Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 6.68

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

6.68.1

कुम्भकर्णं हतं दृष्ट्वा राघवेण महात्मना।
राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ॥ ६.६८.१ ॥

偉大な魂のラーガヴァ(ラーマ)によってクムバカルナが殺されたのを見て、ラークシャサたちはラークシャサの王ラーヴァナに報告した。

6.68.2

राजन् स कालसंकाशः संयुक्तः कालकर्मणा।
विद्राव्य वानरीं सेनां भक्षयित्वा च वानरान् ॥ ६.६८.२ ॥

王よ、死のように恐ろしいあの者は、死の所業に駆られ、猿の軍勢を追い散らし、猿たちを食らった。

6.68.3

प्रतपित्वा मुहूर्तं तु प्रशान्तो रामतेजसा।
कायेनार्धप्रविष्टेन समुद्रं भीमदर्शनम् ॥ ६.६८.३ ॥

しばし猛威を振るった後、ラーマの威光によって静まり、恐ろしい様相の海に半身を沈めて(横たわっていた)。

6.68.4

निकृत्तनासाकर्णेन विक्षरद्रुधिरेण च।
रुद्ध्वा द्वारं शरीरेण लङ्कायाः पर्वतोपमः ॥ ६.६८.४ ॥

鼻と耳を切り落とされ、血を流しながら、彼は自らの身体でラン カーの門を塞ぎ、山のようであった。

6.68.5

कुम्भकर्णस्तव भ्राता काकुत्स्थशरपीडितः।
अगण्डभूतो विवृतो दावदग्ध इव द्रुमः ॥ ६.६८.५ ॥

汝の兄クンバカルナは、カークツトゥ(ラーマ)の矢に苦しめられ、森林の火に焼かれた木のように、欠損して露わになって横たわっている。

6.68.6

श्रुत्वा विनिहतं संख्ये कुम्भकर्णं महाबलम्।
रावणः शोकसंतप्तो मुमोह च पपात च ॥ ६.६८.६ ॥

戦場で殺された大力のクンバカルナのことを聞き、悲しみに苛まれたラーヴァナは気を失って倒れた。

6.68.7

पितृव्यं निहतं श्रुत्वा देवान्तकनरान्तकौ।
त्रिशिराश्चातिकायश्च रुरुदुः शोकपीडिताः ॥ ६.६८.७ ॥

叔父が殺されたと聞いて、デーヴァーンタカ、ナラーンタカ、トリシラス、アティカーヤは悲しみに打ちひしがれて泣いた。

6.68.8

भ्रातरं निहतं श्रुत्वा रामेणाक्लिष्टकर्मणा।
महोदरमहापार्श्वौ शोकाक्रान्तौ बभूवतुः ॥ ६.६८.८ ॥

無努力の行いを成す ラーマに兄が殺されたと聞き、マホーダラとマハーパールシャは悲しみに圧倒された。

6.68.9

ततः कृच्छ्रात् समासाद्य संज्ञां राक्षसपुङ्गवः।
कुम्भकर्णवधाद् दीनो विललापाकुलेन्द्रियः ॥ ६.६८.९ ॥

やがて羅刹の最上の者は辛うじて意識を取り戻し、クンバカルナの死に打ちひしがれ、感覚も乱れて嘆いた。

6.68.10

हा वीर रिपुदर्पघ्न कुम्भकर्ण महाबल।
त्वं मां विहाय वै दैवाद् यातोऽसि यमसादनम् ॥ ६.६८.१० ॥

ああ勇士よ、敵の驕りを砕く者、大力のクンバカルナよ!私を捨てて、運命によりお前はヤマの館へ行ってしまったのか。

6.68.11

मम शल्यमनुद्धृत्य बान्धवानां महाबल।
शत्रुसैन्यं प्रताप्यैकः क्व मां संत्यज्य गच्छसि ॥ ६.६८.११ ॥

大力者よ!親族の心の棘を抜かず、独り敵軍を焼き尽くしたのに、私を捨てて、お前はどこへ行くのか。

6.68.12

इदानीं खल्वहं नास्मि यस्य मे पतितो भुजः।
दक्षिणोऽयं समाश्रित्य न बिभेमि सुरासुरात् ॥ ६.६८.१२ ॥

今や私はもはや私ではない、この右腕が落ちたのだから。これを頼みとして、私は神々にも阿修羅にも恐れなかったのだ。

6.68.13

कथमेवंविधो वीरो देवदानवदर्पहा।
कालाग्निप्रतिमो ह्यद्य राघवेण रणे हतः ॥ ६.६८.१३ ॥

神々とダーナヴァの驕りを砕き、時のアグニのようなこのような英雄が、今日戦いでラーガヴァに殺されるとは、どうしてなのか。

6.68.14

यस्य ते वज्रनिष्पेषो न कुर्याद् व्यसनं सदा।
स कथं रामबाणार्तः प्रसुप्तोऽसि महीतले ॥ ६.६८.१४ ॥

お前の雷杵の一撃は誰にも災いをもたらしたことがなかったのに、ラーマの矢に苦しめられ、どうして地に横たわっているのか。

6.68.15

एते देवगणाः सार्धमृषिभिर्गगने स्थिताः।
निहतं त्वां रणे दृष्ट्वा निनदन्ति प्रहर्षिताः ॥ ६.६८.१५ ॥

聖仙たちとともに空に立つこれらの神々の群れは、お前が戦いで殺されたのを見て、喜びに吠え叫んでいる。

6.68.16

ध्रुवमद्यैव संहृष्टा लब्धलक्षाः प्लवंगमाः।
आरोक्ष्यन्तीह दुर्गाणि लङ्काद्वाराणि सर्वशः ॥ ६.६८.१६ ॥

きっと今日のうちに、喜び、目的を遂げた猿たちは、ラーンカーのあらゆる砦と門に登るだろう。

6.68.17

राज्येन नास्ति मे कार्यं किं करिष्यामि सीतया।
कुम्भकर्णविहीनस्य जीविते नास्ति मे मतिः ॥ ६.६८.१७ ॥

王国など私に何の用があろう。シーターをどうするというのか。クンバカルナを失った私には、生きる望みもない。

6.68.18

यद्यहं भ्रातृहन्तारं न हन्मि युधि राघवम्।
ननु मे मरणं श्रेयो न चेदं व्यर्थजीवितम् ॥ ६.६८.१८ ॥

もし私が兄の殺害者ラーガヴァを戦いで討たなければ、死こそ私にとって確かに善い。この無益な命は善くない。

6.68.19

अद्यैव तं गमिष्यामि देशं यत्रानुजो मम।
नहि भ्रातॄन् समुत्सृज्य क्षणं जीवितुमुत्सहे ॥ ६.६८.१९ ॥

今日のうちに、わが弟のいる所へ私は行こう。兄弟を捨てて、一瞬たりとも生きる勇気は私にはない。

6.68.20

देवा हि मां हसिष्यन्ति दृष्ट्वा पूर्वापकारिणम्।
कथमिन्द्रं जयिष्यामि कुम्भकर्ण हते त्वयि ॥ ६.६८.२० ॥

かつて神々に害を与えた私を見て、神々は笑うだろう。クンバカルナよ、お前が倒れた今、どうしてインドラに勝てようか。

6.68.21

तदिदं मामनुप्राप्तं विभीषणवचः शुभम्।
यदज्ञानान्मया तस्य न गृहीतं महात्मनः ॥ ६.६८.२१ ॥

偉大な心のヴィビーシャナの吉祥な言葉を、私は無知のゆえに受け入れなかった。今それが私に降りかかってきた。

6.68.22

विभीषणवचस्तावत् कुम्भकर्णप्रहस्तयोः।
विनाशोऽयं समुत्पन्नो मां व्रीडयति दारुणः ॥ ६.६८.२२ ॥

ヴィビーシャナの言葉はさておき、クンバカルナとプラハスタの滅亡からこの恐ろしい破滅が生じ、私を恥じ入らせる。

6.68.23

तस्यायं कर्मणः प्राप्तो विपाको मम शोकदः।
यन्मया धार्मिकः श्रीमान् स निरस्तो विभीषणः ॥ ६.६८.२३ ॥

あの行いの悲しみの果報が私に来た。私は正しく輝かしいヴィビーシャナを追放したのだ。

6.68.24

कृपणमतीव विलप्य कुम्भकर्णम्।
न्यपतदपि दशाननो भृशार्त-
स्तमनुजमिन्द्ररिपुं हतं विदित्वा ॥ ६.६८.२४ ॥

クンバカルナのために非常に哀れに嘆き、インドラの敵である弟が殺されたと知って、ひどく苦しんだダシャーナナもまた倒れ伏した。