः ॥ ६.४६.१० ॥

授かった恩恵によって、ヴィビーシャナは隠れていた英雄を見た。彼は威光と名声と武勇を備えていた。

6.46.11

इन्द्रजित् त्वात्मनः कर्म तौ शयानौ समीक्ष्य च।
उवाच परमप्रीतो हर्षयन् सर्वराक्षसान् ॥ ६.४६.११ ॥

インドラジットは自らの業績と、横たわる二人を見て、大いに喜び、すべての羅刹たちを奮い立たせて言った。

6.46.12

दूषणस्य च हन्तारौ खरस्य च महाबलौ।
सादितौ मामकैर्बाणैर्भ्रातरौ रामलक्ष्मणौ ॥ ६.४६.१२ ॥

ドゥーシャナとカラを討ち滅ぼした二人の大力の兄弟、ラーマとラクシュマナは、私の矢によって打ち倒された。

6.46.13

नेमौ मोक्षयितुं शक्यावेतस्मादिषुबन्धनात्।
सर्वैरपि समागम्य सर्षिसङ्घैः सुरासुरैः ॥ ६.४६.१३ ॥

神々もアスラもすべて、聖仙の群れとともに集まったとしても、この矢の束縛から二人を解放することはできない。

6.46.14

यत्कृते चिन्तयानस्य शोकार्तस्य पितुर्मम।
अस्पृष्ट्वा शयनं गात्रैस्त्रियामा याति शर्वरी ॥ ६.४६.१४ ॥

そのために、憂いに沈み悲しみに苦しむ私の父は、体をベッドにつけることもなく夜を過ごしているのだ。

6.46.15

कृत्स्नेयं यत्कृते लङ्का नदी वर्षास्विवाकुला।
सोऽयं मूलहरोऽनर्थः सर्वेषां शमितो मया ॥ ६.४६.१५ ॥

そのためにこのラーンカー全体が雨季の川のように荒れ狂っているのだが、すべての根を断つ災厄は私が鎮めた。

6.46.16

रामस्य लक्ष्मणस्यैव सर्वेषां च वनौकसाम्।
विक्रमा निष्फलाः सर्वे यथा शरदि तोयदाः ॥ ६.४६.१६ ॥

ラーマとラクシュマナ、そして森に住むすべての者の武勇はみな、秋の雲のように実を結ばない。

6.46.17

एवमुक्त्वा तु तान् सर्वान् राक्षसान् परिपश्यतः।
यूथपानपि तान् सर्वांस्ताडयत् स च रावणिः ॥ ६.४६.१७ ॥

このように羅刹たちすべてに告げると、彼らが見ている前で、ラーヴァナの息子は、その隊長たちすべてをも打ち据えた。

6.46.18

नीलं नवभिराहत्य मैन्दं सद्विविदं तथा।
त्रिभिस्त्रिभिरमित्रघ्नस्तताप परमेषुभिः ॥ ६.४६.१८ ॥

ナ一ーラを九本の矢で射、マインダとドヴィヴィダにもそれぞれ三本の最上の矢を放って、敵を殺す者は彼らを苦しめた。

6.46.19

जाम्बवन्तं महेष्वासो विद्ध्वा बाणेन वक्षसि।
हनूमतो वेगवतो विससर्ज शरान् दश ॥ ६.४६.१९ ॥

偉大な弓手はジャーンバヴァーンの胸を矢で射抜き、俊足のハヌマーンに十本の矢を放った。

6.46.20

गवाक्षं शरभं चैव तावप्यमितविक्रमौ।
द्वाभ्यां द्वाभ्यां महावेगो विव्याध युधि रावणिः ॥ ६.४६.२० ॥

俊敏なラーヴァニはガヴァークシャとシャラバの二人を、それぞれ二本の矢で戦場で射抜いた。

6.46.21

गोलाङ्गूलेश्वरं चैव वालिपुत्रमथाङ्गदम्।
विव्याध बहुभिर्बाणैस्त्वरमाणोऽथ रावणिः ॥ ६.४६.२१ ॥

ラーヴァニはゴーランガーラの王と、ヴァーリの子アンガダを、急ぎながら多くの矢で射抜いた。

6.46.22

तान् वानरवरान् भित्त्वा शरैरग्निशिखोपमैः।
ननाद बलवांस्तत्र महासत्त्वः स रावणिः ॥ ६.४६.२२ ॥

炎の舌のような矢でそれらの優れた猿たちを貫き、力強く大胆なラーヴァニはそこで雄叫びをあげた。

6.46.23

तानर्दयित्वा बाणौघैस्त्रसयित्वा च वानरान्।
प्रजहास महाबाहुर्वचनं चेदमब्रवीत् ॥ ६.४६.२३ ॥

矢の雨で彼らを傷つけ、猿たちを怯えさせた後、大腕のラーヴァニは大声で笑い、次の言葉を発した。

6.46.24

शरबन्धेन घोरेण मया बद्धौ चमूमुखे।
सहितौ भ्रातरावेतौ निशामयत राक्षसाः ॥ ६.४६.२४ ॥

羅刹たちよ、見るがよい。私が恐ろしい矢の縛めで軍の先頭に一緒に縛り付けたこの二人の兄弟を!

6.46.25

एवमुक्तास्तु ते सर्वे राक्षसाः कूटयोधिनः।
परं विस्मयमापन्नाः कर्मणा तेन हर्षिताः ॥ ६.४६.२५ ॥

こう告げられて、欺瞞の戦士である羅刹たちは皆ひどく驚き、その行いに喜んだ。

6.46.26

विनेदुश्च महानादान् सर्वे ते जलदोपमाः।
हतो राम इति ज्ञात्वा रावणिं समपूजयन् ॥ ६.४६.२६ ॥

彼らは皆、雨雲のように大声で吠え、ラーマが殺されたと知って、ラーヴァナの息子(インドラジット)を大いに称えた。

6.46.27

निष्पन्दौ तु तदा दृष्ट्वा भ्रातरौ रामलक्ष्मणौ।
वसुधायां निरुच्छ्वासौ हतावित्यन्वमन्यत ॥ ६.४६.२७ ॥

そのとき、大地の上で動かず息もない二人の兄弟、ラーマとラクシュマナを見て、彼らは殺されたのだと結論づけた。

6.46.28

हर्षेण तु समाविष्ट इन्द्रजित् समितिञ्जयः।
प्रविवेश पुरीं लङ्कां हर्षयन् सर्वनैर्ऋतान् ॥ ६.४६.२८ ॥

喜びに満ちたインドラジットは、戦いの勝者として、すべてのニルリタ(羅刹)を喜ばせながら、ラーンカーの都に入った。

6.46.29

रामलक्ष्मणयोर्दृष्ट्वा शरीरे सायकैश्चिते।
सर्वाणि चाङ्गोपाङ्गानि सुग्रीवं भयमाविशत् ॥ ६.४६.२९ ॥

ラーマとラクシュマナの体が矢で覆われ、その四肢のすべてを見て、スグリーヴァは恐怖に襲われた。

6.46.30

तमुवाच परित्रस्तं वानरेन्द्रं विभीषणः।
सबाष्पवदनं दीनं शोकव्याकुललोचनम् ॥ ६.४६.३० ॥

怯え切った猿の王スグリーヴァに、ヴィビーシャナは涙に濡れた顔と悲しみに曇った目で、悲しげに語りかけた。

6.46.31

अलं त्रासेन सुग्रीव बाष्पवेगो निगृह्यताम्।
एवंप्रायाणि युद्धानि विजयो नास्ति नैष्ठिकः ॥ ६.४६.३१ ॥

スグリーヴァよ、恐れはもう十分だ。涙の奔流を抑えよ。戦いはおおむねこうしたものであり、勝利は確実ではない。

6.46.32

सभाग्यशेषतास्माकं यदि वीर भविष्यति।
मोहमेतौ प्रहास्येते महात्मानौ महाबलौ ॥ ६.४६.३२ ॥

勇士よ、わずかでも我らに幸運が残っているなら、あの二人の大いなる魂と強大な力の者は迷いを捨てるだろう。

6.46.33

पर्यवस्थापयात्मानमनाथं मां च वानर।
सत्यधर्माभिरक्तानां नास्ति मृत्युकृतं भयम् ॥ ६.४६.३३ ॥

猿よ、自らを落ち着かせよ。庇護者を失った私をも落ち着かせよ。真理と法に帰依する者には、死から生じる恐れはない。

6.46.34

एवमुक्त्वा ततस्तस्य जलक्लिन्नेन पाणिना।
सुग्रीवस्य शुभे नेत्रे प्रममार्ज विभीषणः ॥ ६.४६.३४ ॥

このように言って、ヴィビーシャナは水に濡れた手でスグリーヴァの美しい目をぬぐった。

6.46.35

ततः सलिलमादाय विद्यया परिजप्य च।
सुग्रीवनेत्रे धर्मात्मा प्रममार्ज विभीषणः ॥ ६.४६.३५ ॥

それから水を取り、呪文で清めて、正しき魂のヴィビーシャナはスグリーヴァの目をぬぐった。

6.46.36

विमृज्य वदनं तस्य कपिराजस्य धीमतः।
अब्रवीत् कालसम्प्राप्तमसम्भ्रान्तमिदं वचः ॥ ६.४६.३६ ॥

その賢い猿王の顔をぬぐってから、ヴィビーシャナは時にかなった、動じない言葉を語った。

6.46.37

न कालः कपिराजेन्द्र वैक्लव्यमवलम्बितुम्।
अतिस्नेहोऽपि कालेऽस्मिन् मरणायोपकल्पते ॥ ६.४६.३७ ॥

猿王の主よ、今は気弱になっている時ではない。このような時には、過度の情愛さえ死に至らしめることがある。

6.46.38

तस्मादुत्सृज्य वैक्लव्यं सर्वकार्यविनाशनम्।
हितं रामपुरोगाणां सैन्यानामनुचिन्तय ॥ ६.४६.३८ ॥

ゆえに、すべての事を滅ぼす気弱さを捨て、ラーマに率いられた軍勢の利益を考えよ。

6.46.39

अथ वा रक्ष्यतां रामो यावत्संज्ञाविपर्ययः।
लब्धसंज्ञौ हि काकुत्स्थौ भयं नौ व्यपनेष्यतः ॥ ६.४६.३९ ॥

あるいは、ラーマが意識を取り戻すまで彼を守るがよい。意識を取り戻せば、カクツトの二人の子孫が我らの恐れを払ってくれるであろう。

6.46.40

नैतत् किंचन रामस्य न च रामो मुमूर्षति।
नह्येनं हास्यते लक्ष्मीर्दुर्लभा या गतायुषाम् ॥ ६.४६.४० ॥

これはラーマにとって何でもない。ラーマも死を望んではいない。寿命が尽きた者を見捨てる、得がたい吉祥天女は、彼を見捨てることはないだろう。

6.46.41

तस्मादाश्वासयात्मानं बलं चाश्वासय स्वकम्।
यावत् सैन्यानि सर्वाणि पुनः संस्थापयाम्यहम् ॥ ६.४६.४१ ॥

ゆえに、自らを慰め、自軍をも励ませ。私が全軍を再び立て直すまで。

6.46.42

एते हि फुल्लनयनास्त्रासादागतसाध्वसाः।
कर्णे कर्णे प्रकथिता हरयो हरिसत्तम ॥ ६.४६.४२ ॥

猿の中の最上の者よ、この猿たちは恐怖に目を大きく見開いて動揺し、耳から耳へとそれを囁き合っている。

6.46.43

मां तु दृष्ट्वा प्रधावन्तमनीकं सम्प्रहर्षितम्।
त्यजन्तु हरयस्त्रासं भुक्तपूर्वामिव स्रजम् ॥ ६.४६.४३ ॥

私が前へ駆けるのを見て、軍勢が大いに喜んでいるのを見て、猿たちは以前身に着けた花輪を捨てるように恐怖を捨てよ。

6.46.44

समाश्वास्य तु सुग्रीवं राक्षसेन्द्रो विभीषणः।
विद्रुतं वानरानीकं तत् समाश्वासयत् पुनः ॥ ६.४६.४४ ॥

羅刹の王ヴィビーシャナはスグリーヴァを慰めた後、逃げ散った猿の軍勢を再び慰めた。

6.46.45

इन्द्रजित् तु महामायः सर्वसैन्यसमावृतः।
विवेश नगरीं लङ्कां पितरं चाभ्युपागमत् ॥ ६.४६.४५ ॥

大幻術の使い手インドラジットは全軍に囲まれてラーンカー城市に入り、父のもとへ行った。

6.46.46

तत्र रावणमासाद्य अभिवाद्य कृताञ्जलिः।
आचचक्षे प्रियं पित्रे निहतौ रामलक्ष्मणौ ॥ ६.४६.४६ ॥

そこでラーヴァナのもとに至り、合掌して礼拝し、インドラジットは父に、ラーマとラクシュマナが殺されたという喜ばしい知らせを伝えた。

6.46.47

उत्पपात ततो हृष्टः पुत्रं च परिषस्वजे।
रावणो रक्षसां मध्ये श्रुत्वा शत्रू निपातितौ ॥ ६.४६.४७ ॥

ラーヴァナは喜んで立ち上がり、二人の敵が倒れたと聞いて、羅刹たちの真ん中で息子を抱きしめた。

6.46.48

उपाघ्राय च तं मूर्ध्नि पप्रच्छ प्रीतमानसः।
पृच्छते च यथावृत्तं पित्रे तस्मै न्यवेदयत् ॥ ६.४६.४८ ॥

彼の頭に口づけし、喜ぶ心で尋ねた。問われると、インドラジットは起こったことをそのまま父に報告した。

6.46.49

यथा तौ शरबन्धेन निश्चेष्टौ निष्प्रभौ कृतौ ॥ ६.४६.४९ ॥

矢の束縛によって、あの二人が身動きできず光を失ったかのように。

6.46.50

स हर्षवेगानुगतान्तरात्मा
श्रुत्वा गिरं तस्य महारथस्य।
जहौ ज्वरं दाशरथेः समुत्थं
प्रहृष्टवाचाभिननन्द पुत्रम् ॥ ६.४६.५० ॥

喜びの激流に満たされた心で、その大戦車兵の言葉を聞くと、ダシャラタの息子に生じていた熱病を捨て去り、喜びの声で息子を祝福した。