Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 6.65

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

6.65.1

स तथोक्तस्तु निर्भर्त्स्य कुम्भकर्णो महोदरम्।
अब्रवीद् राक्षसश्रेष्ठं भ्रातरं रावणं ततः ॥ ६.६५.१ ॥

そう言われたクンバカルナはマホーダラを叱りつけ、それから羅刹の最上の者である兄ラーヴァナに語った。

6.65.2

सोऽहं तव भयं घोरं वधात् तस्य दुरात्मनः।
रामस्याद्य प्रमार्जामि निर्वैरो हि सुखी भव ॥ ६.६५.२ ॥

今日、あの邪悪な心のラーマを殺して、お前の恐ろしい恐怖を払いのけよう。敵意なく、幸せでいよ。

6.65.3

गर्जन्ति न वृथा शूरा निर्जला इव तोयदाः।
पश्य सम्पद्यमानं तु गर्जितं युधि कर्मणा ॥ ६.६५.३ ॥

勇士は無益に吼えはしない、水のない雲のようにはならない。戦いで行為によって成就される咆哮を見よ。

6.65.4

न मर्षयन्ति चात्मानं सम्भावयितुमात्मना।
अदर्शयित्वा शूरास्तु कर्म कुर्वन्ति दुष्करम् ॥ ६.६५.४ ॥

彼らは自らを称賛されることを良しとせず、勇士は自分を見せずに困難な行いをなす。

6.65.5

विक्लवानां ह्यबुद्धीनां राज्ञां पण्डितमानिनाम्।
रोचते त्वद्वचो नित्यं कथ्यमानं महोदर ॥ ६.६५.५ ॥

マホーダラよ、弱くて愚かなのに自らを賢者と思う王たちには、お前の言葉がいつも心地よいのだ。

6.65.6

युद्धे कापुरुषैर्नित्यं भवद्भिः प्रियवादिभिः।
राजानमनुगच्छद्भिः सर्वं कृत्यं विनाशितम् ॥ ६.६५.६ ॥

戦いにおいて、いつも臆病者のように、甘い言葉を語りながら王に従う汝らは、すべての事を台無しにした。

6.65.7

राजशेषा कृता लङ्का क्षीणः कोशो बलं हतम्।
राजानमिममासाद्य सुहृच्चिह्नममित्रकम् ॥ ६.६५.७ ॥

ラーヴァナ王のほかにラン カー には何も残っていない。宝庫は尽き、軍勢は滅んだ。友の印をつけた敵が、この王のもとへ迫っている。

6.65.8

एष निर्याम्यहं युद्धमुद्यतः शत्रुनिर्जये।
दुर्नयं भवतामद्य समीकर्तुं महाहवे ॥ ६.६५.८ ॥

戦いの準備を整え、私は今、敵を打ち破るために出陣する。今日、この大戦で、あなた方の誤った策を正すために私は行く。

6.65.9

एवमुक्तवतो वाक्यं कुम्भकर्णस्य धीमतः।
प्रत्युवाच ततो वाक्यं प्रहसन् राक्षसाधिपः ॥ ६.६५.९ ॥

賢いクンバカルナがこう語ると、羅刹の王は笑いながら答えた。

6.65.10

महोदरोऽयं रामात् तु परित्रस्तो न संशयः।
न हि रोचयते तात युद्धं युद्धविशारद ॥ ६.६५.१० ॥

マハーダラよ、この者はラーマに完全に怯えている、疑いない。愛しき者よ、戦いに長けた者よ、お前は戦いを好んでいないのだ。

6.65.11

कश्चिन्मे त्वत्समो नास्ति सौहृदेन बलेन च।
गच्छ शत्रुवधाय त्वं कुम्भकर्ण जयाय च ॥ ६.६५.११ ॥

親愛と力において、私にとってお前に並ぶ者はいない。クンバカルナよ、敵を討ち勝利を得るために行け。

6.65.12

शयानः शत्रुनाशार्थं भवान् सम्बोधितो मया।
अयं हि कालः सुमहान् राक्षसानामरिंदम ॥ ६.६५.१२ ॥

敵を滅ぼすため、眠っていたお前を私は起こした。敵を制する者よ、これは羅刹たちにとって極めて大きな時なのだ。

6.65.13

संगच्छ शूलमादाय पाशहस्त इवान्तकः।
वानरान् राजपुत्रौ च भक्षयादित्यतेजसौ ॥ ६.६५.१३ ॥

槍を取り、縄を手にしたアンタカ(死神)のように進め。そして太陽のように輝く二人の王子と猿の軍勢を喰らい尽くせ。

6.65.14

समालोक्य तु ते रूपं विद्रविष्यन्ति वानराः।
रामलक्ष्मणयोश्चापि हृदये प्रस्फुटिष्यतः ॥ ६.६५.१४ ॥

お前の姿を見れば猿たちは逃げ去るだろう。ラーマとラクシュマナの心さえも張り裂けるだろう。

6.65.15

एवमुक्त्वा महातेजाः कुम्भकर्णं महाबलम्।
पुनर्जातमिवात्मानं मेने राक्षसपुङ्गवः ॥ ६.६५.१५ ॥

力強いクンバカルナにこう語ると、威光ある羅刹の王は、まるで自分が生まれ変わったかのように感じた。

6.65.16

कुम्भकर्णबलाभिज्ञो जानंस्तस्य पराक्रमम्।
बभूव मुदितो राजा शशाङ्क इव निर्मलः ॥ ६.६५.१६ ॥

クンバカルナの力と武勇を知る王は、その勇猛さを知って、曇りなき月のように喜んだ。

6.65.17

इत्येवमुक्तः संहृष्टो निर्जगाम महाबलः।
राज्ञस्तु वचनं श्रुत्वा योद्धुमुद्युक्तवांस्तदा ॥ ६.६५.१७ ॥

こう告げられた力強き者は、大いに喜んで出て行った。王の言葉を聞くと、すぐさま戦いの支度を整えた。

6.65.18

आददे निशितं शूलं वेगाच्छत्रुनिबर्हणः।
सर्वं कालायसं दीप्तं तप्तकाञ्चनभूषणम् ॥ ६.६५.१८ ॥

敵を滅ぼす者は素早く鋭い槍を取った。それは全体が黒鉄で、輝き、熱した黄金で飾られていた。

6.65.19

इन्द्राशनिसमप्रख्यं वज्रप्रतिमगौरवम्।
देवदानवगन्धर्वयक्षपन्नगसूदनम् ॥ ६.६५.१९ ॥

インドラの雷霆のように輝き、金剛杵と同じ重さを持ち、神々・ダーナヴァ・ガンダルヴァ・ヤクシャ・ナーガを滅ぼすもの。

6.65.20

रक्तमाल्यमहादामं स्वतश्चोद्गतपावकम्।
आदाय विपुलं शूलं शत्रुशोणितरञ्जितम् ॥ ६.६५.२० ॥

赤い花輪の大きな飾りを付け、おのずから炎が立ち上り、敵の血に染まった巨大な槍を手に取った。

6.65.21

कुम्भकर्णो महातेजा रावणं वाक्यमब्रवीत्।
गमिष्याम्यहमेकाकी तिष्ठत्विह बलं मम ॥ ६.६५.२१ ॥

大いに輝くクンバカルナはラーヴァナに言った。「私は一人で行く。我が軍はここに留めよ。」

6.65.22

अद्य तान् क्षुधितः क्रुद्धो भक्षयिष्यामि वानरान्।
कुम्भकर्णवचः श्रुत्वा रावणो वाक्यमब्रवीत् ॥ ६.६५.२२ ॥

「今日、飢えと怒りに満ちた私はあの猿どもを喰らい尽くそう」。クンバカルナの言葉を聞いて、ラーヴァナはこう言った。

6.65.23

सैन्यैः परिवृतो गच्छ शूलमुद्गरपाणिभिः।
वानरा हि महात्मानः शूराः सुव्यवसायिनः ॥ ६.६५.२३ ॥

「槍と棍棒を手にした軍勢に囲まれて行け。猿どもは実に高貴で勇敢で、決意固き者たちだ。」

6.65.24

एकाकिनं प्रमत्तं वा नयेयुर्दशनैः क्षयम्।
तस्मात् परमदुर्धर्षः सैन्यैः परिवृतो व्रज।
रक्षसामहितं सर्वं शत्रुपक्षं निषूदय ॥ ६.६५.२४ ॥

「孤独な者や油断している者を、奴らは牙で破滅へ引きずり込むかもしれぬ。ゆえに、比類なき者よ、軍勢に囲まれて行き、羅刹の敵方をことごとく滅ぼせ。」

6.65.25

अथासनात् समुत्पत्य स्रजं मणिकृतान्तराम्।
आबबन्ध महातेजाः कुम्भकर्णस्य रावणः ॥ ६.६५.२५ ॥

するとラーヴァナは座から立ち上がり、宝玉を間に散りばめた花輪を、偉大な光輝のクンバカルナに結びつけた。

6.65.26

अङ्गदान्यङ्गुलीवेष्टान् वराण्याभरणानि च।
हारं च शशिसंकाशमाबबन्ध महात्मनः ॥ ६.६५.२६ ॥

腕輪、指輪、その他の見事な装身具、そして月のように輝く首飾りが、その偉大な魂の持ち主に着けられた。

6.65.27

दिव्यानि च सुगन्धीनि माल्यदामानि रावणः।
गात्रेषु सज्जयामास श्रोत्रयोश्चास्य कुण्डले ॥ ६.६५.२७ ॥

ラーヴァナは、神々しく芳しい花輪を彼の四肢に飾らせ、彼の両耳に耳飾りを着けさせた。

6.65.28

काञ्चनाङ्गदकेयूरनिष्काभरणभूषितः।
कुम्भकर्णो बृहत्कर्णः सुहुतोऽग्निरिवाबभौ ॥ ६.६५.२८ ॥

金の腕輪、腕飾り、金の装身具で飾られた大耳のクンバカルナは、供物を十分に捧げられた火のように輝いた。

6.65.29

श्रोणीसूत्रेण महता मेचकेन व्यराजत।
अमृतोत्पादने नद्धो भुजङ्गेनेव मन्दरः ॥ ६.६५.२९ ॥

大きな黒い腰紐で彼は輝いた。不死の甘露を得るための撹拌の際に蛇に巻かれたマンダラ山のように。

6.65.30

स काञ्चनं भारसहं निवातं
विद्युत्प्रभं दीप्तमिवात्मभासा।
आबध्यमानः कवचं रराज
संध्याभ्रसंवीत इवाद्रिराजः ॥ ६.६५.३० ॥

重さに耐え、風も通さず、稲妻のように輝く黄金の鎧が彼に結びつけられると、彼は自らの輝きで燃え立ち、夕暮れの雲に包まれた山の王のように輝いた。

6.65.31

सर्वाभरणसर्वाङ्गः शूलपाणिः स राक्षसः।
त्रिविक्रमकृतोत्साहो नारायण इवाबभौ ॥ ६.६५.३१ ॥

全身を装飾で飾り、手に槍を持つその羅刹は、三歩のヴィクラマ(ヴィシュヌ)のように意気込み、ナーラーヤナのように輝いた。

6.65.32

भ्रातरं सम्परिष्वज्य कृत्वा चापि प्रदक्षिणम्।
प्रणम्य शिरसा तस्मै प्रतस्थे स महाबलः ॥ ६.६५.३२ ॥

兄を抱擁し、右回りに巡り、頭を垂れて礼拝して、その大力の者は出発した。

6.65.33

तमाशीर्भिः प्रशस्ताभिः प्रेषयामास रावणः।
शङ्खदुन्दुभिनिर्घोषैः सैन्यैश्चापि वरायुधैः ॥ ६.६५.३३ ॥

ラーヴァナは吉祥の祝福を与え、ほら貝と太鼓の轟きとともに、優れた武器を携えた軍勢を添えて彼を送り出した。

6.65.34

तं गजैश्च तुरंगैश्च स्यन्दनैश्चाम्बुदस्वनैः।
अनुजग्मुर्महात्मानो रथिनो रथिनां वरम् ॥ ६.६५.३४ ॥

象と馬と戦車が雲のような轟音を立てる中、大いなる御心の戦車兵たちが戦車兵の中の最上の者に続いた。

6.65.35

सर्पैरुष्ट्रैः खरैश्चैव सिंहद्विपमृगद्विजैः।
अनुजग्मुश्च तं घोरं कुम्भकर्णं महाबलम् ॥ ६.६५.३५ ॥

蛇、ラクダ、ロバ、獅子、象、鹿、鳥たちもまた、あの恐ろしい大力のクンバカルナに従った。

6.65.36

स पुष्पवर्षैरवकीर्यमाणो
धृतातपत्रः शितशूलपाणिः।
मदोत्कटः शोणितगन्धमत्तो
विनिर्ययौ दानवदेवशत्रुः ॥ ६.६५.३६ ॥

花の雨を浴び、頭上に天蓋を掲げ、鋭い槍を手に、慢心に猛り、血の匂いに酔って、ダーナヴァと神々の敵が進み出た。

6.65.37

पदातयश्च बहवो महानादा महाबलाः।
अन्वयू राक्षसा भीमा भीमाक्षाः शस्त्रपाणयः ॥ ६.६५.३७ ॥

徒歩の兵が多く、大声で吠え、非常に強力な、恐ろしい目をした羅刹たちが、武器を手に彼の後に続いた。

6.65.38

रक्ताक्षाः सुबहुव्यामा नीलाञ्जनचयोपमाः।
शूलानुद्यम्य खड्गांश्च निशितांश्च परश्वधान् ॥ ६.६५.३८ ॥

赤い目をし、非常に長い腕と大きな体を持ち、青い黒眼墨の山のようで、槍と剣と鋭い戦斧を振り上げていた。

6.65.39

भिन्दिपालांश्च परिघान् गदाश्च मुसलानि च।
तालस्कन्धांश्च विपुलान् क्षेपणीयान् दुरासदान् ॥ ६.६५.३९ ॥

投げ槍、鉄の棍棒、戦槌と杵、さらに棕櫚の幹のように巨大で投擲に適し、対抗しがたい武器。

6.65.40

अथान्यद्वपुरादाय दारुणं घोरदर्शनम्।
निष्पपात महातेजाः कुम्भकर्णो महाबलः ॥ ६.६५.४० ॥

そこで彼は別の恐ろしく、恐ろしい姿の身体を取り、大いなる輝きと大力を持つクンバカルナが躍り出た。

6.65.41

धनुःशतपरीणाहः स षट्शतसमुच्छ्रितः।
रौद्रः शकटचक्राक्षो महापर्वतसंनिभः ॥ ६.६५.४१ ॥

幅は百弓、高さは六百弓。凶暴で、車輪のような目をし、大山のようであった。

6.65.42

संनिपत्य च रक्षांसि दग्धशैलोपमो महान्।
कुम्भकर्णो महावक्त्रः प्रहसन्निदमब्रवीत् ॥ ६.६५.४२ ॥

羅刹たちのもとに来て、焼けた山のように大きく、大きな口を持つクンバカルナは、笑いながらこう言った。

6.65.43

अद्य वानरमुख्यानां तानि यूथानि भागशः।
निर्दहिष्यामि संक्रुद्धः पतङ्गानिव पावकः ॥ ६.६५.४३ ॥

今日、怒りに燃えて、あの猿の長たちの群れを、火が蛾を焼くように一つずつ焼き尽くしてやろう。

6.65.44

नापराध्यन्ति मे कामं वानरा वनचारिणः।
जातिरस्मद्विधानां सा पुरोद्यानविभूषणम् ॥ ६.६५.४४ ॥

この森をさまよう猿たちは、私に何の罪も犯してはいない。我々のような者にとって、その種族は城の前の庭園を飾るものにすぎない。

6.65.45

पुररोधस्य मूलं तु राघवः सहलक्ष्मणः।
हते तस्मिन् हतं सर्वं तं वधिष्यामि संयुगे ॥ ६.६५.४५ ॥

都の包囲の根源はまさしくラーガヴァ(ラーマ)とラクシュマナである。彼が殺されれば、すべてが殺されたことになる。彼を戦いで私は必ず殺すだろう。

6.65.46

एवं तस्य ब्रुवाणस्य कुम्भकर्णस्य राक्षसाः।
नादं चक्रुर्महाघोरं कम्पयन्त इवार्णवम् ॥ ६.६५.४६ ॥

クンバカルナがこう語っている間、羅刹たちは海を揺るがすかのように、極めて恐ろしい咆哮をあげた。

6.65.47

तस्य निष्पततस्तूर्णं कुम्भकर्णस्य धीमतः।
बभूवुर्घोररूपाणि निमित्तानि समन्ततः ॥ ६.६५.४७ ॥

その賢明なクンバカルナが急いで進み出ると、四方に恐ろしい姿の凶兆が現れた。

6.65.48

उल्काशनियुता मेघा बभूवुर्गर्दभारुणाः।
ससागरवना चैव वसुधा समकम्पत ॥ ६.६५.४८ ॥

流星と雷electを伴った雲は驢馬のように赤くなり、海と森を抱く大地は全体が震えた。

6.65.49

घोररूपाः शिवा नेदुः सज्वालकवलैर्मुखैः।
मण्डलान्यपसव्यानि बबन्धुश्च विहंगमाः ॥ ६.६५.४९ ॥

恐ろしい姿のジャッカルたちは燃える肉片を口にくわえて鳴き叫び、鳥たちは左回りに輪を描いて飛んだ。

6.65.50

निष्पपात च गृध्रोऽस्य शूले वै पथि गच्छतः।
प्रास्फुरन्नयनं चास्य सव्यो बाहुरकम्पत ॥ ६.६५.५० ॥

道を進んでいると、彼の槍の上に禿鷹が落ちた。目はぴくぴくと震え、左腕がわなないた。

6.65.51

निष्पपात तदा चोल्का ज्वलन्ती भीमनिःस्वना।
आदित्यो निष्प्रभश्चासीन्न वाति च सुखोऽनिलः ॥ ६.६५.५१ ॥

そのとき恐ろしい轟音とともに燃える流星が落ち、太陽は光を失い、心地よい風も吹かなくなった。

6.65.52

अचिन्तयन् महोत्पातानुदितान् रोमहर्षणान्।
निर्ययौ कुम्भकर्णस्तु कृतान्तबलचोदितः ॥ ६.६५.५२ ॥

起こった身の毛もよだつ大きな凶兆を思い巡らしながらも、クンバカルナは死神の力に駆り立てられて出発した。

6.65.53

स लङ्घयित्वा प्राकारं पद्भ्यां पर्वतसंनिभः।
ददर्शाभ्रघनप्रख्यं वानरानीकमद्भुतम् ॥ ६.६५.५३ ॥

山のような巨体の彼は徒歩で城壁を飛び越え、濃い雲のような驚くべき猿の軍勢を目にした。

6.65.54

ते दृष्ट्वा राक्षसश्रेष्ठं वानराः पर्वतोपमम्।
वायुनुन्ना इव घना ययुः सर्वा दिशस्तदा ॥ ६.६५.५४ ॥

羅刹の中の最上の者、山のような彼を見て、猿たちは風に吹き流される雲のように、たちまち四方へ逃げ散った。

6.65.55

तद् वानरानीकमतिप्रचण्डं
दिशो द्रवद्भिन्नमिवाभ्रजालम्।
स कुम्भकर्णः समवेक्ष्य हर्षा-
न्ननाद भूयो घनवद्घनाभः ॥ ६.६५.५५ ॥

四方へ逃げ散る、ちぎれた雲の群れのような、あの猛烈極まるヴァーナラの軍勢を見て、雨雲のように黒いクンバカルナは喜び勇んで再び吼えた。

6.65.56

ते तस्य घोरं निनदं निशम्य
यथा निनादं दिवि वारिदस्य।
पेतुर्धरण्यां बहवः प्लवङ्गा
निकृत्तमूला इव शालवृक्षाः ॥ ६.६५.५६ ॥

天空の雲の雷鳴のような彼の恐ろしい咆哮を聞いて、根元を断たれた沙羅樹のように、多くのヴァーナラたちが地面に倒れた。

6.65.57

विपुलपरिघवान् स कुम्भकर्णो
रिपुनिधनाय विनिःसृतो महात्मा।
कपिगणभयमाददत् सुभीमं
प्रभुरिव किंकरदण्डवान् युगान्ते ॥ ६.६५.५७ ॥

巨大な鉄の棍棒を持つ大いなる魂のクンバカルナは、敵を滅ぼすために進み出て、猿の群れに最も恐ろしい恐怖を与えた。それは劫末に、キンカラの杖を執る主のようであった。