蚁垤《罗摩衍那》 · 篇 6.61
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.61.1
ततो रामो महातेजा धनुरादाय वीर्यवान्।
किरीटिनं महाकायं कुम्भकर्णं ददर्श ह ॥ ६.६१.१ ॥
于是大光明且勇猛的罗摩拿起弓,看见了戴冠、身躯庞大的俱睒罗(Kumbhakarṇa)。
6.61.2
तं दृष्ट्वा राक्षसश्रेष्ठं पर्वताकारदर्शनम्।
क्रममाणमिवाकाशं पुरा नारायणं यथा ॥ ६.६१.२ ॥
他看见那位如山般的罗刹之最,仿佛跨越天空而行,宛如往昔的那罗延天(毗湿奴)。
6.61.3
सतोयाम्बुदसंकाशं काञ्चनाङ्गदभूषणम्।
दृष्ट्वा पुनः प्रदुद्राव वानराणां महाचमूः ॥ ६.६१.३ ॥
他形如满载雨水的云,饰有金臂钏。大群猴军见之,又再度奔逃。
6.61.4
विद्रुतां वाहिनीं दृष्ट्वा वर्धमानं च राक्षसम्।
सविस्मितमिदं रामो विभीषणमुवाच ह ॥ ६.६१.४ ॥
罗摩见大军奔逃,罗刹又渐渐长大,惊异之下对毗毗沙那说了这番话。
6.61.5
कोऽसौ पर्वतसंकाशः किरीटी हरिलोचनः।
लङ्कायां दृश्यते वीरः सविद्युदिव तोयदः ॥ ६.६१.५ ॥
这位如山般、戴冠、眼睛黄褐的英雄是谁?他在楞伽如带闪电的云一般显现。
6.61.6
पृथिव्यां केतुभूतोऽसौ महानेकोऽत्र दृश्यते।
यं दृष्ट्वा वानराः सर्वे विद्रवन्ति ततस्ततः ॥ ६.६१.६ ॥
这位伟大者如旗幡般矗立于大地,独自出现在此;众猴见之,皆四散奔逃。
6.61.7
आचक्ष्व सुमहान् कोऽसौ रक्षो वा यदि वासुरः।
न मयैवंविधं भूतं दृष्टपूर्वं कदाचन ॥ ६.६१.७ ॥
请告诉我,这个巨大的存在是谁?是罗刹还是阿修罗?我以前从未见过这样的生物。
6.61.8
सम्पृष्टो राजपुत्रेण रामेणाक्लिष्टकर्मणा।
विभीषणो महाप्राज्ञः काकुत्स्थमिदमब्रवीत् ॥ ६.६१.८ ॥
无难行之业的王子罗摩询问后,大智慧的毗భీषण对迦古特斯塔说了这番话。
6.61.9
येन वैवस्वतो युद्धे वासवश्च पराजितः।
सैष विश्रवसः पुत्रः कुम्भकर्णः प्रतापवान्।
अस्य प्रमाणसदृशो राक्षसोऽन्यो न विद्यते ॥ ६.६१.९ ॥
这是毗什罗婆之子、威猛的俱母鸽耶那,他曾在战斗中击败过毗婆斯伐多(阎摩)与婆娑(因陀罗)。在体型上,没有其他罗刹能与他相比。
6.61.10
एतेन देवा युधि दानवाश्च
यक्षा भुजंगाः पिशिताशनाश्च।
गन्धर्वविद्याधरकिंनराश्च
सहस्रशो राघव सम्प्रभग्नाः ॥ ६.६१.१० ॥
罗怙之后啊!在战斗中,他使得天神、檀那婆、夜叉、蛇族、食肉罗刹、乾闼婆、持明及紧那罗成千上万地被彻底击溃。
6.61.11
शूलपाणिं विरूपाक्षं कुम्भकर्णं महाबलम्।
हन्तुं न शेकुस्त्रिदशाः कालोऽयमिति मोहिताः ॥ ६.६१.११ ॥
诸天无法杀死大力的俱母鸽耶那,他如持三叉戟的毗卢卜叉(湿婆)一般;他们困惑地想:“这正是时间本身。”
6.61.12
प्रकृत्या ह्येष तेजस्वी कुम्भकर्णो महाबलः।
अन्येषां राक्षसेन्द्राणां वरदानकृतं बलम् ॥ ६.६१.१२ ॥
此俱母鸽耶那天性光辉而大力;其他罗刹王的力量则是由恩赐所造就。
6.61.13
बालेन जातमात्रेण क्षुधार्तेन महात्मना।
भक्षितानि सहस्राणि प्रजानां सुबहून्यपि ॥ ६.६१.१३ ॥
他一出生便饥饿难耐,这位大能的孩童吞食了成千上万、甚至更多的众生。
6.61.14
तेषु सम्भक्ष्यमाणेषु प्रजा भयनिपीडिताः।
यान्त स्म शरणं शक्रं तमप्यर्थं न्यवेदयन् ॥ ६.६१.१४ ॥
在他们被吞食之时,因恐惧而受苦的百姓前往投靠帝释天(因陀罗),并将此事禀告于他。
6.61.15
स कुम्भकर्णं कुपितो महेन्द्रो
जघान वज्रेण शितेन वज्री।
स शक्रवज्राभिहतो महात्मा
चचाल कोपाच्च भृशं ननाद ॥ ६.६१.१५ ॥
于是愤怒的摩诃因陀罗,执金刚者,以锋利的金刚杵击打鸠槃羯罗。被帝释天的金刚杵击中的这位大能者,因愤怒而踉跄,并猛烈咆哮。
6.61.16
तस्य नानद्यमानस्य कुम्भकर्णस्य रक्षसः।
श्रुत्वा निनादं वित्रस्ताः प्रजा भूयो वितत्रसुः ॥ ६.६१.१६ ॥
听到那咆哮的罗刹鸠槃羯罗的吼声,惊恐的百姓更加战栗。
6.61.17
ततः क्रुद्धो महेन्द्रस्य कुम्भकर्णो महाबलः।
निष्कृष्यैरावताद् दन्तं जघानोरसि वासवम् ॥ ६.६१.१७ ॥
于是怒火中烧的大力鸠槃羯罗从爱罗婆多身上拔下一根象牙,击中婆薮(因陀罗)的胸膛。
6.61.18
कुम्भकर्णप्रहारार्तो विजज्वाल स वासवः।
ततो विषेदुः सहसा देवा ब्रह्मर्षिदानवाः ॥ ६.६१.१८ ॥
被鸠槃羯罗的打击所苦,婆薮(因陀罗)怒火燃起。于是诸神、梵仙与檀那婆们骤然感到忧愁。
6.61.19
प्रजाभिः सह शक्रश्च ययौ स्थानं स्वयंभुवः।
कुम्भकर्णस्य दौरात्म्यं शशंसुस्ते प्रजापतेः ॥ ६.६१.१९ ॥
因陀罗与众生一同前往自生者的住所,向众生之主讲述了俱缚罗的恶行。
6.61.20
प्रजानां भक्षणं चापि देवानां चापि धर्षणम्।
आश्रमध्वंसनं चापि परस्त्रीहरणं भृशम् ॥ ६.६१.२० ॥
吞噬众生、攻击并侮辱诸神、摧毁修行林、劫夺他人之妻——这一切都极度增长。
6.61.21
एवं प्रजा यदि त्वेष भक्षयिष्यति नित्यशः।
अचिरेणैव कालेन शून्यो लोको भविष्यति ॥ ६.६१.२१ ॥
若此人如此每日吞噬众生,不久之后世界将变得空荡。
6.61.22
वासवस्य वचः श्रुत्वा सर्वलोकपितामहः।
रक्षांस्यावाहयामास कुम्भकर्णं ददर्श ह ॥ ६.६१.२२ ॥
梵天闻因陀罗之言,召唤罗刹,并见到了俱缚罗。
6.61.23
कुम्भकर्णं समीक्ष्यैव वितत्रास प्रजापतिः।
कुम्भकर्णमथाश्वास्तः स्वयंभूरिदमब्रवीत् ॥ ६.६१.२३ ॥
一见俱缚罗,众生之主便惊恐;随后镇定下来,自生者说道。
6.61.24
ध्रुवं लोकविनाशाय पौलस्त्येनासि निर्मितः।
तस्मात् त्वमद्यप्रभृति मृतकल्पः शयिष्यसे ॥ ६.६१.२४ ॥
“你实为补罗斯底耶之子为毁灭世界而造,因此从今日起,你将如死人般沉睡。”
6.61.25
ब्रह्मशापाभिभूतोऽथ निपपाताग्रतः प्रभोः।
ततः परमसम्भ्रान्तो रावणो वाक्यमब्रवीत् ॥ ६.६१.२५ ॥
被梵天的诅咒所压倒,他跪倒在主神面前。于是极度惶恐的罗波那说了这些话。
6.61.26
प्रवृद्धः काञ्चनो वृक्षः फलकाले निकृत्यते।
न नप्तारं स्वकं न्याय्यं शप्तुमेवं प्रजापते ॥ ६.६१.२६ ॥
长大的金树在结果之时被砍倒。万物之主啊,如此诅咒自己的孙子是不公正的。
6.61.27
न मिथ्यावचनश्च त्वं स्वप्स्यत्येव न संशयः।
कालस्तु क्रियतामस्य शयने जागरे तथा ॥ ६.६१.२७ ॥
你并非说谎之人;他必定会沉睡,这毫无疑问。但应为他的睡眠与醒来确定一个时间。
6.61.28
रावणस्य वचः श्रुत्वा स्वयंभूरिदमब्रवीत्।
शयिता ह्येष षण्मासमेकाहं जागरिष्यति ॥ ६.६१.२८ ॥
罗波那的话被听见后,自生者(梵天)如此说道:他将沉睡六个月,醒来一天。
6.61.29
एकेनाह्ना त्वसौ वीरश्चरन् भूमिं बुभुक्षितः।
व्यात्तास्यो भक्षयेल्लोकान् संवृद्ध इव पावकः ॥ ६.६१.२९ ॥
但在一天之内,那位英雄会饥饿地游荡于大地,张开大口,像暴涨的火焰一样吞噬诸世界。
6.61.30
सोऽसौ व्यसनमापन्नः कुम्भकर्णमबोधयत्।
त्वत्पराक्रमभीतश्च राजा सम्प्रति रावणः ॥ ६.६१.३० ॥
他陷入困境,便唤醒了俱卢吉尔纳;而如今国王罗波那因你的威力而感到恐惧。
6.61.31
स एष निर्गतो वीरः शिबिराद् भीमविक्रमः।
वानरान् भृशसंक्रुद्धो भक्षयन् परिधावति ॥ ६.६१.३१ ॥
那位威力可怖的英雄从营寨中冲出,怒不可遏,一边吞食猴子,一边四处奔跑。
6.61.32
कुम्भकर्णं समीक्ष्यैव हरयोऽद्य प्रदुद्रुवुः।
कथमेनं रणे क्रुद्धं वारयिष्यन्ति वानराः ॥ ६.६१.३२ ॥
一见到昆婆迦尔纳,猴子们今天便四散逃走。在战场上如此暴怒的他,猴子们怎能阻挡?
6.61.34
उच्यन्तां वानराः सर्वे यन्त्रमेतत् समुच्छ्रितम्।
विभीषणवचः श्रुत्वा हेतुमत् सुमुखोद्गतम्।
उवाच राघवो वाक्यं नीलं सेनापतिं तदा ॥ ६.६१.३४ ॥
“要告诉所有猴子,这台机关已被竖立起来。”听了毗भीषण从美貌之口说出的有道理的话,那时罗怙之后对猴军统帅那罗说了这番话。
6.61.35
गच्छ सैन्यानि सर्वाणि व्यूह्य तिष्ठस्व पावके।
द्वाराण्यादाय लङ्कायाश्चर्याश्चास्याथ संक्रमान् ॥ ६.६१.३५ ॥
“去吧,把所有军队布成阵列,守在火门。占据楞伽的城门、它的通道和十字路口。”
6.61.36
शैलशृङ्गाणि वृक्षांश्च शिलाश्चाप्युपसंहरन्।
भवन्तः सायुधाः सर्वे वानराः शैलपाणयः ॥ ६.६१.३६ ॥
“也收集山峰、树木与岩石,你们众猴都要持械,手中执山。”
6.61.37
राघवेण समादिष्टो नीलो हरिचमूपतिः।
शशास वानरानीकं यथावत् कपिकुञ्जरः ॥ ६.६१.३७ ॥
奉罗怙之后之命,猴军统帅那罗——猴中之象——依次向猴军下达了命令。
6.61.38
ततो गवाक्षः शरभो हनूमानङ्गदस्तथा।
शैलशृङ्गाणि शैलाभा गृहीत्वा द्वारमभ्ययुः ॥ ६.६१.३८ ॥
随后,迦婆刹、舍罗婆、哈奴曼与安伽陀,身形如山,手持山峰,朝城门进发。
6.61.39
रामवाक्यमुपश्रुत्य हरयो जितकाशिनः।
पादपैरर्दयन् वीरा वानराः परवाहिनीम् ॥ ६.६१.३९ ॥
众猴听闻罗摩之言,自以为已经胜利,便用树木攻击敌军。
6.61.40
ततो हरीणां तदनीकमुग्रं
रराज शैलोद्यतवृक्षहस्तम्।
गिरेः समीपानुगतं यथैव
महन्महाम्भोधरजालमुग्रम् ॥ ६.६१.४० ॥
此时,猴军这支凶猛的大军,双手高举山峰与树木,宛如大山近旁聚集的巨大而可怖的乌云,光辉耀目。