Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 6.70

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

6.70.1

नरान्तकं हतं दृष्ट्वा चुक्रुशुर्नैर्ऋतर्षभाः।
देवान्तकस्त्रिमूर्धा च पौलस्त्यश्च महोदरः ॥ ६.७०.१ ॥

ナラーンタカが殺されたのを見て、羅刹の雄牛たちは叫んだ――デーヴァーンタカ、トリシラス、パウラスティヤ、マホーダラ。

6.70.2

आरूढो मेघसंकाशं वारणेन्द्रं महोदरः।
वालिपुत्रं महावीर्यमभिदुद्राव वेगवान् ॥ ६.७०.२ ॥

雲のような象王にまたがったマホーダラは、大いなる勇力を持つヴァーリンの息子へ、疾風のごとく突進した。

6.70.3

भ्रातृव्यसनसंतप्तस्तदा देवान्तको बली।
आदाय परिघं घोरमङ्गदं समभिद्रवत् ॥ ६.७०.३ ॥

兄の滅亡に苦しむ強力なデーヴァーンタカは、恐ろしい鉄の棍棒を取ってアンガダに襲いかかった。

6.70.4

रथमादित्यसंकाशं युक्तं परमवाजिभिः।
आस्थाय त्रिशिरा वीरो वालिपुत्रमथाभ्यगात् ॥ ६.७०.४ ॥

太陽のように輝き、優れた馬に牽かれた戦車に乗って、英雄トリシラスはヴァーリンの息子へと向かった。

6.70.5

स त्रिभिर्देवदर्पघ्नै राक्षसेन्द्रैरभिद्रुतः।
वृक्षमुत्पाटयामास महाविटपमङ्गदः ॥ ६.७०.५ ॥

神々の驕りを砕く三人の羅刹の主に襲われたアンガダは、大きな枝を持つ一本の木を根こそぎ引き抜いた。

6.70.6

देवान्तकाय तं वीरश्चिक्षेप सहसाङ्गदः।
महावृक्षं महाशाखं शक्रो दीप्तामिवाशनिम् ॥ ६.७०.६ ॥

英雄アンガダは突然、大枝を持つその巨大な木をデーヴァーンタカに投げつけた。シャクラが燃え上がる雷霆を放つように。

6.70.7

त्रिशिरास्तं प्रचिच्छेद शरैराशीविषोपमैः।
स वृक्षं कृत्तमालोक्य उत्पपात तदाङ्गदः ॥ ६.७०.७ ॥

三頭のラークシャサは毒蛇のような矢で彼を断ち切った。木が切られたのを見て、アンガダはそのとき跳び上がった。

6.70.8

स ववर्ष ततो वृक्षान् शिलाश्च कपिकुञ्जरः।
तान् प्रचिच्छेद संक्रुद्धस्त्रिशिरा निशितैः शरैः ॥ ६.७०.८ ॥

そこで猿の象は木々と岩を雨のように降らせた。怒った三頭は鋭い矢でそれらを粉々に砕いた。

6.70.9

परिघाग्रेण तान् वृक्षान् बभञ्ज स महोदरः।
त्रिशिराश्चाङ्गदं वीरमभिदुद्राव सायकैः ॥ ६.७०.९ ॥

マホーダラは鉄棍の先でそれらの木々を折り、三頭は矢を携えて勇士アンガダに襲いかかった。

6.70.10

गजेन समभिद्रुत्य वालिपुत्रं महोदरः।
जघानोरसि संक्रुद्धस्तोमरैर्वज्रसंनिभैः ॥ ६.७०.१० ॥

象に乗ってヴァーリンの子に突進したマホーダラは、怒って雷のような投槍で彼の胸を打った。

6.70.11

देवान्तकश्च संक्रुद्धः परिघेण तदाङ्गदम्।
उपगम्याभिहत्याशु व्यपचक्राम वेगवान् ॥ ६.७०.११ ॥

デーヴァーンタカもまた怒って鉄棍を手に安陀に近づき打ち据え、すばやく大きな速さで退いた。

6.70.12

स त्रिभिर्नैर्ऋतश्रेष्ठैर्युगपत् समभिद्रुतः।
न विव्यथे महातेजा वालिपुत्रः प्रतापवान् ॥ ६.७०.१२ ॥

三人の優れたラークシャサが同時に彼を襲ったが、大いなる光輝と威力を持つヴァーリンの子は動じなかった。

6.70.13

स वेगवान् महावेगं कृत्वा परमदुर्जयः।
तलेन समभिद्रुत्य जघानास्य महागजम् ॥ ६.७०.१३ ॥

迅速で勢いの大きな彼は、極めて征服しがたく、手のひらで躍りかかり、その大象を打った。

6.70.14

तस्य तेन प्रहारेण नागराजस्य संयुगे।
पेततुर्नयने तस्य विननाश स कुञ्जरः ॥ ६.७०.१४ ॥

その戦いで、象王のその一撃により、その両眼は落ち、その象は滅びた。

6.70.15

विषाणं चास्य निष्कृष्य वालिपुत्रो महाबलः।
देवान्तकमभिद्रुत्य ताडयामास संयुगे ॥ ६.७०.१५ ॥

その牙を引き抜いて、大力のヴァーリの子は、デーヴァーンタカに躍りかかり、戦いで彼を打った。

6.70.16

स विह्वलस्तु तेजस्वी वातोद्धूत इव द्रुमः।
लाक्षारससवर्णं च सुस्राव रुधिरं महत् ॥ ६.७०.१६ ॥

彼は勇猛であったが、風に揺れる木のように動揺し、漆の汁のような色の大量の血が流れ出た。

6.70.17

अथाश्वास्य महातेजाः कृच्छ्राद् देवान्तको बली।
आविध्य परिघं वेगादाजघान तदाङ्गदम् ॥ ६.७०.१७ ॥

そのとき、大いに輝く力強いデーヴァーンタカは、苦労して立ち直り、鉄の棍棒を振り回して、勢いよくアンガダを打った。

6.70.18

परिघाभिहतश्चापि वानरेन्द्रात्मजस्तदा।
जानुभ्यां पतितो भूमौ पुनरेवोत्पपात ह ॥ ६.७०.१८ ॥

鉄の棍棒に打たれ、猿王の子アンガダもまた膝をついて地に倒れたが、すぐにまた跳び上がった。

6.70.19

तमुत्पतन्तं त्रिशिरास्त्रिभिर्बाणैरजिह्मगैः।
घोरैर्हरिपतेः पुत्रं ललाटेऽभिजघान ह ॥ ६.७०.१९ ॥

跳び上がった猿王の子を、三つの首の魔は三本のまっすぐで恐ろしい矢で額に射た。

6.70.20

ततोऽङ्गदं परिक्षिप्तं त्रिभिर्नैर्ऋतपुङ्गवैः।
हनूमानथ विज्ञाय नीलश्चापि प्रतस्थतुः ॥ ६.७०.२० ॥

そのときアンガダは三人の最強のラークシャサに囲まれた。それを見てハヌマーンとニーラもまた進み出た。

6.70.21

ततश्चिक्षेप शैलाग्रं नीलस्त्रिशिरसे तदा।
तद् रावणसुतो धीमान् बिभेद निशितैः शरैः ॥ ६.७०.२१ ॥

そのときニーラは三つの首の魔へ山の頂を投げつけた。賢明なラーヴァナの子は鋭い矢でそれを砕いた。

6.70.22

तद्बाणशतनिर्भिन्नं विदारितशिलातलम्।
सविस्फुलिङ्गं सज्वालं निपपात गिरेः शिरः ॥ ६.७०.२२ ॥

数百の矢に貫かれ、岩肌を裂かれたその山の頂は、火花と炎をあげて落ちた。

6.70.23

स विजृम्भितमालोक्य हर्षाद् देवान्तको बली।
परिघेणाभिदुद्राव मारुतात्मजमाहवे ॥ ६.७०.२३ ॥

跳び回るハヌマーンを見て、力強いデーヴァーンタカは歓喜に満ち、鉄棍を手に戦場で風の子へ突進した。

6.70.24

तमापतन्तमुत्पत्य हनूमान् कपिकुञ्जरः।
आजघान तदा मूर्ध्नि वज्रकल्पेन मुष्टिना ॥ ६.७०.२४ ॥

襲いかかってきた彼に、猿の中の象ハヌマーンは跳び上がり、雷のような拳で頭を殴りつけた。

6.70.25

शिरसि प्राहरद् वीरस्तदा वायुसुतो बली।
नादेनाकम्पयच्चैव राक्षसान् स महाकपिः ॥ ६.७०.२५ ॥

そのとき勇士、風神の子、剛力の彼は頭を打ち、大猿はその咆哮で羅刹たちをも震えさせた。

6.70.26

स मुष्टिनिष्पिष्टविभिन्नमूर्धा
निर्वान्तदन्ताक्षिविलम्बिजिह्वः।
देवान्तको राक्षसराजसूनु-
र्गतासुरुर्व्यां सहसा पपात ॥ ६.७०.२६ ॥

拳に砕かれ頭は割れ、歯と目は飛び出し、舌は垂れ下がった。神々を滅ぼす羅刹王の子は、命を失い、たちまち地に倒れた。

6.70.27

तस्मिन् हते राक्षसयोधमुख्ये
महाबले संयति देवशत्रौ।
क्रुद्धस्त्रिशीर्षा निशितास्त्रमुग्रं
ववर्ष नीलोरसि बाणवर्षम् ॥ ६.७०.२७ ॥

羅刹の勇士の第一人者、神々の敵、大力の彼が戦で殺されると、怒った三頭(トリシラス)はナラの胸に鋭く猛烈な矢の雨を降らせた。

6.70.28

महोदरस्तु संक्रुद्धः कुञ्जरं पर्वतोपमम्।
भूयः समधिरुह्याशु मन्दरं रश्मिवानिव ॥ ६.७०.२८ ॥

だがひどく怒った摩訶ウダラは、山のような象に素早く再び乗った。曼陀羅山の上に光輝く太陽のように。

6.70.29

ततो बाणमयं वर्षं नीलस्योपर्यपातयत्।
गिरौ वर्षं तडिच्चक्रचापवानिव तोयदः ॥ ६.७०.२९ ॥

それからナラの上に矢の雨を降らせた。稲妻と虹を伴う雲が山に雨を注ぐように。

6.70.30

ततः शरौघैरभिवृष्यमाणो
विभिन्नगात्रः कपिसैन्यपालः।
नीलो बभूवाथ विसृष्टगात्रो
विष्टम्भितस्तेन महाबलेन ॥ ६.७०.३० ॥

そのとき、猿軍の守り手ナラは矢の群れに浴びせられ、体を貫かれ、あの大力の者に押さえられて、手足は力を失った。

6.70.31

ततस्तु नीलः प्रतिलब्धसंज्ञः
शैलं समुत्पाट्य सवृक्षखण्डम्।
ततः समुत्पत्य महोग्रवेगो
महोदरं तेन जघान मूर्ध्नि ॥ ६.७०.३१ ॥

そこでナ―ラは意識を取り戻し、木々ごと山を引き抜くと、猛烈な勢いで跳び上がり、それでマハーウダラの頭を打った。

6.70.32

ततः स शैलाभिनिपातभग्नो
महोदरस्तेन महाद्विपेन।
व्यामोहितो भूमितले गतासुः
पपात वज्राभिहतो यथाद्रिः ॥ ६.७०.३२ ॥

山の落下に砕かれたマハーウダラは、その大象のような岩に打ち倒されて気を失い、雷に打たれた山のように、息絶えて地に倒れた。

6.70.33

पितृव्यं निहतं दृष्ट्वा त्रिशिराश्चापमाददे।
हनूमन्तं च संक्रुद्धो विव्याध निशितैः शरैः ॥ ६.७०.३३ ॥

叔父が殺されたのを見て、トリシラスは弓を取り、激怒して鋭い矢でハヌマーンを射貫いた。

6.70.34

स वायुसूनुः कुपितश्चिक्षेप शिखरं गिरेः।
त्रिशिरास्तच्छरैस्तीक्ष्णैर्बिभेद बहुधा बली ॥ ६.७०.३४ ॥

風神の子は怒って山の頂を投げつけた。しかし力強いトリシラスは鋭い矢でそれを幾つにも射貫いた。

6.70.35

तद् व्यर्थं शिखरं दृष्ट्वा द्रुमवर्षं तदा कपिः।
विससर्ज रणे तस्मिन् रावणस्य सुतं प्रति ॥ ६.७०.३५ ॥

その山頂が無駄に終わったのを見て、猿はそのとき戦いの中でラーヴァナの息子に向けて木々の雨を浴びせた。

6.70.36

तमापतन्तमाकाशे द्रुमवर्षं प्रतापवान्।
त्रिशिरा निशितैर्बाणैश्चिच्छेद च ननाद च ॥ ६.७०.३६ ॥

空から降り注ぐその木々の雨を、勇猛なトリシラスは鋭い矢で断ち切り、雄叫びをあげた。

6.70.37

हनूमांस्तु समुत्पत्य हयं त्रिशिरसस्तदा।
विददार नखैः क्रुद्धो नागेन्द्रं मृगराडिव ॥ ६.७०.३७ ॥

しかしハヌマーンは跳び上がり、怒りに燃えて爪でトリシラスの馬を、獅子が象王を引き裂くように引き裂いた。

6.70.38

अथ शक्तिं समासाद्य कालरात्रिमिवान्तकः।
चिक्षेपानिलपुत्राय त्रिशिरा रावणात्मजः ॥ ६.७०.३८ ॥

そこでラーヴァナの息子トリシラスは、死の夜カーラrâtriのような、あるいは死神のような槍を取り、風の子へと投げつけた。

6.70.39

दिवः क्षिप्तामिवोल्कां तां शक्तिं क्षिप्तामसङ्गताम्।
गृहीत्वा हरिशार्दूलो बभञ्ज च ननाद च ॥ ६.७०.३९ ॥

空から落ちる流星のように投げられた、制御を離れたその槍を、猿の中の虎ハヌマーンは掴んで折り、咆哮した。

6.70.40

तां दृष्ट्वा घोरसंकाशां शक्तिं भग्नां हनूमता।
प्रहृष्टा वानरगणा विनेदुर्जलदा यथा ॥ ६.७०.४० ॥

ハヌマーンに折られたその恐ろしい槍を見て、喜んだ猿の群れは雨雲のように吠えた。

6.70.41

ततः खड्गं समुद्यम्य त्रिशिरा राक्षसोत्तमः।
निचखान तदा खड्गं वानरेन्द्रस्य वक्षसि ॥ ६.७०.४१ ॥

そこで羅刹の中の最上の者トリシラスは剣を振りかざし、猿の王の胸にそれを突き立てた。

6.70.42

खड्गप्रहाराभिहतो हनूमान् मारुतात्मजः।
आजघान त्रिमूर्धानं तलेनोरसि वीर्यवान् ॥ ६.७०.४२ ॥

剣の一撃を受けた風の子ハヌマーンは、勇猛に掌で三つ頭の者の胸を打った。

6.70.43

स तलाभिहतस्तेन स्रस्तहस्तायुधो भुवि।
निपपात महातेजास्त्रिशिरास्त्यक्तचेतनः ॥ ६.७०.४३ ॥

掌の一撃に打たれ、武器が手から滑り落ち、大いなる輝きの三頭の者は意識を失って大地に倒れた。

6.70.44

स तस्य पततः खड्गं तमाच्छिद्य महाकपिः।
ननाद गिरिसंकाशस्त्रासयन् सर्वराक्षसान् ॥ ६.७०.४४ ॥

落ちてくるその剣を断ち切り、山のような大猿は咆哮し、すべての羅刹を恐怖させた。

6.70.45

अमृष्यमाणस्तं घोषमुत्पपात निशाचरः।
उत्पत्य च हनूमन्तं ताडयामास मुष्टिना ॥ ६.७०.४५ ॥

その咆哮に耐えられず、夜行者は飛び起き、跳躍してハヌマーンを拳で打った。

6.70.46

तेन मुष्टिप्रहारेण संचुकोप महाकपिः।
कुपितश्च निजग्राह किरीटे राक्षसर्षभम् ॥ ६.७०.४६ ॥

その拳の一撃に大猿は激怒し、羅刹の雄牛を王冠で掴んだ。

6.70.47

स तस्य शीर्षाण्यसिना शितेन
किरीटजुष्टानि सकुण्डलानि।
क्रुद्धः प्रचिच्छेद सुतोऽनिलस्य
त्वष्टुः सुतस्येव शिरांसि शक्रः ॥ ६.७०.४७ ॥

怒れる風の子は鋭い剣で、冠と耳飾りをつけた彼の頭を断ち切った。インドラがトヴァシュトリの子の頭を断ち切ったように。

6.70.48

तान्यायताक्षाण्यगसंनिभानि
प्रदीप्तवैश्वानरलोचनानि।
पेतुः शिरांसीन्द्ररिपोः पृथिव्यां
ज्योतींषि मुक्तानि यथार्कमार्गात् ॥ ६.७०.४८ ॥

広い目を持ち、山のようで、燃え盛る火のような眼をした、インドラの敵の頭は大地に落ちた。太陽の道から放たれた光のように。

6.70.49

तस्मिन् हते देवरिपौ त्रिशीर्षे
हनूमता शक्रपराक्रमेण।
नेदुः प्लवंगाः प्रचचाल भूमी
रक्षांस्यथो दुद्रुविरे समन्तात् ॥ ६.७०.४९ ॥

神々の敵である三頭の羅刹がインドラに匹敵する武勇のハヌマーンに討たれると、猿たちは吠え、大地は揺れ、羅刹たちは四方へ逃げ散った。

6.70.50

हतं त्रिशिरसं दृष्ट्वा तथैव च महोदरम्।
हतौ प्रेक्ष्य दुराधर्षौ देवान्तकनरान्तकौ ॥ ६.७०.५० ॥

三頭のトリシラスが殺されたのを見て、同じくマホーダラも殺されたのを見て、不敗の二人、デーヴァーンタカとナラーンタカも殺されたのを見て——

6.70.51

चुकोप परमामर्षी मत्तो राक्षसपुङ्गवः।
जग्राहार्चिष्मतीं चापि गदां सर्वायसीं तदा ॥ ६.७०.५१ ॥

極めて激昂し酔いに任せた羅刹の雄は怒りに燃え、そのとき全身が鉄でできた輝く棍棒を手に取った。

6.70.52

हेमपट्टपरिक्षिप्तां मांसशोणितफेनिलाम्।
विराजमानां विपुलां शत्रुशोणिततर्पिताम् ॥ ६.७०.५२ ॥

黄金の帯で巻かれ、肉と血の泡をまとい、輝き、巨大で、敵の血に満ち足りている。

6.70.53

तेजसा सम्प्रदीप्ताग्रां रक्तमाल्यविभूषिताम्।
ऐरावतमहापद्मसार्वभौमभयावहाम् ॥ ६.७०.५३ ॥

先端は光に燃え、赤い花輪で飾られ、方位象のアイラーヴァタ、マハーパドマ、サールヴァバウマすら恐れさせる。

6.70.54

गदामादाय संक्रुद्धो मत्तो राक्षसपुङ्गवः।
हरीन् समभिदुद्राव युगान्ताग्निरिव ज्वलन् ॥ ६.७०.५४ ॥

棍棒を取った激怒し酔いしれた羅刹の雄は、劫末の火のごとく燃え上がり、猿たちめがけて突進した。

6.70.55

अथर्षभः समुत्पत्य वानरो रावणानुजम्।
मत्तानीकमुपागम्य तस्थौ तस्याग्रतो बली ॥ ६.७०.५५ ॥

そのとき猿の中の雄牛である勇士は跳び上がり、ラーヴァナの弟の酔った軍勢に近づいて、その正面に立った。

6.70.56

तं पुरस्तात् स्थितं दृष्ट्वा वानरं पर्वतोपमम्।
आजघानोरसि क्रुद्धो गदया वज्रकल्पया ॥ ६.७०.५६ ॥

目の前にそびえる山のような猿を見て、怒った彼は雷霆のような棍棒でその胸を打った。

6.70.57

स तयाभिहतस्तेन गदया वानरर्षभः।
भिन्नवक्षाः समाधूतः सुस्राव रुधिरं बहु ॥ ६.७०.५७ ॥

その棍棒に打たれ、猿の中の雄牛は胸を裂かれ、激しく揺さぶられて多くの血を流した。

6.70.58

स सम्प्राप्य चिरात् संज्ञामृषभो वानरेश्वरः।
क्रुद्धो विस्फुरमाणौष्ठो महापार्श्वमुदैक्षत ॥ ६.७०.५८ ॥

長い時間の後に意識を取り戻した猿の王は、怒りに唇を震わせながら、マハーパールシュヴァを見据えた。

6.70.59

स वेगवान् वेगवदभ्युपेत्य
तं राक्षसं वानरवीरमुख्यः।
संवर्त्य मुष्टिं सहसा जघान
बाह्वन्तरे शैलनिकाशरूपः ॥ ६.७०.५९ ॥

素早い猿の英雄の筆頭である、山のような姿の彼は、その羅刹のもとへ速やかに近づき、突然拳を握りしめて、その両腕の間を打った。

6.70.60

स कृत्तमूलः सहसेव वृक्षः
क्षितौ पपात क्षतजोक्षिताङ्गः।
तां चास्य घोरां यमदण्डकल्पां
गदां प्रगृह्याशु तदा ननाद ॥ ६.७०.६० ॥

根を切られた木のように、彼は血に塗れた身体で突然地に倒れた。そしてヤマの杖のような恐ろしい棍棒を素早く掴み、咆哮した。

6.70.61

मुहूर्तमासीत् स गतासुकल्पः
प्रत्यागतात्मा सहसा सुरारिः।
उत्पत्य संध्याभ्रसमानवर्ण-
स्तं वारिराजात्मजमाजघान ॥ ६.७०.६१ ॥

しばし彼は命なきもののように横たわっていた。やがて意識が戻ると、神々の敵はたちまち跳ね起き、夕暮れの雲のような色となって、水神の王の御子(ハヌマーン)を打った。

6.70.62

स मूर्च्छितो भूमितले पपात
मुहूर्तमुत्पत्य पुनः ससंज्ञः।
तामेव तस्याद्रिवराद्रिकल्पां
गदां समाविध्य जघान संख्ये ॥ ६.७०.६२ ॥

彼は気を失って地に倒れた。しばらくして再び起き上がり、意識を取り戻すと、山の頂のようなあの同じ棍棒を振り回し、戦いの中で打ちかかった。

6.70.63

सा तस्य रौद्रा समुपेत्य देहं
रौद्रस्य देवाध्वरविप्रशत्रोः।
बिभेद वक्षः क्षतजं च भूरि
सुस्राव धात्वम्भ इवाद्रिराजः ॥ ६.७०.६३ ॥

その恐ろしい棍棒は、神々・祭祀・バラモンの敵である、かの凶暴な者の身体に届き、その胸を貫いた。山の王から鉱物を含む水が流れるように、彼からは多くの血が流れ出た。

6.70.64

अभिदुद्राव वेगेन गदां तस्य महात्मनः।
तां गृहीत्वा गदां भीमामाविध्य च पुनः पुनः ॥ ६.७०.६४ ॥

彼は速やかにあの大いなる魂の持ち主の棍棒へ突進し、その恐ろしい棍棒を掴み、幾度も幾度も振り回した。

6.70.65

मत्तानीकं महात्मा स जघान रणमूर्धनि।
स स्वया गदया भग्नो विशीर्णदशनेक्षणः ॥ ६.७०.६५ ॥

その大いなる魂の者は、戦いの最前線で酔いしれた軍勢を打ち倒した。しかし彼(羅刹)は自らの棍棒に打たれ、歯は砕け、眼は裂けて敗れた。

6.70.66

निपपात तदा मत्तो वज्राहत इवाचलः।
विशीर्णनयने भूमौ गतसत्त्वे गतायुषि।
पतिते राक्षसे तस्मिन् विद्रुतं राक्षसं बलम् ॥ ६.७०.६६ ॥

その時、酔いしれた者は雷に打たれた山のように倒れた。眼は砕け、生気も寿命も尽きて地に伏した。その羅刹が倒れると、羅刹の軍勢は逃げ去った。

6.70.67

तस्मिन् हते भ्रातरि रावणस्य
तन्नैर्ऋतानां बलमर्णवाभम्।
त्यक्तायुधं केवलजीवितार्थं
दुद्राव भिन्नार्णवसंनिकाशम् ॥ ६.७०.६७ ॥

ラーヴァナの弟が殺されると、海のように広大な羅刹の軍勢は武器を捨て、ただ命だけを求めて、裂けた海のように散り散りになって逃げた。