蚁垤《罗摩衍那》 · 篇 6.69
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.69.1
एवं विलपमानस्य रावणस्य दुरात्मनः।
श्रुत्वा शोकाभिभूतस्य त्रिशिरा वाक्यमब्रवीत् ॥ ६.६९.१ ॥
听到被悲痛压倒、哀号不已的恶人罗婆那的话后,三首说出了这些话。
6.69.2
एवमेव महावीर्यो हतो नस्तातमध्यमः।
न तु सत्पुरुषा राजन् विलपन्ति यथा भवान् ॥ ६.६९.२ ॥
我们那位大勇的中间兄弟也正是这样被杀的;但是,大王,善人并不像您这样哀号。
6.69.3
नूनं त्रिभुवनस्यापि पर्याप्तस्त्वमसि प्रभो।
स कस्मात् प्राकृत इव शोचस्यात्मानमीदृशम् ॥ ६.६९.३ ॥
主上,您确实足以胜任三界之事;为何还像普通人那样为自己如此悲叹呢?
6.69.4
ब्रह्मदत्तास्ति ते शक्तिः कवचं सायको धनुः।
सहस्रखरसंयुक्तो रथो मेघसमस्वनः ॥ ६.६९.४ ॥
您有梵天所赐之力、铠甲、箭和弓;还有一辆套着千头驴、声如雷云的战车。
6.69.5
त्वयासकृद्धि शस्त्रेण विशस्ता देवदानवाः।
स सर्वायुधसम्पन्नो राघवं शास्तुमर्हसि ॥ ६.६९.५ ॥
您曾用兵器多次击败天神与阿修罗;您配备了一切兵器,理当制服罗怙之子(罗摩)。
6.69.6
कामं तिष्ठ महाराज निर्गमिष्याम्यहं रणे।
उद्धरिष्यामि ते शत्रून् गरुडः पन्नगानिव ॥ ६.६९.६ ॥
好吧,大王,您留下;我将出阵迎战,像金翅鸟拔除毒蛇一样,铲除您的敌人。
6.69.7
शम्बरो देवराजेन नरको विष्णुना यथा।
तथाद्य शयिता रामो मया युधि निपातितः ॥ ६.६९.७ ॥
犹如天神之王杀死商跋罗,毗湿奴杀死那罗迦,今日罗摩将被我在战场上击倒,躺卧于地。
6.69.8
श्रुत्वा त्रिशिरसो वाक्यं रावणो राक्षसाधिपः।
पुनर्जातमिवात्मानं मन्यते कालचोदितः ॥ ६.६९.८ ॥
罗刹王罗波那听了三头之言,被时运所驱,竟觉得自己仿佛重生了一般。
6.69.9
श्रुत्वा त्रिशिरसो वाक्यं देवान्तकनरान्तकौ।
अतिकायश्च तेजस्वी बभूवुर्युद्धहर्षिताः ॥ ६.६९.९ ॥
听了三头之言,提婆安多迦、那罗安多迦与光耀的阿提迦耶都因战事而欢喜。
6.69.10
ततोऽहमहमित्येवं गर्जन्तो नैर्ऋतर्षभाः।
रावणस्य सुता वीराः शक्रतुल्यपराक्रमाः ॥ ६.६९.१० ॥
于是,罗波那的勇猛诸子——罗刹中的雄牛,武勇堪比因陀罗——各自高吼“我去,我去!”
6.69.11
अन्तरिक्षगताः सर्वे सर्वे मायाविशारदाः।
सर्वे त्रिदशदर्पघ्नाः सर्वे समरदुर्मदाः ॥ ६.६९.११ ॥
他们都能在空中行走,都精通幻术,都能摧毁诸天的傲慢,都因战争而狂热。
6.69.12
सर्वे सुबलसम्पन्नाः सर्वे विस्तीर्णकीर्तयः।
सर्वे समरमासाद्य न श्रूयन्ते स्म निर्जिताः ॥ ६.६९.१२ ॥
他们都拥有强大的力量,名声都传播四方;然而一到战场,全都被击败,此后再无人听闻他们的消息。
6.69.13
देवैरपि सगन्धर्वैः सकिंनरमहोरगैः।
सर्वेऽस्त्रविदुषो वीराः सर्वे युद्धविशारदाः।
सर्वे प्रवरविज्ञानाः सर्वे लब्धवरास्तथा ॥ ६.६९.१३ ॥
即使诸天、乾闼婆、紧那罗和大蛇也无法战胜他们。他们都精通兵器,善于作战,学识卓越,并且都获得了恩赐。
6.69.14
स तैस्तथा भास्करतुल्यवर्चसैः
सुतैर्वृतः शत्रुबलश्रियार्दनैः।
रराज राजा मघवान् यथामरै-
र्वृतो महादानवदर्पनाशनैः ॥ ६.६९.१४ ॥
这位国王被他的儿子们环绕——他们光辉如太阳,能摧毁敌人的力量与荣耀——光彩照人,如同因陀罗被摧毁大阿修罗傲慢的诸天环绕一般。
6.69.15
स पुत्रान् सम्परिष्वज्य भूषयित्वा च भूषणैः।
आशीर्भिश्च प्रशस्ताभिः प्रेषयामास वै रणे ॥ ६.६९.१५ ॥
他拥抱诸子,以饰物装扮他们,并以吉祥的祝福送他们出征。
6.69.16
युद्धोन्मत्तं च मत्तं च भ्रातरौ चापि रावणः।
रक्षणार्थं कुमाराणां प्रेषयामास संयुगे ॥ ६.६९.१६ ॥
罗波那又派遣他的两个兄弟——好战狂与狂醉者——入阵,保护诸王子。
6.69.17
तेऽभिवाद्य महात्मानं रावणं लोकरावणम्।
कृत्वा प्रदक्षिणं चैव महाकायाः प्रतस्थिरे ॥ ६.६९.१७ ॥
众人向罗波那——令三界恐惧的伟大灵魂——行礼,右绕之后,这些身躯庞大的勇士便出发了。
6.69.18
सर्वौषधीभिर्गन्धैश्च समालभ्य महाबलाः।
निर्जग्मुर्नैर्ऋतश्रेष्ठाः षडेते युद्धकाङ्क्षिणः ॥ ६.६९.१८ ॥
他们以各种草药和香料涂身,这六位强大的罗刹之最,渴望战斗,随即出发。
6.69.19
त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ।
महोदरमहापार्श्वौ निर्जग्मुः कालचोदिताः ॥ ६.६९.१९ ॥
三头与巨身、天灭与人灭、大腹与大胁,受时间驱使,出征而去。
6.69.20
ततः सुदर्शनं नागं नीलजीमूतसंनिभम्।
ऐरावतकुले जातमारुरोह महोदरः ॥ ६.६९.२० ॥
于是大腹骑上了象王苏达尔夏那,它如青色雷云,出自爱罗婆多之族。
6.69.21
सर्वायुधसमायुक्तस्तूणीभिश्चाप्यलंकृतः।
रराज गजमास्थाय सवितेवास्तमूर्धनि ॥ ६.६९.२१ ॥
他配备诸般兵器,又饰以箭袋,骑在象上闪耀如落日照在山巅。
6.69.22
हयोत्तमसमायुक्तं सर्वायुधसमाकुलम्।
आरुरोह रथश्रेष्ठं त्रिशिरा रावणात्मजः ॥ ६.६९.२२ ॥
罗波那之子三头登上了最好的战车,车上驾着良马,装满了各种兵器。
6.69.23
त्रिशिरा रथमास्थाय विरराज धनुर्धरः।
सविद्युदुल्कः सज्वालः सेन्द्रचाप इवाम्बुदः ॥ ६.६९.२३ ॥
三头手持弓,登上战车,光辉如云中有闪电、流星、火焰与虹霓。
6.69.24
त्रिभिः किरीटैस्त्रिशिराः शुशुभे स रथोत्तमे।
हिमवानिव शैलेन्द्रस्त्रिभिः काञ्चनपर्वतैः ॥ ६.६९.२४ ॥
三头以三顶王冠在那辆最好的战车上熠熠生辉,如山王喜马拉雅以三座金峰闪耀。
6.69.25
अतिकायोऽतितेजस्वी राक्षसेन्द्रसुतस्तदा।
आरुरोह रथश्रेष्ठं श्रेष्ठः सर्वधनुष्मताम् ॥ ६.६९.२५ ॥
阿提迦耶,极其光辉,罗刹王之子,此时登上了最好的战车;他是所有弓箭手中的第一人。
6.69.26
सुचक्राक्षं सुसंयुक्तं स्वनुकर्षं सुकूबरम्।
तूणीबाणासनैर्दीप्तं प्रासासिपरिघाकुलम् ॥ ६.६९.२६ ॥
车轮与车轴精良,驾驭妥当,缰绳与车辕皆佳,闪耀着箭囊、箭矢与弓,满载长矛、利剑与铁棒。
6.69.27
स काञ्चनविचित्रेण किरीटेन विराजता।
भूषणैश्च बभौ मेरुः प्रभाभिरिव भासयन् ॥ ६.६९.२७ ॥
他头戴金饰斑斓的光辉王冠,佩戴饰物,宛如须弥山,仿佛以自身光芒照亮它。
6.69.28
स रराज रथे तस्मिन् राजसूनुर्महाबलः।
वृतो नैर्ऋतशार्दूलैर्वज्रपाणिरिवामरैः ॥ ६.६९.२८ ॥
这位王子,大力者,站在战车上熠熠生辉,被罗刹之虎环绕,如手持金刚杵的因陀罗被诸天环绕。
6.69.29
हयमुच्चैःश्रवःप्रख्यं श्वेतं कनकभूषणम्।
मनोजवं महाकायमारुरोह नरान्तकः ॥ ६.६९.२९ ॥
那罗安塔迦骑上一匹白马,如同乌偈室罗婆,饰以黄金,迅如意念,身躯巨大。
6.69.30
गृहीत्वा प्रासमुल्काभं विरराज नरान्तकः।
शक्तिमादाय तेजस्वी गुहः शिखिगतो यथा ॥ ६.६९.३० ॥
那罗安塔迦手持如火炬般的长矛,光辉耀目,恰如光辉的古诃(塞建陀)手持投枪,坐于孔雀之上。
6.69.31
देवान्तकः समादाय परिघं हेमभूषणम्।
परिगृह्य गिरिं दोर्भ्यां वपुर्विष्णोर्विडम्बयन् ॥ ६.६९.३१ ॥
提婆殿多握起饰以黄金的铁杵,双臂擎起山峰,仿佛模仿毗湿奴的身躯。
6.69.32
महापार्श्वो महातेजा गदामादाय वीर्यवान्।
विरराज गदापाणिः कुबेर इव संयुगे ॥ ६.६९.३२ ॥
大光辉而勇猛的摩诃波湿伐取了铁杖;手持铁杖,他在战场上如同俱毗罗般光辉耀眼。
6.69.33
ते प्रतस्थुर्महात्मानोऽमरावत्याः सुरा इव।
तान् गजैश्च तुरङ्गैश्च रथैश्चाम्बुदनिःस्वनैः ॥ ६.६९.३३ ॥
那些大德者如从阿摩罗婆提出发的天神般出发,有象、马与战车相随,其声如雷鸣的云。
6.69.34
अनूत्पेतुर्महात्मानो राक्षसाः प्रवरायुधाः।
ते विरेजुर्महात्मानः कुमाराः सूर्यवर्चसः ॥ ६.६९.३४ ॥
大德的罗刹手持上等兵器,随之而起;那些如太阳般光耀的大德少年熠熠生辉。
6.69.35
किरीटिनः श्रिया जुष्टा ग्रहा दीप्ता इवाम्बरे।
प्रगृहीता बभौ तेषां शस्त्राणामवलिः सिता ॥ ६.६९.३५ ॥
戴着宝冠、充满光辉的他们,如同天空中闪耀的行星;他们高举的兵器所排列的白色行列也闪闪发光。
6.69.36
शरदभ्रप्रतीकाशा हंसावलिरिवाम्बरे।
मरणं वापि निश्चित्य शत्रूणां वा पराजयम् ॥ ६.६९.३६ ॥
如秋天的云,如天空中的一行天鹅,他们已决意或赴死,或击败敌人。
6.69.37
जगर्जुश्च प्रणेदुश्च चिक्षिपुश्चापि सायकान् ॥ ६.६९.३७ ॥
他们咆哮、怒吼,还射出了箭矢。
6.69.38
जगृहुश्च महात्मानो निर्यान्तो युद्धदुर्मदाः।
क्ष्वेडितास्फोटितानां वै संचचालेव मेदिनी ॥ ६.६९.३८ ॥
那些因战斗而狂热的英雄走出营门,抓起武器;他们的怒吼与击掌之声震动,大地仿佛也在颤抖。
6.69.39
रक्षसां सिंहनादैश्च संस्फोटितमिवाम्बरम्।
तेऽभिनिष्क्रम्य मुदिता राक्षसेन्द्रा महाबलाः ॥ ६.६९.३९ ॥
罗刹们的狮吼之声使天空仿佛在震响。于是那些大力的罗刹之王欢欣地走出。
6.69.40
ददृशुर्वानरानीकं समुद्यतशिलानगम्।
हरयोऽपि महात्मानो ददृशू राक्षसं बलम् ॥ ६.६९.४० ॥
他们看到了高举岩石与山峰的猴军;而那些大德的猿猴也看见了罗刹的军队。
6.69.41
हस्त्यश्वरथसम्बाधं किङ्किणीशतनादितम्।
नीलजीमूतसंकाशं समुद्यतमहायुधम् ॥ ६.६९.४१ ॥
象群、马匹与战车密密麻麻,数百铃声回荡,好似蓝黑色的雷云,高举着巨大的武器。
6.69.42
दीप्तानलरविप्रख्यैर्नैर्ऋतैः सर्वतो वृतम्।
तद् दृष्ट्वा बलमायातं लब्धलक्षाः प्लवङ्गमाः ॥ ६.६९.४२ ॥
看见那支军队前来,四面被如火如日般炽亮的涅利底(罗刹)包围,猿猴们锁定目标,严阵以待。
6.69.43
समुद्यतमहाशैलाः सम्प्रणेदुर्मुहुर्मुहुः।
अमृष्यमाणा रक्षांसि प्रतिनर्दन्त वानराः ॥ ६.६९.४३ ॥
猴子们高举大山,一次又一次地咆哮;无法忍受,他们向罗刹们回以怒吼。
6.69.44
ततः समुत्कृष्टरवं निशम्य
रक्षोगणा वानरयूथपानाम्।
अमृष्यमाणाः परहर्षमुग्रं
महाबला भीमतरं प्रणेदुः ॥ ६.६९.४४ ॥
罗刹的大军听到猴将们响亮的吼声,不能忍受对方的猛烈欢喜,便更加恐怖地咆哮起来。
6.69.45
ते राक्षसबलं घोरं प्रविश्य हरियूथपाः।
विचेरुरुद्यतैः शैलैर्नगाः शिखरिणो यथा ॥ ६.६९.४५ ॥
这些猴将冲入可怕的罗刹大军,手持高举的大山来回驰行,宛如有峰之山。
6.69.46
केचिदाकाशमाविश्य केचिदुर्व्यां प्लवङ्गमाः।
रक्षःसैन्येषु संक्रुद्धाः केचिद् द्रुमशिलायुधाः ॥ ६.६९.४६ ॥
有的猴子跃入天空,有的留在地上;在罗刹军中愤怒的猴子,则以树木和岩石为武器。
6.69.47
द्रुमांश्च विपुलस्कन्धान् गृह्य वानरपुङ्गवाः।
तद् युद्धमभवद् घोरं रक्षोवानरसंकुलम् ॥ ६.६९.४७ ॥
猴中的雄杰们抓起粗壮树干的树木而战,那场充满罗刹与猴子的战斗变得可怕无比。
6.69.48
ते पादपशिलाशैलैश्चक्रुर्वृष्टिमनूपमाम्।
बाणौघैर्वार्यमाणाश्च हरयो भीमविक्रमाः ॥ ६.६९.४८ ॥
他们降下无与伦比的树木、岩石和山石之雨;虽被箭雨阻挡,那些威力惊人的猴子也不退缩。
6.69.49
सिंहनादान् विनेदुश्च रणे राक्षसवानराः।
शिलाभिश्चूर्णयामासुर्यातुधानान् प्लवङ्गमाः ॥ ६.६९.४९ ॥
战场上,罗刹与猴众发出狮子般的吼声;跳跃的猴子以石块将夜叉碾成粉末。
6.69.50
निर्जघ्नुः संयुगे क्रुद्धाः कवचाभरणावृतान्।
केचिद् रथगतान् वीरान् गजवाजिगतानपि ॥ ६.६९.५० ॥
愤怒的猴众在战斗中击杀了身披铠甲、佩戴饰物的勇士们,有的乘战车,也有的骑在象上或马上。
6.69.51
निर्जघ्नुः सहसाऽऽप्लुत्य यातुधानान् प्लवङ्गमाः।
शैलशृङ्गान्विताङ्गास्ते मुष्टिभिर्वान्तलोचनाः ॥ ६.६९.५१ ॥
猴众突然跃起,杀死了夜叉;他们身上带着山峰,以拳头击打,双眼怒睁翻白。
6.69.52
चेलुः पेतुश्च नेदुश्च तत्र राक्षसपुङ्गवाः।
राक्षसाश्च शरैस्तीक्ष्णैर्बिभिदुः कपिकुञ्जरान् ॥ ६.६९.५२ ॥
那里,罗刹中的勇士们或动弹、或倒地、或咆哮;罗刹们以利箭射穿了如象般的猴中之王。
6.69.53
शूलमुद्गरखड्गैश्च जघ्नुः प्रासैश्च शक्तिभिः।
अन्योन्यं पातयामासुः परस्परजयैषिणः ॥ ६.६९.५३ ॥
他们以长矛、狼牙棒、剑、短枪与标枪相击,各自争胜,彼此将对方击倒。
6.69.54
रिपुशोणितदिग्धाङ्गास्तत्र वानरराक्षसाः।
ततः शैलैश्च खड्गैश्च विसृष्टैर्हरिराक्षसैः ॥ ६.६९.५४ ॥
那里的猴众与罗刹,身上沾满敌人的血;随后,猴众与罗刹投掷的山石与刀剑,使战斗继续进行。
6.69.55
मुहूर्तेनावृता भूमिरभवच्छोणितोक्षिता।
विकीर्णैः पर्वताकारै रक्षोभिरभिमर्दितैः।
आसीद् वसुमती पूर्णा तदा युद्धमदान्वितैः ॥ ६.६९.५५ ॥
顷刻之间,大地被鲜血覆盖浸透;那时,大地布满了如山岳般的罗刹,他们四散倒地被碾碎,沉醉于战斗的狂热。
6.69.56
आक्षिप्ताः क्षिप्यमाणाश्च भग्नशैलाश्च वानराः।
पुनरङ्गैस्तदा चक्रुरासन्ना युद्धमद्भुतम् ॥ ६.६९.५६ ॥
被抛掷者与抛掷者,手持折断山峰的猴众再度逼近,随即以自己的肢体进行了一场奇异的战斗。
6.69.57
वानरान् वानरैरेव जघ्नुस्ते नैर्ऋतर्षभाः।
राक्षसान् राक्षसैरेव जघ्नुस्ते वानरा अपि ॥ ६.६९.५७ ॥
那些罗刹中的雄牛用猴子打死了猴子,猴子也用罗刹打死了罗刹。
6.69.58
आक्षिप्य च शिलाः शैलाञ्जघ्नुस्ते राक्षसास्तदा।
तेषां चाच्छिद्य शस्त्राणि जघ्नू रक्षांसि वानराः ॥ ६.६९.५८ ॥
罗刹投掷岩石与山峰,随即发动攻击;猴众则斩断他们的兵器,杀死了罗刹。
6.69.59
निर्जघ्नुः शैलशृङ्गैश्च बिभिदुश्च परस्परम्।
सिंहनादान् विनेदुश्च रणे राक्षसवानराः ॥ ६.६९.५९ ॥
他们以山峰击杀,又相互刺穿;在战场上,罗刹与猴众发出如狮吼般的呼喊。
6.69.60
छिन्नवर्मतनुत्राणा राक्षसा वानरैर्हताः।
रुधिरं प्रसृतास्तत्र रससारमिव द्रुमाः ॥ ६.६९.६० ॥
甲胄与护身已被斩断的罗刹,被猴众杀死;他们在那里血流不止地倒下,犹如树木渗出精华的汁液。
6.69.61
रथेन च रथं चापि वारणेनापि वारणम्।
हयेन च हयं केचिन्निर्जघ्नुर्वानरा रणे ॥ ६.६९.६१ ॥
战场上,一些猴子以战车击战车、以象击象、以马击马,将其击倒。
6.69.62
क्षुरप्रैरर्धचन्द्रैश्च भल्लैश्च निशितैः शरैः।
राक्षसा वानरेन्द्राणां बिभिदुः पादपान् शिलाः ॥ ६.६९.६२ ॥
罗刹以刀状箭、半月箭、宽头箭及其他利箭,劈碎了猴王们的树木与岩石。
6.69.63
विकीर्णाः पर्वतास्तैश्च द्रुमच्छिन्नैश्च संयुगे।
हतैश्च कपिरक्षोभिर्दुर्गमा वसुधाभवत् ॥ ६.६९.६३ ॥
战斗中,他们推倒山峦、砍断树木;猴子与罗刹的尸体堆满大地,使其难以通行。
6.69.64
ते वानरा गर्वितहृष्टचेष्टाः
संग्राममासाद्य भयं विमुच्य।
युद्धं स्म सर्वे सह राक्षसैस्ते
नानायुधाश्चक्रुरदीनसत्त्वाः ॥ ६.६९.६४ ॥
那些猴子意气高昂,奔赴战场,抛开恐惧,与罗刹们一同以各种兵器作战,心志坚毅不屈。
6.69.65
तस्मिन् प्रवृत्ते तुमुले विमर्दे
प्रहृष्यमाणेषु वलीमुखेषु।
निपात्यमानेषु च राक्षसेषु
महर्षयो देवगणाश्च नेदुः ॥ ६.६९.६५ ॥
那场可怕而喧嚣的厮杀开始时,猴子欢呼,罗刹纷纷倒下,大仙与诸天神众都发出了呼喊。
6.69.66
ततो हयं मारुततुल्यवेग-
मारुह्य शक्तिं निशितां प्रगृह्य।
नरान्तको वानरसैन्यमुग्रं
महार्णवं मीन इवाविवेश ॥ ६.६९.६६ ॥
于是那罗人之终结者(那罗安塔卡)乘上疾如风的骏马,手持锐利的长矛,冲入凶猛的猴群之中,恰如鱼儿游入大海。
6.69.67
स वानरान् सप्त शतानि वीरः
प्रासेन दीप्तेन विनिर्बिभेद।
एकः क्षणेनेन्द्ररिपुर्महात्मा
जघान सैन्यं हरिपुङ्गवानाम् ॥ ६.६९.६७ ॥
这位英雄一人在瞬间用炽热的长矛刺穿了七百只猴子;因陀罗的大敌这位大德摧毁了猴群中最优秀者的军队。
6.69.68
ददृशुश्च महात्मानं हयपृष्ठप्रतिष्ठितम्।
चरन्तं हरिसैन्येषु विद्याधरमहर्षयः ॥ ६.६९.६८ ॥
诸持明者与大仙人看见那位大德站在马背上,在猴子的军队之间来回奔驰。
6.69.69
स तस्य ददृशे मार्गो मांसशोणितकर्दमः।
पतितैः पर्वताकारैर्वानरैरभिसंवृतः ॥ ६.६९.६९ ॥
他所经之路呈现为血肉泥淖,被如山般倒下的猴子所包围。
6.69.70
यावद् विक्रमितुं बुद्धिं चक्रुः प्लवगपुङ्गवाः।
तावदेतानतिक्रम्य निर्बिभेद नरान्तकः ॥ ६.६९.७० ॥
当最优秀的跳跃猴子正打算进攻时,那罗安多迦已越过他们将其刺穿。
6.69.71
ज्वलन्तं प्रासमुद्यम्य संग्रामाग्रे नरान्तकः।
ददाह हरिसैन्यानि वनानीव विभावसुः ॥ ६.६९.७१ ॥
那罗安多迦在战阵前端举起炽热的长矛,焚烧猴子的军队,如同火焚烧森林。
6.69.72
यावदुत्पाटयामासुर्वृक्षान् शैलान् वनौकसः।
तावत् प्रासहताः पेतुर्वज्रकृत्ता इवाचलाः ॥ ६.६९.७२ ॥
当林中的猴子们正拔起树木和巨石时,被长矛刺中的猴子们如同被雷霆劈裂的山峰一般倒下。
6.69.73
दिक्षु सर्वासु बलवान् विचचार नरान्तकः।
प्रमृद्नन् सर्वतो युद्धे प्रावृट्काले यथानिलः ॥ ६.६९.७३ ॥
强大的那兰多迦奔走于四方,在战场上到处摧毁敌人,如同雨季的风。
6.69.74
न शेकुर्धावितुं वीरा न स्थातुं स्पन्दितुं भयात्।
उत्पतन्तं स्थितं यान्तं सर्वान् विव्याध वीर्यवान् ॥ ६.६९.७४ ॥
众英雄因恐惧而既不能逃跑,也不能站立或移动;那勇猛者刺穿了所有人,无论是跳起的、站立的还是离去的。
6.69.75
एकेनान्तककल्पेन प्रासेनादित्यतेजसा।
भग्नानि हरिसैन्यानि निपेतुर्धरणीतले ॥ ६.६९.७५ ॥
一支长矛,如同死神本身,光辉如太阳,猴子大军被击碎,倒在地上。
6.69.76
वज्रनिष्पेषसदृशं प्रासस्याभिनिपातनम्।
न शेकुर्वानराः सोढुं ते विनेदुर्महास्वनम् ॥ ६.६९.७६ ॥
猴子们无法承受那如雷霆碰撞般的长矛打击,他们发出巨大的吼叫。
6.69.77
पततां हरिवीराणां रूपाणि प्रचकाशिरे।
वज्रभिन्नाग्रकूटानां शैलानां पततामिव ॥ ६.६९.७७ ॥
倒下的猴子英雄们的身影,仿佛是被雷霆劈裂山顶而崩落的群山。
6.69.78
ये तु पूर्वं महात्मानः कुम्भकर्णेन पातिताः।
ते स्वस्था वानरश्रेष्ठाः सुग्रीवमुपतस्थिरे ॥ ६.६९.७८ ॥
那些先前被恭婆迦尔纳击倒的高尚猴王们恢复了元气,来到了须羯里婆身边。
6.69.79
प्रेक्षमाणः स सुग्रीवो ददृशे हरिवाहिनीम्।
नरान्तकभयत्रस्तां विद्रवन्तीं यतस्ततः ॥ ६.६९.७९ ॥
苏羯里婆环顾四周,看见猴军因那罗檀陀迦之惧而惊慌,四处奔逃。
6.69.80
विद्रुतां वाहिनीं दृष्ट्वा स ददर्श नरान्तकम्।
गृहीतप्रासमायान्तं हयपृष्ठप्रतिष्ठितम् ॥ ६.६९.८० ॥
看见溃逃的军队,他望见那罗檀陀迦手持长矛,站在马背上疾驰而来。
6.69.81
दृष्ट्वोवाच महातेजाः सुग्रीवो वानराधिपः।
कुमारमङ्गदं वीरं शक्रतुल्यपराक्रमम् ॥ ६.६९.८१ ॥
苏羯里婆见此情景,这位大光明的猴王,对王子安羯陀——勇力堪比因陀罗的英雄——说道。
6.69.82
गच्छैनं राक्षसं वीरं योऽसौ तुरगमास्थितः।
क्षोभयन्तं हरिबलं क्षिप्रं प्राणैर्वियोजय ॥ ६.६९.८२ ॥
你去找那位乘马而来、搅乱猴军的勇猛罗刹,迅速夺去他的性命。
6.69.83
स भर्तुर्वचनं श्रुत्वा निष्पपाताङ्गदस्तदा।
अनीकान्मेघसंकाशादंशुमानिव वीर्यवान् ॥ ६.६९.८३ ॥
安羯陀闻听主君之命,便从那如云的大军中跃出,英勇如从云中现身的光耀太阳。
6.69.84
शैलसंघातसंकाशो हरीणामुत्तमोऽङ्गदः।
रराजाङ्गदसंनद्धः सधातुरिव पर्वतः ॥ ६.६९.८४ ॥
安羯陀身形高大如群山,乃诸猴中最杰出者,佩戴臂钏,光彩照人,宛如蕴藏矿脉的山岳。
6.69.85
निरायुधो महातेजाः केवलं नखदंष्ट्रवान्।
नरान्तकमभिक्रम्य वालिपुत्रोऽब्रवीद् वचः ॥ ६.६९.८५ ॥
手无寸铁、仅有爪牙的大威德者、婆利之子安伽陀走近那罗檀迦,说了这些话。
6.69.86
तिष्ठ किं प्राकृतैरेभिर्हरिभिस्त्वं करिष्यसि।
अस्मिन् वज्रसमस्पर्शं प्रासं क्षिप्र ममोरसि ॥ ६.६९.८६ ॥
站住!你要用这些普通的猴子做什么?快把这支触感如金刚杵的长矛投向我的胸膛。
6.69.87
अङ्गदस्य वचः श्रुत्वा प्रचुक्रोध नरान्तकः।
संदश्य दशनैरोष्ठं निःश्वस्य च भुजंगवत्।
अभिगम्याङ्गदं क्रुद्धो वालिपुत्रं नरान्तकः ॥ ६.६९.८७ ॥
那罗檀迦听了安伽陀的话,勃然大怒。他咬着嘴唇,像毒蛇一样喘着气,愤怒地走向婆利之子安伽陀。
6.69.88
स प्रासमाविध्य तदाङ्गदाय
समुज्ज्वलन्तं सहसोत्ससर्ज।
स वालिपुत्रोरसि वज्रकल्पे
बभूव भग्नो न्यपतच्च भूमौ ॥ ६.६९.८८ ॥
他挥动长矛,突然将这支闪耀的长矛投向安伽陀。它击中婆利之子那如金刚般的胸膛,断裂后落在地上。
6.69.89
तं प्रासमालोक्य तदा विभग्नं
सुपर्णकृत्तोरगभोगकल्पम्।
तलं समुद्यम्य स वालिपुत्र-
स्तुरंगमस्याभिजघान मूर्ध्नि ॥ ६.६९.८९ ॥
看到那支断裂如被迦楼罗斩断的蛇身般的长矛,婆利之子举起手掌,击打马面罗刹的头部。
6.69.90
निमग्नपादः स्फुटिताक्षितारो
निष्क्रान्तजिह्वोऽचलसंनिकाशः।
स तस्य वाजी निपपात भूमौ
तलप्रहारेण विकीर्णमूर्धा ॥ ६.६९.९० ॥
双足陷入地中,眼珠迸裂,舌头伸出,那匹如山岳般的马被掌击碎了头颅,倒在地上。
6.69.91
नरान्तकः क्रोधवशं जगाम
हतं तुरंगं पतितं समीक्ष्य।
स मुष्टिमुद्यम्य महाप्रभावो
जघान शीर्षे युधि वालिपुत्रम् ॥ ६.६९.९१ ॥
那罗安塔克见马已被杀倒地,便被怒火所控;那位威力巨大者举起拳头,在战场上击中了婆利之子的头顶。
6.69.92
अथाङ्गदो मुष्टिविशीर्णमूर्धा
सुस्राव तीव्रं रुधिरं भृशोष्णम्।
मुहुर्विजज्वाल मुमोह चापि
संज्ञां समासाद्य विसिस्मिये च ॥ ६.६९.९२ ॥
于是,头颅被拳击打碎的安伽陀涌出炽热而猛烈的鲜血;他一次又一次感到灼痛,也曾昏厥,醒来后又惊讶不已。
6.69.93
अथाङ्गदो मृत्युसमानवेगं
संवर्त्य मुष्टिं गिरिशृङ्गकल्पम्।
निपातयामास तदा महात्मा
नरान्तकस्योरसि वालिपुत्रः ॥ ६.६९.९३ ॥
于是,速度如死神般迅猛的大德婆利之子安伽陀紧握拳头,如山峰一般,重重砸向那罗安塔克的胸膛。
6.69.94
स मुष्टिनिर्भिन्ननिमग्नवक्षा
ज्वाला वमन् शोणितदिग्धगात्रः।
नरान्तको भूमितले पपात
यथाचलो वज्रनिपातभग्नः ॥ ६.६९.९४ ॥
胸膛被拳击穿并凹陷,口吐火焰,身上满是鲜血,那罗安塔克倒在地上,像被雷霆击碎的山峰。
6.69.95
तदान्तरिक्षे त्रिदशोत्तमानां
वनौकसां चैव महाप्रणादः।
बभूव तस्मिन् निहतेऽग्र्यवीर्ये
नरान्तके वालिसुतेन संख्ये ॥ ६.६९.९५ ॥
此时天空中,诸天中的至尊与林中的猴众同时发出巨大的欢呼;当瓦利之子在战斗中杀死了勇冠群雄的那罗安塔卡时,便是如此。
6.69.96
अथाङ्गदो राममनःप्रहर्षणं
सुदुष्करं तं कृतवान् हि विक्रमम्।
विसिस्मिये सोऽप्यथ भीमकर्मा
पुनश्च युद्धे स बभूव हर्षितः ॥ ६.६९.९६ ॥
此时安伽陀建立了极为艰难的功业,令罗摩之心欢喜;那位行事可怖的敌将也为之惊愕,随后又在战斗中重新振奋。