Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 6.53

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.53.1

धूम्राक्षं निहतं श्रुत्वा रावणो राक्षसेश्वरः।
क्रोधेन महताऽऽविष्टो निःश्वसन्नुरगो यथा ॥ ६.५३.१ ॥

罗刹之主罗波那听闻烟眼被杀,被大怒所攫,像毒蛇一般喷着粗气。

6.53.2

दीर्घमुष्णं विनिःश्वस्य क्रोधेन कलुषीकृतः।
अब्रवीद् राक्षसं क्रूरं वज्रदंष्ट्रं महाबलम् ॥ ६.५३.२ ॥

罗波那长叹热息,被愤怒所蒙蔽,对残暴而大力的罗刹伐阇罗陀罗说道。

6.53.3

गच्छ त्वं वीर निर्याहि राक्षसैः परिवारितः।
जहि दाशरथिं रामं सुग्रीवं वानरैः सह ॥ ६.५३.३ ॥

去吧,英雄,在罗刹们的簇拥下出发,杀死十车王之子罗摩,以及与猴众在一起的须羯里婆。

6.53.4

तथेत्युक्त्वा द्रुततरं मायावी राक्षसेश्वरः।
निर्जगाम बलैः सार्धं बहुभिः परिवारितः ॥ ६.५३.४ ॥

他说:“就这样吧。”精通幻术的罗刹之主迅速率领大军出发,被众多随从簇拥。

6.53.5

नागैरश्वैः खरैरुष्ट्रैः संयुक्तः सुसमाहितः।
पताकाध्वजचित्रैश्च बहुभिः समलंकृतः ॥ ६.५३.५ ॥

与象、马、驴、骆驼同行,阵列整齐,饰以众多旗幡与彩色旌旗。

6.53.6

ततो विचित्रकेयूरमुकुटेन विभूषितः।
तनुत्रं स समावृत्य सधनुर्निर्ययौ द्रुतम् ॥ ६.५३.६ ॥

随后,他戴上奇妙的臂钏与王冠,披上铠甲,手持弓箭,迅速出发。

6.53.7

पताकालंकृतं दीप्तं तप्तकाञ्चनभूषितम्।
रथं प्रदक्षिणं कृत्वा समारोहच्चमूपतिः ॥ ६.५३.७ ॥

绕行右侧,登上这辆饰有旗幡、光彩熠熠、镶嵌着熔金的战车的,是军队的统帅。

6.53.8

ऋष्टिभिस्तोमरैश्चित्रैः श्लक्ष्णैश्च मुसलैरपि।
भिन्दिपालैश्च चापैश्च शक्तिभिः पट्टिशैरपि ॥ ६.५३.८ ॥

还有长矛(ṛṣṭi)、投枪(tomara)、各式奇异兵器、光滑的木槌、掷镖(bhindipāla)、弓、枪(śakti)和长刀(paṭṭiśa)。

6.53.9

खड्गैश्चक्रैर्गदाभिश्च निशितैश्च परश्वधैः।
पदातयश्च निर्यान्ति विविधाः शस्त्रपाणयः ॥ ६.५३.९ ॥

步兵手持各式兵器走出:刀剑、飞轮、棍棒和锋利的战斧。

6.53.10

विचित्रवाससः सर्वे दीप्ता राक्षसपुङ्गवाः।
गजा महोत्कटाः शूराश्चलन्त इव पर्वताः ॥ ६.५३.१० ॥

诸位罗刹首领皆身着斑斓衣饰、光彩照人;凶猛的战象如移动的山峦一般前行。

6.53.11

ते युद्धकुशला रूढास्तोमराङ्कुशपाणिभिः।
अन्ये लक्षणसंयुक्ताः शूरारूढा महाबलाः ॥ ६.५३.११ ॥

精通战阵的他们手持投枪与象钩骑上战象;其他具有显赫标志的勇士与大力者也都上了象背。

6.53.12

तद् राक्षसबलं सर्वं विप्रस्थितमशोभत।
प्रावृट्काले यथा मेघा नर्दमानाः सविद्युतः ॥ ६.५३.१२ ॥

整支罗刹大军启程之时,光彩灿然,宛如雨季中轰鸣闪电的乌云。

6.53.13

निःसृता दक्षिणद्वारादङ्गदो यत्र यूथपः।
तेषां निष्क्रममाणानामशुभं समजायत ॥ ६.५३.१३ ॥

当他们从南门出来、来到首领安伽陀所在之处时,出发之际出现了不祥之兆。

6.53.14

आकाशाद् विघनात् तीव्रा उल्काश्चाभ्यपतंस्तदा।
वमन्तः पावकज्वालाः शिवा घोरा ववाशिरे ॥ ६.५३.१४ ॥

那时,天空中、云层之间,猛烈的流星坠落,喷吐着火焰;可怕的豺狼嚎叫起来。

6.53.15

व्याहरन्त मृगा घोरा रक्षसां निधनं तदा।
समापतन्तो योधास्तु प्रास्खलंस्तत्र दारुणम् ॥ ६.५३.१५ ॥

那时,可怕的野兽嘶叫起来,预示罗刹的灭亡;纷纷奔来的战士在那里惨烈地绊倒了。

6.53.16

एतानौत्पातिकान् दृष्ट्वा वज्रदंष्ट्रो महाबलः।
धैर्यमालम्ब्य तेजस्वी निर्जगाम रणोत्सुकः ॥ ६.५३.१६ ॥

看见这些征兆,大力的伐阇罗牙齿保持镇定,光彩照人、渴望战斗,便出发了。

6.53.17

तांस्तु विद्रवतो दृष्ट्वा वानरा जितकाशिनः।
प्रणेदुः सुमहानादान् दिशः शब्देन पूरयन् ॥ ६.५३.१७ ॥

看见他们逃跑,自以为获胜的猴众发出巨大的吼声,以声响充满四方。

6.53.18

ततः प्रवृत्तं तुमुलं हरीणां राक्षसैः सह।
घोराणां भीमरूपाणामन्योन्यवधकाङ्क्षिणाम् ॥ ६.५३.१८ ॥

于是猴众与罗刹之间爆发了一场大混战,双方都是形貌可怖的凶猛之辈,彼此都渴望杀死对方。

6.53.19

निष्पतन्तो महोत्साहा भिन्नदेहशिरोधराः।
रुधिरोक्षितसर्वाङ्गा न्यपतन् धरणीतले ॥ ६.५३.१९ ॥

他们以极大的勇气向前冲去,身体与颈项已被撕裂,全身沾满鲜血,倒在大地之上。

6.53.20

केचिदन्योन्यमासाद्य शूराः परिघबाहवः।
चिक्षिपुर्विविधान् शस्त्रान् समरेष्वनिवर्तिनः ॥ ६.५३.२० ॥

一些勇士,双臂如铁杵,彼此相遇,在战场上毫不退缩,纷纷投掷各种兵器。

6.53.21

द्रुमाणां च शिलानां च शस्त्राणां चापि निःस्वनः।
श्रूयते सुमहांस्तत्र घोरो हृदयभेदनः ॥ ६.५३.२१ ॥

那里传来树木、巨石与兵器的巨大、可怕、令人心碎的轰鸣之声。

6.53.22

रथनेमिस्वनस्तत्र धनुषश्चापि घोरवत्।
शङ्खभेरीमृदङ्गानां बभूव तुमुलः स्वनः ॥ ६.५३.२२ ॥

战车车轮之声与弓弦之可怖声响起,海螺、战鼓与木鼓的喧嚣之声也轰然而作。

6.53.23

केचिदस्त्राणि संत्यज्य बाहुयुद्धमकुर्वत ॥ ६.५३.२३ ॥

有些人弃置兵器,转而进行徒手肉搏。

6.53.24

तलैश्च चरणैश्चापि मुष्टिभिश्च द्रुमैरपि।
जानुभिश्च हताः केचिद् भग्नदेहाश्च राक्षसाः।
शिलाभिश्चूर्णिताः केचिद् वानरैर्युद्धदुर्मदैः ॥ ६.५३.२४ ॥

一些罗刹被耳光、脚踢、拳击、树木与膝盖击倒,身躯残破;另一些则被因战斗狂热而癫狂的猴子以巨石砸成碎末。

6.53.25

वज्रदंष्ट्रो भृशं बाणै रणे वित्रासयन् हरीन्।
चचार लोकसंहारे पाशहस्त इवान्तकः ॥ ६.५३.२५ ॥

跋阇罗陀罗在战场上以箭使猴群极度惊惧地游走,如世界毁灭之时手持绳索的死神。

6.53.26

बलवन्तोऽस्त्रविदुषो नानाप्रहरणा रणे।
जघ्नुर्वानरसैन्यानि राक्षसाः क्रोधर्मूच्छिताः ॥ ६.५३.२६ ॥

强大的罗刹们精通武器,持有各种兵器,因愤怒而失去理智,在战场上打击猴子的军队。

6.53.27

जघ्ने तान् राक्षसान् सर्वान् धृष्टो वालिसुतो रणे।
क्रोधेन द्विगुणाविष्टः संवर्तक इवानलः ॥ ६.५३.२७ ॥

勇敢的波利之子安伽达在战场上击杀了所有那些罗刹,被加倍的愤怒所充满,如同毁灭世界的劫火。

6.53.28

तान् राक्षसगणान् सर्वान् वृक्षमुद्यम्य वीर्यवान्।
अङ्गदः क्रोधताम्राक्षः सिंहः क्षुद्रमृगानिव ॥ ६.५३.२८ ॥

勇猛的安伽达双目因愤怒而赤红,举起一棵树,将那些罗刹群全部击倒,如同狮子击杀小鹿。

6.53.29

चकार कदनं घोरं शक्रतुल्यपराक्रमः।
अङ्गदाभिहतास्तत्र राक्षसा भीमविक्रमाः ॥ ६.५३.२९ ॥

安伽达的勇武堪比因陀罗,在那里造成了可怕的杀戮;被安伽达击中的凶猛罗刹纷纷倒下。

6.53.30

विभिन्नशिरसः पेतुर्निकृत्ता इव पादपाः।
रथैश्चित्रैर्ध्वजैरश्वैः शरीरैर्हरिरक्षसाम् ॥ ६.५३.३० ॥

头颅裂开的他们像被砍倒的树木般倒下;战场上堆满了猴子与罗刹的战车、彩色旗帜、马匹和尸体。

6.53.31

रुधिरौघेण संछन्ना भूमिर्भयकरी तदा।
हारकेयूरवस्त्रैश्च शस्त्रैश्च समलंकृता ॥ ६.५३.३१ ॥

那时,被血流覆盖的大地令人恐惧,又点缀着项链、臂钏、衣物与兵器。

6.53.32

भूमिर्भाति रणे तत्र शारदीव यथा निशा।
अङ्गदस्य च वेगेन तद् राक्षसबलं महत्।
प्राकम्पत तदा तत्र पवनेनाम्बुदो यथा ॥ ६.५३.३२ ॥

那里的战场犹如秋夜般明亮。那时,罗刹的庞大军队因安伽陀的冲击而颤抖,如同云朵在风中震颤。