Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 6.50

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

6.50.1

अथोवाच महातेजा हरिराजो महाबलः।
किमियं व्यथिता सेना मूढवातेव नौर्जले ॥ ६.५०.१ ॥

そのとき、大いなる輝きと大いなる力をもつ猴王は言った。「水上で方向を失った風に翻弄される舟のように、この軍勢はなぜ動揺しているのか。」

6.50.2

सुग्रीवस्य वचः श्रुत्वा वालिपुत्रोऽङ्गदोऽब्रवीत्।
न त्वं पश्यसि रामं च लक्ष्मणं च महारथम् ॥ ६.५०.२ ॥

スグリーヴァの言葉を聞いて、ヴァーリンの子アンガダは言った。「大戦車兵のラーマとラクシュマナが見えないのか。」

6.50.3

शरजालाचितौ वीरावुभौ दशरथात्मजौ।
शरतल्पे महात्मानौ शयानौ रुधिरोक्षितौ ॥ ६.५०.३ ॥

矢の網に覆われ、血にまみれて矢の寝台に横たわる二人の英雄、それは偉大な魂をもつダシャラタの二人の息子、ラーマとラクシュマナである。

6.50.4

अथाब्रवीद् वानरेन्द्रः सुग्रीवः पुत्रमङ्गदम्।
नानिमित्तमिदं मन्ये भवितव्यं भयेन तु ॥ ६.५०.४ ॥

そのとき猴王スグリーヴァは息子アンガダに言った。「これは理由なく起きたのではあるまい。きっと恐怖がその原因なのだ。」

6.50.5

विषण्णवदना ह्येते त्यक्तप्रहरणा दिशः।
पलायन्तेऽत्र हरयस्त्रासादुत्फुल्ललोचनाः ॥ ६.५०.५ ॥

この猴子たちは顔を伏せ、武器を投げ捨て、恐怖に目を見開いて、ここからあちこちの方角へ逃げていく。

6.50.6

अन्योन्यस्य न लज्जन्ते न निरीक्षन्ति पृष्ठतः।
विप्रकर्षन्ति चान्योन्यं पतितं लङ्घयन्ति च ॥ ६.५०.६ ॥

互いに恥じることもなく、振り返ることもない。互いを引きずり、倒れた者を跳び越えていく。

6.50.7

एतस्मिन्नन्तरे वीरो गदापाणिर्विभीषणः।
सुग्रीवं वर्धयामास राघवं च जयाशिषा ॥ ६.५०.७ ॥

その間に、棍棒を手にした英雄ヴィビーシャナは、勝利の祝福をもってスグリーヴァとラーガヴァを讃えた。

6.50.8

विभीषणं च सुग्रीवो दृष्ट्वा वानरभीषणम्।
ऋक्षराजं महात्मानं समीपस्थमुवाच ह ॥ ६.५०.८ ॥

猿たちを怖れさせるヴィビーシャナを見たスグリーヴァは、近くに立つ偉大な熊の王に語った。

6.50.9

विभीषणोऽयं सम्प्राप्तो यं दृष्ट्वा वानरर्षभाः।
द्रवन्त्यायतसंत्रासा रावणात्मजशङ्कया ॥ ६.५०.९ ॥

ヴィビーシャナが到着した。彼を見て猿の中の勇士たちは、ラーヴァナの息子ではないかと疑い、大いに恐れて逃げ去っている。

6.50.10

शीघ्रमेतान् सुसंत्रस्तान् बहुधा विप्रधावितान्।
पर्यवस्थापयाख्याहि विभीषणमुपस्थितम् ॥ ६.५०.१० ॥

すぐにこの大いに怯え、四方に散って逃げる猿たちを押しとどめ、近づいてきたヴィビーシャナのことを彼らに告げよ。

6.50.11

सुग्रीवेणैवमुक्तस्तु जाम्बवानृक्षपार्थिवः।
वानरान् सान्त्वयामास संनिवर्त्य प्रधावतः ॥ ६.५०.११ ॥

スグリーヴァがこう言うと、熊の王ジャーンバヴァーンは逃げる猿たちを呼び戻し、彼らを安心させた。

6.50.12

ते निवृत्ताः पुनः सर्वे वानरास्त्यक्तसाध्वसाः।
ऋक्षराजवचः श्रुत्वा तं च दृष्ट्वा विभीषणम् ॥ ६.५०.१२ ॥

熊の王の言葉を聞き、ヴィビーシャナを見て、猿たちは皆恐れを捨てて再び戻ってきた。

6.50.13

विभीषणस्तु रामस्य दृष्ट्वा गात्रं शरैश्चितम्।
लक्ष्मणस्य तु धर्मात्मा बभूव व्यथितस्तदा ॥ ६.५०.१३ ॥

矢に覆われたラーマの身体、そしてラクシュマナを見て、正しき魂のヴィビーシャナはそのとき深く苦しんだ。

6.50.14

जलक्लिन्नेन हस्तेन तयोर्नेत्रे विमृज्य च।
शोकसम्पीडितमना रुरोद विललाप च ॥ ६.५०.१४ ॥

水に濡れた手で二人の目をぬぐい、悲しみに苛まれた心で、彼は泣き、嘆き悲しんだ。

6.50.15

इमौ तौ सत्त्वसम्पन्नौ विक्रान्तौ प्रियसंयुगौ।
इमामवस्थां गमितौ राक्षसैः कूटयोधिभिः ॥ ६.५०.१५ ॥

力に満ち、勇敢で戦いを愛する二人は、欺瞞的な羅刹の戦士たちによってこの状態にさせられた。

6.50.16

भ्रातृपुत्रेण चैतेन दुष्पुत्रेण दुरात्मना।
राक्षस्या जिह्मया बुद्ध्या वञ्चितावृजुविक्रमौ ॥ ६.५०.१६ ॥

兄の息子で、邪悪な心をもつこの不肖の子と、羅刹女の曲がった知恵によって、この真っ直ぐで勇敢な二人は欺かれた。

6.50.17

शरैरिमावलं विद्धौ रुधिरेण समुक्षितौ।
वसुधायामिमौ सुप्तौ दृश्येते शल्यकाविव ॥ ६.५०.१७ ॥

矢で全身を貫かれ、血にまみれて、二人は地に横たわり、ヤマアラシのように見える。

6.50.18

ययोर्वीर्यमुपाश्रित्य प्रतिष्ठा काङ्क्षिता मया।
ताविमौ देहनाशाय प्रसुप्तौ पुरुषर्षभौ ॥ ६.५०.१८ ॥

その武勇を頼みとして私は足場を得たいと望んだが、人中の牡牛であるこの二人は、身体の滅びのために眠っている。

6.50.19

जीवन्नद्य विपन्नोऽस्मि नष्टराज्यमनोरथः।
प्राप्तप्रतिज्ञश्च रिपुः सकामो रावणः कृतः ॥ ६.५०.१९ ॥

今日生きてはいても私は滅びた。王国を得る願いは潰えた。誓いは果たされず、敵ラーヴァナは望みを遂げてしまった。

6.50.20

एवं विलपमानं तं परिष्वज्य विभीषणम्।
सुग्रीवः सत्त्वसम्पन्नो हरिराजोऽब्रवीदिदम् ॥ ६.५०.२० ॥

このように嘆くヴィビーシャナを抱きしめて、気力に満ちた猿王スグリーヴァはこう言った。

6.50.21

राज्यं प्राप्स्यसि धर्मज्ञ लङ्कायां नेह संशयः।
रावणः सह पुत्रेण स्वकामं नेह लप्स्यते ॥ ६.५०.२१ ॥

法を知る者よ、お前は必ずやランカーの王国を得る、疑いはない。息子とともにラーヴァナはここで望みを遂げることはできない。

6.50.22

गरुडाधिष्ठितावेतावुभौ राघवलक्ष्मणौ।
त्यक्त्वा मोहं वधिष्येते सगणं रावणं रणे ॥ ६.५०.२२ ॥

ガルダに守られたこの二人、ラーガヴァとラクシュマナは、迷いを捨て、戦場で一族もろともラーヴァナを討つであろう。

6.50.23

तमेवं सान्त्वयित्वा तु समाश्वास्य तु राक्षसम्।
सुषेणं श्वशुरं पार्श्वे सुग्रीवस्तमुवाच ह ॥ ६.५०.२३ ॥

その羅刹をこのように慰め、力づけてから、スグリーヴァは傍らにいた義父のスシェーナに語った。

6.50.24

सह शूरैर्हरिगणैर्लब्धसंज्ञावरिंदमौ।
गच्छ त्वं भ्रातरौ गृह्य किष्किन्धां रामलक्ष्मणौ ॥ ६.५०.२४ ॥

勇猛な猿の群れとともに、意識を取り戻した敵を制する二人の兄弟、ラーマとラクシュマナを連れて、キシュキンダーへ行け。

6.50.25

अहं तु रावणं हत्वा सपुत्रं सहबान्धवम्।
मैथिलीमानयिष्यामि शक्रो नष्टामिव श्रियम् ॥ ६.५०.२५ ॥

ラーヴァナをその息子や親族もろとも討ち、インドラが失った繁栄を取り戻すように、マイティリーを連れ戻すであろう。

6.50.26

श्रुत्वैतद् वानरेन्द्रस्य सुषेणो वाक्यमब्रवीत्।
देवासुरं महायुद्धमनुभूतं पुरातनम् ॥ ६.५०.२६ ॥

猿王のこの言葉を聞いて、スシェーナは言った。「神々と阿修羅の間の古の大戦を、私は体験しました。」

6.50.27

तदा स्म दानवा देवान् शरसंस्पर्शकोविदान्।
निजघ्नुः शस्त्रविदुषश्छादयन्तो मुहुर्मुहुः ॥ ६.५०.२७ ॥

そのとき、ダーナヴァたちは矢の扱いに長け武器に通じた神々を、幾度も矢で覆い尽くして打ち倒した。

6.50.28

तानार्तान् नष्टसंज्ञांश्च गतासूंश्च बृहस्पतिः।
विद्याभिर्मन्त्रयुक्ताभिरोषधीभिश्चिकित्सति ॥ ६.५०.२८ ॥

ブリハスパティは、苦しみ、意識を失い、息絶えた神々を、マントラを伴う術と薬草によって治療する。

6.50.29

तान्यौषधान्यानयितुं क्षीरोदं यान्तु सागरम्।
जवेन वानराः शीघ्रं सम्पातिपनसादयः ॥ ६.५०.२९ ॥

その薬草を持ち帰るため、猿たちは速やかに乳海へ行け。サンパーティ、パナサらよ、急ぎ行け。

6.50.30

हरयस्तु विजानन्ति पार्वती ते महौषधी।
संजीवकरणीं दिव्यां विशल्यां देवनिर्मिताम् ॥ ६.५०.३० ॥

猿たちは山にあるその大薬草を知っている。死者をよみがえらせるサンジーヴァカラニーと、神々が造った神聖なヴィシャルヤーである。

6.50.31

चन्द्रश्च नाम द्रोणश्च क्षीरोदे सागरोत्तमे।
अमृतं यत्र मथितं तत्र ते परमौषधी ॥ ६.५०.३१ ॥

月(チャンドラ)とドローナという名の山々は、最良の海である乳海にあり、甘露が攪拌されたその場所にこそ、無上の薬草がある。

6.50.32

तौ तत्र विहितौ देवैः पर्वतौ तौ महोदधौ।
अयं वायुसुतो राजन् हनूमांस्तत्र गच्छतु ॥ ६.५०.३२ ॥

その二つの山は、神々がその大海に置いたものです。王よ、風神の子ハヌマーンをそこへ行かせましょう。

6.50.33

एतस्मिन्नन्तरे वायुर्मेघाश्चापि सविद्युतः।
पर्यस्य सागरे तोयं कम्पयन्निव पर्वतान् ॥ ६.५०.३३ ॥

その間に、風と稲妻を伴う雲が海水をかき回し、まるで山々を揺るがすかのようであった。

6.50.34

महता पक्षवातेन सर्वद्वीपमहाद्रुमाः।
निपेतुर्भग्नविटपाः सलिले लवणाम्भसि ॥ ६.५०.३४ ॥

その大きな翼の風によって、すべての島の大樹は枝を折られ、塩水の中へと倒れ込んだ。

6.50.35

अभवन् पन्नगास्त्रस्ता भोगिनस्तत्रवासिनः।
शीघ्रं सर्वाणि यादांसि जग्मुश्च लवणार्णवम् ॥ ६.५०.३५ ॥

そこに住む頭巾を持つ蛇たちは怯え、すべての水棲の生き物はすぐに塩の海へと去っていった。

6.50.36

ततो मुहूर्ताद् गरुडं वैनतेयं महाबलम्।
वानरा ददृशुः सर्वे ज्वलन्तमिव पावकम् ॥ ६.५०.३६ ॥

その後しばらくして、すべての猿たちは、火のように燃え輝く大力のヴィナターの子ガルダを見た。

6.50.37

तमागतमभिप्रेक्ष्य नागास्ते विप्रदुद्रुवुः।
यैस्तु तौ पुरुषौ बद्धौ शरभूतैर्महाबलैः ॥ ६.५०.३७ ॥

彼が近づくのを見て、シャラバのように強大な、あの二人を縛っていた蛇神たちは、四方へ逃げ去った。

6.50.38

ततः सुपर्णः काकुत्स्थौ स्पृष्ट्वा प्रत्यभिनन्द्य च।
विममर्श च पाणिभ्यां मुखे चन्द्रसमप्रभे ॥ ६.५०.३८ ॥

その後スパルナは二人のカークツトスタに触れ、挨拶を返し、月のように輝く顔を両手で確かめた。

6.50.39

वैनतेयेन संस्पृष्टास्तयोः संरुरुहुर्व्रणाः।
सुवर्णे च तनू स्निग्धे तयोराशु बभूवतुः ॥ ६.५०.३९ ॥

ヴァイナテーヤが触れると、二人の傷はたちまち塞がり、金色のすらりとした滑らかな体はまもなく回復した。

6.50.40

तेजो वीर्यं बलं चौज उत्साहश्च महागुणाः।
प्रदर्शनं च बुद्धिश्च स्मृतिश्च द्विगुणा तयोः ॥ ६.५०.४० ॥

二人の輝き、勇気、力、活力、意気、偉大な徳、武技の発揮、知性と記憶は、いずれも二倍になった。

6.50.41

तावुत्थाप्य महातेजा गरुडो वासवोपमौ।
उभौ च सस्वजे हृष्टो रामश्चैनमुवाच ह ॥ ६.५०.४१ ॥

インドラに等しい二人を助け起こし、大いに輝くガルダは喜んで二人を抱きしめた。するとラーマが彼に語った。

6.50.42

भवत्प्रसादाद् व्यसनं रावणिप्रभवं महत्।
उपायेन व्यतिक्रान्तौ शीघ्रं च बलिनौ कृतौ ॥ ६.५०.४२ ॥

あなたのご恩によって、ラーヴァナの息子(インドラジット)から起きたこの大いなる災厄は、一つの手段で乗り越えられ、我ら二人はすぐに力を取り戻しました。

6.50.43

यथा तातं दशरथं यथाजं च पितामहम्।
तथा भवन्तमासाद्य हृदयं मे प्रसीदति ॥ ६.५०.४३ ॥

父ダシャラタと祖父アジャに会うと心が喜んだように、今あなたに会って私の心は喜びに満ちています。

6.50.44

को भवान् रूपसम्पन्नो दिव्यस्रगनुलेपनः।
वसानो विरजे वस्त्रे दिव्याभरणभूषितः ॥ ६.५०.४४ ॥

あなたは誰ですか。美しい姿で、神聖な花環と香油を身につけ、汚れなき衣をまとい、天の装身具で飾られています。

6.50.45

तमुवाच महातेजा वैनतेयो महाबलः।
पतत्त्रिराजः प्रीतात्मा हर्षपर्याकुलेक्षणम् ॥ ६.५०.४५ ॥

すると偉大な光輝と力を持つ鳥王ヴァイナテーヤは、喜ぶ心で、喜びに満ちた目をして彼に語った。

6.50.46

अहं सखा ते काकुत्स्थ प्रियः प्राणो बहिश्चरः।
गरुत्मानिह सम्प्राप्तो युवयोः साह्यकारणात् ॥ ६.५०.४६ ॥

カークツトゥ(ラーマ)よ、私はあなたの友、外を駆けるあなたの愛しい命の息です。あなたたち二人を助けるために、ガルダがここに来ました。

6.50.47

असुरा वा महावीर्या दानवा वा महाबलाः।
सुराश्चापि सगन्धर्वाः पुरस्कृत्य शतक्रतुम् ॥ ६.५०.४७ ॥

大いなる力を持つアスラも、大いなる力を持つダーナヴァも、あるいは百祭のインドラを先頭に立てた神々もガンダルヴァも、

6.50.48

नेमं मोक्षयितुं शक्ताः शरबन्धं सुदारुणम्।
मायाबलादिन्द्रजिता निर्मितं क्रूरकर्मणा ॥ ६.५०.४८ ॥

残酷な所行のインドラジット(インドラジット)が幻術の力で作り出したこの極めて恐ろしい矢の束縛は、彼らにも解くことはできない。

6.50.49

एते नागाः काद्रवेयास्तीक्ष्णदंष्ट्रा विषोल्बणाः।
रक्षोमायाप्रभावेण शरभूतास्त्वदाश्रयाः ॥ ६.५०.४९ ॥

カドゥルーの子である、鋭い牙と猛毒を持つこれらの蛇は、羅刹の幻術の力によって矢と化し、あなたに取りついている。

6.50.50

सभाग्यश्चासि धर्मज्ञ राम सत्यपराक्रम।
लक्ष्मणेन सह भ्रात्रा समरे रिपुघातिना ॥ ६.५०.५० ॥

法を知る者ラーマよ、真の勇者よ、あなたは幸運だ。戦場で敵を討つ弟ラクシュマナが共にいるのだから。

6.50.51

इमं श्रुत्वा तु वृत्तान्तं त्वरमाणोऽहमागतः।
सहसैवावयोः स्नेहात् सखित्वमनुपालयन् ॥ ६.५०.५१ ॥

この知らせを聞いて、私は急いで駆けつけた。我ら二人への情愛から、友情を守るために、すぐに来たのだ。

6.50.52

मोक्षितौ च महाघोरादस्मात् सायकबन्धनात्।
अप्रमादश्च कर्तव्यो युवाभ्यां नित्यमेव हि ॥ ६.५०.५२ ॥

あなた方二人はこの恐ろしい矢の束縛から解放された。ゆえに二人とも常に油断なく在らねばならない。

6.50.53

प्रकृत्या राक्षसाः सर्वे संग्रामे कूटयोधिनः।
शूराणां शुद्धभावानां भवतामार्जवं बलम् ॥ ६.५०.५३ ॥

羅刹はもともと皆、戦いにおいて欺瞞を用いる戦士である。しかしあなた方は清らかな心の勇士であり、その率直さこそが力なのだ。

6.50.54

तन्न विश्वसनीयं वो राक्षसानां रणाजिरे।
एतेनैवोपमानेन नित्यं जिह्मा हि राक्षसाः ॥ ६.५०.५४ ॥

ゆえに戦場で羅刹を信用してはならない。この譬えによってこそ知れ、羅刹は常に邪悪なのだと。

6.50.55

एवमुक्त्वा तदा रामं सुपर्णः स महाबलः।
परिष्वज्य च सुस्निग्धमाप्रष्टुमुपचक्रमे ॥ ६.५०.५५ ॥

こう言って、大力のスパルナはラーマを深い情愛をこめて抱擁し、別れを告げ始めた。

6.50.56

सखे राघव धर्मज्ञ रिपूणामपि वत्सल।
अभ्यनुज्ञातुमिच्छामि गमिष्यामि यथासुखम् ॥ ६.५०.५६ ॥

友よラーガヴァよ、ダルマを知り、敵にさえ慈しみ深い者よ!あなたの許しを請いたい。今や安らかに去ろう。

6.50.57

न च कौतूहलं कार्यं सखित्वं प्रति राघव।
कृतकर्मा रणे वीर सखित्वं प्रतिवेत्स्यसि ॥ ६.५०.५७ ॥

ラーガヴァよ、この友情を不思議がってはならない。英雄よ、戦いで務めを果たした時、君は私の友情を知るだろう。

6.50.58

बालवृद्धावशेषां तु लङ्कां कृत्वा शरोर्मिभिः।
रावणं तु रिपुं हत्वा सीतां त्वमुपलप्स्यसे ॥ ६.५०.५८ ॥

子供と老人を除いてラṅカーを矢の波の海と化し、敵ラーヴァナを討てば、お前はシーターを取り戻すだろう。

6.50.59

इत्येवमुक्त्वा वचनं सुपर्णः शीघ्रविक्रमः।
रामं च नीरुजं कृत्वा मध्ये तेषां वनौकसाम् ॥ ६.५०.५९ ॥

こう言って、速き勇者スパルナはラーマの苦痛を取り除き、森の住人たちの真ん中に立った。

6.50.60

प्रदक्षिणं ततः कृत्वा परिष्वज्य च वीर्यवान्।
जगामाकाशमाविश्य सुपर्णः पवनो यथा ॥ ६.५०.६० ॥

それから右回りに巡り、抱擁して、勇者スパルナは空へ入り、風のように去っていった。

6.50.61

नीरुजौ राघवौ दृष्ट्वा ततो वानरयूथपाः।
सिंहनादं तदा नेदुर्लाङ्गूलं दुधुवुश्च ते ॥ ६.५०.६१ ॥

病から癒えた二人のラーghava を見て、猿の指揮官たちは獅子のような咆哮をあげ、尾を振った。

6.50.62

ततो भेरीः समाजघ्नुर्मृदङ्गांश्चाप्यवादयन्।
दध्मुः शङ्खान् सम्प्रहृष्टाः क्ष्वेलन्त्यपि यथापुरम् ॥ ६.५०.६२ ॥

すると彼らは大いに喜び、ベーリー太鼓を打ち、ムリダンガを奏で、ホラ貝を吹き、先ほどのように歓声をあげた。

6.50.63

अपरे स्फोट्य विक्रान्ता वानरा नगयोधिनः।
द्रुमानुत्पाट्य विविधांस्तस्थुः शतसहस्रशः ॥ ६.५०.६३ ॥

また別の勇猛な猿たち、山を武器とする戦士らは、腕を打ち鳴らし、様々な木を引き抜いて、数十万の群れとなって立った。

6.50.64

विसृजन्तो महानादांस्त्रासयन्तो निशाचरान्।
लङ्काद्वाराण्युपाजग्मुर्योद्धुकामाः प्लवंगमाः ॥ ६.५०.६४ ॥

大きな咆哮を放ち、夜歩く者(羅刹)を怯えさせながら、戦いを望む跳躍する猿たちはラーンカーの門へ押し寄せた。

6.50.65

तेषां सुभीमस्तुमुलो निनादो
बभूव शाखामृगयूथपानाम्।
क्षये निदाघस्य यथा घनानां
नादः सुभीमो नदतां निशीथे ॥ ६.५०.६५ ॥

猿の指揮官たちの、非常に恐ろしく騒々しい轟きが起こった。夏の終わりの真夜中に雲が鳴り響くように。