蚁垤《罗摩衍那》 · 篇 6.54
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.54.1
स्वबलस्य च घातेन अङ्गदस्य बलेन च।
राक्षसः क्रोधमाविष्टो वज्रदंष्ट्रो महाबलः ॥ ६.५४.१ ॥
被自身力量的打击和安迦陀的力量所震,怒火中烧的罗刹跋弥陀罗(金刚牙)是大力士。
6.54.2
विस्फार्य च धनुर्घोरं शक्राशनिसमप्रभम्।
वानराणामनीकानि प्राकिरच्छरवृष्टिभिः ॥ ६.५४.२ ॥
他拉开那张可怖的弓,光芒如因陀罗的雷杵,以箭雨覆盖了猴子的军队。
6.54.3
राक्षसाश्चापि मुख्यास्ते रथेषु समवस्थिताः।
नानाप्रहरणाः शूराः प्रायुध्यन्त तदा रणे ॥ ६.५४.३ ॥
那些主要的罗刹也站在战车上,手持各种兵器,作为英雄那时在战场上战斗。
6.54.4
वानराणां च शूरास्तु ते सर्वे प्लवगर्षभाः।
अयुध्यन्त शिलाहस्ताः समवेताः समन्ततः ॥ ६.५४.४ ॥
猴群中的那些勇士,都是最善跳跃的好汉,手持石块,从四面八方聚集起来战斗。
6.54.5
तत्रायुधसहस्राणि तस्मिन्नायोधने भृशम्।
राक्षसाः कपिमुख्येषु पातयांचक्रिरे तदा ॥ ६.५४.५ ॥
在那战场上,罗刹们当时以极大的力量向猴子的首领们投掷了成千上万件兵器。
6.54.6
वानराश्चैव रक्षःसु गिरिवृक्षान् महाशिलाः।
प्रवीराः पातयामासुर्मत्तवारणसंनिभाः ॥ ६.५४.६ ॥
勇猛的猴子们如同发狂的象,向罗刹们投下山岳、树木和巨大的岩石。
6.54.7
शूराणां युध्यमानानां समरेष्वनिवर्तिनाम्।
तद् राक्षसगणानां च सुयुद्धं समवर्तत ॥ ६.५४.७ ॥
不退缩的勇士们在战场上奋战,与罗刹的军队之间爆发了一场激烈的战争。
6.54.8
प्रभिन्नशिरसः केचिच्छिन्नैः पादैश्च बाहुभिः।
शस्त्रैरर्दितदेहास्तु रुधिरेण समुक्षिताः ॥ ६.५४.८ ॥
有些人头颅被劈裂,有些人手足被斩断;被兵器割伤的身体浸满了鲜血。
6.54.9
हरयो राक्षसाश्चैव शेरते गां समाश्रिताः।
कङ्कगृध्रबलाढ्याश्च गोमायुकुलसंकुलाः ॥ ६.५४.९ ॥
猴子与罗刹都倒卧在地上,被鹫鸟和秃鹫所环绕,豺狼成群地聚集其中。
6.54.10
कबन्धानि समुत्पेतुर्भीरूणां भीषणानि वै।
भुजपाणिशिरश्छिन्नाश्छिन्नकायाश्च भूतले ॥ ६.५४.१० ॥
可怖的无头躯干竖立起来,令胆怯者惊恐;手臂、手掌和头颅被斩断,躯体残缺,倒卧在地。
6.54.11
वानरा राक्षसाश्चापि निपेतुस्तत्र भूतले।
ततो वानरसैन्येन हन्यमानं निशाचरम् ॥ ६.५४.११ ॥
猴子与罗刹都倒在那里。随后,被猴军击杀的夜行罗刹……
6.54.12
प्राभज्यत बलं सर्वं वज्रदंष्ट्रस्य पश्यतः।
राक्षसान् भयवित्रस्तान् हन्यमानान् प्लवंगमैः ॥ ६.५४.१२ ॥
在伐阇罗陀瑟特罗眼前,他的全军溃散逃走;惊恐万分的罗刹被跳跃的猴子击杀……
6.54.13
दृष्ट्वा स रोषताम्राक्षो वज्रदंष्ट्रः प्रतापवान्।
प्रविवेश धनुष्पाणिस्त्रासयन् हरिवाहिनीम् ॥ ६.५४.१३ ॥
瓦伊罗达姆什特拉见状,勇猛过人,双目因愤怒而通红,手持弓箭,冲入猴军之中,使其惊恐。
6.54.14
शरैर्विदारयामास कङ्कपत्रैरजिह्मगैः।
बिभेद वानरांस्तत्र सप्ताष्टौ नव पञ्च च ॥ ६.५४.१४ ॥
他用鹤羽做翎、笔直飞行的箭撕裂猴子;在那里他射穿了七八个、九个和五个。
6.54.15
विव्याध परमक्रुद्धो वज्रदंष्ट्रः प्रतापवान्।
त्रस्ताः सर्वे हरिगणाः शरैः संकृत्तदेहिनः।
अङ्गदं सम्प्रधावन्ति प्रजापतिमिव प्रजाः ॥ ६.५४.१५ ॥
极度愤怒的勇猛的瓦伊罗达姆什特拉发起攻击。所有惊恐的猴群,身体被箭射伤,奔向安伽达,如众生奔向生主。
6.54.16
ततो हरिगणान् भग्नान् दृष्ट्वा वालिसुतस्तदा।
क्रोधेन वज्रदंष्ट्रं तमुदीक्षन्तमुदैक्षत ॥ ६.५४.१६ ॥
此时,看到猴群溃散,伐利之子愤怒地望向正注视着他的瓦伊罗达姆什特拉。
6.54.17
वज्रदंष्ट्रोऽङ्गदश्चोभौ योयुध्येते परस्परम्।
चेरतुः परमक्रुद्धौ हरिमत्तगजाविव ॥ ६.५४.१७ ॥
瓦伊罗达姆什特拉与安伽达相互交战,二人极度愤怒,如两头狂暴的猴象般来回奔突。
6.54.18
ततः शतसहस्रेण हरिपुत्रं महाबलम्।
जघान मर्मदेशेषु शरैरग्निशिखोपमैः ॥ ६.५४.१८ ॥
接着,他用十万支如火焰般的箭,射中了强大的猴之子(安伽达)的要害之处。
6.54.19
रुधिरोक्षितसर्वाङ्गो वालिसूनुर्महाबलः।
चिक्षेप वज्रदंष्ट्राय वृक्षं भीमपराक्रमः ॥ ६.५४.१९ ॥
婆利之子浑身血污,大力而勇猛可畏,向金刚獠牙掷出一棵树。
6.54.20
दृष्ट्वा पतन्तं तं वृक्षमसम्भ्रान्तश्च राक्षसः।
चिच्छेद बहुधा सोऽपि मथितः प्रापतद् भुवि ॥ ६.५४.२० ॥
罗刹见树倒下,并不慌乱,将它砍成许多段;他自己也被击中,倒在地上。
6.54.21
तं दृष्ट्वा वज्रदंष्ट्रस्य विक्रमं प्लवगर्षभः।
प्रगृह्य विपुलं शैलं चिक्षेप च ननाद च ॥ ६.५४.२१ ॥
见金刚獠牙如此勇猛,猴中之雄抓起一座巨大的山峰掷出,并且吼叫起来。
6.54.22
तमापतन्तं दृष्ट्वा स रथादाप्लुत्य वीर्यवान्।
गदापाणिरसम्भ्रान्तः पृथिव्यां समतिष्ठत ॥ ६.५४.२२ ॥
见它向自己砸来,那位勇士从车上跃下,手持铁棒,不慌不忙地稳稳立在地上。
6.54.23
अङ्गदेन शिला क्षिप्ता गत्वा तु रणमूर्धनि।
सचक्रकूबरं साश्वं प्रममाथ रथं तदा ॥ ६.५४.२३ ॥
安伽达投出的巨石飞到战阵前方,将车轮、车辕与马匹一并碾碎了战车。
6.54.24
ततोऽन्यच्छिखरं गृह्य विपुलं द्रुमभूषितम्।
वज्रदंष्ट्रस्य शिरसि पातयामास वानरः ॥ ६.५४.२४ ॥
随后那猴子又抓起另一座饰以树木的巨大山峰,将它砸落在金刚獠牙的头上。
6.54.25
अभवच्छोणितोद्गारी वज्रदंष्ट्रः सुमूर्च्छितः।
मुहूर्तमभवन्मूढो गदामालिङ्ग्य निःश्वसन् ॥ ६.५४.२५ ॥
伐遮陀罗吐着鲜血,昏厥过去。片刻间他茫然失措,紧抱着铁棒,长声叹息。
6.54.26
स लब्धसंज्ञो गदया वालिपुत्रमवस्थितम्।
जघान परमक्रुद्धो वक्षोदेशे निशाचरः ॥ ६.५४.२६ ॥
那罗刹恢复知觉,怒不可遏,用铁棒击中了站在那里的伐利之子安伽陀的胸膛。
6.54.27
गदां त्यक्त्वा ततस्तत्र मुष्टियुद्धमकुर्वत।
अन्योन्यं जघ्नतुस्तत्र तावुभौ हरिराक्षसौ ॥ ६.५४.२७ ॥
于是他们弃掉铁棒,在那里徒手搏斗,那两者——猴子与罗刹——彼此殴打。
6.54.28
रुधिरोद्गारिणौ तौ तु प्रहारैर्जनितश्रमौ।
बभूवतुः सुविक्रान्तावङ्गारकबुधाविव ॥ ६.५४.२८ ॥
二者吐着鲜血,被击打得疲惫不堪,却变得异常勇猛,如同火星与水星一般。
6.54.29
ततः परमतेजस्वी अङ्गदः प्लवगर्षभः।
उत्पाट्य वृक्षं स्थितवानासीत् पुष्पफलैर्युतः ॥ ६.५४.२९ ॥
此时,光辉无比的安伽陀,猴群中的雄杰,拔起一棵开满花果的大树,挺立在那里。
6.54.30
जग्राह चार्षभं चर्म खड्गं च विपुलं शुभम्।
किङ्किणीजालसंछन्नं चर्मणा च परिष्कृतम् ॥ ६.५४.३० ॥
他拿起一面牛皮盾牌和一把巨大精美的宝剑,剑上罩着小铃铛的网,并以皮革装饰。
6.54.31
चित्रांश्च रुचिरान् मार्गांश्चेरतुः कपिराक्षसौ।
जघ्नतुश्च तदान्योन्यं नर्दन्तौ जयकांक्षिणौ ॥ ६.५४.३१ ॥
猴子与罗刹在多样而绚丽的路径上移动,咆哮着相互击打,二者都渴望胜利。
6.54.32
व्रणैः सास्रैरशोभेतां पुष्पिताविव किंशुकौ।
युध्यमानौ परिश्रान्तौ जानुभ्यामवनीं गतौ ॥ ६.५४.३२ ॥
二者伤口流血,光彩如盛开的金苏树;他们激战之后疲惫不堪,双膝跪倒在地。
6.54.33
निमेषान्तरमात्रेण अङ्गदः कपिकुञ्जरः।
उदतिष्ठत दीप्ताक्षो दण्डाहत इवोरगः ॥ ६.५४.३३ ॥
转瞬之间,猴中象王安伽达睁着炽烈的眼睛站起,如同被棍棒击中的蛇。
6.54.34
निर्मलेन सुधौतेन खड्गेनास्य महच्छिरः।
जघान वज्रदंष्ट्रस्य वालिसूनुर्महाबलः ॥ ६.५४.३४ ॥
伐林之子以他洁净、磨亮的宝剑,斩下了伐阇罗达瑟特罗的大头颅。
6.54.35
रुधिरोक्षितगात्रस्य बभूव पतितं द्विधा।
तच्च तस्य परीताक्षं शुभं खड्गहतं शिरः ॥ ६.५४.३५ ॥
他浸满鲜血的身躯断为两截倒下,那颗被剑斩落、双目翻白的美丽头颅也滚落在地。
6.54.36
वज्रदंष्ट्रं हतं दृष्ट्वा राक्षसा भयमोहिताः।
त्रस्ता ह्यभ्यद्रवँल्लङ्कां वध्यमानाः प्लवङ्गमैः।
विषण्णवदना दीना ह्रिया किंचिदवाङ्मुखाः ॥ ६.५४.३६ ॥
罗刹们见伐阇罗达瑟特罗被杀,心神为恐惧所迷,惊惶失措,被猴子们击杀,面容沮丧、凄惨,因羞惭而略微低头,向楞伽逃去。
6.54.37
निहत्य तं वज्रधरः प्रतापवान्
स वालिसूनुः कपिसैन्यमध्ये।
जगाम हर्षं महितो महाबलः
सहस्रनेत्रस्त्रिदशैरिवावृतः ॥ ६.५४.३७ ॥
这位威力非凡的瓦利之子杀死了他,如手持金刚杵者一般,在猴军之中心生欢喜;这位大力而受尊敬的英雄,犹如被诸天环绕的千眼因陀罗,光彩照人。