Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 6.71

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

6.71.1

स्वबलं व्यथितं दृष्ट्वा तुमुलं लोमहर्षणम्।
भ्रातॄंश्च निहतान् दृष्ट्वा शक्रतुल्यपराक्रमान् ॥ ६.७१.१ ॥

自軍が苦しみ、身の毛もよだつ大混乱に陥っているのを見て、また因陀羅に並ぶ勇猛な兄弟たちが殺されたのを見て。

6.71.2

पितृव्यौ चापि संदृश्य समरे संनिपातितौ।
युद्धोन्मत्तं च मत्तं च भ्रातरौ राक्षसोत्तमौ ॥ ६.७१.२ ॥

戦で倒れた二人の叔父を見て、また戦に狂い酔いしれた二人の最もすぐれたラークシャサの兄弟をも見て。

6.71.3

चुकोप च महातेजा ब्रह्मदत्तवरो युधि।
अतिकायोऽद्रिसंकाशो देवदानवदर्पहा ॥ ६.७१.३ ॥

梵天から恩恵を受けた大いなる光輝のアティカーヤは、戦いで怒りに燃えた。山のような彼は、神々と阿修羅の驕りを打ち砕く者であった。

6.71.4

स भास्करसहस्रस्य संघातमिव भास्वरम्।
रथमारुह्य शक्रारिरभिदुद्राव वानरान् ॥ ६.७१.४ ॥

千の太陽が集まったかのように輝く戦車に登り、インドラの敵は猿たちへ突進した。

6.71.5

स विस्फार्य तदा चापं किरीटी मृष्टकुण्डलः।
नाम संश्रावयामास ननाद च महास्वनम् ॥ ६.७१.५ ॥

そこで冠をかぶり磨かれた耳飾りをつけた彼は、弓を引き絞り、自分の名を告げさせ、大音声をあげて吠えた。

6.71.6

तेन सिंहप्रणादेन नामविश्रावणेन च।
ज्याशब्देन च भीमेन त्रासयामास वानरान् ॥ ६.७१.६ ॥

その獅子のような吠え声、名乗りの告げ、そして恐ろしい弓弦の音によって、彼は猿たちを怯えさせた。

6.71.7

ते दृष्ट्वा देहमाहात्म्यं कुम्भकर्णोऽयमुत्थितः।
भयार्ता वानराः सर्वे संश्रयन्ते परस्परम् ॥ ६.७१.७ ॥

その巨大な身体を見て、「クンバカルナが立ち上がった」と思い、恐怖に苛まれた猿たちは皆、互いに身を寄せ合った。

6.71.8

ते तस्य रूपमालोक्य यथा विष्णोस्त्रिविक्रमे।
भयाद् वानरयोधास्ते विद्रवन्ति ततस्ततः ॥ ६.७१.८ ॥

彼の姿を見て、三歩のヴィシュヌの姿のように、あの猿の戦士たちは恐怖のあまり、あちらこちらへ逃げ惑った。

6.71.9

तेऽतिकायं समासाद्य वानरा मूढचेतसः।
शरण्यं शरणं जग्मुर्लक्ष्मणाग्रजमाहवे ॥ ६.७१.९ ॥

アティカーヤに近づいた、心の乱れた猿たちは、戦場でラクシュマナの兄であり庇護者であるラーマのもとへ避難した。

6.71.10

ततोऽतिकायं काकुत्स्थो रथस्थं पर्वतोपमम्।
ददर्श धन्विनं दूराद् गर्जन्तं कालमेघवत् ॥ ६.७१.१० ॥

そのとき、カクツトハ族の末裔ラーマは、戦車に立つアティカーヤを遠くから見た。山のような体躯で弓を持ち、黒い死の雲のように吠えていた。

6.71.11

स तं दृष्ट्वा महाकायं राघवस्तु सुविस्मितः।
वानरान् सान्त्वयित्वा च विभीषणमुवाच ह ॥ ६.७१.११ ॥

その巨体を見て、ラーガヴァ・ラーマは大いに驚いた。猿たちを安心させた後、ヴィビーシャナに語りかけた。

6.71.12

कोऽसौ पर्वतसंकाशो धनुष्मान् हरिलोचनः।
युक्ते हयसहस्रेण विशाले स्यन्दने स्थितः ॥ ६.७१.१२ ॥

山のような、弓を持つ、茶色の目をした者は誰か。千頭の馬をつないだ広大な戦車の上に立っているのは。

6.71.13

य एष निशितैः शूलैः सुतीक्ष्णैः प्रासतोमरैः।
अर्चिष्मद्भिर्वृतो भाति भूतैरिव महेश्वरः ॥ ६.७१.१३ ॥

鋭い槍、極めて鋭い投げ槍と燃え立つ投槍に囲まれ、霊たちに囲まれたマヘーシュヴァラのように輝いている。

6.71.14

कालजिह्वाप्रकाशाभिर्य एषोऽभिविराजते।
आवृतो रथशक्तीभिर्विद्युद्भिरिव तोयदः ॥ ६.७१.१४ ॥

死神の舌のように輝く戦車の槍に囲まれ、稲妻に包まれた雨雲のように輝いている。

6.71.15

धनूंषि चास्य सज्जानि हेमपृष्ठानि सर्वशः।
शोभयन्ति रथश्रेष्ठं शक्रचापमिवाम्बरम् ॥ ६.७१.१५ ॥

金の背を持つ、弦を張った彼の弓はすべて、優れた戦車を、空をインドラの弓が飾るように飾っている。

6.71.16

य एष रक्षःशार्दूलो रणभूमिं विराजयन्।
अभ्येति रथिनां श्रेष्ठो रथेनादित्यवर्चसा ॥ ६.७१.१६ ॥

羅刹の中の虎が戦場を照らし、太陽のように輝く戦車に乗って近づく——戦車の戦士のうち最も優れた者である。

6.71.17

ध्वजशृङ्गप्रतिष्ठेन राहुणाभिविराजते।
सूर्यरश्मिप्रभैर्बाणैर्दिशो दश विराजयन् ॥ ६.७१.१७ ॥

旗の頂に立つラーフのように輝き、太陽の光のような輝きを放つ矢で十方を照らしている。

6.71.18

त्रिनतं मेघनिर्ह्रादं हेमपृष्ठमलंकृतम्।
शतक्रतुधनुःप्रख्यं धनुश्चास्य विराजते ॥ ६.७१.१८ ॥

三か所で曲がり、雲のように轟き、金の背で飾られ、インドラの弓に似た彼の弓が輝いている。

6.71.19

सध्वजः सपताकश्च सानुकर्षो महारथः।
चतुःसादिसमायुक्तो मेघस्तनितनिःस्वनः ॥ ६.७१.१९ ॥

旗と吹流しと車軸棒を備えたその大戦車は、四頭の馬につながれ、雷雲のような響きを立てていた。

6.71.20

विंशतिर्दश चाष्टौ च तूणास्य रथमास्थिताः।
कार्मुकाणि च भीमानि ज्याश्च काञ्चनपिङ्गलाः ॥ ६.७१.२० ॥

その戦車には二十、十、八の箙が立てられ、恐ろしい弓と黄金色の弦があった。

6.71.21

द्वौ च खड्गौ च पार्श्वस्थौ प्रदीप्तौ पार्श्वशोभितौ।
चतुर्हस्तत्सरुयुतौ व्यक्तहस्तदशायतौ ॥ ६.७१.२१ ॥

両脇には輝く二本の剣があり、両脇を飾っていた。鞘と柄は四キュビト、刀身は明らかに十手の長さであった。

6.71.22

रक्तकण्ठगुणो धीरो महापर्वतसंनिभः।
कालः कालमहावक्त्रो मेघस्थ इव भास्करः ॥ ६.७१.२२ ॥

赤い喉の紐を帯び、毅然として、大山のよう。死神のような大きな口を持ち、雲に座る太陽のようであった。

6.71.23

काञ्चनाङ्गदनद्धाभ्यां भुजाभ्यामेष शोभते।
शृङ्गाभ्यामिव तुङ्गाभ्यां हिमवान् पर्वतोत्तमः ॥ ६.७१.२३ ॥

黄金の腕輪をはめた両腕で彼は輝く。山々の中で最も優れたヒマラヤが、二つの高い峰で輝くように。

6.71.24

कुण्डलाभ्यामुभाभ्यां च भाति वक्त्रं सुभीषणम्।
पुनर्वस्वन्तरगतं परिपूर्णो निशाकरः ॥ ६.७१.२४ ॥

両耳の耳飾りで、その極めて恐ろしい顔は輝く。プナルヴァス星の間に入った満月のように。

6.71.25

आचक्ष्व मे महाबाहो त्वमेनं राक्षसोत्तमम्।
यं दृष्ट्वा वानराः सर्वे भयार्ता विद्रुता दिशः ॥ ६.७१.२५ ॥

大いなる腕を持つ者よ、この最上の羅刹について私に語れ。彼を見て、猿たちは皆恐怖に駆られ、四方へ逃げ去ったのだ。

6.71.26

स पृष्टो राजपुत्रेण रामेणामिततेजसा।
आचचक्षे महातेजा राघवाय विभीषणः ॥ ६.७१.२६ ॥

無量の威光を持つ王子ラーマに問われ、大いなる光輝のヴィビーシャナはラーガヴァに彼について語った。

6.71.27

दशग्रीवो महातेजा राजा वैश्रवणानुजः।
भीमकर्मा महात्मा हि रावणो राक्षसेश्वरः ॥ ६.७१.२७ ॥

十の首を持つ、大いなる光輝の王。ヴァイシュラヴァナ(クベーラ)の弟、恐ろしい行いをする大いなる魂の持ち主、羅刹の主ラーヴァナ。

6.71.28

तस्यासीद् वीर्यवान् पुत्रो रावणप्रतिमो बले।
वृद्धसेवी श्रुतिधरः सर्वास्त्रविदुषां वरः ॥ ६.७१.२८ ॥

彼には力においてラーヴァナに等しい勇猛な息子がいた。年長者に仕え、聞いたことを記憶し、あらゆる武器に通じた者の中で最も優れていた。

6.71.29

अश्वपृष्ठे नागपृष्ठे खड्गे धनुषि कर्षणे।
भेदे सान्त्वे च दाने च नये मन्त्रे च सम्मतः ॥ ६.७१.२९ ॥

馬上でも象上でも、剣と弓において、弦を引くことにおいて、離間・懐柔・布施・策略・助言の術において、彼は重んじられていた。

6.71.30

यस्य बाहुं समाश्रित्य लङ्का भवति निर्भया।
तनयं धान्यमालिन्या अतिकायमिमं विदुः ॥ ६.७१.३० ॥

その腕に頼ることでランカーは恐れを知らなくなる。ダーニャマーリニーの子であるこの者はアティカーヤとして知られている。

6.71.31

एतेनाराधितो ब्रह्मा तपसा भावितात्मना।
अस्त्राणि चाप्यवाप्तानि रिपवश्च पराजिताः ॥ ६.७१.३१ ॥

自制した魂による苦行によって、彼はブラフマーを喜ばせた。そして武器を得、敵は打ち負かされた。

6.71.32

सुरासुरैरवध्यत्वं दत्तमस्मै स्वयंभुवा।
एतच्च कवचं दिव्यं रथश्च रविभास्वरः ॥ ६.७१.३२ ॥

自存者ブラフマーは、神々とアスラに殺されぬ恩寵を彼に与えた。これは神聖な鎧であり、太陽のように輝く戦車である。

6.71.33

एतेन शतशो देवा दानवाश्च पराजिताः।
रक्षितानि च रक्षांसि यक्षाश्चापि निषूदिताः ॥ ६.७१.३३ ॥

彼によって神々とダーナヴァは幾百度も打ち負かされた。彼は羅刹を守り、夜叉をも殺した。

6.71.34

वज्रं विष्टम्भितं येन बाणैरिन्द्रस्य धीमता।
पाशः सलिलराजस्य युद्धे प्रतिहतस्तथा ॥ ६.७१.३४ ॥

その賢者は矢でインドラの雷霆を押さえ、戦いでは水の王の縄をも同じように退けた。

6.71.35

एषोऽतिकायो बलवान् राक्षसानामथर्षभः।
स रावणसुतो धीमान् देवदानवदर्पहा ॥ ६.७१.३५ ॥

このアティカーヤは力強く、羅刹の中の最も優れた雄牛である。彼はラーヴァナの賢明な息子であり、神々とダーナヴァの驕りを砕く者である。

6.71.36

तदस्मिन् क्रियतां यत्नः क्षिप्रं पुरुषपुङ्गव।
पुरा वानरसैन्यानि क्षयं नयति सायकैः ॥ ६.७१.३६ ॥

ゆえに、人の中の最上の方よ、彼に対して速やかに手を打たれよ。彼が矢によって猿の軍勢を滅ぼしてしまう前に。

6.71.37

ततोऽतिकायो बलवान् प्रविश्य हरिवाहिनीम्।
विस्फारयामास धनुर्ननाद च पुनः पुनः ॥ ६.७१.३७ ॥

すると力強いアティカーヤは猿の軍勢に突入し、弓を大きく引き絞って、幾度も咆哮した。

6.71.38

तं भीमवपुषं दृष्ट्वा रथस्थं रथिनां वरम्।
अभिपेतुर्महात्मानः प्रधाना ये वनौकसः ॥ ६.७१.३८ ॥

恐ろしい姿で戦車に立つ、戦車戦士の中で最も優れた彼を見て、森に住む高潔な主立った猿たちが彼に襲いかかった。

6.71.39

कुमुदो द्विविदो मैन्दो नीलः शरभ एव च।
पादपैर्गिरिशृङ्गैश्च युगपत् समभिद्रवन् ॥ ६.७१.३९ ॥

クムダ、ドゥヴィヴィダ、マインダ、ニーラ、シャラバは、木々や山の頂を携えて同時に突進した。

6.71.40

तेषां वृक्षांश्च शैलांश्च शरैः कनकभूषणैः।
अतिकायो महातेजाश्चिच्छेदास्त्रविदां वरः ॥ ६.७१.४० ॥

彼らの木々と山々を、金の飾りのついた矢で、武器に通じた者の中で最も優れた大いなる光輝の持ち主アティカーヤが断ち切った。

6.71.41

तांश्चैव सर्वान् स हरीन् शरैः सर्वायसैर्बली।
विव्याधाभिमुखान् संख्ये भीमकायो निशाचरः ॥ ६.७१.४१ ॥

彼に立ち向かった猿たちはみな、恐ろしい体の強力な夜歩く羅刹が、全て鉄の矢で戦いの中で射抜いた。

6.71.42

तेऽर्दिता बाणवर्षेण भिन्नगात्राः पराजिताः।
न शेकुरतिकायस्य प्रतिकर्तुं महाहवे ॥ ६.७१.४२ ॥

矢の雨に苦しめられ、体を射抜かれ、敗れた彼らは、あの大戦でアティカーヤに報復することができなかった。

6.71.43

तत् सैन्यं हरिवीराणां त्रासयामास राक्षसः।
मृगयूथमिव क्रुद्धो हरिर्यौवनदर्पितः ॥ ६.७१.४३ ॥

羅刹は猿の英雄たちの軍勢を震え上がらせた。若さの誇りに酔い、怒れる獅子が鹿の群れを脅かすように。

6.71.44

स राक्षसेन्द्रो हरियूथमध्ये
नायुध्यमानं निजघान कंचित्।
उत्पत्य रामं स धनुःकलापी
सगर्वितं वाक्यमिदं बभाषे ॥ ६.७१.४४ ॥

その羅刹王は猿の群れの中で、戦っていない者たちを殺した。そして弓と矢筒を携え、ラーマに向かって跳び、誇らしげにこれらの言葉を述べた。

6.71.45

रथे स्थितोऽहं शरचापपाणि-
र्न प्राकृतं कंचन योधयामि।
यस्यास्ति शक्तिर्व्यवसाययुक्तो
ददातु मे शीघ्रमिहाद्य युद्धम् ॥ ६.७१.४५ ॥

戦車の上に立ち、弓と矢を手にした私は、凡人とは戦わない。力と決意のある者は、今日ここで速やかに私と戦え。

6.71.46

तत् तस्य वाक्यं ब्रुवतो निशम्य
चुकोप सौमित्रिरमित्रहन्ता।
अमृष्यमाणश्च समुत्पपात
जग्राह चापं च ततः स्मयित्वा ॥ ६.७१.४६ ॥

その言葉を聞いて、敵を討つ者サウミトリは怒りに燃えた。耐えられず跳び上がり、それから微笑んで弓を取った。

6.71.47

क्रुद्धः सौमित्रिरुत्पत्य तूणादाक्षिप्य सायकम्।
पुरस्तादतिकायस्य विचकर्ष महद्धनुः ॥ ६.७१.४७ ॥

怒ったサウミトリは跳び上がり、矢筒から一本の矢を抜き、アティカーヤの前で大きな弓を引き絞った。

6.71.48

पूरयन् स महीं सर्वामाकाशं सागरं दिशः।
ज्याशब्दो लक्ष्मणस्योग्रस्त्रासयन् रजनीचरान् ॥ ६.७१.४८ ॥

ラクシュマナの弓弦の猛烈な音は、大地、空、海、四方を満たし、夜を徘徊する羅刹たちを恐怖させた。

6.71.49

सौमित्रेश्चापनिर्घोषं श्रुत्वा प्रतिभयं तदा।
विसिस्मिये महातेजा राक्षसेन्द्रात्मजो बली ॥ ६.७१.४९ ॥

ラクシュマナの弓の恐ろしい弦音を聞き、大いに輝く力強い羅刹王の息子は驚いた。

6.71.50

तदातिकायः कुपितो दृष्ट्वा लक्ष्मणमुत्थितम्।
आदाय निशितं बाणमिदं वचनमब्रवीत् ॥ ६.७१.५० ॥

するとアティカーヤは怒り、立ち上がったラクシュマナを見て、鋭い矢を取り、この言葉を言った。

6.71.51

बालस्त्वमसि सौमित्रे विक्रमेष्वविचक्षणः।
गच्छ किं कालसंकाशं मां योधयितुमिच्छसि ॥ ६.७१.५१ ॥

お前は子どもだ、スミトラーの息子よ、武勇の業に不慣れな。去れ!死神のような私と、なぜ戦おうとするのか。

6.71.52

नहि मद्बाहुसृष्टानां बाणानां हिमवानपि।
सोढुमुत्सहते वेगमन्तरिक्षमथो मही ॥ ६.७१.५२ ॥

私の腕から放たれた矢の勢いは、ヒマラヤでさえ耐えられず、空も大地も耐えられない。

6.71.53

सुखप्रसुप्तं कालाग्निं विबोधयितुमिच्छसि।
न्यस्य चापं निवर्तस्व प्राणान्न जहि मद्गतः ॥ ६.७१.५३ ॥

安らかに眠る死の炎を、お前は起こそうというのか。弓を置いて引き返せ。私の前に来た命を失うな。

6.71.54

अथवा त्वं प्रतिस्तब्धो न निवर्तितुमिच्छसि।
तिष्ठ प्राणान् परित्यज्य गमिष्यसि यमक्षयम् ॥ ६.७१.५४ ॥

あるいは、お前が頑なで引き返したくないのなら、そこに立っていろ。命を捨てて、ヤマの住処へ行くことになる。

6.71.55

पश्य मे निशितान् बाणान् रिपुदर्पनिषूदनान्।
ईश्वरायुधसंकाशांस्तप्तकाञ्चनभूषणान् ॥ ६.७१.५५ ॥

私の鋭い矢を見よ。敵の高慢を砕き、シヴァの武器のようであり、熱した金で飾られている。

6.71.56

एष ते सर्पसंकाशो बाणः पास्यति शोणितम्।
मृगराज इव क्रुद्धो नागराजस्य शोणितम्।
इत्येवमुक्त्वा संक्रुद्धः शरं धनुषि संदधे ॥ ६.७१.५६ ॥

これは君のための蛇のような矢だ。怒った獅子が象王の血を飲むように、この矢は君の血を飲むだろう。こう言って、激怒した彼は弓に矢をつがえた。

6.71.57

श्रुत्वातिकायस्य वचः सरोषं
सगर्वितं संयति राजपुत्रः।
स संचुकोपातिबलो मनस्वी
उवाच वाक्यं च ततो महार्थम् ॥ ६.७१.५७ ॥

戦いにおけるアティカーヤの怒りと慢心に満ちた言葉を聞き、その極めて強力で志の高い王子は激怒した。そして、この意味深い言葉を述べた。

6.71.58

न वाक्यमात्रेण भवान् प्रधानो
न कत्थनात् सत्पुरुषा भवन्ति।
मयि स्थिते धन्विनि बाणपाणौ
निदर्शयस्वात्मबलं दुरात्मन् ॥ ६.७१.५८ ॥

言葉だけで君が第一人者になるのではない。自慢によって善人になるのでもない。弓と矢を手に私がここに立っている。邪悪な者よ、自らの力を示せ。

6.71.59

कर्मणा सूचयात्मानं न विकत्थितुमर्हसि।
पौरुषेण तु यो युक्तः स तु शूर इति स्मृतः ॥ ६.७१.५९ ॥

君は行いによって自らを示すべきであり、自慢は君にふさわしくない。男らしい勇気を備えた者こそ、英雄として記憶されるのだ。

6.71.60

सर्वायुधसमायुक्तो धन्वी त्वं रथमास्थितः।
शरैर्वा यदि वाप्यस्त्रैर्दर्शयस्व पराक्रमम् ॥ ६.७१.६० ॥

あらゆる武器を備えた弓手として、君は戦車に乗っている。矢で、あるいは武器で、君の武勇を示せ。

6.71.61

ततः शिरस्ते निशितैः पातयिष्याम्यहं शरैः।
मारुतः कालसम्पक्वं वृन्तात् तालफलं यथा ॥ ६.७१.६१ ॥

その時、鋭い矢であなたの首を落としてやる。ちょうど風が時至って熟したヤシの実を茎から振り落とすように。

6.71.62

अद्य ते मामका बाणास्तप्तकाञ्चनभूषणाः।
पास्यन्ति रुधिरं गात्राद् बाणशल्यान्तरोत्थितम् ॥ ६.७१.६२ ॥

今日、熱した金で飾られた私の矢は、矢傷の間から噴き出すあなたの体の血を飲むだろう。

6.71.63

बालोऽयमिति विज्ञाय न चावज्ञातुमर्हसि।
बालो वा यदि वा वृद्धो मृत्युं जानीहि संयुगे ॥ ६.७१.६३ ॥

この者が若者だと知って、侮ってはならない。戦いでは若者であれ老人であれ、死を知れ。

6.71.64

बालेन विष्णुना लोकास्त्रयः क्रान्तास्त्रिविक्रमैः।
लक्ष्मणस्य वचः श्रुत्वा हेतुमत् परमार्थवत्।
अतिकायः प्रचुक्रोध बाणं चोत्तममाददे ॥ ६.७१.६४ ॥

少年ヴィシュヌは三歩で三界を跨いだ。ラクシュマナの筋の通った、真実の意味を持つ言葉を聞いて、アティカーヤは激怒し、優れた矢を手に取った。

6.71.65

ततो विद्याधरा भूता देवा दैत्या महर्षयः।
गुह्यकाश्च महात्मानस्तद् युद्धं द्रष्टुमागमन् ॥ ६.७१.६५ ॥

そのとき、ヴィディヤーダラ、ブータ、神々、ダイティヤ、大聖者、グヒヤカ、そして大いなる魂の者たちが、その戦いを見にやって来た。

6.71.66

ततोऽतिकायः कुपितश्चापमारोप्य सायकम्।
लक्ष्मणाय प्रचिक्षेप संक्षिपन्निव चाम्बरम् ॥ ६.७१.६६ ॥

そこでアティカーヤは怒り、弓に矢をつがえ、まるで空そのものを縮めるかのようにラクシュマナめがけて放った。

6.71.67

तमापतन्तं निशितं शरमाशीविषोपमम्।
अर्धचन्द्रेण चिच्छेद लक्ष्मणः परवीरहा ॥ ६.७१.६७ ॥

敵の英雄を討つラクシュマナは、毒蛇のように自分へ迫ってきたその鋭い矢を、半月形の矢で断ち切った。

6.71.68

तं निकृत्तं शरं दृष्ट्वा कृत्तभोगमिवोरगम्।
अतिकायो भृशं क्रुद्धः पञ्च बाणान् समादधे ॥ ६.७१.६८ ॥

切断された矢を見て、とぐろを断たれた蛇のようにアティカーヤは激怒し、弓に五本の矢をつがえた。

6.71.69

तान् शरान् सम्प्रचिक्षेप लक्ष्मणाय निशाचरः।
तानप्राप्तान् शितैर्बाणैश्चिच्छेद भरतानुजः ॥ ६.७१.६९ ॥

その夜を歩く者はそれらの矢をラクシュマナへ放ったが、バラタの弟ラクシュマナは、矢が届く前に鋭い矢でそれらを断ち切った。

6.71.70

स तान् छित्त्वा शितैर्बाणैर्लक्ष्मणः परवीरहा।
आददे निशितं बाणं ज्वलन्तमिव तेजसा ॥ ६.७१.७० ॥

それらを鋭い矢で断ち切った後、敵の英雄を討つラクシュマナは、自らの輝きで燃え立つかのような鋭い矢を取った。

6.71.71

तमादाय धनुःश्रेष्ठे योजयामास लक्ष्मणः।
विचकर्ष च वेगेन विससर्ज च सायकम् ॥ ६.७१.७१ ॥

その矢を取ると、ラクシュマナはそれを最上の弓につがえ、勢いよく引き絞って矢を放った。

6.71.72

पूर्णायतविसृष्टेन शरेण नतपर्वणा।
ललाटे राक्षसश्रेष्ठमाजघान स वीर्यवान् ॥ ६.७१.७२ ॥

全力で引き絞られた弓から放たれた、節の曲がった矢で、その勇者は羅刹の中の最上の者の額を射抜いた。

6.71.73

स ललाटे शरो मग्नस्तस्य भीमस्य रक्षसः।
ददृशे शोणितेनाक्तः पन्नगेन्द्र इवाचले ॥ ६.७१.७३ ॥

その恐ろしいラークシャサの額に突き刺さった矢は血にまみれて見え、山の上の大蛇のようであった。

6.71.74

राक्षसः प्रचकम्पेऽथ लक्ष्मणेषु प्रपीडितः।
रुद्रबाणहतं घोरं यथा त्रिपुरगोपुरम् ॥ ६.७१.७४ ॥

ラクシュマナの矢に激しく苦しめられたラークシャサは震え上がった。ルドラの矢に打たれた三城の恐ろしい門のように。

6.71.75

चिन्तयामास चाश्वास्य विमृश्य च महाबलः।
साधु बाणनिपातेन श्लाघनीयोऽसि मे रिपुः ॥ ६.७१.७५ ॥

その大力のラークシャサは思案し、気を取り直して考えた。「見事だ!矢の一撃によって、お前は称賛に値する敵だ。」

6.71.76

विधायैवं विदार्यास्यं नियम्य च महाभुजौ।
स रथोपस्थमास्थाय रथेन प्रचचार ह ॥ ६.७१.७६ ॥

こうと決め、口を開き、両の大きな腕を制御して、彼は戦車の座席に登り、戦車に乗って動き回った。

6.71.77

एवं त्रीन् पञ्च सप्तेति सायकान् राक्षसर्षभः।
आददे संदधे चापि विचकर्षोत्ससर्ज च ॥ ६.७१.७७ ॥

こうして羅刹の中の雄牛は、三本、五本、七本の矢を取り、弓につがえ、引き絞って放った。

6.71.78

ते बाणाः कालसंकाशा राक्षसेन्द्रधनुश्च्युताः।
हेमपुङ्खा रविप्रख्याश्चक्रुर्दीप्तमिवाम्बरम् ॥ ६.७१.७८ ॥

羅刹王の弓から放たれたそれらの矢は死神のようで、金の矢羽根を持ち、太陽のように輝き、空を燃え立たせるかのようであった。

6.71.79

ततस्तान् राक्षसोत्सृष्टान् शरौघान् राघवानुजः।
असम्भ्रान्तः प्रचिच्छेद निशितैर्बहुभिः शरैः ॥ ६.७१.७९ ॥

するとラーガヴァの弟ラクシュマナは動じることなく、羅刹が放った矢の奔流を多くの鋭い矢で断ち切った。

6.71.80

तान् शरान् युधि सम्प्रेक्ष्य निकृत्तान् रावणात्मजः।
चुकोप त्रिदशेन्द्रारिर्जग्राह निशितं शरम् ॥ ६.७१.८० ॥

戦いでそれらの矢が断ち切られるのを見て、神々の王インドラの敵であるラーヴァナの息子は怒り、鋭い矢を取った。

6.71.81

स संधाय महातेजास्तं बाणं सहसोत्सृजत्।
तेन सौमित्रिमायान्तमाजघान स्तनान्तरे ॥ ६.७१.८१ ॥

その偉大な光輝の者は、その矢を弓につがえて突然放ち、近づいてくるサウミトリの胸の中央を射抜いた。

6.71.82

अतिकायेन सौमित्रिस्ताडितो युधि वक्षसि।
सुस्राव रुधिरं तीव्रं मदं मत्त इव द्विपः ॥ ६.७१.८२ ॥

戦いでアティカーヤに胸を打たれたサウミトリからは、発情した象の発情液が流れるように、激しく血が流れ出た。

6.71.83

स चकार तदात्मानं विशल्यं सहसा विभुः।
जग्राह च शरं तीक्ष्णमस्त्रेणापि समाददे ॥ ६.७१.८३ ॥

その力ある者はすぐに矢を抜いて自らを癒し、鋭い矢を取り、武器のマントラでもそれを準備した。

6.71.84

आग्नेयेन तदास्त्रेण योजयामास सायकम्।
स जज्वाल तदा बाणो धनुष्यस्य महात्मनः ॥ ६.७१.८४ ॥

そして彼は火の武器でその矢を番え、その偉大な魂の持ち主の弓の上で矢は燃え上がった。

6.71.85

अतिकायोऽतितेजस्वी रौद्रमस्त्रं समाददे।
तेन बाणं भुजङ्गाभं हेमपुङ्खमयोजयत् ॥ ६.७१.८५ ॥

きわめて輝かしいアティカーヤは恐ろしい武器を取り、それによって蛇のような、金の羽のついた矢を弓につがえた。

6.71.86

तदस्त्रं ज्वलितं घोरं लक्ष्मणः शरमाहितम्।
अतिकायाय चिक्षेप कालदण्डमिवान्तकः ॥ ६.७१.८६ ॥

ラクシュマナは、その燃え上がる恐ろしい武器を帯びた矢をアティカーヤに放った。終末者が死の杖を投げるように。

6.71.87

आग्नेयास्त्राभिसंयुक्तं दृष्ट्वा बाणं निशाचरः।
उत्ससर्ज तदा बाणं रौद्रं सूर्यास्त्रयोजितम् ॥ ६.७१.८७ ॥

火の武器を帯びた矢を見て、夜の徘徊者はそこで太陽の武器を帯びた恐ろしい矢を放った。

6.71.88

तावुभावम्बरे बाणावन्योन्यमभिजघ्नतुः।
तेजसा सम्प्रदीप्ताग्रौ क्रुद्धाविव भुजङ्गमौ ॥ ६.७१.८८ ॥

空でその二本の矢は互いに打ち合った。光に燃える先端を持ち、怒った二匹の蛇のように。

6.71.89

तावन्योन्यं विनिर्दह्य पेततुः पृथिवीतले ॥ ६.७१.८९ ॥

互いを焼き尽くして、二本とも地表に落ちた。

6.71.90

निरर्चिषौ भस्मकृतौ न भ्राजेते शरोत्तमौ।
तावुभौ दीप्यमानौ स्म न भ्राजेते महीतले ॥ ६.७१.९० ॥

炎を失い灰となった二本の最上の矢は、もはや輝かなかった。燃えていた二本は、地上でもはや光を放たなかった。

6.71.91

ततोऽतिकायः संक्रुद्धस्त्वाष्ट्रमैषीकमुत्सृजत्।
ततश्चिच्छेद सौमित्रिरस्त्रमैन्द्रेण वीर्यवान् ॥ ६.७१.९१ ॥

そこで怒ったアティカーヤはトヴァシュトリの神箭アイシーカを放った。するとその勇猛なサウミトリはインドラの神箭でそれを断ち切った。

6.71.92

ऐषीकं निहतं दृष्ट्वा कुमारो रावणात्मजः।
याम्येनास्त्रेण संक्रुद्धो योजयामास सायकम् ॥ ६.७१.९२ ॥

アイシーカの神箭が破壊されたのを見て、ラーヴァナの息子の王子は怒り、ヤーミヤの神箭を込めた矢をつがえた。

6.71.93

ततस्तदस्त्रं चिक्षेप लक्ष्मणाय निशाचरः।
वायव्येन तदस्त्रेण निजघान स लक्ष्मणः ॥ ६.७१.९३ ॥

すると夜行者はその神箭をラクシュマナに放ったが、ラクシュマナは風神の神箭でそれを打ち砕いた。

6.71.94

अथैनं शरधाराभिर्धाराभिरिव तोयदः।
अभ्यवर्षत संक्रुद्धो लक्ष्मणो रावणात्मजम् ॥ ६.७१.९४ ॥

そこで怒ったラクシュマナは、雨雲が雨を降らせるように、ラーヴァナの息子に矢の雨を降り注いだ。

6.71.95

तेऽतिकायं समासाद्य कवचे वज्रभूषिते।
भग्नाग्रशल्याः सहसा पेतुर्बाणा महीतले ॥ ६.७१.९५ ॥

それらの矢はアティカーヤに届き、金剛で飾られた鎧に当たったが、鏃と返しは突然折れて地に落ちた。

6.71.96

तान्मोघानभिसम्प्रेक्ष्य लक्ष्मणः परवीरहा।
अभ्यवर्षत बाणानां सहस्रेण महायशाः ॥ ६.७१.९६ ॥

それらの矢が無駄に終わったのを見て、敵の英雄を倒す大いに名高いラクシュマナは、千の矢を降らせた。

6.71.97

स वृष्यमाणो बाणौघैरतिकायो महाबलः।
अवध्यकवचः संख्ये राक्षसो नैव विव्यथे ॥ ६.७१.९७ ॥

矢の奔流に降り注がれても、巨大な体と大いなる力を持ち、鎧を貫けぬ羅刹アティカーヤは、戦いの中で少しも動じなかった。

6.71.98

शरं चाशीविषाकारं लक्ष्मणाय व्यपासृजत्।
स तेन विद्धः सौमित्रिर्मर्मदेशे शरेण ह ॥ ६.७१.९८ ॥

彼はラクシュマナに毒蛇のような矢を放った。その矢で、スミトラーの子ラクシュマナは急所を射抜かれた。

6.71.99

मुहूर्तमात्रं निःसंज्ञो ह्यभवच्छत्रुतापनः।
ततः संज्ञामुपालभ्य चतुर्भिः सायकोत्तमैः ॥ ६.७१.९९ ॥

敵を苦しめるラクシュマナは、しばし意識を失った。やがて意識を取り戻し、四本の優れた矢で。

6.71.100

निजघान हयान् संख्ये सारथिं च महाबलः।
ध्वजस्योन्मथनं कृत्वा शरवर्षैररिंदमः ॥ ६.७१.१०० ॥

その強大な敵の征服者は、戦いで馬と御者を討ち、矢の雨で旗を打ち倒した。

6.71.101

असम्भ्रान्तः स सौमित्रिस्तान् शरानभिलक्षितान्।
मुमोच लक्ष्मणो बाणान् वधार्थं तस्य रक्षसः ॥ ६.७१.१०१ ॥

動じることなく、スミトラーの子ラクシュマナは、その羅刹を討つために狙い定めた矢を放った。

6.71.102

न शशाक रुजं कर्तुं युधि तस्य नरोत्तमः।
अथैनमभ्युपागम्य वायुर्वाक्यमुवाच ह ॥ ६.७१.१०२ ॥

人中の最上の者ラクシュマナは、戦いで彼に傷一つ負わせることができなかった。そのとき風神ヴァーユが近づき、これらの言葉を告げた。

6.71.103

ब्रह्मदत्तवरो ह्येष अवध्यकवचावृतः।
ब्राह्मेणास्त्रेण भिन्ध्येनमेष वध्यो हि नान्यथा।
अवध्य एष ह्यन्येषामस्त्राणां कवची बली ॥ ६.७१.१०३ ॥

この者はブラフマーの恩寵を受け、傷つけられぬ鎧に覆われている。ブラフマーの武器で射抜け。さもなくば殺せない。他の武器に対しては不死身で、鎧をまとい、強い。

6.71.104

ततस्तु वायोर्वचनं निशम्य
सौमित्रिरिन्द्रप्रतिमानवीर्यः।
समादधे बाणमथोग्रवेगं
तद्ब्राह्ममस्त्रं सहसा नियुज्य ॥ ६.७१.१०४ ॥

そこでヴァーユの言葉を聞いたインドラに等しい勇猛なサウミトリは、すぐさまブラフマーの武器を用い、猛烈な速さの矢をつがえた。

6.71.105

तस्मिन् वरास्त्रे तु नियुज्यमाने
सौमित्रिणा बाणवरे शिताग्रे।
दिशश्च चन्द्रार्कमहाग्रहाश्च
नभश्च तत्रास ररास चोर्वी ॥ ६.७१.१०५ ॥

サウミトリがその優れた武器を鋭い先端の優れた矢につがえたとき、方位も、月も、太陽も、大きな惑星も、空も大地も震え、吠えた。

6.71.106

तं ब्रह्मणोऽस्त्रेण नियुज्य चापे
शरं सपुङ्खं यमदूतकल्पम्।
सौमित्रिरिन्द्रारिसुतस्य तस्य
ससर्ज बाणं युधि वज्रकल्पम् ॥ ६.७१.१०६ ॥

サウミトリはブラフマーの武器に結ばれ、ヤマの使者のように羽根の付いたその矢を弓につがえ、戦場でインドラの敵の息子に向けて、金剛杵のようなその矢を放った。

6.71.107

तं लक्ष्मणोत्सृष्टविवृद्धवेगं
समापतन्तं श्वसनोग्रवेगम्।
सुपर्णवज्रोत्तमचित्रपुङ्खं
तदातिकायः समरे ददर्श ॥ ६.७१.१०७ ॥

そのときアティカーヤは、ラクシュマナが放ち速度を増し、風のように激しく迫ってくるその矢を戦場で見た。その矢は、ガルダと金剛杵のような見事な色とりどりの羽根を持っていた。

6.71.108

तं प्रेक्षमाणः सहसातिकायो
जघान बाणैर्निशितैरनेकैः।
स सायकस्तस्य सुपर्णवेग-
स्तथातिवेगेन जगाम पार्श्वम् ॥ ६.७१.१०८ ॥

彼を見るや、アティカーヤは突然、鋭い多くの矢で彼を射た。ガルダのように速いその矢は、すさまじい勢いで彼の脇へと飛んでいった。

6.71.109

तमागतं प्रेक्ष्य तदातिकायो
बाणं प्रदीप्तान्तककालकल्पम्।
जघान शक्त्यृष्टिगदाकुठारैः
शूलैः शरैश्चाप्यविपन्नचेष्टः ॥ ६.७१.१०९ ॥

燃え盛る死と時のように迫るその矢を見て、アティカーヤは力を衰えさせることなく、槍、投げ槍、棍棒、斧、三叉戟、矢で打ち払った。

6.71.110

तान्यायुधान्यद्भुतविग्रहाणि
मोघानि कृत्वा स शरोऽग्निदीप्तः।
प्रगृह्य तस्यैव किरीटजुष्टं
तदातिकायस्य शिरो जहार ॥ ६.७१.११० ॥

その驚くべき形の武器をことごとく無効にして、火のように輝くその矢は、冠をいただいたアティカーヤその人の首を奪い去った。

6.71.111

तच्छिरः सशिरस्त्राणं लक्ष्मणेषुप्रमर्दितम्।
पपात सहसा भूमौ शृङ्गं हिमवतो यथा ॥ ६.७१.१११ ॥

ラクシュマナの矢に砕かれたその頭は、兜とともに、ヒマーラヤの峰が崩れるように突然地に落ちた。

6.71.112

तं भूमौ पतितं दृष्ट्वा विक्षिप्ताम्बरभूषणम्।
बभूवुर्व्यथिताः सर्वे हतशेषा निशाचराः ॥ ६.७१.११२ ॥

地に倒れ、衣装も飾りも散らばった彼を見て、生き残った夜行者たちはみな悲嘆に暮れた。

6.71.113

ते विषण्णमुखा दीनाः प्रहारजनितश्रमाः।
विनेदुरुच्चैर्बहवः सहसा विस्वरैः स्वरैः ॥ ६.७१.११३ ॥

顔を曇らせ、惨めに、打撃に疲れ果てた多くの夜行者たちは、突然、耳障りな声を張り上げて泣き叫んだ。

6.71.114

ततस्तत्परितं याता निरपेक्षा निशाचराः।
पुरीमभिमुखा भीता द्रवन्तो नायके हते ॥ ६.७१.११४ ॥

そして指揮者が殺されると、怯えた夜の徘徊者たちは何も顧みず、町へ向かって逃げ、四方へ散っていった。

6.71.115

प्रहर्षयुक्ता बहवस्तु वानराः
प्रफुल्लपद्मप्रतिमाननास्तदा।
अपूजयँल्लक्ष्मणमिष्टभागिनं
हते रिपौ भीमबले दुरासदे ॥ ६.७१.११५ ॥

そのとき喜びに満ちた多くのヴァーナラたちは、花開いた蓮のような顔で、恐ろしい力を持ち近づき難い敵が殺されると、愛する者の分け前を得たラクシュマナを称えた。

6.71.116

अतिबलमतिकायमभ्रकल्पं
युधि विनिपात्य स लक्ष्मणः प्रहृष्टः।
त्वरितमथ तदा स रामपार्श्वं
कपिनिवहैश्च सुपूजितो जगाम ॥ ६.७१.११६ ॥

戦いで、非常に強く巨大な身体を持ち雲のようなそれを打ち倒したラクシュマナは喜び、猿の群れに十分に称えられて、速やかにラーマのもとへ向かった。